प्र व॒: पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा॑य॒ विष्ण॑वे चार्चत । या सानु॑नि॒ पर्व॑ताना॒मदा॑भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना॑ ॥
प्र । वः॒ । पान्त॑म् । अन्ध॑सः । धि॒या॒ऽय॒ते । म॒हे । शूरा॑य । विष्ण॑वे । च॒ । अ॒र्च॒त॒ । या । सानु॑नि । पर्व॑तानाम् । अदा॑भ्या । म॒हः । त॒स्थतुः॑ । अर्व॑ताऽइव । सा॒धुना॑ ॥
हे अध्वर्य्वादयः वः युष्माकं संबन्धि पान्तं पालनस्वभावं पातव्यं वा अन्धसः अन्धः सोमरूपमन्नं प्र अर्चत प्रकर्षेण संपादयत । कस्मै । धियायते स्तुतीरिच्छते महे महते शूराय विक्रान्तायेन्द्राय विष्णवे व्यापकायैतन्नामकाय देवाय च । कस्तयोरतिशय इति उच्यते । या यौ इन्द्राविष्णू पर्वतानां प्रीणनवतां पूरणवतां वा । पर्वतशब्दो यास्केनैवं निरुक्तः -- ‘ पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वा ' इति । उक्तलक्षणानां लोकानाँ सानुनि समुच्छ्रितप्रदेशे । सर्वलोके इत्यर्थः । अथवा मेघानां समुच्छ्रितप्रदेशे । पर्वतशब्दः मेघनामसु उक्तत्वात् । तत्र तस्थतुः तिष्ठतः । कीदृशौ तौ । अदाभ्या अदम्भनीयौ परैरनभिभाव्यौ अत एव महः महान्तौ । यद्वा । महो महसि स्वतेजसि सानुनीत्यनेन संबन्धः । तत्र दृष्टान्तः । साधुना अभिमतदेशप्रापणसमर्थेन अर्वता वेगवताश्वेन इव । तेन यथा अत्युच्छ्रितं प्रदेशमारोहति तद्वदुच्चं पदमारूढौ । तस्मात्ताभ्यामर्चत ॥
“Offer your nutritious viands to the great hero, (Indra), who is plural ased by praise, and to Viṣṇu, the two invincible deities who ride upon the radiant summit of the clouds as upon a well-trained steed.”
To the great Hero, him who sets his mind thereon, and Visnu, praise aloud in song your draught of juice,--
Gods ne'er beguiled, who borne as 'twere by noble steed, have stood upon the lofty ridges of the hills.
Announce in chant the drink from the stalk to the great champion who exercises insight [=Indra] and to Viṣṇu,
the two undeceivable ones who stand on the back of the mountains
mightily like (riders) on a steed heading straight to the goal.
Auf, preist dem grossen Helden und dem Vischnu auch, die darauf achten, euren Trunk des Soma's an; Die unverletzlich zu der Berge Gipfeln gehn hoch wie auf schnellem Rosse, das zum Ziele dringt.
Preiset den Trank eures Somasaftes dem großen, tapferen Indra, dessen Sinn danach steht, und dem Vishnu an, die beide unbetörbar auf dem hohen Rücken der Berge stehen wie der Reiter auf einem tauglichen Streitroß reitet.
Воспойте ваш напиток из сока сомы
Настроенному (на это) великому герою и Вишну,
Которые, не поддаваясь обману, мощно стоят
На вершине гор, подобно (всаднику, правящему) скакуном, достигающим цели.
