वसू॑ रु॒द्रा पु॑रु॒मन्तू॑ वृ॒धन्ता॑ दश॒स्यतं॑ नो वृषणाव॒भिष्टौ॑ । दस्रा॑ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ॥
वसी॒ इति॑ । रु॒द्रा । पु॒रु॒मन्तू॒ इति॑ पु॒रु॒ऽमन्तू॑ । वृ॒धन्ता॑ । द॒श॒स्यत॑म् । नः॒ । वृ॒ष॒णौ॒ । अ॒भिष्टौ॑ । दस्रा॑ । ह॒ । यत् । रेक्णः॑ । औ॒च॒थ्यः । वा॒म् । प्र । यत् । स॒स्राथे॒ इति॑ । अक॑वाभिः । ऊ॒ती ॥
हे वृषणौ कामानां वर्षितारौ दस्रा अस्मद्विरोध्युपक्षपयितारौ हे अश्विनौ युवां नः अस्मभ्यं दशस्यतं दत्तं दित्सितं फलम् । कीदृशौ युवाम् । वसू वासयितारौ प्रजानाम् । वसुना धनेन तद्वन्तौ वा ॥ मत्वर्थो लुप्यते ॥ रुद्रा रुद्रौ । रुद्दुःखं तद्धेतुभूतं पापं वा । तस्य द्रावयितारौ । संग्रामे भयंकरं शब्दयन्तौ वा । रुद्रो रौतीति सतः ' (निरु. १०. ५) इति यास्कः । पुरुमन्तू बहूनां ज्ञातारौ ॥ मनेरौणादिकः तुन्प्रत्ययः ॥ वृधन्ता वर्धमानौ स्तोत्रादिना अभिष्टौ आभिमुख्येन पूजितौ अभीष्टसाधकौ वा । हशब्दः उक्तगुणप्रसिद्धिद्योतनार्थः । किमर्थं दीयते इति चेत् । यत् यस्मात् औचथ्यः उचथ्यस्य पुत्रो दीर्घतमाः वां युवां रेक्णः धनं स्तुतिव्याजेन प्रार्थयते तदर्थम् । यद्वा । अयं यजमानो यद्यस्मात् रेक्णो हविर्लक्षणमन्नं वां युवाभ्यां दास्यति ददातीति शेषः । यस्माच्च अकवाभिः अकुत्सितैः ऊती ऊतिभिः रक्षणैः ॥ ‘ सुपां सुलुक्° ' इति तृतीयायाः पूर्वसवर्णदीर्घः ॥ प्र सस्राथे प्रसारयथः प्रकर्षेण दत्थः तस्माद्दशस्यतम् । यस्मादभिमतप्रदौ यस्माच्चायं प्रार्थयते ददाति वा हविः तस्माद्दशस्यतमित्यर्थः ॥
“Dasras, showerers (of benefits), granters of dwellings, dispellers of sin, cognizant of many (things), increasing (through praise), and fulfillers (of desires), inasmuch as Aucatthya offer you (sacrificial) wealth, and you protect (your worshippers) with unobjectionable aids, bestow uponus (our prayers).”
YE Vasus Twain, ye Rudras full of counsel, grant us, Strong Strengtheners, when ye stand beside us,
What wealth Aucathya craves of you, great Helpers when ye come forward with no niggard succour.
You two Vasus, Rudras, who give many counsels, strengthening (our praise) in preeminence—favor us, o bulls,
since the son of Ucathya [=Dīrghatamas] is the legacy (left) for
you, wondrous ones, since you two have run forth (to him) with
unstinting help.
Ihr einsichtsvollen, glänzenden, ihr guten, ihr starken Helden, seid uns hold zum Beistand; Wenn euch Utschathja's Sohn um Reichthum bittet, wenn, hehre, ihr mit reichen Hülfen strömet.
Gut sind die beiden Rudra´s, vielsorgend, an Stärke zunehmend. Erweist uns hilfsbereit eure Gunst, ihr Bullen, da ja der Sohn des Ucathya euch, ihr Meister, seine Habe spenden will, wenn ihr mit euren vollkommenen Hilfen zum Vorschein gekommen seid.
Два добрых Рудры, многомудрых, возрастающих в силе. . .
