अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु१॒॑षाश्च॒न्द्रा म॒ह्या॑वो अ॒र्चिषा॑ । आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ॥
अबो॑धि । अ॒ग्निः । ज्मः । उत् । ए॒ति॒ । सूर्यः॑ । वि । उ॒षाः । च॒न्द्रा । म॒ही । आ॒वः॒ । अ॒र्चिषा॑ । अयु॑क्षाताम् । अ॒श्विना॑ । यात॑वे । रथ॑म् । प्र । अ॒सा॒वी॒त् । दे॒वः । स॒वि॒ता । जग॑त् । पृथ॑क् ॥
अयम् अग्निः विहितः सन् ज्मः ज्मायाः पृथिव्या वेदिलक्षणायाः संबन्धी सन् अबोधि प्रतिबोधितः । ज्मेति पृथिवीनाम, ‘ग्मा ज्मा' (नि. १.१.३) इति तन्नामसूक्तत्वात् । किंच सूर्यः उदेति । मही महती उषाः अर्चिषा प्रकृष्टेन तेजसा चन्द्रा प्राणिनाम् आह्लादिनी सती वि आवः तमांसि विवासयति ॥ वसेर्लुङि' छान्दुसः च्लेर्लुक्। 'छन्दस्यपि दृश्यते' इति आडागमः ॥ यतः इयमुषा उदेति यतश्च सूर्यो यतश्चायमग्निः प्रबुद्धो भवति अतः कारणात् हे अश्विनौ युष्मत्संबन्धिनं रथं यातवे देवयजनगमनाय रासभाभ्याम् आयुक्षाताम् आभिमुख्येन युञ्जाथाम् । तथा सविता सर्वकर्मणोऽनुज्ञाता देवः जगत् जङ्गमं प्राणिजातं पृथक् स्वस्वकर्मानुरोधेन प्रासावीत् प्रसौतु अनुजानातु ॥
“Agni is awakened upon earth; the Sun rises; the spreading dawn, exhilarating (all) by her radiance, has dispersed (the darkness); harness, (therefore), Aśvins your chariot, to come (to the sacrifice), that the divine Savitā may animate allbeings to (the performance of) their several (duties).”
AGNI is wakened: Surya riseth from the earth. Mighty, refulgent Dawn hath shone with all her light.
The Asvins have equipped their chariot for the course. God Savitar hath moved the folk in sundry ways.
Agni has awakened; the Sun rises from the earth; great, glowing Dawn has dawned widely with her ray of light.
The Aśvins have harnessed their chariot to make their journey. The god Savitar has spurred the living world in all directions.
Erwacht ist Agni, und die Sonne steigt empor, die Morgenhelle hat durch Licht die Welt enthüllt, Schon ist der Ritter Wagen zu der Fahrt geschirrt, Gott Savitar hat hier und dort das Volk erweckt.
Agni ist erwacht, die Sonne steigt von der Erde empor; die schimmernde große Usas ist mit ihrem Strahl aufgeleuchtet. Die Asvin haben zur Fahrt ihren Wagen angeschirrt; Gott Savitri hat alles, was lebt, jeden einzelnen herausgetrieben.
Пробудился Агни. С земли поднимается солнце.
Великая яркая Ушас засветилась пламенем.
Ашвины запрягли колесницу, чтобы ехать.
Бог Савитар побудил к жизни каждое движущееся существо.
यद्यु॒ञ्जाथे॒ वृष॑णमश्विना॒ रथं॑ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतम् । अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ॥
यत् । यु॒ञ्जाथे॒ इति॑ । वृष॑णम् । अ॒श्वि॒ना॒ । रथ॑म् । घृ॒तेन॑ । नः॒ । मधु॑ना । क्ष॒त्रम् । उ॒क्ष॒त॒म् । अ॒स्माक॑म् । ब्रह्म॑ । पृत॑नासु । जि॒न्व॒त॒म् । व॒यम् । धना॑ । शूर॑ऽसाता । भ॒जे॒म॒हि॒ ॥
हे अश्विना अश्विनौ यत् यदा वृषणं वृष्ट्यादिवर्षकं रथं युञ्जाथे योजयथः तदा नः क्षत्रम् अस्मदीयं बलं क्षत्रियजातं वा घृतेन उदकेन मधुना मधुरेण उक्षतं प्रवर्धयतमित्यर्थः। यद्वा। घृतेन क्षरणरूपेण मधुना मधुरेण अमृतेनोक्षतं युष्मद्रथस्थेन मधुना अस्मदीयं बलं प्रवर्धयतमित्यर्थः । अश्विनोः रथस्य मधुपूर्णत्वं मधुवाहनो रथः' इत्यादिषु प्रसिद्धम् । किंच अस्माकं पृतनासु अस्मदीयासु पुत्रभृत्यादिमनुष्यरूपासु प्रजासु ब्रह्म ब्राह्मं तेजः जिन्वतम् । पृतना इति मनुष्यनाम, ‘ विवस्वन्तः पृतनाः' (नि. २. ३. २५) इति तन्नामसूक्तत्वात् । यद्वा । पृतनासु परकीयासु प्रजासु ब्रह्म तासां परिवृढमन्नमस्माकं जिन्वतं प्रीणयतम् । ब्रह्म इति अन्ननाम, ब्रह्म वर्चः' (नि. २. ७. २५) इति तन्नामसूक्तत्वात् । वयं च शूरसाता शूरसातौ शूराणां प्रहारादिना युक्ते संग्रामे धना तदीयानि धनानि बहुविधानि भजेमहि लभेमहि ।
“When, Aśvins, you harness your bounty-shedding chariot, refresh our strength with trickling honey; bestow (abundant) food upon our people; may we acquire riches in the strife of heroes.”
