यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गा॑: । अवा॑तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ॥
यु॒वम् । वस्त्रा॑णि । पी॒व॒सा । व॒सा॒थे॒ इति॑ । यु॒वोः । अच्छि॑द्राः । मन्त॑वः । ह॒ । सर्गाः॑ । अव॑ । अ॒ति॒र॒त॒म् । अनृ॑तानि । विश्वा॑ । ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णा॒ । स॒चे॒थे॒ इति॑ ॥
हे मित्रावरुणौ पीवसा पीनौ युवं युवाम् । यद्वा । पीवसा पीनानि अच्छिन्नानि वस्त्राणि आच्छादनयोग्यानि वासांसि वसाथे आच्छादयथः । यद्वा । पीवसा स्थूलेन प्रभूतेन तेजसा वस्त्राणि दधाथे अविच्छिन्नानि वस्त्रस्थानीयानि तेजांसि धारयथ इत्यर्थः। किंच युवयोः सर्गाः सृष्टयः अच्छिद्राः अच्छिन्नाः मन्तवो ह मननीयाश्च । ईदृशौ युवां विश्वा विश्वानि सर्वाणि अनृतानि असत्यानि अप्रियाणि पापानि अवातिरतं नाशयतम् ॥ विश्व इत्यत्र संहितायाम् ‘ ऋत्यकः' इति प्रकृतिभावो ह्रस्वत्वं च ॥ ऋतेन फलेन तत्साधनेन यज्ञेन वा सचेथे संगच्छेथे । अस्मभ्यं योजयथ इत्यर्थः ॥
“Robust Mitra and Varuṇa, you wear vestments (of light); your natures are to be regarded as without defect; you annihilate all untruths; you associate (us) with sacrifice.”
THE robes which ye put on abound with fatness: uninterrupted courses are your counsels.
All falsehood, Mitra-Varuna! ye conquer, and closely cleave unto the Law Eternal.
You two wear garments of fat; your counsels are unbroken torrents. You have brought low all untruths; you keep company with truth.
Ihr hüllt euch in fettglänzende Gewänder; ununterbrochen strömen eure Pläne, Zu Boden schlugt ihr, Varuna und Mitra, jedwedes Unrecht, und das Recht beschirmt ihr.
Ihr beide kleidet euch in fettige Gewänder; eure Sorgen sind ununterbrochene Regenströme. Alle Ungesetzlichkeiten unterdrücket ihr; ihr haltet es mit dem Gesetz, Mitra und Varuna!
Вы оба одеваетесь в одежды из жира.
Ваши непрерывные мысли – непрерывные потоки.
Вы подавили все беззакония.
О Митра-Варуна, вы следуете закону.
ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मन्त्र॑: कविश॒स्त ऋघा॑वान् । त्रि॒रश्रिं॑ हन्ति॒ चतु॑रश्रिरु॒ग्रो दे॑व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ॥
ए॒तत् । च॒न । त्वः॒ । वि । चि॒के॒त॒त् । ए॒षा॒म् । स॒त्यः । मन्त्रः॑ । क॒वि॒ऽश॒स्तः । ऋघा॑वान् । त्रिः॒ऽअश्रि॑म् । ह॒न्ति॒ । चतुः॑ऽअश्रिः । उ॒ग्रः । दे॒व॒ऽनिदः॑ । ह॒ । प्र॒थ॒माः । अ॒जू॒र्य॒न् ॥
एषाम् एतयोर्मध्ये ॥ बहुवचनं पूजार्थम् । यद्वा । तदनुचरापेक्षया बहुवचनम् ॥ एतयोर्मध्ये त्वः चन एक एव एतत् वक्ष्यमाणं सामर्थ्यरूपं कर्म वि चिकेतत् विशेषेण चेतति अनुतिष्ठतीत्यर्थः । सः विशेष्यते । स एकः सत्यः अबाध्यः सत्सु भवो वा मन्त्रः मननवान् कविशस्तः कविभिर्मेधाविभिः शंसनीयः ऋघावान हिंसावान् । अनेन वक्ष्यमाणस्य सामर्थ्यस्य संभाविता। प्रतिपादिता अभवदित्युक्तम् । किं तत् इत्याशङ्क्याह । त्रिरश्रिम् । अश्रित्रयोपेतमायुधं त्रिरश्रि । तद्वन्तम् ॥ मत्वर्थो लुप्यते ॥ उपलक्षणमेतत् । सर्वायुधसंपन्नमित्यर्थः । एतन्नामानं वा । चतुरश्रिः ततोऽप्यधिकायुधवान्। न केवलमायुधसामर्थ्यं किंतु उग्रः स्वयमुद्गूर्णबलः हन्ति हिनस्ति अतिबलं शत्रुम् । किंच युवयोः एकस्यैव सामर्थ्येन देवनिदो ह देवनिन्दकास्तु प्रथमाः समर्थाः सन्तोऽपि अजूर्यन् स्वयमेव जीर्णा भवन्ति ॥ जीर्यतेः श्यनि ‘ बहुलं छन्दसि इति उत्वम् ॥ युवयोर्मध्ये एकोऽपि महाबलः । मिलितयोस्तु सामर्थ्ये किमु वक्तव्यमिति भावः । अथवा । एषां युवयोः एतत् उत्तरत्र वक्ष्यमाणं सामर्थ्यम् एकः सत्यादिलक्षणो वि चिकेतत् विशेषेण जानाति । शेषं पूर्ववत् ॥
“He amongst those (who are your followers), who observes truth, who is considerate, who is commended by the wise, who is able to (inflict) harm, carefully weighs (the means whereby), fierce and well-armed, he slays (a foe) less efficiently accoutred, and (by which) the revilers of the gods, however mighty, may perish.”