О два быка, одарите нас в (своем) благоволении,
Потому что ведь сын Учатхьи (собирается пожертвовать свое) имущество вам, о чудесные,
Когда вы устремитесь со щедрыми поддержками!
को वां॑ दाशत्सुम॒तये॑ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः । जि॒गृ॒तम॒स्मे रे॒वती॒: पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चर॑न्ता ॥
कः । वा॒म् । दा॒श॒त् । सु॒ऽम॒तये॑ । चि॒त् । अ॒स्यै । वसू॒ इति॑ । यत् । धेथे॒ इति॑ । नम॑सा । प॒दे । गोः । जि॒गृ॒तम् । अ॒स्मे इति॑ । रे॒वतीः॑ । पुर॑म्ऽधीः । का॒म॒ऽप्रेण॑ऽइव । मन॑सा । चर॑न्ता ॥
हे वसू वासयितारावश्विनौ वां युवयोः संबन्धिन्यै अस्यै वक्ष्यमाणरूपायै सुमतये चित् शोभनबुद्ध्यै । चित् पूजायामप्यर्थे वा । स्वल्पेनैव हविषा महत्फलप्रदानरूपायै ईदृश्यै अपि बुद्ध्यै प्रीणनाय कः दाशत् को दद्यात् दातुं शक्नुयात् । युवयोः प्रभावस्यातिमहत्त्वादिति भावः ॥ दाशतेर्लेट्यडागमः ॥ कथं मतेः सौष्ठवमिति तदुच्यते । यत् यस्मात्कारणात् गोः पदे भूम्याः सर्वैर्गन्तव्यायाः स्तुत्याया वा वेदिरूपायाः स्थाने। एतावती वै पृथिवी यावती वेदिः' (तै. सं. २. ६. ४. ३ ) इति श्रुतेः। गौरिति भूमिनाम । तथा च निरुक्तं - गौरिति पृथिव्या नामधेयं यद्दूरं गता भवति यच्चास्यां भूतानि गच्छन्ति गातेर्वौकारो नामकरणः ' (निरु. २. ५ ) इति । तादृशे स्थाने अस्माभिः प्रार्थितौ सन्तौ नमसा हविर्लक्षणेन यवमात्रप्रकारेणान्नेन’ धेथे धारयथो बहुप्रदानविषयां बुद्धिम् ॥ दधातेर्लटि • बहुलं छन्दसि ' इति विकरणस्य लुक् । धातोर्ह्रस्वत्वम् । ‘ आतो ङितः ' (पा. सू. ७. २. ८१ ) इति इयादेशः ॥ यस्मादेवं तस्मात् अस्मे अस्मभ्यं रेवतीः क्षीरादिधनवतीः पुरंधीः शरीरधारिकाः शरीराभिवृद्धिहेतूः गाः जिगृतं शब्दयतं दत्तमित्यर्थः॥‘गॄ शब्दे'। छान्दसः शपः श्लुः । अभ्यासस्येत्वं ह्रस्वत्वं च ॥ पुनस्तावेव विशेष्येते । कामप्रेणेव । इवशब्दः एवकारार्थः । कामपूरकेणैव मनसा सह चरन्ता चरन्तौ । यजमानस्य कामाः पूरणीया इति कृतसंकल्पावित्यर्थः ॥ ‘ प्रा पूरणे'। कामं प्रातीति कामप्रः । आतोऽनुपसर्गे कः' ।
“Granters of dwellings, who may make you offerings so propitiatory of that your good will, that (invoked) by our adoration, to the site of the altar, you may entertain (favourable intentions towards us), and grant us kine rich in milk, coming with minds made up to grant the desires (of the worshipper).”
Who may give you aught, Vasus, for your favour, for what, at the Cow's place, ye grant through worship?
Wake for us understanding full of riches, come with a heart that will fulfil our longing.
Who will serve you two for this very favor, when, Vasus, by his homage you two will take your place in the track of the cow?
Awaken for us plentiful gifts filled with riches, acting as if with a thought to fulfill our wishes.
Wer dient euch recht zu solcher Hulderweisung, dass fromm ihr Gut bringt an den Ort der Milchkuh? Erwecket uns an Schätzen reiche Fülle mit solchem Sinne kommt, der Wünsche wahr macht.
