विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥
विष्णोः॑ । नु । क॒म् । वी॒र्या॑णि । प्र । वो॒च॒म् । यः । पार्थि॑वानि । वि॒ऽम॒मे । रजां॑सि । यः । अस्क॑भायत् । उत्ऽत॑रम् । स॒धऽस्थ॑म् । वि॒ऽच॒क्र॒मा॒णः । त्रे॒धा । ऊ॒रु॒ऽगा॒यः ॥
हे नराः विष्णोः व्यापनशीलस्य देवस्य वीर्याणि वीरकर्माणि नु कम् अतिशीघ्रं प्र वोचम् प्रब्रवीमि । अत्र यद्यपि नु कम् इति पदद्वयं तथापि यास्केन ' नवोत्तराणि पदानि ' (नि. ३. १३ ) इत्युक्तत्वात् शाखान्तरे एकत्वेन पाठाच्च नु इत्येतस्मिन्नेवार्थे नु कम् इति पदद्वयम् । कानि तानीति तत्राह । यः विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि रञ्जनात्मकानि क्षित्यादिलोकत्रयाभिमानीनि अग्निवाय्वादित्यरूपाणि रजांसि विममे विशेषेण निर्ममे । अत्र त्रयो लोका अपि पृथिवी शब्दवाच्याः । तथा च मन्त्रान्तरं -- यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ( ऋ. सं. १. १०८.९) इति। तैत्तिरीयेऽपि - योऽस्यां पृथिव्यामस्यायुषा' इत्युपक्रम्य ‘यो द्वितीयस्यां तृतीयस्यां पृथिव्याम्' (तै. सं. १. २. १२. १ ) इति । तस्मात् लोकत्रयस्य पृथिवीशब्दवाच्यत्वम् । किंच यः च विष्णुः उत्तरम् उद्गततरमतिविस्तीर्णं सधस्थं सहस्थानं लोकत्रयाश्रयभूतमन्तरिक्षम् अस्कभायत् तेषामाधारत्वेन स्तम्भितवान् निर्मितवानित्यर्थः । अनेन अन्तरिक्षाश्रितं लोकत्रयमपि सृष्टवानित्युक्तं भवति । यद्वा । यो विष्णुः पार्थिवानि पृथिवीसंबन्धीनि रजांसि पृथिव्या अधस्तनसप्तलोकान् विममे विविधं निर्मितवान् । रजःशब्दो लोकवाची, ‘ लोका रजांस्युच्यन्ते । इति यास्केनोक्तत्वात् । किंच यश्चोत्तरम् उद्गततरम् उत्तरभाविनं सधस्थं सहस्थानं पुण्यकृतां सहनिवासयोग्यं भूरादिलोकसप्तकम् अस्कभायत् स्कम्भितवान् सृष्टवानित्यर्थः ॥ स्कम्भेः 'स्तम्भुस्तुम्भु इति विहितस्य श्नः छन्दसि शायजपि' इति व्यत्ययेन शायजादेशः ॥ अथवा पार्थिवानि पृथिवीनिमित्तकानि रजांसि लोकान् विममे । भूरादिलोकत्रयमित्यर्थः । भूम्याम् उपार्जितकर्मभोगार्थत्वात् इतरलोकानां तत्कारणत्वम्। किंच यश्चोत्तरम् उत्कृष्टतरं सर्वेषां लोकानामुपरिभूतम् । अपुनरावृत्तेः तस्योत्कृष्टत्वम् । सधस्थम् उपासकानां सहस्थानं सत्यलोकमस्कभायत् स्कम्भितवान् ध्रुवं स्थापितवानित्यर्थः । किं कुर्वन् । त्रेधा विचक्रमाणः त्रिप्रकारं स्वसृष्टान् लोकान्विविधं क्रममाणः । विष्णोस्त्रेधा क्रमणम् इदं विष्णुर्वि चक्रमे ' ( ऋ. सं. १, २२, १७ ) इत्यादिश्रुतिषु प्रसिद्धम् । अत एव उरुगायः उरुभिः महद्भिः गीयमानः अतिप्रभूतं गीयमानो वा । य एवं कृतवान् तादृशस्य विष्णोर्वीर्याणि प्र वोचम् ॥
“Earnetly I glorify the exploits of Viṣṇu, who made the three worlds; who sustained the lofty aggregate site (of the spheres); thrice traversing (the whole); who is praised by the exalted.”
