भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑ति॒र्विभू॑तद्युम्न एव॒या उ॑ स॒प्रथा॑: । अधा॑ ते विष्णो वि॒दुषा॑ चि॒दर्ध्य॒: स्तोमो॑ य॒ज्ञश्च॒ राध्यो॑ ह॒विष्म॑ता ॥
भव॑ । मि॒त्रः । न । शेव्यः॑ । घृ॒तऽआ॑सुतिः । विभू॑तऽद्युम्नः । ए॒व॒ऽयाः । ऊ॒आ॑म् इति॑ । स॒ऽप्रथाः॑ । अध॑ । ते॒ । वि॒ष्णो॒ इति॑ । वि॒दुषा॑ । चि॒त् । अर्ध्यः॑ । स्तोमः॑ । य॒ज्ञः । च॒ । राध्यः॑ । ह॒विष्म॑ता ॥
हे विष्णो मित्रो न । मितेर्दुःखात् त्राता सखा आदित्यो वा मित्रः। ‘प्रमीतेस्त्रायते' (निरु. १०. २१) इति निरुक्तम् । तद्वत् शेव्यः सुखे साधुः सुखकर्ता घृतासुतिः । घृतमुदकम् आसूयते येन स तादृशः । यद्वा । घृतमाज्यमाभिमुख्येन नीयते यस्मै स तादृशः । विभूतद्युम्नः प्रभूतयशाः प्रभूतान्नो वा एवयाः रक्षणस्य मिश्रयिता प्रापयिता । सप्रथाः सर्वतः पृथुः । प्रतिविशेषणं नः भव इति संबन्धः । द्व्यचोऽतस्तिङः ' इति दीर्घः। उ इति पादपूरणः ॥ हे विष्णो त्वं यस्मादीदृशो भवसि अध अस्मात् ते तव स्तोमः स्तोत्रविशेषः विदुषा त्वन्माहात्म्यवेदित्रा यजमानेन अर्ध्यः पुनःपुनः प्रवर्धनार्हः । एकवारकरणे न संपूर्यते इत्यर्थः । तथा ते यज्ञश्च हविष्मता तेन यजमानेन राध्यः समाराधनीयः। यद्वा । विदुषा होत्रा स्तोमो राध्यो हविष्मता यज्ञश्च राध्यः ॥
हे विष्णो! त्वं मित्रो न मित्र इव शेव्यः सुखहेतुर् भव ।
कीदृशस्त्वं? घृतासुतिर् घृतदानो विभूतद्युम्नः प्रभूतधनयुक्त एवया एव एतव्या गन्तव्यदेशस्तत्र गन्ता सप्रथा उ कीर्ति-सहितोऽपि । अधेत्य् अथशब्दार्थः । अनन्तरं हे विष्णो! विदुषा चिद् यष्टुम् अशक्तेन केवल-विद्या-युक्तेनापि ते स्तोम ऋध्यः त्वदीयं स्तोत्रं संपादनीयम् ।
हविष्मतो हविर्-युक्तस्य यष्टुं शक्तस्य यज्ञस्य राध्यो यज्ञेन त्वम् आराधनीयः ।
द्रव्याभावाद् अनुष्ठातुम् अशक्तस्य तज्-जपेनैवानुष्ठान-संपूर्तिः ।
अत एवान्यत्राम्नायते -
> 'यं यं क्रतुम् अधीते
तेन तेनास्येष्टं भवति' इति ।
स्मृतिरपि-
> जप्येनैव तु संसिध्येद्
ब्राह्मणो नात्र संशयः ।
कुर्याद् अन्यन् न वा कुर्यान्
मैत्रो ब्राह्मण उच्यते ॥
इति ॥
“Be (to us), Viṣṇu, like a friend, the giver of happiness, the acepter of oblations, abounding with food, the granter of protection, and every way accessible; on which account your praise is to be repeatedly recited by the wise, and your worship to be celebrated by the offerer of oblations.”
FAR-SHINING, widely famed, going thy wonted way, fed with the oil, be helpful. Mitra-like, to us.
So, Visnu, e'en the wise must swell thy song of praise, and he who hath oblations pay thee solemn rites.
Become kindly like an ally [/Mitra]—you with ghee as your drink, traveling your ways, extensive and having far-reaching brilliance.
Then for you, o Viṣṇu, praise can be brought to success only by one who knows, and sacrifice can be made to succeed by one who offers an
oblation.