Wer soll euch für solche Gnade, daß ihr Guten es tut, unter Verneigung auf der Fährte der Kuh opfern? Wecket für uns reiche Belohnung, die ihr euch mit wunscherfüllendem Sinne traget!
Кто сможет вас почтить ради той милости,
Что два добрых (бога) при поклонении устроятся в следе коровы?
Пробудите для нас силы вдохновения, несущие богатство, -
Вы же странствуете с мыслью, охотно исполняющей желания!
यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः । उप॑ वा॒मव॑: शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवै॑: ॥
यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय॑ । पे॒रुः । वि । मध्ये॑ । अर्ण॑सः । धायि॑ । प॒ज्रः । उप॑ । वा॒म् । अवः॑ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः॑ । न । अज्म॑ । प॒तय॑त्ऽभिः । एवैः॑ ॥
अत्रेतिहासमाहुः । तौग्र्यनामकं राजानं युद्धे शत्रवः पराभाव्य पाशैर्दृढं बद्ध्वा समुद्रमध्ये प्रचिक्षिपुः । स च उत्तरीतुमशक्तः सन् अश्विनौ तुष्टाव । तौ च तुष्टौ शीघ्रमेव रथमश्वैर्योजयित्वा समुद्रमागत्य तमुत्तार्य अपालयतामिति । अयमर्थः ‘ अजोहवीदश्विना तौग्र्यः' (ऋ. सं १. ११७. १५) इत्यादिमन्त्रान्तरे प्रसिद्धः । सोऽत्रोच्यते । हे अश्विनौ वां युवयोः संबन्धी पेरुः पारणकुशलो रथः युक्तो ह अश्वैर्युक्तः खलु । हशब्दो मन्त्रान्तरप्रसिद्धिद्योतनार्थः । स च उदाहृतः । कस्मै । तौग्र्याय एतन्नाम्ने राज्ञे तद्बन्धमोचनार्थम् । कुत्रेति तदुच्यते । अर्णसः अम्भसः मध्ये समुद्रस्य मध्ये । स च पज्रः पाजसा बलेन तीर्णः सन् वि धायि धारितः स्थापितः । यस्मादेवं तस्मात् वां युवयोः अवः रक्षणं शरणम् उप गमेयं संप्राप्नुयाम् ऐहिकदुःखाद्विमुक्तो युष्मत्स्थानं संभजेयम् । गतौ दृष्टान्तः । पतयद्भिरेवैः अश्वैः शूरो न शूर इव । स यथा अज्म जित्वा निर्भयं स्वगृहं प्राप्नोति तद्वत् ॥
“In like manner, Aśvins, as your strong-drawn (car), able to cross (the sea), was plural ced,harnessed, in the middle of the water, for (the rescue of) the son of Tugra, so may I attain to your preserving protection (with the same alacrity) as a victorious hero (returns home) with bounding steeds.”
As erst for Tugra's son your car, sea-crossing, strong, was equipped and set amid the waters,
So may I gain your shelter and protection as with winged course a hero seeks his army.
Because your harnessed (chariot)—swelling, rugged—was set apart in the middle of the flood for the son of Tugra [=Bhujyu],
I would come to your sheltering help by flying ways, as a hero (flies) his course.
Wie ihr dem Sohn des Tugra in der Meerflut das feste Fahrzeug, das bespannte, schenktet, So möcht' in euern Schutz und Schirm ich kommen in schnellem Laufe wie der Held zum Heerbann.
Wie damals als euer rettender Wagen für den Tugrasohn angeschirrt sich mitten im Meer als zuverlässig erwies, so möchte ich in eure schützende Gunst gelangen mit fliegender Eile wie ein Held auf den Kampfplatz.
(Как в то время) когда ваш оплодотворяющий (бык,) запряженный для сына Тугры,
Оказался незыблемым среди бушующего потока,
Я хотел бы устремиться к вашей помощи как к защите,
Словно герой – в путь на летящих конях.
उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम् । मा मामेधो॒ दश॑तयश्चि॒तो धा॒क्प्र यद्वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम् ॥
उप॑ऽस्तुतिः । औ॒च॒थ्यम् । उ॒रु॒ष्ये॒त् । मा । माम् । इ॒मे इति॑ । प॒त॒त्रिणी॒ इति॑ । वि । दु॒ग्धा॒म् । मा । माम् । एधः॑ । दश॑ऽतयः । चि॒तः । धा॒क् । प्र । यत् । वा॒म् । ब॒द्धः । त्मनि॑ । खाद॑ति । क्षाम् ॥
अत्राख्यानमाहुः । जराझर्झरितगात्रं जात्यन्धं दीर्घतमसं मामतेयं वरिवसितुमशक्नुवानाः स्वगर्भदासा अग्नौ प्रदाहाय प्रचिक्षिपुः । तत्र क्षिप्तोऽश्विनावस्तावीत् । तौ चैनमरक्षताम् । ततोऽप्यम्रियमाणमुदकेषु अपातयन्। तत्र निमग्नः पुनरश्विनौ तुष्टाव । तुष्टौ सन्तौ तौ जलादुदहार्ष्टाम् । एवमवध्यं तं त्रैतनो नामकः कश्चिद्दासः अस्य शिरो वक्षश्च व्यतक्षत् । ततोऽप्यपालयतामिति । तदिदम् ऋग्द्वयाभ्यामुच्यते । हे अश्विनौ उपस्तुतिः युवां बुद्ध्योपेत्य क्रियमाणा स्तुतिः औचथ्यम् उचथस्य पुत्रं दीर्घतमसं माम् उरुष्येत् रक्षेत् दाहाद्युपद्रवात् । 'उरुष्यती रक्षाकर्मा' (निरु. ५. २३) इति यास्कः । एवं सामान्येनोक्त्वा विशेषेण प्रत्युपद्रवपरिहारं प्रार्थयते । इमे प्रसिद्धे पतत्रिणी पतनशीले पुनरावर्तनशीले अहोरात्रे मां मा वि दुग्धां विशेषेण दोहगतसारं मा कार्ष्टां प्राणनिर्गमनानुकूल्यं मा कुरुतामित्यर्थः । किंच मां दशतयः दशवार: चितः संचितः संपादितः एधः प्रज्वालितेन्धनसंघः मा धाक् मा धाक्षीत् ॥ दहतेर्लुङि सिचि हलन्तलक्षणा वृद्धिः। ‘बहुलं छन्दसि ' इति इडभावः । हल्ङ्यादिसंयोगान्तलोपौ ॥ दुःसहदुःखप्राप्तिं दर्शयति । यत् यस्मात् वां युवयोः संबन्धी अयं जनः बद्धः पाशैः गाढं वेष्टितः सन् त्मनि आत्मनि आत्मना क्षां भूमिं खादति भक्षयति गन्तुमशक्तः सन् भूमौ परिलुठतीत्यर्थः । तस्मादुपस्तुतिरौचथ्यमुरुष्येत् इति ॥
“May the praise addressed to you, Aśvins, preserve the son of Ucatthya; let not those revolving (days and nights) exhaust me; let not the ten times kindled fire consume me; let it not be, that one who is your, (dependant), bound (with bonds), should of himself bite the earth.”
May this my praise preserve Ucathya's offspring: let not these Twain who fly with wings exhaust me.
Let not the wood ten times up-piled consume me, when fixed for you it bites the ground it stands on.
The praise song should give wide space to (me), the son of Ucathya. Let these two winged females [=Night and Dawn] not milk me dry.
Let the piled-up, ten-stick kindling not burn me, when he [=Agni], whom you bound by the trunk of his body, chews at the earth.
Das Preislied schaffe Raum dem Sohn Utschathja's; nicht mögen mich beschwingte Tage lähmen, Noch brennen mich das Holz zehnfach geschichtet, wenn es für euch gehäuft zerbeisst den Boden.
Das Preislied soll den Sohn des Ucathya retten; nicht sollen mich diese beiden beflügelten, Tag und Nacht, ausmergeln. Nicht soll mich das zehnfach geschichtete Brennholz verbrennen, wenn euer Gefangener selbst die Erde kaut.
Пусть хвалебная песнь спасет сына Учатхьи!
Да не высосут меня эти двое крылатых!
Да не сожгут меня в десять рядов сложенные дрова,
Когда связанный вами сам грызет землю!.