I WILL declare the mighty deeds of Visnu, of him who measured out the earthly regions,
Who propped the highest place of congregation, thrice setting down his footstep, widely striding.
I will proclaim the mighty deeds of Viṣṇu, Of him who measured out the earthly spaces; Who, firmly propping up the higher station, Strode out in triple regions, widely pacing.
I shall proclaim the mighty deeds of Visnu
Who meted out the spaces of the earth,
Who established the highest abode,
Stepping thrice, the far-goer.
Now shall I proclaim the heroic deeds of Viṣṇu, who measured out the earthly realms,
who propped up the higher seat, having stridden out three times, the wide-ranging one.
Des Vischnu grosse Thaten will ich preisen, der weit durchmessen hat der Erde Räume, Befestigt hat den höchsten Sitz des Himmels, dreimal ausschreitend mit gewalt'gen Schritten.
Des Vishnu Heldentaten will ich nun verkünden, der die irdischen Räume durchmessen hat, der die obere Wohnstätte stützte, nachdem er dreimal ausgeschritten war, der Weitschreiter.
Я хочу сейчас провозгласить героические деяния Вишну
Который измерил земные пространства,
Который укрепил верхнее общее жилище,
Трижды шагнув, (он,) далеко идущий.
प्र तद्विष्णु॑: स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥
प्र । तत् । विष्णुः॑ । स्त॒व॒ते॒ । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः । यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑ ॥
यस्येति वक्ष्यमाणत्वात् स इति अवगम्यते । स महानुभावः वीर्येण स्वकीयेन वीरकर्मणा पूर्वोक्तरूपेण स्तवते स्तूयते सर्वैः ॥ कर्मणि व्यत्ययेन शप् । वीर्येण स्तूयमानत्वे दृष्टान्तः । मृगो न सिंहादिरिव । यथा स्वविरोधिनो मृगयिता सिंहः भीमः भीतिजनकः कुचरः कुत्सितहिंसादिकर्ता दुर्गमप्रदेशगन्ता वा गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैः स्तूयते । अस्मिन्नर्थे निरुक्तं - मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भीमः कुचरो गिरिष्ठा मृगो मार्ष्टेर्गतिकर्मणो भीमो बिभ्यत्यस्माद्भीष्मोऽप्येतस्मादेव । कुचर इति चरतिकर्म कुत्सितमथ चेद्देवताभिधानं क्वायं न चरतीति वा । गिरिष्ठा गिरिस्थायी गिरिः पर्वतः समुद्गीर्णो भवति पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा' (निरु. १, २० ) इति । तद्वदयमपि मृगोऽन्वेष्टा शत्रूणां भीमो भयानकः सर्वेषां भीत्यपादानभूतः । परमेश्वराद्भीतिः ‘भीषास्माद्वातः पवते ' ( तै. आ. ८.८. १) इत्यादिश्रुतिषु प्रसिद्धा । किंच कुचरः शत्रुवधादिकुत्सितकर्मकर्ता कुषु सर्वासु भूमिषु लोकत्रये संचारी वा तथा गिरिष्ठाः गिरिवत् उच्छ्रितलोकस्थायी । यद्वा । गिरि मन्त्रादिरूपायां वाचि सर्वदा वर्तमानः । ईडशोऽयं स्वमहिम्ना स्तूयते । किंच यस्य विष्णोः उरुषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्वा सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति आश्रित्य निवसन्ति स विष्णुः स्तूयते ॥
10अथ दशमीमाह - तत्तस्मिन्कर्मणि यजमानानां वीर्यार्थं विष्णुः प्रस्तवते प्रकर्षेण स्तूयते । कुचरो भूमौ वर्तमानो भीमो भयंकरो मृगो न सिंहो यथोर्ध्वमुत्प्लुत्य गिरिष्ठाः पर्वतस्थो भवति, तथा यस्य विष्णोः पूर्वं वामनस्य पश्चात्त्रिविक्रमत्वं गच्छत उरुषु विस्तीर्णेषु त्रिषु विक्रमणेषु विश्वा भुवनानि सर्वे लोका अधिक्षियन्ति आधिक्येन निवसन्ति । स विष्णुः स्तूयत हति पूर्वत्रान्वयः ॥
“Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.”