Sei, fettgetränkter, du wie Mitra heilvoll uns, glanzreicher, grosser, gehend den gewohnten Gang, Dann ist dir, Vischnu, Lobgesang vom kundigen zu bringen und das Opfer von dem Opferer.
Sei freundlich wie Mitra, der sich am Schmalz stärkt, du von reichem Glanze, rasch gehend, weitbekannt! Dann soll dir, Vishnu, ein Loblied, wie es nur der Kundige richtig treffen kann, und ein Opfer von dem Opferspender zur Zufriedenheit gemacht werden.
Будь дружелюбен, как Митра, чей выжатый напиток - жир,
(Ты,) обладающий ярким блеском, быстро идущий и далеко распространяющийся!
Вот для тебя, о Вишну, восхваление, (сложенное) знатоком,
Приводящее к успеху, и жертва, (принесенная) тем, у кого есть жертвенное возлияние, сулящее успех.
यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति । यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो॑भि॒र्युज्यं॑ चिद॒भ्य॑सत् ॥
यः । पू॒र्व्याय॑ । वे॒धसे॑ । नवी॑यसे । सु॒मत्ऽजा॑नये । विष्ण॑वे । ददा॑शति । यः । जा॒तम् । अ॒स्य॒ । म॒ह॒तः । महि॑ । ब्रव॑त् । सः । इत् । ऊँ॒ इति॑ । श्रवः॑ऽभिः । युज्य॑म् । चि॒त् । अ॒भि । अ॒स॒त् ॥
यः यो मर्त्यः पूर्व्याय पूर्वकालीनाय नित्यायेत्यर्थः । वेधसे विविधजगत्कर्त्रे नवीयसे नित्यनूतनाय अत्यन्तरमणीयायेत्यर्थः । स्तुत्याय वा सुमज्जानये स्वयमेवोत्पन्नाय ॥ जनेरौणादिक इण् ॥ ‘ सुमत्स्वयमित्यर्थः' (निरु. ६. २२) इति यास्कः । यद्वा । सुतरां मादयतीति सुमत्। तादृशी जाया यस्य स तथोक्तः । तस्मै सर्वजगन्मादनशीलश्रीपतये इत्यर्थः ॥ बहुव्रीहौ ‘जायाया निङ्' (पा. सू. ५. ४. १३४ ) इति निङादेशः समासान्तः । वलि लोपः ॥ उक्तगुणकाय विष्णवे व्यापकाय ददाशति हविरादिकं ददाति । किंच अस्य विष्णोः महतः महानुभावस्य महि महत् पूज्यं जातं जन्म उत्पतिं हिरण्यगर्भादिरूपं जन्म ब्रवत् ब्रूयात् ॥ ब्रवीतेर्लेटि अडागमः ॥ संकीर्तयेत्। सेदु । उशब्दोऽपिशब्दार्थः । सोऽपि दाता स्तोता च श्रवोभिः अन्नैः कीर्तिभिर्वा युक्तः सन् युज्यं चित सर्वैर्गन्तव्यमेव तत्पदम् अभि आभिमुख्येन असत् गच्छति प्राप्नोति ॥
_
यः पुमान्विष्णवे ददाशति हविर्ददाति । कीदृशाय विष्णवे? पूर्व्याय जगतः पूर्वमेव भवाय वेधसे जगतो विधात्रे नवीयसे रामकृष्णाद्यवतारैरत्यन्तं नूतनाय सुमज्जानये सुष्ठु माद्यन्ती हृष्यन्ती लक्ष्म्याख्या जाया यस्यासौ सुमज्जानिस्तस्मै । यश्चान्यः पुरुषोऽस्य महतो विष्णोर्जातं रामकृष्णादिजन्मविशेषं महि ब्रवात् महत्त्वेन सर्वदा ब्रवीति । सेदुः स एवोभयविधः पुमान्, श्रवोभिः श्रवणीयैर् हविर्दानमन्त्रैः स्तोत्रविशेषैश् च युज्यं चित् सर्वदा स्वेन युक्तम् अपि काम-क्रोध-लोभ-रूपं शत्रुम् अभ्यसद् अभितो निरस्यति । अत एव स्मर्यते -
> त्रिविधं नरकस्यैतत्
द्वारं नाशनम् आत्मनः ।
कामः क्रोधस् तथा लोभस्
तस्माद् एतत् त्रयं त्यजेत् ॥
इति ॥
“He who presents (offerings) to Viṣṇu, the ancient, the creator, the recent, the self-born; he who celebrates the great birth of that mighty one; he verily possessed of abundance, attains (the station) that is to be sought (by all).”