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिन्द्रा॑विष्णू सुत॒पा वा॑मुरुष्यति । या मर्त्या॑य प्रतिधी॒यमा॑न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथ॑: ॥
त्वे॒षम् । इ॒त्था । स॒म्ऽअर॑णम् । शिमी॑ऽवतोः । इन्द्रा॑विष्णू॒ इति॑ । सु॒त॒ऽपाः । वा॒म् । उ॒रु॒ष्य॒ति॒ । या । मर्त्या॑य । प्र॒ति॒ऽधी॒यमा॑नम् । इत् । कृ॒शानोः॑ । अस्तुः॑ । अ॒स॒नाम् । उ॒रु॒ष्यथः॑ ॥
हे इन्द्राविष्णू शिमीवतोः इष्टप्रदानादिकर्मवतोः वां युवयोः इत्था इत्थं त्वेषं प्रदीप्तं समरणं सम्यग्यागदेशगमनं सुतपाः हुतशिष्टसोमपीतयजमानः उरुष्यति रक्षति यागेन पूजयति । यद्वा । शिमीवतोः प्रहरणादिकर्मवतोः वां युवयोः त्वेषं दीप्तं शौर्योपेतं समरणं सम्यक्परस्परगमनोपेतं वृष्टिप्रदानाय मेघविदारणरूपं यजमान उरुष्यति रक्षति स्तौतीत्यर्थः । कस्तयोरतिशय इति उच्यते । या यौ इन्द्राविष्णू मर्त्याय मनुष्याय हविर्दात्रे यजमानाय प्रतिधीयमानमित् प्रतिधातव्यं फलरूपम् असनाम् असनं चलनशीलं प्रदानशीलमन्नादिकम् अस्तुः अभिमतक्षेप्तुर्निरसितुर्वा शत्रूणां कृशानोः अग्नेः सकाशात् उरुष्यथः अविच्छेदेन प्रवर्तयथः । वह्नौ हुतं हविः स्वीकृत्य तन्मुखादेव फलमपि दास्यथ इत्यर्थः ।
“Indra and Viṣṇu, the devout worshipper glorifies the radiant approach of you two, who are the granters of desires, and who bestow upon the mortal who worships you an immediately-receivable (reward), through the distribution of that fire which is the scatterer (of desired blessings).”
Your Soma-drinker keeps afar your furious rush, Indra and Visnu, when ye come with all your might.
That which hath been directed well at mortal man, bow-armed Krsanu's arrow, ye turn far aside.
The turbulent clashing of you two vehement ones is right to the point: it makes wide space for you two soma-drinkers, o Indra and Viṣṇu,
who cause (the arrow) to go wide just as it is being aimed at the mortal, the shot of the shooter Kr̥śānu.
O Indra, Vischnu, euerm raschen Ungestüm entgeht eur Somatrinker, wenn ihr vorwärts dringt; Ihr wehret ab den wohlgezielten Todespfeil des Schützen, der den Bogen spannt, vom Sterblichen.
Also furchtgebietend ist das Zusammengehen, von euch den beiden grimmigen; o Indra und Vishnu, es schützt euch beide Somatrinker, die ihr den Anschlag auf den Sterblichen, den Pfeilschuß des Schützen Krisanu abwehret.
Неистово, в самом деле, столкновение у (этих) двоих жестоких,
О Индра-Вишну, тот, кто пьет выжатого сому, создает безопасность вам двоим,
Которые отводят стрелу стрелка Кришану –
(Нападение,) нацеленное на смертного.
ता ईं॑ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा॑ नयति॒ रेत॑से भु॒जे । दधा॑ति पु॒त्रोऽव॑रं॒ परं॑ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥
ताः । ई॒म् । व॒र्ध॒न्ति॒ । महि॑ । अ॒स्य॒ । पौंस्य॑म् । नि । मा॒तरा॑ । न॒य॒ति॒ । रेत॑से । भु॒जे । दधा॑ति । पु॒त्रः । अव॑रम् । पर॑म् । पि॒तुः । नाम॑ । तृ॒तीय॑म् । अधि॑ । रो॒च॒ने । दि॒वः ॥
ताः सोमरूपाः प्रसिद्धा आहुतयो यजमानेन हुताः ईम् एतत् अस्य इन्द्रस्य महि महत् पौंस्यं पुंसः कर्म वक्ष्यमाणरूपं बलं वर्धन्ति वर्धयन्ति । ईमित्यनर्थको वा । स चेन्द्रः सोमपानजनितं सामर्थ्यं मातरा द्यावापृथिव्यौ नि नयति नितरां प्रापयति । किमर्थम् । रेतसे प्राणिनां पुत्राद्युत्पादनसामर्थ्याय भुजे तेषां भोगाय रक्षणाय वा । कुत्रेति तदुच्यते । दिवः द्योतमानस्यादित्यस्य अधि अधिकं रोचने रोचमाने मण्डले। नाम नमनं द्यावापृथिव्योः स्थापितं सामर्थ्यं पुत्रः पुरुत्राता सर्वो जनः पितुः पालकाद्विष्णोरनुग्रहात् । यद्वा । पितुः स्वोत्पादकात् स्वयमुत्पन्नं सत् अवरं निकृष्टं नाम पौत्रसंज्ञं परं तदुत्कृष्टं पुत्र इति नाम तदुभयापेक्षया तृतीयं पितेति नाम दधाति धारयति । त्रीणि वाव रेतांसि पिता पुत्रः पौत्रः' (तै. सं. ५. ६. ८. ४ ) इति श्रुतेः । अस्यायमर्थः । अग्नौ हुताः सोमाहुतयः आदित्यमण्डलं प्राप्य द्वादशात्मनः सवितुर्मूर्त्यन्तरौ इन्द्राविष्णू पोषयन्ति तुष्टौ तौ मेघद्वारा वर्षतः । तया वृष्ट्या सस्यादिद्वारा प्रजाः पुत्रपौत्रादिरूपेण वर्धयत इत्येवं महानुभावौ इन्द्राविष्णू इति ॥
“These (oblations) augment his (Indra's), mighty manhood, by which he fits the parents (of all creatures heaven and earth), for genitive ration and enjoyment; whereby, in the upper region of the sky, the son has an inferior and superior appellation, and a third (name) of father.”