For this his mighty deed is Visnu lauded, like some wild beast, dread, prowling, mountain-roaming;
He within whose three wide-extended paces all living creatures have their habitation.
Because of this his mighty deed is Viṣṇu Lauded, like some fierce beast that is much dreaded, That wanders as it lists, that haunts the mountains: He in whose three wide strides abide all creatures.
In this way Viṣṇu will be praised for his heroic deed—(he who is) like a fearsome wild beast, living in the mountains and roaming wherever it wants,
in whose three wide strides dwell all living beings.
Gerühmt wird Vischnu wegen dieser Grossthat, gleich wildem Löwen, der durch Berge schweifet, Er, unter dessen drei gewalt'gen Schritten die Wesen alle sichre Wohnung haben.
Also wird Vishnu ob seiner Heldentat gepriesen, der umherschweifend im Gebirge haust wie das furchtbare wilde Tier, in dessen drei weiten Schritten alle Geschöpfe Wohnung finden.
Вот прославляется Вишну за героическую силу,
Страшный, как зверь, бродящий (неизвестно) где, живущий в горах,
В трех широких шагах которого
Обитают все существа.
प्र विष्ण॑वे शू॒षमे॑तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे॑ । य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको॑ विम॒मे त्रि॒भिरित्प॒देभि॑: ॥
प्र । विष्ण॑वे । शू॒षम् । ए॒तु॒ । मन्म॑ । गि॒रि॒ऽक्षिते॑ । उ॒रु॒ऽगा॒याय॑ । वृष्णे॑ । यः । इ॒दम् । दी॒र्घम् । प्रऽय॑तम् । स॒धऽस्थ॑म् । एकः॑ । वि॒ऽम॒मे । त्रि॒ऽभिः । इत् । प॒देऽभिः॑ ॥
विष्णवे सर्वव्यापकाय शूषम् अस्मत्कृत्यादिजन्यं बलं महत्त्वं मन्म मननं स्तोत्रं मननीयं शूषं बलं वा विष्णुम् एतु प्राप्नोतु ॥ कर्मणः संप्रदानत्वात् चतुर्थी । कीदृशाय । गिरिक्षिते वाचि गिरिवदुन्नतप्रदेशे वा तिष्ठते उरुगायाय बहुभिर्गीयमानाय वृष्णे वर्षित्रे कामानाम् । एवंमहानुभावं शूषं प्राप्नोतु । कोऽस्य विशेष इति उच्यते । यः विष्णुः इदं प्रसिद्धं दृश्यमानं दीर्घम् अतिविस्तृतं प्रयतं नियतं सधस्थ सहस्थानं लोकत्रयम् एकः इत् एक एवाद्वितीयः सन् त्रिभिः पदेभिः पादैः विममे विशेषेण निर्मितवान् ।
“May acceptable vigour attend Viṣṇu, who abides in prayer, the hymned of many, the showerer (of benefits), who alone made, by three steps, this spacious and durable aggregate (of the three worlds).”
Let the hymn lift itself as strength to Visnu, the Bull far-striding, dwelling on the mountains,
Him who alone with triple step hath measured this common dwelling-place, long, far extended.
Let my inspiring hymn go forth to Viṣṇu, The mountain-dwelling bull, the widely pacing, Him who has measured out with but three footsteps, Alone, this long and far-extended station;
Let my fortifying thought go forth to Viṣṇu, the mountain-dwelling, wide-ranging bull,
who alone with just three steps measured out this dwelling place here, long and extended,
Zu Vischnu dringe kräftig vor das Preislied, dem Stier des Berges, welcher weithin schreitet, Der diesen langen, weitgestreckten Wohnsitz durchmessen hat allein in nur drei Schritten.
Zu Vishnu soll das Lied als Aufmunterung gehen, zu dem Bergbewohner, dem weitschreitenden Bullen, der diese lang ausgedehnte Stätte allein mit nur drei Schritten durchmessen hat.