He who brings gifts to him the Ancient and the Last, to Visnu who ordains, together with his Spouse,
Who tells the lofty birth of him the Lofty One, shall verily surpass in glory e'en his peer.
Whoever will do service to the ancient ritual expert and to the newer one, to Viṣṇu together with the Wives (of the Gods),
who will speak of his birth, the great birth of the great one, just he will surpass in renown even his yokefellow.334 I.157
Wer ihm, dem alten Ordner und dem neusten auch, dem Vischnu sammt der Gattin seinen Dienst erweist, Und wer des Hohen hohen Ursprung kündiget, der überragt den ebenbürt'gen auch an Ruhm.
Wer gegen den allerersten und neuesten Meister Vishnu, dem die Frauen gut sind, freigebig ist, wer seine, des Hohen, hohen Ursprung verkündet, der soll an Ruhm selbst den Ebenbürtigen übertreffen.
Кто почитает Вишну, устроителя (обряда),
Древнего и более нового (бога) вместе с женами,
Кто провозгласит великое рожденье его, великого,
Тот превзойдет славою даже того, кто имеет союзника.
तमु॑ स्तोतारः पू॒र्व्यं यथा॑ वि॒द ऋ॒तस्य॒ गर्भं॑ ज॒नुषा॑ पिपर्तन । आस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन म॒हस्ते॑ विष्णो सुम॒तिं भ॑जामहे ॥
तम् । ऊँ॒ इति॑ । स्तो॒ता॒रः॒ । पू॒र्व्यम् । यथा॑ । वि॒द । ऋ॒तस्य॑ । गर्भ॑म् । ज॒नुषा॑ । पि॒प॒र्त॒न॒ । आ अ॒स्य॒ । जा॒नन्तः॑ । नाम॑ । चि॒त् । वि॒व॒क्त॒न॒ । म॒हः । ते॒ । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । भ॒जा॒म॒हे॒ ॥
हे स्तोतारः तमु तमेव विष्णुं पूर्व्यं पूर्वार्हम् अनादिसंसिद्धम् ऋतस्य गर्भं यज्ञस्य गर्भभूतं यज्ञात्मनोत्पन्नमित्यर्थः । यज्ञो वै विष्णुः '(श. ब्रा. १. १. २. १३) इति श्रुतेः । यद्वा । ऋतस्योदकस्य गर्भं गर्भकारणम् उदकोत्पादकमित्यर्थः । ‘ अप एव ससर्जादौ' (मनु. १.८) इति स्मृतेः । एवंभूतं विष्णुं यथा विद जानीथ तथा जनुषा जन्मना स्वत एव न केनचिद्वरलाभादिना पिपर्तन स्तोत्रादिना प्रीणयत यावदस्य माहात्म्यं जानीथ तावदित्यर्थः ॥ विदेर्लटि मध्यमबहुवचनम् । ' विद ऋतस्य ' इत्यत्र संहितायाम् ‘ ऋत्यकः' इति प्रकृतिभावः ॥ किंच अस्य महानुभावस्य विष्णोः नाम चित् सर्वैर्नमनीयमभिधानं सार्वात्म्यप्रतिपादकं विष्णुरित्येतन्नाम जानन्तः पुरुषार्थप्रदमित्यधिगच्छन्तः आ समन्तात् विवक्तन वदत संकीर्तयत । यद्वा । नाम यज्ञात्मना नमनं विष्णोरेव सर्वेषां स्वर्गापवर्गसाधनाय इष्ट्याद्यात्मना द्रव्यदेवतात्मना वा परिणामम् आ जानन्तो यूयं विवक्तन ब्रूत स्तुत ॥ वचेर्लोटि छान्दसः शपः श्लुः । बहुलं छन्दसि' इति अभ्यासस्य इत्वम् । पूर्ववत् तनादेशः ॥ इदानीं साक्षात्कृत्याह । हे विष्णो सर्वात्मक देव महः महतः ते तव सुमतिं सुष्टुतिं शोभात्मिकां बुद्धिं वा भजामहे सेवामहे वयं यजमानाः ॥
“Hymners, propitiate of your own accord that ancient Viṣṇu, since you know him as the germ of sacrifice, cognizant of his greatness, celebrate his name; may we, Viṣṇu, enjoy your favour.”