These offerings increase his mighty manly strength: he brings both Parents down to share the genial flow.
He lowers, though a son, the Father's highest name; the third is that which is high in the light of heaven.
These (females) strengthen that great masculine nature of his; he leads his two mothers down to enjoy the semen.
The son sets in place the lower and the higher names of the father and the third name in the luminous realm of heaven.
Die Tränke stärken seine grosse Manneskraft, er führt, des Samens sich zu freun, die Aeltern her, Den untern Namen setzt der Sohn als höhern hin, des Vaters dritten Namen an des Himmels Raum.
Diese stärken seine große Manneskraft. Er verführt die beiden Eltern zum Genuß des Samens. Der Sohn setzt den diesseitigen, den jenseitigen Namen des Vaters fest, er legt den dritten Namen dem Lichtraum des Himmels bei.
Эти (восхваления) увеличивают его великую мужскую силу.
Он склоняет родителей к (излиянию) семени, к наслаждению.
Сын устанавливает посюстороннее (и) потустороннее (имя) отца,
Третье (имя он помещает) на светлом пространстве неба.
तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुष॑: । यः पार्थि॑वानि त्रि॒भिरिद्विगा॑मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे॑ ॥
तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । इ॒नस्य॑ । त्रा॒तुः । अ॒वृ॒कस्य॑ । मी॒ळ्हुषः॑ । यः । पार्थि॑वानि । त्रि॒ऽभिः । इत् । विगा॑मऽभिः । उ॒रु । क्रमि॑ष्ट । उ॒रु॒ऽगा॒याय॑ जी॒वसे॑ ॥
अस्य महानुभावस्य तत्तत् पौंस्यं पुंस्त्वं पराक्रमातिशयं गृणीमसि गृणीमः स्तुमः । कीदृशस्यास्य । इनस्य सर्वस्य स्वामिनः त्रातुः पालकस्य अवृकस्य । वृको हिंसकः शत्र्वादिः । तद्रहितस्य मीळ्हुषः सेक्तुर्नित्यतरुणस्य । स्तुत्येषु पराक्रमेषु मध्ये एकमुदाहरति । यः विष्णुः पार्थिवानि पृथिव्यादीनि प्रथनवन्ति वा सामर्थ्यात् रजांसीति गम्यते । लोकत्रयस्यापि पृथिवीशब्दवाच्यत्वं पूर्वमुदाहृतम् । तानि त्रिभिरिद्विगामभिः त्रिभिरेव विविधगमनैः उरु विस्तीर्णं यथा भवति तथा क्रमिष्ट क्रान्तवान् विचक्रमे इत्यर्थः । उरुगायाय उगातव्याय जीवसे लोकत्रयरक्षणाय । यद्वा । उरुगायाय ॥ षष्ठ्यर्थे चतुर्थी ॥ उरुगायस्य विष्णोरीदृशं पराक्रमं गृणीमसि । किमर्थम् । जीवसे जीवनाय रक्षणाय ॥
“Therefore, verily, we celebrate the manhood of that lord (of all), the preserver, the innocuous, the vigorous who traversed the three regions with three wide steps in different directions for the many-praised (preservation of) existence.”