When, Asvins, ye equip your very mighty car, bedew, ye Twain, our power with honey and with oil.
To our devotion give victorious strength in war: may we win riches in the heroes' strife for spoil.
When you harness the bull that is your chariot, Aśvins, then increase [/sprinkle] our dominion with ghee and honey!
Enliven our sacred formulation in the contests! We would share the riches in the heroes’ victory.
Wenn, Ritter, euren starken Wagen ihr bespannt, so netzt mit süsser Butter unser Machtgebiet, Und unsern Bitten gebt Erfolg in jeder Schlacht, wo Helden siegen werde Beute uns zu Theil.
Wenn ihr Asvin euren bullenhaften Wagen schirret, so netzet unsere Herrschaft mit Schmalz und Honig! Stärket unsere Geistlichkeit in den Kämpfen! Wir wollen in dem Wettstreit der Siegerpreise teilhaftig werden.
Когда вы запрягаете, о Ашвины, (вашу) мужественную колесницу
Окропите жиром (и) медом нашу власть!
Вдохните жизнь в наше священное слово во время битв!
Мы хотим получить награды в битве героев!
अ॒र्वाङ्त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो॑ जी॒राश्वो॑ अ॒श्विनो॑र्यातु॒ सुष्टु॑तः । त्रि॒व॒न्धु॒रो म॒घवा॑ वि॒श्वसौ॑भग॒: शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ॥
अ॒र्वाङ् । त्रि॒ऽच॒क्रः । म॒धु॒ऽवाह॑नः । रथः॑ । जी॒रऽअ॑श्वः । अ॒श्विनोः॑ । या॒तु॒ । सुऽस्तु॑तः । त्रि॒ऽव॒न्धु॒रः । म॒घऽवा॑ । वि॒श्वऽसौ॑भगः । शम् । नः॒ । आ । व॒क्ष॒त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ॥
अश्विनोः रथः अर्वाङ् अस्मदभिमुखः यातु गच्छतु । कीदृशः । त्रिचक्रः चक्रत्रययुक्तः मधुवाहनः मधुवोढा जीराश्वः शीघ्रगाम्यश्वोपेतः सुष्टुतः अत एवास्माभिः स्तूयमानः त्रिवन्धुरः निम्नोन्नतकाष्ठत्रयोपेतः । सारथ्याश्रयस्थानं वन्धुरम् । मघवा धनवान् अत एव विश्वसौभगः सर्वसौभाग्योपेतः । ईदृशोऽश्विनोः रथः नः अस्माकं द्विपदे पुत्रादिप्रजायै चतुष्पदे पशवे च शं सुखम् आ वक्षत् आवहतु ॥ वहेर्लेटि अडागमः । सिप् ॥
“May the three-wheeled car of the Aśvins, drawn by swift horses, laden with honey, three-canopied, filled with treasure, and every way auspicious, come to our presence, and bring prosperity to our people and our cattle.”
Nigh to us come the Asvins' lauded three-wheeled car, the car laden with meath and drawn by fleet-foot steeds,
Three-seated, opulent, bestowing all delight. may it bring weal to us, to cattle and to men.
Let the three-wheeled, honey-bearing chariot of the Aśvins with its swift horses, which is well-praised, journey near.
With its three chariot boxes, the generous (chariot), bringing all good shares, will carry good fortune here to both the two-footed and
four-footed.
Mit raschen Rossen komm der Ritter Wagen her, der auf drei Rädern, hochgepriesen, Süsses bringt, Und in drei Sitzen reichlich allen Segen birgt, er fahre Glück dem Menschen und dem Vieh herbei.
Näher soll der dreirädrige Wagen der Asvin, der Honig führt, mit den raschen Rossen, schönbesungen kommen. Der dreisitzige, gabenreiche, der alle Glücksgüter hat, bringe unseren Zweifüßlern und Vierfüßlern Heil.