Him have ye satisfied, singers, as well as ye know, primeval gem of Order even from his birth.
Ye, knowing e'en his name, have told it forth: may we, Visnu, enjoy the grace of thee the Mighty One.
You praisers, carry him to term in the way that is known—the ancient one who is by birth the embryo of truth.
Recognizing him, announce his very names. Let us share in the favor of you who are great, o Viṣṇu.
Und ihn, o Sänger, der von Alters her besteht, den Spross des Rechts beschenket nun nach seiner Art; Die ihr ihn kennt, verkündet seinen Namen auch, uns wird zu Theil, o grosser Vischnu, deine Gunst.
Ihn heget, ihr Sänger, der, wie ihr wisset, der Geburt nach der allererste Sproß des Gesetzes ist! Sprechet kundig seinen Namen aus! Wir wollen, o Vishnu, deines, des Großen, Wohlwollens teilhaftig werden.
Его одаряйте, о певцы: (он,) как вы знаете,
По рождению – древний отпрыск (вселенского) закона!
Зная его имена, объявите (их)!
Мы хотим вкусить милости у тебя, великого.
तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं॑ सचन्त॒ मारु॑तस्य वे॒धस॑: । दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं॑ व्र॒जं च॒ विष्णु॒: सखि॑वाँ अपोर्णु॒ते ॥
तम् । अ॒स्य॒ । राजा॑ । वरु॑णः । तम् । अ॒श्विना॑ । क्रतु॑म् । स॒च॒न्त॒ । मारु॑तस्य । वे॒धसः॑ । दा॒धार॑ । दक्ष॑म् । उ॒त्ऽत॒मम् । अ॒हः॒ऽविद॑म् । व्र्ज॒म् । च॒ । विष्णुः॑ । सखि॑ऽवान् । अ॒प॒ऽऊ॒र्णु॒ते ॥
मारुतस्य । मरुतामृत्विजां संघातः मारुतम् । तद्वतः ॥ मत्वर्थो लुप्यते ॥ मरुतां देवानां संबन्धिनो वा वेधसः मेधाविनः अस्य यजमानस्य तं प्रसिद्धं क्रतुं याग यज्ञात्मकं विष्णुम्। यज्ञो वै विष्णुः' इति श्रुतेः । राजा राजमानः वरुणः सचन्त सेवते । तम् एवं क्रतुं यागम् अश्विना अश्विनी सचेते। अन्येऽपि देवाः सचन्ते सेवन्ते । किंच विष्णुः सवनत्रयात्मना व्याप्तो विष्णुः सखिवान् यजमानादिसखिभिर्युक्तः सन् उत्तमम् उत्कृष्टतमम् अहर्विदम् अहर्वेत्तारं स्वर्गोत्पादकमित्यर्थः। दक्षं बलं फलप्रदानसामर्थ्यरूपं दाधार धृतवान् । किंच व्रजं च मेघं च । व्रज इति मेघनाम, ‘व्रजः चरुः' (नि. १. १०. ११) इति तन्नामसु पाठात् । तं वृष्ट्युदकाय अपोर्णुते अपगतावरणं करोति । आहुतिद्वारा यज्ञस्यैव वृष्ट्युत्पादकत्वात् । यद्वा । मारुतस्य मरुत्संघातस्य देवगणस्य वेधसो विधातुः स्रष्टुर्विष्णोः क्रतुं कर्म पालनादिरूपं वरुणादयः सचन्ते । तदधीनत्वात् पालनस्य। स च सखिवान् इन्द्रमरुदादिसहायोपेतः सन् उक्तलक्षणं दक्षं वृष्ट्युत्पादनादिसामर्थ्यरूपं बलं दाधार तथा व्रजं चापोर्णुते ॥
“The royal Varuṇa associates (himself) with the sacrifice of the pious worshipper, assisted by the company of the priests; the Aśvins (unite with it); Viṣṇu, with his friend (Indra), possesses supreme heaven-conferring power, and sits upon the clouds.”
The Sovran Varuna and both the Asvins wait on this the will of him who guides the Marut host.
Visnu hath power supreme and might that finds the day, and with his Friend unbars the stable of the kine.
That resolve of his does king Varuṇa follows, that do the Aśvins, the resolve of the ritual expert associated with the Maruts.