This might of theirs hath no one comprehended. True is the crushing word the sage hath uttered,
The fearful four-edged bolt smites down the three-edged, and those who hate the Gods first fall and perish.
Many a one will not comprehend this (formulation?) of theirs, (but) the virile mantra, proclaimed by poets, comes true.
The mighty four-edged (weapon) smites one with three edges; the
scorners of the gods were the first to waste away.
Nicht jeder Mensch vermag es zu verstehen; doch bleibet wahr das mächt'ge Wort der Seher: »Die starke Vierkantwaffe schlägt den Dreikant; zuerst vergingen stets die Götterhasser.«
Auch das sieht mancher von diesen Menschen nicht ein. Wahr ist das von den Sehern verkündete drohende Dichterwort: Der gewaltige Vierkant schlägt den Dreikant: die Götterschmäher wurden zuerst altersschwach.
Не каждый из них поймет это.
Истинно произнесенное поэтами потрясающее высказывание:
Грозный четырехгранник побивает трехгранник.
Первыми состарились хулители богов.
अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत । गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता॑रीत् ॥
अ॒पात् । ए॒ति॒ । प्र॒थ॒मा । प॒त्ऽवती॑नाम् । कः । तत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । आ । चि॒के॒त॒ । गर्भः॑ । भा॒रम् । भ॒र॒ति॒ । आ । चि॒त् । अ॒स्य॒ । ऋ॒तम् । पिप॑र्ति । अनृ॑तम् । नि । ता॒रीत् ॥
हे मित्रावरुणा मित्रावरुणौ पद्वतीनां पादवतीनां मनुष्यादीनां प्रजानां प्रथमा प्रथमभाविनी अपात् पादरहिता उषाः । प्रतिदिनं सूर्यचन्द्रादिवत् स्वस्याः परिभ्रमणाभावात् सूर्यगमनेनैव स्वगमनात् अपात् इति च एति इति च उपचर्यते । तत् तादृशं वां युवयोः प्रसिद्धं कर्म कः आ चिकेत कः आभिमुख्येन जानाति ॥ ‘ कित ज्ञाने ॥ तत्स्तुत्यमित्यर्थः । मित्रावरुणयोः अहोरात्रदेवत्वात् अहोरात्रयोः अन्तरालस्यैव उषस्त्वात् एतत्कर्मत्वम् । किंच अस्य लोकस्य भारं निर्वाहं गर्भः युवयोर्गर्भस्थानीयः शिशुरादित्यः । अहोरात्रयोर्मध्यकाले उत्पत्तेः ताभ्यामेव मित्रावरुणत्वात् अहोरात्रे वै मित्रावरुणौ । (तै. सं. २. ४. १०. १ ) इति श्रुतेः । स आहरति चित् । समन्तान्निर्वहत्येव । हरति वा अस्य भारं जाड्यम् । चित् इत्यवधारणे । तत्कथमिति तदुच्यते । ऋतं सत्यं जगतः प्रकाशगमनादिरूपं पिपर्ति पूरयति । अनृतम् उक्तविलक्षणमन्धकारं गमनादिनिरोधं च नि तारीत् नितरति निमज्जयति नाशयतीत्यर्थः । शिशोर्जगद्भारवहनरूपं कर्म युष्मत्सामर्थ्यादिति ॥
“Who knows, Mitra and Varuṇa, that it is your doing, that the footless dawn is the precursor of footed beings; and that your infant (progeny, the sun), sustains the burden of this (world); he diffuses (the) truth (of light), and disperses the falsehood (of darkness).”