Пусть приедет сюда прекрасно восхваленная трехколесная
Везущая мед быстроконная колесница Ашвинов!
С тремя сиденьями, щедрая, дающая все наслаждения
Да привезет она нам счастье для двуногого (и) четвероногого!
आ न॒ ऊर्जं॑ वहतमश्विना यु॒वं मधु॑मत्या न॒: कश॑या मिमिक्षतम् । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥
आ । नः॒ । ऊर्ज॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मधु॑ऽमत्या । नः॒ । कश॑या । मि॒मि॒क्ष॒त॒म् । प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒ऽभुवा॑ ॥
हे अश्विना अश्विनौ युवं युवां नः अस्माकम् ऊर्जं बलं प्राणनसमर्थमन्नं वा आ वहतं प्रापयतम् । किंच नः अस्मान् मधुमत्या माधुर्योपेतया कशया वाचा इष्टप्रदानरूपया मिमिक्षतं सिञ्चतं प्रीणयतम् । कशा इति वाङ्नाम, कशा धिषणा ' (नि. १.११.४३) इति तन्नामसूक्तत्वात। यद्वा । मधुमत्या मधुरवृष्टिमत्या माधुर्योपेतया कशया अश्वताडन्या नोऽस्मान् मिमिक्षतम् । मधु इति उदकनाम, ‘मधु पुरीषम् ' (नि. १. १२. ११ ) इति तन्नामसूक्तत्वात् । कशया अश्वताडनेन शीघ्रमागत्य वृष्टिरूपं फलं दास्यतः इति कशाया मधुमत्त्वम् । किंच आयुः आयुष्यं प्र तारिष्टं प्रवर्धयतम् ॥ प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ तथा रपांसि मृक्षतं पापानि निःशेषेण शोधयतम् । ‘रपो रिप्रमिति पापनामनी भवतः ' (निरु. ४.२१) इति यास्कः । किंच द्वेषः द्वेष्यममित्रादिकं सेधतं नाशयतम् । इदं च भाव्यम् । सचाभुवा सहभुवौ अस्मत्कार्येषु सहभवनवन्तौ भवतं भवन्तौ ऐकमत्यं भजत इत्यर्थः॥ वाक्यभेदादिनिघातः ॥
“Bring us, Aśvins, vigour; animate us with your honied speech; prolong our existence; wipe away our sins; destroy our foes; be ever our associates.”
Bring hither nourishment for us, ye Asvins Twain; sprinkle us with your whip that drops with honey-dew.
Prolong our days of life, wipe out our trespasses; destroy our foes, be our companions and our Friends.
Carry nourishment to us, Aśvins, and mix us with your honeyed whip. Extend our lifetime, wipe away our diseases, repel hatred, and be
companions to us.
Ihr Ritter beide, fahret Nahrung uns herbei, besprengt uns mit der Peitsche, die von Honig trieft; Dehnt aus das Leben, und die Schäden wischet ab; vertilgt den Feind und seid mit eurer Huld uns nah.
Bringet uns, ihr Asvin, Stärkung, berührt uns mit der honighaltigen Peitsche, verlängert das Leben, streifet die Leibesschäden ab, wehret der Feindschaft, seid uns Beisteher!
О Ашвины, привезите вы нам подкрепляющую силу,
Окропите нас медовым кнутом,
Продлите срок жизни, сотрите телесные повреждения,
Отвратите враждебность, будьте (нашими) товарищами!
यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ॑रश्विना॒वैर॑येथाम् ॥
यु॒वम् । ह॒ । गर्भ॑म् । जग॑तीषु । ध॒त्थः॒ । यु॒वम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ । यु॒वम् । अ॒ग्निम् । च॒ । वृ॒ष॒णौ॒ । अ॒पः । च॒ । वन॒स्पती॑न् । अ॒श्वि॒नौ॒ । ऐर॑येथाम् ॥
हे अश्विनौ युवं ह युवां खलु जगतीषु अन्तः गमनशीलासु गोषु मध्ये गर्भं धत्थः धारयथः । न केवलं गोष्वेव अपि तु युवं युवां विश्वेषु सर्वेषु भुवनेषु भूतजातेष्वन्तर्मध्ये गर्भं धत्थः । वृष्टिद्वारा आमिषरूपत्वेन गर्भस्थरेतसः पोषकत्वात् । किंच हे वृषणौ कामानां वर्षितारौ युवं युवाम् अग्निं च अपश्च वनस्पतीन् च ऐरयेथां प्रवर्तयेथाम् । आहुतिभोगायाग्निं स्वीकृत्य च वृष्ट्युदकानि उदकैः ओषधिवनस्पत्यादिकम् एतान्यस्मदर्थं प्रैरयेथाम् ॥
“You, Aśvins, sustain the germ in all moving creatures; you are in the interior of all beings; do you, showerers of benefits, supply (for our own use) fire and water and the trees of the forest.”