Viṣṇu upholds the highest skill that knows the days, when with his
comrade(s) he opens up the pen.
Es folgte seinem Willen König Varuna, die Ritter und die Führer auch der Marutschar; Die höchste Kraft, die Licht verschafft, besitzet er, Vischnu erschliesst mit seinem Freund der Kühe Stall.
Diesem seinem Ratschluß, des Meisters der marutischen Schar, folgen König Varuna, ihm die Asvin. Er besitzt höchsten Verstand, der den richtigen Tag ausfindig macht, wenn Vishnu in Begleitung des Freundes den Rinderpferch aufschließt.
Этой силе духа его, связанного с Марутами, устроителя (обряда),
Следует царь Варуна, ей (следуют) Ашвины.
Он обладает высшей силой действия, находящей день,
Когда Вишну вместе с другом открывает загон (с коровами).
आ यो वि॒वाय॑ स॒चथा॑य॒ दैव्य॒ इन्द्रा॑य॒ विष्णु॑: सु॒कृते॑ सु॒कृत्त॑रः । वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ॥
आ । यः । वि॒वाय॑ । स॒चथा॑य । दैव्यः॑ । इन्द्रा॑य । विष्णुः॑ । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः । वे॒धाः । अ॒जि॒न्व॒त् । त्रि॒ऽस॒ध॒स्थः । आर्य॑म् । ऋ॒तस्य॑ । भा॒गे । यज॑मान॑म् । आ । अ॒भ॒ज॒त् ॥
यः विष्णुः दैव्यः दिवि भवः सुकृत्तरः शोभनफलप्रदानां मध्ये श्रेष्ठः आ विवाय आगच्छति ॥ वेतेर्लिटि रूपम् । किमर्थम् । सचथाय सचनाय यागसहायकरणाय। कस्मै । इन्द्राय। इरां हविर्लक्षणान्नं द्रावयतीतीन्द्रो यजमानः। ‘ इन्द्र इरां दृणातीति इदंकरणादित्याग्रायणः ( निरु. १०, ८) इति यास्केनोक्तनिर्वचनस्यात्रापि सद्भावात् ॥ तस्मै उक्तरूपाय यजमानाय सुकृते शोभनस्तुतिकर्त्रे । आगत्य च वेधाः अभिमतफलविधाता त्रिषधस्थः त्रिसंख्योपेतसहस्थानवान् । सवनत्रयस्थानः क्षित्यादिस्थानत्रयो वा विष्णुः । आर्यम् आगन्तव्यं यजमानम् अजिन्वत् प्रीणयति ॥ जिवि प्रीणनार्थः । इदित्वात् नुम् ॥ तदर्थम् ऋतस्य यज्ञस्य भागे हुतशेषरूपे तं यजमानम् आभजत भजति समीपयतीत्यर्थः। यद्वा । ऋतस्य यज्ञस्य भागे फले यजमानम् आभिजत् स्वामित्वेन स्थापयति ॥ ॥ २६ ॥ ॥ २१ ॥
“The divine Viṣṇu, the best of the doers of good deeds, who came to the pious instrumental tutor of the rite, to assist (at its celebration), knowing (the desire of the worshipper), and present at the three connected periods (of worship), shows favour to te Arya, and admits the author if the ceremony to a share of the sacrifice.”
Even he the Heavenly One who came for fellowship, Visnu to Indra, godly to the godlier,
Who Maker, throned in three worlds, helps the Aryan man, and gives the worshipper his share of Holy Law.
The divine one, Viṣṇu, who sought for Indra to accompany him, sought for the one of good action as the one who acts (even) better,
the ritual expert, possessing the three seats, he enlivened the Ārya. He apportioned to the sacrificer a portion of truth.
Der göttliche, der zur Genossenschaft erschien dem treuen Indra-Vischnu, der noch treuere Der dreifach thront, beförderte den Arier, der Ordner gab des Opfers Theil dem opfernden.
Der göttliche Vishnu. Der dem Wohltäter Indra als größter Wohltäter zur Gefolgschaft sich anschloß, der Meister, der drei Wohnsitze hat, er hat den Arier gestärkt. Er gab dem Opfernden Anteil an dem Genuß des Gesetzes.
Божественный Вишну, который поспешил сопровождать
Индру – благодетеля как еще больший благодетель,
Устроитель обряда, имеющий три жилища, придал жизни арию,
Он выделил жертвователю долю во (вселенском) законе.