The Footless Maid precedeth footed creatures. Who marketh, Mitra-Varuna, this your doing?
The Babe Unborn supporteth this world's burthen, fulfilleth Law and overcometh falsehood.
“Footless she [=Dawn] goes as the first of the footed.” Who
comprehends that (formulation?) of yours, o Mitra and Varuṇa?
“The unborn child bears his burden even here.” He guides the truth
across; he has brought down untruth.
Die fussloss ist, geht vor den fussbegabten, dies euer Werk wer kennt's, Varuna-Mitra? In ihrem Schoosse trägt des Sohnes Last sie, er fördert Recht und schlägt das Unrecht nieder.
Fußlos geht sie als erste der Füßler. Wer begreift dies euer Werk, Mitra und Varuna? Der neugeborene trägt die Bürde dieser Welt; er fördert das Gesetz, unterdrückt die Ungesetzlichkeit.
Безногая идет впереди тех, у кого есть ноги.
Кто понял это ваше (творение), о Митра-Варуна?
Зародыш несет бремя самого этого (мироздания).
Он спасает закон, пресекает беззаконие.
प्र॒यन्त॒मित्परि॑ जा॒रं क॒नीनां॒ पश्या॑मसि॒ नोप॑नि॒पद्य॑मानम् । अन॑वपृग्णा॒ वित॑ता॒ वसा॑नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ॥
प्र॒ऽयन्त॑म् । इत् । परि॑ । जा॒रम् । क॒नीना॑म् । पश्या॑मसि । न । उ॒प॒ऽनि॒पद्य॑मानम् । अन॑वऽपृग्णा । विऽत॑ता । वसा॑नम् । प्रि॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ ॥
कनीनां कमनीयानां दीप्तानां कन्यकास्थानीयानामुषसाम् ॥ कनतेः कान्तिकर्मण इञ् । ‘ कृदिकारादक्तिनः' इति ङीष् । आमि कन्याशब्दस्य वा छान्दसं संप्रसारणम् ॥ तासां जारम् आदित्यं प्रयन्तमित प्रगच्छन्तमेव परि पश्यामसि वयं परिपश्यामः उपनिपद्यमानं क्षणमात्रमपि निषीदन्तं न पश्याम:। एतदपि तयोः सामर्थ्यम् । पुनस्तदेव विशेष्यते । अनवपृग्णा अनवपृग्णानि अत एव विततानि तेजांसि वसानम् आच्छादयन्तं प्रियं सर्वेषां प्रियभूतं मित्रस्य वरुणस्य च धाम तेजःस्थानभूतम् । यद्वा । प्रियं धामेति संबध्यते । तयोः प्रेमस्थानम् । ईदृशमादित्यं युष्मदनुज्ञया संचरन्तं पश्यामसि ॥
“We behold the lover of the maiden (dawns), ever in movement, never resting for an instrumental nt, wearing inseparable and diffusive (radiance), the beloved abode of Mitra and Varuṇa”
We look on him the darling of the Maidens, always advancing, never falling downward,
Wearing inseparable, wide-spread raiment, Mitra's and Varuna's delightful glory.
We look him over, the lover of maidens [=Sun], only when he is going forth but not when he is settling down near (them)—
(the Sun) wearing (garments) not removed (from the loom), (still)
stretched out (on it)—following the dear ordinance of Mitra and
Varuṇa.
Wir sehn den Buhlen zu den Jungfraun eilen, doch nimmer ruhet er an ihrer Seite; In ungetrennte weite Räume dringt er in Varuna's und Mitra's lieben Wohnsitz.
Wir sehen, wie der Buhle der Jungfrauen kommt, aber nicht, daß er sich zu ihnen legt. Wir sehen wie er sich in Gewänder kleidet, die ohne Ende aufgespannt sind, Mitra´s und Varuna´s liebes Gebilde.
Мы видим, как отправляется по кругу любовник
Девиц, который (однако) не ложится (с ними).
(Мы видим,) как он одевается в бескрайние протянувшиеся (одежды).
(Вот) любимое установление Митры (и) Варуны.
अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा॑नुः । अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा॑न॒: प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णन्त॑: ॥
अ॒न॒श्वः । ज॒तः । अ॒न॒भी॒शुः । अर्वा॑ । कनि॑क्रदत् । प॒त॒य॒त् । ऊ॒र्ध्वऽसा॑नुः । अ॒चित्त॑म् । ब्रह्म॑ । जु॒जु॒षुः॒ । युवा॑नः । प्र । मि॒त्रे । धाम॑ । वरु॑णे । गृ॒णन्तः॑ ॥
स एवादित्यः अनश्वः यद्यपि शीघ्रगाम्यश्वरहितः तथा अनभीशुः आलम्बनाधारप्रग्रहस्थानीयरश्मिरहितः तथापि अर्वा जातः शीघ्रगमनवान् संपन्नः । तथाविधोऽयमादित्यः कनिक्रदत् अत्यर्थं क्रन्दयन् । क्रन्देर्यङ्लुगन्तात् शतरि दाधर्त्यादौ निपात्यते ॥ ऊर्ध्वसानुः उपर्युपरि समुच्छ्रयणः सन् पतयत् गच्छति । अचित्तं चित्ताविषयं ब्रह्म परिवृढम् उक्तरूपं कर्म मित्रे वरुणे च उभयोः धाम तेजःस्थानं युवानः मिश्रयन्तः तयोर्धाम्नि आरोपयन्तः तथा प्र गृणन्तः युवयोः तेजःप्रभवमिति प्रकर्षेण स्तुवन्तः जुजुषुः सेवन्ते । मनुष्याः सूर्यस्य निरालम्बान्तरिक्षसंचारात्मकं कर्म वरुणमित्रयोरधीनम् इति स्तुवन्तीत्यर्थः ॥
“Without steeds, without stay, (he is nevertheless) borne swift-moving and loud-sounding; he travels, ascending higher and higher, connecting the inconceivable mystery (of sacred rites) with the radiance (abiding) in Mitra and Varuṇa, (which men), eulogizing, glorify.”
Unbridled Courser, born but not of horses, neighing he flieth on with back uplifted.
The youthful love mystery thought-surpassing, praising in Mitra-Varuna, its glory.
Born without a horse, a steed without a rein, ever whinnying he [=Sun] flies with arched back.
(Though it cannot be) comprehended, the youths [=Maruts? Aṅgirases? gods?] enjoy the formulation, as in (the presence of) Mitra and Varuṇa they hymn their ordinance.
Geboren ohne Ross und Zügel, wiehernd fliegt auf der Renner mit erhobnem Rücken; Das kaum verstandne Lied gefällt der Jugend, die Varuna's und Mitra's Satzung preiset.
Ohne Roß geboren, ohne Zügel, selbst ein Renner fliegt er wiehernd mit aufgerichtetem Rücken. Die Jungen freuen sich über das unbegriffene Geheimwort, indem sie das Gebilde vor Mitra und Varuna loben.
Рожденный не как конь, без поводьев, (однако) стремительный,
С громким ржанием он летит спиною кверху.
Молодые обрадовались непонятому священному слову,
Воспевая перед Митрой и Варуной (их) установление.
आ धे॒नवो॑ मामते॒यमव॑न्तीर्ब्रह्म॒प्रियं॑ पीपय॒न्त्सस्मि॒न्नूध॑न् । पि॒त्वो भि॑क्षेत व॒युना॑नि वि॒द्वाना॒साविवा॑स॒न्नदि॑तिमुरुष्येत् ॥
आ । धे॒नवः॑ । मा॒म॒ते॒यम् । अव॑न्तीः । ब्र॒ह्म॒ऽप्रिय॑म् । पी॒प॒य॒न् । सस्मि॑न् । ऊध॑न् । पि॒त्वः । भि॒क्षे॒त॒ । व॒युना॑नि । वि॒द्वान् । आ॒सा । आ॒ऽविवा॑सन् । अदि॑तिम् । उ॒रु॒ष्ये॒त् ॥
मामतेयं ममतायाः पुत्रं दीर्घतमसं मां ब्रह्मप्रियं परिवृढस्य कर्मणः प्रियतमं परिवृढस्याग्नेः प्रीणयितारं वा अवन्तीः अवन्त्यः प्रीणयन्त्यः धेनवः गावः सस्मिन् स्वकीये ऊधन् ऊधसि आ पीपयन् सर्वत आप्याययन्तु ॥ प्यायतेर्णिचि छान्दसः पीभावः ॥ ऊधोगतेन क्षीरेण युवाभ्यां प्रदेयेन नोऽस्मान् रक्षन्ति इत्यर्थः। मित्रावरुणाभ्यां पयस्या' (तै.सं.७.५.२२.१) इति श्रुतेः। एवं प्रदत्तहविः वयुनानि अनुष्ठानविषयज्ञानानि विद्वान् जानन् हुतशेषो भक्षणीय इत्यवगच्छन् दीर्घतमाः पित्वः पितोर्हुतशिष्टस्य अन्नस्य तादृगन्नम् आसा आस्येन भक्षयितुं भिक्षेत याचेत युष्मान् । किंच विवासन् युवां परिचरन् अदितिम् अखण्डितम् अन्यूनमेतत्कर्म उरुष्येत् । यथा शिष्टं भिक्षेत यथा च कर्म समापनेन रक्षेत् तथा अपीपयन्नित्यर्थः ॥
“May the cow, propitious to the devout son of Mamatā, be possessed of well-filled udders; knowing the rites (necessary to be performed), let him beg (the residue) of the offerings for his eating, and worshipping (you both) complete the perfect (ceremony).”