Пусть к Вишну идет (этот) гимн-молитва,
К поселившемуся в горах, далеко шагающему быку,
Который это обширное, протянувшееся общее жилище
Измерил один тремя шагами.
यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी॑यमाणा स्व॒धया॒ मद॑न्ति । य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको॑ दा॒धार॒ भुव॑नानि॒ विश्वा॑ ॥
यस्य॑ । त्री । पू॒र्णा । मधु॑ना । प॒दानि॑ । अक्षी॑यमाणा । स्व॒धया॑ । मद॑न्ति । यः । ऊँ॒ इति॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वीम् । उ॒त । द्याम् । एकः॑ । दा॒धार॑ । भुव॑नानि । विश्वा॑ ॥
यस्य विष्णोः मधुना मधुरेण दिव्येनामृतेन पूर्णा पूर्णानि त्रीणि पदानि पादप्रक्षेपणानि अक्षीयमाणा अक्षीयमाणानि स्वधया अन्नेन मदन्ति मादयन्ति तदाश्रितजनान् । य उ य एव पृथिवीं प्रख्यातां भूमिं द्याम् उत द्योतनात्मकमन्तरिक्षं च विश्वा भुवनानि सर्वाणि भूतजातानि चतुर्दश लोकांश्च । यद्वा । पृथिवीशब्देन अधोवर्तीनि अतलवितलादिसप्तभुवनान्युपात्तानि । द्युशब्देन तद्वान्तररूपाणि भूरादिसप्तभुवनानि । एवं चतुर्दश लोकान् विश्वा भुवनानि सर्वाण्यपि तत्रत्यानि भूतजातानि । त्रिधातु । त्रयाणां धातूनां समाहारस्त्रिधातु । पृथिव्यप्तेजोरूपधातुत्रयविशिष्टं यथा भवति तथा दाधार धृतवान् ॥ तुजादित्वात् अभ्यासस्य दीर्घत्वम् ॥ उत्पादितवानित्यर्थः । छन्दोगारण्यके - ‘ तत्तेजोऽसृजत तदन्नमसृजत ता आप ऐक्षन्त ' इति भूतत्रयसृष्टिमुक्त्वा हन्ताहमिमास्तिस्रो देवतास्तासां त्रिवृतं त्रिवृतमेकैकां करवाणि ' ( छा. उ. ६. ३. २-३.) इत्यादिना त्रिवृत्करणसृष्टिरुपपादिता । यद्वा । त्रिधातु कालत्रयं गुणत्रयं वा दाधारेत्यन्वयः ॥
आतिथ्यायां तदस्य' इत्येषा प्रधानस्य याज्या । अथातिथ्या' इति खण्डे सूत्रितम् - इदं विष्णुर्वि चक्रमे तदस्य प्रियमभि पाथो अश्याम् ' ( आश्व. श्रौ. ४. ५) इति ।
“Whose three imperishable paces, filled with ambrosia, delight (mankind) with sacred food; who verily alone upholds the three elements, and earth and heaven.”
Him whose three places that are filled with sweetness, imperishable, joy as it may list them,
Who verily alone upholds the threefold, the earth, the heaven, and all living creatures.
Him whose three footsteps filled with mead, un-failing. Revel in blissful joy; who has supported Alone the universe in three divisions: The earth and sky and all created beings.
Whose three steps, filled with honey, never becoming depleted, find elation through their own power,
who alone supports heaven and earth in their three parts and all living beings.
Von Honig triefen seiner Füsse Spuren, und unvergänglich sprudeln sie von Wonne, Dreifaches Gut: die Erde und den Himmel und alle Wesen, er allein erhält sie.
Des drei Fußspuren, voll von Honig, unversieglich, nach ihrer Art schwelgen; der der dreifachen Welt, Erde und Himmel, allen Geschöpfen allein Halt gegeben hat.
(Он тот,) три следа которого, полные меда,
Неиссякающие, опьяняются по своему обычаю,
Кто триедино землю и небо
Один поддерживал – все существа...
तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णो॑: प॒दे प॑र॒मे मध्व॒ उत्स॑: ॥
तत् । अ॒स्य॒ । प्रि॒यम् । अ॒भि । पाथः॑ । अ॒श्या॒म् । नरः॑ । यत्र॑ । दे॒व॒यवः॑ । मद॑न्ति । उ॒रु॒ऽक्र॒मस्य॑ । सः । हि । बन्धुः॑ । इ॒त्था । विष्णोः॑ । प॒दे । प॒र॒मे । मध्वः॑ । उत्सः॑ ॥
अस्य महतो विष्णोः प्रियं प्रियभूतं तत् सर्वैः सेव्यत्वेन प्रसिद्धं पाथः । अन्तरिक्षनामैतत्, ‘पाथोऽन्तरिक्षं पथा व्याख्यातम्' (निरु. ६. ७) इति यास्केनोक्तत्वात्। अविनश्वरं ब्रह्मलोकमित्यर्थः। अश्याम् व्याप्नुयाम् । तदेव विशेष्यते । यत्र स्थाने देवयवः देवं द्योतनस्वभावं विष्णुमात्मन इच्छन्तो यज्ञदानादिभिः प्राप्तुमिच्छन्तः नरः मदन्ति तृप्तिमनुभवन्ति । तदश्यामित्यन्वयः । पुनरपि तदेव विशेष्यते । उरुक्रमस्य अत्यधिकं सर्वं जगदाक्रममाणस्य तत्तदात्मना अत एब विष्णोः व्यापकस्य परमेश्वरस्य परमे उत्कृष्टे निरतिशये केवलसुखात्मके पदे स्थाने मध्वः मधुरस्य उत्सः निष्यन्दो वर्तते । तदश्याम् । यत्र क्षुत्तृष्णाजरामरणपुनरावृत्त्यादिभयं नास्ति संकल्पमात्रेण अमृतकुल्यादिभोगा: प्राप्यन्ते तादृशमित्यर्थः। ततोऽधिकं नास्तीत्याह । इत्था इत्थमुक्तप्रकारेण स हि बन्धुः स खलु सर्वेषां सुकृतिनां बन्धुभूतो हितकरः वा तस्य पदं प्राप्तवतां न पुनरावृत्तेः । ‘ न च पुनरावर्तते ' इति श्रुतेस्तस्य बन्धुत्वम् । हिशब्दः सर्वश्रुतिस्मृतिपुराणादिप्रसिद्धिद्योतनार्थः ॥
4अथ चतुर्थीमाह - देवयवो देवानिच्छन्तो नरो यजमाना यत्र भागीरथीजले मदन्ति हृष्यन्ति । अस्य विष्णोः प्रियं तत्पाथो भागीरथीजलं अभ्यश्यां अभितो व्याप्तवान् । उरुक्रमस्य विस्तीर्णपादस्य विष्णोः परमे पदे तृतीये पादे बन्धुः संबद्धो मध्वो मधुर उत्सो भागीरथीप्रवाह इत्था हि एवंविधः । हिशब्दः सर्वलोकप्रसिद्धिद्योतनार्थः ॥
“May I attain his favourite path, in which god-seeking men delight; (the path) of that wide-stepping Viṣṇu, in whose exalted station there is a (perpetual) flow of felicity; for to such a degree is he the friend (of the pious).”
May I attain to that his well-loved mansion where men devoted to the Gods are happy.
For there springs, close akin to the Wide-Strider, the well of meath in Visnu's highest footstep.
I would attain to that his dear dominion Where men devoted to the gods do revel. In the wide-striding Viṣṇu's highest footstep There is a spring of mead: such is our kinship.
Might I reach that dear cattle-pen of his, where men seeking the gods find elation,
for exactly that is the bond to the wide-striding one: the wellspring of honey in the highest step of Viṣṇu.
O möcht' ich seinen lieben Sitz erreichen, in dem die frommen Männer selig leben; Denn das sind recht des mächt'gen Schreiters Freunde, und Süsses quillt an Vischnu's höchster Fussspur.
An seinen lieben Zufluchtsort möchte ich gelangen, an dem die gottergebenen Männer schwelgen, denn dort ist diese Genossenschaft des Weitschreitenden. In der höchsten Fußspur des Vishnu ist der Quell des Honigs.