We laud this manly power of him the Mighty One, preserver, inoffensive, bounteous and benign;
His who strode, widely pacing, with three steppings forth over the realms of earth for freedom and for life.
It is just this very masculine nature of his that we sing—of him, the forceful rescuer who gives rewards and keeps the wolf away,
who strode widely across the earthly (regions) with just three paces, for the wide-ranging to live.
Wir preisen diese, diese seine Manneskraft des starken Schützers, der nicht straft, der Gnade übt, Der in drei Schritten dieser weiten Erde Raum durchwandert hat zu unbeschränktem Lebensglück.
Gerade diese Mannestat von ihm preisen wir, von dem mächtigen Behüter, der vor Räubern schützt, den belohnenden, der die irdischen Räume mit nur drei Schritten abgeschritten hat zu weiter Bewegung, zum Leben.
Вот эту самую его мужскую силу мы и воспеваем,
(Силу) храброго защитника, прогоняющего волков, щедрого,
(Того,) кто широко перешагнул через земные (просторы)
Всего лишь тремя шагами, чтобы (человечеству) идти далеко, чтобы (ему) жить.
द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो॑ऽभि॒ख्याय॒ मर्त्यो॑ भुरण्यति । तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय॑न्तः पत॒त्रिण॑: ॥
द्वे इति॑ । इत् । अ॒स्य॒ । क्रम॑णे॒ इति॑ । स्वः॒ऽदृशः॑ । अ॒भि॒ऽख्याय॑ । मर्त्यः॑ । भु॒र॒ण्य॒ति॒ । तृ॒तीय॑म् । अ॒स्य॒ । नकिः॑ । आ । द॒ध॒र्ष॒ति॒ । वयः॑ । च॒न । प॒तय॑न्तः । प॒त॒त्रिणः॑ ॥
अस्य स्वर्दृशः स्वर्गस्य सर्वस्य वा द्रष्टुर्विष्णोः द्वे इत् क्रमणे द्वे एव पदे मर्त्यः मनुष्यः अभिख्याय सर्वभूत्यादिना प्रख्याय भुरण्यति गच्छति भजते। भुरण्यतिः कण्ड्वादिर्गतिकर्मा, ‘भुरण्यति शवति ' (नि. २. १४. १६) इति तत्कर्मसु पाठात् । प्रसिद्धत्वात् भूलोकं वृष्ट्यागमनादन्तरिक्षं चेत्युभे क्रमणे जानाति । अस्य विष्णोः तृतीयं क्रमणं द्युलोकाख्यं कोऽपि मर्त्यः नकिः नैव आ दधर्षति बुद्ध्या नाभिभवति ज्ञातुं न शक्नोतीत्यर्थः । न केवलं मनुष्य एव अपि तु वयश्चन वेतारो मरुतोऽपि । कीदृशास्ते । पतयन्तः सर्वत्र गमनसमर्थाः तथा पतत्रिणः पतनशीला गरुडादयो वायवो वा नकिरा दधर्षति नैव शक्नुवन्ति ॥ धृषेर्लेटि अडागमः ॥ सत्यलोकस्य अत्यन्तविप्रकृष्टत्वेन सर्वेषामविषयत्वादिति भावः ॥
“Man glorifying (Viṣṇu), tracks two steps of that heaven-beholding (deity), but he apprehends not the third; nor can the soaring-winged birds (pursue it).”
A mortal man, when he beholds two steps of him who looks upon the light, is restless with amaze.
But his third step doth no one venture to approach, no, nor the feathered birds of air who fly with wings.
On catching sight of just two strides of him of sunlike appearance, a mortal bestirs himself.
His third no one will dare, not even the winged birds in their flight.
Wenn nur zwei Schritte dieses himmlisch blickenden der Sterbliche beschaut hat, regt er eifrig sich; An seinen dritten waget niemand sich heran, selbst die beschwingten Vögel nicht, die fliegenden.
Zwei seiner, des Sonnenaugigen, Schritte schauend wandelt der Sterbliche. An seinen dritten wagt sich keiner heran, nicht einmal die beschwingten Vögel in ihrem Fluge.
Видя только два шага того,
Кто выглядит, как солнце, мечется смертный.
На его третий никто не отважится (взглянуть),
Даже крылатые птицы в полете.