May the milch-kine who favour Mamateya prosper in this world him who loves devotion.
May he, well skilled in rites, be food, and calling Aditi with his lips give us assistance.
Aiding the son of Mamatā [=Dīrghatamas], the milk-cows will swell the one who gives pleasure with formulations [=Agni?] in the same udder. Knowing the ritual patterns he should seek a share of the food. Seeking to win her with his mouth, he should make broad space for Aditi
[/Boundlessness].
Mamata's Sohn, der Freund der heil'gen Weisheit, hat reich gelabt der Milchkuh volles Euter; Wer Lieder kennt, nur der begehr des Trunkes; setzt der ihn an den Mund, so weicht der Mangel.
Die Milchkühe, die sich des Mamateya annahmen. Sollen den, der die geheime Rede liebt, an demselben Euter satt machen. Um diesen Trank soll nur der bitten, der Bescheid weiß. Wer mit dem Mund die Aditi gewinnen will, möge seine Schuldlosigkeit wahren.
Дойные коровы, помогавшие (некогда) Маматее,
У того же вымени насытили любителя священного слова.
Пусть стремится приобщиться к питанию тот, кто знает вехи.
Кто хочет покорять устами, пусть сохраняет несвязанность!
आ वां॑ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्याम् । अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकं॑ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ॥
आ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । नम॑सा । देवौ॑ । अव॑सा । व॒वृ॒त्या॒म् । अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । स॒ह्याः॒ । अ॒स्माक॑म् । वृ॒ष्टिः । दि॒व्या । सु॒ऽपा॒रा ॥
हे देवौ देवनशीलौ मित्रावरुणा मित्रावरुणौ वां युवां हव्यजुष्टिं हविःसेवां नमसा नमस्कारोपलक्षितेन स्तोत्रेण अवसा रक्षणेन निमित्तभूतेन आ ववृत्याम् आवर्तयेयम् । यद्वा । नमस्कारेण अवसा अन्नेन च आ ववृत्याम् । किंच हे मित्रावरुणौ अस्माकं संबन्धि ब्रह्म इदानीं क्रियमाणं परिवृढं कर्म पृतनासु संग्रामेषु सह्याः सह्यात् शत्रून् अभिभूयात् । अनेन कर्मणा शत्रून् अभिभवेयमित्यर्थः । किंच अस्माकं दिव्या दिवि भवा वृष्टिः सुपारा सुष्ठु पारयित्री भवत्विति शेषः । वृष्टौ सत्यां व्रीह्यादिद्वारा कर्मसमाप्तेरिति भावः ॥ ॥ २२ ॥
“Divine Mitra and Varuṇa, may I render the oblation acceptable to you with reverence and prayer; may the sacred rite enable us (to overcome) in battles, and may the heavenly rain be to us the means of satisfying our wants.”
Gods, Mitra-Varuna, with love and worship, let me make you delight in this oblation.
May our prayer be victorious in battles, may we have rain from heaven to make us prosper.
Might I turn you two here, Mitra and Varuṇa, to the enjoyment of our oblation by my reverence, o gods, and with your help.
Ours is the formulation that should prevail in battles; ours is the
heavenly rain that provides deliverance.
Euch lad' ich ein mit Ehrfurcht und mit Liebe zum Opfermahl, o Varuna und Mitra, In Kämpfen schaffe Sieg uns unser Beten und hülfreich mög' uns sein des Himmels Regen.
Ich möchte euch, Mitra und Varuna, ihr Götter, durch meine Verbeugung mit eurer Hilfe zum Opfergenuß herbewegen. Unsere feierliche Rede soll in den Kämpfen obsiegen! Uns werde himmlischer, gut endender Regen!
Я хотел бы, о Митра-Варуна, с помощью поклонения (и вашего) содействия
Повергнуть вас, о двоица богов, к наслаждению (моими) жертвенными возлияниями.
Наше священное слово да одержит верх в состязаниях!
Нам (пусть будет) небесный дождь, ведущий к успеху!