Ye store the germ of life in female creatures, ye lay it up within all living beings.
Ye have sent forth, O Asvins passing mighty, the fire, the sovrans of the wood, the waters,
You place the embryo in the females of moving beings; you place it within all living things.
You, o bulls, have sent fire and water here into the trees, Aśvins.
Ihr legt die Frucht in weibliche Geschöpfe, ihr setztet sie ins Innre aller Wesen; Ihr beiden Stiere triebt hervor das Feuer, o Ritter, ihr die Wasser und die Bäume.
Ihr leget den Keim in die weiblichen Tiere, ihr in alle Wesen. Ihr triebt das Feuer und die Wasser, ihr Bullen, ihr Asvin die Bäume hervor.
Ведь это вы влагаете плод в самок,
Вы-во все существа!
О быки-Ашвины, вы вызываете к жизни
Огонь и воды, и лесные деревья.
यु॒वं ह॑ स्थो भि॒षजा॑ भेष॒जेभि॒रथो॑ ह स्थो र॒थ्या॒३॒॑ राथ्ये॑भिः । अथो॑ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां॑ ह॒विष्मा॒न्मन॑सा द॒दाश॑ ॥
यु॒वम् । ह॒ । स्थः॒ । भि॒षजा॑ । भे॒ष॒जेभिः॑ । अथो॒ इति॑ । ह॒ । स्थः॒ । र॒थ्या॑ । रथ्ये॑भि॒रिति॒ रथ्ये॑भिः । अथो॒ इति॑ । ह॒ । क्ष॒त्रम् । अधि॑ । ध॒त्थ॒ । उ॒ग्रा॒ । यः । वा॒म् । ह॒विष्मा॑न् । मन॑सा । द॒दाश॑ ॥
हे अश्विनौ युवं युवां ह खलु भेषजेभिः भेषजैरौषधैः।' भेषजौषधभैषज्यान्यगदो जायुः ‘अगदं तत्रौषधम् ' इति चाभिधानात् । तैः भिषजा भिषजौ स्थः। हशब्दः ‘अश्विनौ हि देवानां भिषजौ' इत्यादिप्रसिद्धिद्योतनार्थः । अथो अपि च रथ्येभिः रथवोढृभिरश्वैः रथ्या रथवन्तौ स्थः । ‘ आ वां रथो अश्विना' ( ऋ. सं. १. ११८. १) इत्यादिप्रसिद्धिद्योतनार्थो हशब्दः । अनयोः रथेन विशेषसंबन्धः युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति' (ऋ. सं. १. ३४. १०) इत्यादिमन्त्रान्तरेषु प्रसिद्धः । अथो अपि च युवयोः क्षत्रं बलम् अधि ह अधिकं खलु । हशब्दः प्रसिद्धौ । यस्मादेवं तस्मात् हे उग्रा उद्गूर्णसामर्थ्यावश्विनौ वां युवाभ्यां यः हविष्मान् आज्यपुरोडाशादिहविर्युक्तो यजमानः मनसा युष्मदायत्तेन चेतसा ददाश ददाति हविरादिकं तं धत्थः धारयथः अत्यधिकमनुगृह्णीथ इत्यर्थः। प्रभूतबलौ युवां रथमारुह्य अस्मद्देवयजनमागत्य हविष्प्रदं मां धृत्वा अस्मद्यज्ञे अस्मान्विचिकित्सतमिति तात्पर्यार्थः ॥ ॥ २७ ॥
“You two are physicians, (conversant) with (all) medicaments; you ride in a chariot (drawn by) well-trained steeds; therefore, mighty (divinities), resolutely uphold (the worshipper), who, with a mind (devoted to you), offers you oblations.”
Leeches are ye with medicines to heal us, and charioteers are ye with skill in driving.
Ye Strong, give sway to him who brings oblation and with his heart pours out his gift before you.
You are healers through your healing remedies, and you are also charioteers through the parts of your chariot.
And again, o powerful ones, you set dominion upon him who ritually serves with his oblation and by his thought.
Ihr seid's, die ihr mit Arzeneien heilet, und die mit Lenkerkunst ihr Wagen lenket, Drum schenket ihr, gewaltige, auch Herrschaft dem, der mit Opfer euch von Herzen huldigt.
Ihr beide seid ja die Ärzte mit euren Arzneien, und ihr seid die Wagenfahrer mit euren Wagenkünsten. Und ihr Gewaltige verleihet die Herrschaft dem, der euch opfernd von Herzen gespendet hat.
Ведь вы – два целителя с целебными средствами
И два колесничих со всем, что связано с колесницей.
И вы, о два грозных (бога), наделяете властью того,
Кто, имея жертвенное возлияние, от души вас почтил.