Я хотел бы достигнуть этого милого убежища его,
Где опьяняются мужи, преданные богам:
В самом деле, ведь там родство широко шагающего.
В высшем следе Вишну – источник меда.
ता वां॒ वास्तू॑न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यास॑: । अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्ण॑: पर॒मं प॒दमव॑ भाति॒ भूरि॑ ॥
ता । वा॒म् । वास्तू॑नि । उ॒श्म॒सि॒ । गम॑ध्यै । यत्र॑ । गावः॑ । भूरि॑ऽशृङ्गाः । अ॒यासः॑ । अत्र॑ । अह॑ । तत् । उ॒रु॒ऽगा॒यस्य॑ । वृष्णः॑ । प॒र॒मम् । प॒दम् । अव॑ । भा॒ति॒ । भूरि॑ ॥
हे पत्नीयजमानौ वां युष्मदर्थं ता तानि गन्तव्यत्वेन प्रसिद्धानि वास्तूनि सुखनिवासयोग्यानि स्थानानि गमध्यै युवयोः गमनाय उश्मसि कामयामहे । तदर्थं विष्णुं प्रार्थयाम इत्यर्थः । तानीत्युक्तं कानीत्याह । यत्र येषु वास्तुषु गावः रश्मयः भूरिशृङ्गाः अत्यन्तोन्नत्युपेता बहुभिराश्रयणीया वा अयासः अयना गन्तारोऽतिविस्तृताः । यद्वा । यासो गन्तारः । अतादृशाः । अत्यन्तप्रकाशयुक्ता इत्यर्थः । अत्राह अत्र खलु वास्त्वाधारभूतं द्युलोके उरुगायस्य बहुभिर्महात्मभिर्गातव्यस्य स्तुत्यस्य वृष्णः कामानां वर्षितुर्विष्णोस्तत्तादृशं सर्वत्र पुराणादिषु गन्तव्यत्वेन प्रसिद्धं परमं निरतिशयं पदं स्थानं भूरि अतिप्रभूतम् अव भाति स्वमहिम्ना स्फुरति । अयं मन्त्रो यास्केन गोशब्दो रश्मिवाचक इति व्याचक्षणेन व्याख्यातः - तानि वां वास्तूनि कामयामहे गमनाय यत्र गावो भूरिशृङ्गा बहुशृङ्गा भूरीति बहुनो नामधेयं प्रभवतीति सतः शृङ्गं श्रयतेर्वा शृणातेर्वा शम्नातेर्वा शरणायोद्गतमिति वा शिरसो निर्गतमिति वायासोऽयनाः । तत्र तदुरुगायस्य विष्णोर्महागतेः परमं पदं परार्ध्यस्थमवभाति भूरि । पादः पद्यतेः' (निरु. २. ७) इति ॥ ॥ २४ ॥
“We pary (to Viṣṇu) that you may both go to those regions where the many-pointed and wide-spreading rays (of light expand); for here the supreme station of the many-hymned, the showerer (of benefits), shines (with) great (splendour).”
Fain would we go unto your dwelling-places where there are many-horned and nimble oxen,
For mightily, there, shineth down upon us the widely-striding Bull's sublimest mansion.
We long to go to those your dwelling-places Where are the kine with many horns, the nimble: For thence, indeed, the highest step of Viṣṇu, Wide-pacing-bull, shines brightly down upon us.
We wish to go to the dwelling places belonging to you two [=Viṣṇu and Indra], where there are ample-horned, unbridled cows.
There that highest step of the wide-ranging bull shines down amply.
In eure Wohnung möchten wir gelangen, wo hörnerreiche Stiere ewig wandern, Von dort ja strahlt herab die höchste Fussspur in reichem Licht des Stiers der weithin schreitet.
Zu eurer beider Wohnstätten wünschen wir zu gelangen, wo die vielhörnigen unverdrossenen Rinder sind. Dort führwar leuchtet jene höchste Fußspur des weitschreitenden Bullen reichlich hernieder.
Мы хотим отправиться в эти ваши обители,
Где (находятся) многорогие неутомимые коровы.
Ведь именно оттуда мощно сверкает вниз
Высший след далеко идущего быка.