च॒तुर्भि॑: सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ॑रवीविपत् । बृ॒हच्छ॑रीरो वि॒मिमा॑न॒ ऋक्व॑भि॒र्युवाकु॑मार॒: प्रत्ये॑त्याह॒वम् ॥
च॒तुःऽभिः॑ । सा॒कम् । न॒व॒तिम् । च॒ । नाम॑ऽभिः । च॒क्रम् । न । वृ॒त्तम् । व्यती॑न् । अ॒वी॒वि॒प॒त् । बृ॒हत्ऽश॑रीरः । वि॒ऽमिमा॑नः । ऋक्व॑ऽभिः । युवा॑ । अकु॑मारः । प्रति॑ । ए॒ति॒ । आ॒ऽह॒वम् ॥
अयमादित्यात्मा विष्णुः चतुर्भिः साकं सहितां नवतिं च । चतुर्नवतिमित्यर्थः । एतत्संख्याकान् कालावयवान् नामभिः स्वकीयनमनप्रकारैः प्रेरणविशेषैः वृत्तं यथा भवति तथा व्यतीन् विविधातनस्वभावान् वृत्तं चक्रं न बह्वरोपेतं चक्रमिव तं यथा शत्रोरुपरि प्रक्षेपेण भ्रमयति तद्वदुक्तसंख्याकान् कालावयवान् अवीविपत् कम्पयति भ्रमयति॥ ‘ टुवेपृ कम्पने '। ण्यन्तात् लुङि चङि रूपम् ॥ के पुनस्ते उच्यते । संवत्सर एकः । अयने द्वे। पञ्चर्तवः । द्वादश मासाः । चतुर्विंशत्यर्धमासाः । त्रिंशदहोरात्राः । अष्टौ यामाः । एकस्मिन् दिने पर्यावर्तमानानि मेषादीनि द्वादश लग्नानीति मिलित्वा चतुरधिकनवतिसंख्याकानवीविपत्। नन्वादित्यः स्वयमपि इतरवत्परिभ्रमति कथं भ्रमयति इत्युच्यते । नैष दोषः । एतेषां भ्रामकस्य धुवस्य विष्णोः मूर्त्यंन्तरत्वात्। अथवा स्वभ्रमणाधीनत्वादितरेषां परिभ्रमणस्य अतः स्वयं भ्रमयति इत्युच्यते । एवं कलात्मकः विष्णुः बृहच्छरीरः विराडात्मना सर्वदेवमनुष्यादिशरीराणां स्वशरीरत्वात् । बृहच्छरीरत्वमेवोपपादयति । विमिमानः विविधमात्मानं मिमानो देवतिर्यगात्मना विभज्य स्थापयन् । यद्वा । ऋक्वभिः स्तुतिमद्भिः मन्त्रवद्भिः वा विमिमानः । यद्यपि विभुस्तथापि भक्त्याधीनत्वात् स्तुत्या मीयते । युवा सर्वत्र मिश्रणशीलो नित्यतरुणो वा अत एव अकुमारः अनल्पः एवंभूतो महाविष्णुः आहवम् आह्वानं प्रत्येति गच्छति यज्ञदेशम् ॥ ॥ २५ ॥
“He causes, by his gyrations, ninety and four periodical revolutions, like a circular wheel, vast of body, and evolving in many forms, through the praises (addressed to him); ever young, though not infantine, he comes at our invocations.”
He, like a rounded wheel, hath in swift motion set his ninety racing steeds together with the four.
Developed, vast in form, with those who sing forth praise, a youth, no more a child, he cometh to our call.
With the four times ninety names [=days], he has caused the paired (horses) [=days and nights] to quiver like a wheel set rolling.
Having a lofty body, measuring out (the realms?) with verses, the youth who is no boy returns to the challenge.
Durch vier der Zeiten hat je neunzig Renner er gleich rundem Rad zugleich in schnellem Lauf gesetzt Nicht mehr ein Kind, ein Jüngling geht er hoch an Leib mit Jubelscharen weithinschreitend in den Kampf.
Mit viermal neunzig Namen hat er die Paare in Schwung gebracht wie ein sich drehendes Rad. Von hohem Körper, nach dem Takt der Sänger sich richtend, geht der Jugendliche, der kein Knabe ist, dem Kampf entgegen.
Четырежды девяносто именами
Он привел в трепет конные пары, как вертящееся колесо.
Высокотелый, соразмеряя себя с певцами,
Юноша, не мальчик, идет навстречу вызову.