न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधु॑: । शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥
न । मा॒ । ग॒र॒न् । न॒द्यः॑ । मा॒तृऽत॑माः । दा॒साः । यत् । ई॒म् । सुऽस॑मुब्धम् । अ॒व॒ऽअधुः॑ । शिरः॑ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒ऽतक्ष॑त् । स्व॒यम् । दा॒सः । उरः॑ । अंसौ॑ । अपि॑ । ग्धेति॑ ग्ध ॥
नद्यः नदनशीला: मातृतमाः मातृवज्जगतां हितकारिण्य आपः मा मां दीर्घतमसं गरन् न गिरेयुः निमग्नं मा कुर्युः ॥ ‘ गॄ निगरणे '। लेटि व्यत्ययेन शप् ॥ गिरणप्राप्तिं दर्शयति । यत् यस्मात् दासाः अस्मदुपक्षपयितारो मदीयगर्भदासाः ईम् एनं दीर्घतमसं मां सुसमुब्धं सुष्ठु संकुचितसर्वाङ्गम् ॥ ‘स्वती पूजायाम्' (पा. म. २. २. १८. ४) इति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ अवाधुः अवाङ्मुखमपातयन् । किंच अस्य मम शिरः सः त्रैतनः एतन्नामकः दासः अत्यन्तनिर्घृणः सन् यत् यस्मात् वितक्षत् विविधं तष्टवान् तस्मात् स दासः स्वयं स्वकीयमेव शिरस्तक्षतु । न केवलं शिर एव अपि तु मदीयम् उरः वक्षःस्थलम्' अंसौ च ग्ध हतवान् विदारितवानित्यर्थः ॥ हन्तेर्लुङि छान्दसमेतद्रूपम् ॥ ततः स्वकीयमुरः अंसावपि स्वशस्त्रेणैव तथा कृतवान् । तद्युवयोर्माहात्म्यमिति भावः ॥
“Let not the maternal waters swallow me, since the slaves hurled down this decrepit (old man); in like manner as Traitana wounded his head, so has the slave wounded his own, and has struck his breast and shoulders.”
The most maternal streams, wherein the Dasas cast me securely bound, have not devoured me.
When Traitana would cleave my head asunder, the Dasa wounded his own breast and shoulders.
“The rivers, best of mothers, will not swallow me!” (he cried,) when the Dāsas sank him, tightly bound.
When Traitana hewed away the head, the Dāsa himself ate his own chest and shoulders.
Nicht frassen mich die mütterlichsten Ströme, als mich Dämonen in die Fluten tauchten; Als Traitana den Kopf mir spalten wollte, traf selbst der Dämon seine Brust und Schultern.
Nicht sollen mich die mütterlichsten Ströme verschlingen, da die Diener den festverpackten untergetaucht haben. Wenn Traitana sein Haupt spaltete, soll sich der Diener selbst die Brust und Schultern zerfleischen.
Да не поглотят меня самые материнские реки,
Оттого что дасы потопили крепко закованного!
Когда Трайтана будет рубить ему голову,
Даса себе вопьется в грудь (и) в плечи.
दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्द॑श॒मे यु॒गे । अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥
दी॒र्घऽत॑माः । मा॒म॒ते॒यः । जु॒जु॒र्वान् । द॒श॒मे । यु॒गे । अ॒पाम् । अर्थ॑म् । य॒तीना॑म् । ब्र॒ह्मा । भ॒व॒ति॒ । सार॑थिः ॥
दीर्घतमाः एतन्नामा महर्षिः स च मामतेयः ममतायाः पुत्रः दशमे युगे दशयुगपर्यन्तं महानुभावयोरश्विनोः प्रभावात् पूर्वोक्ताद्दुःखाद्विमुक्तोऽत्यन्तसुखी स्वपुत्रभार्यादिभिः सहितो जीवितवान्। दशमे युगे अतीते सति जुजुर्वान् जीर्णः वलीपलितगात्रो बभूव । एवंभूतः सन् अर्थं पुरुषैरर्थ्यमानं कर्मफलं स्वर्गादिकं यतीनां प्राप्नुवतीनाम् अपाम् अप्कार्याणां प्रजानाम् । यद्वा । अपाम् अपसां कर्मणाम् अर्थं प्रयोजनं यतीनां तासां प्रजानाम् । ब्रह्मा ब्रह्मसदृशः परिवृढः भवति । किंच सारथिः तद्वन्निर्वाहको भवति देवो भवतीत्यर्थः । एवमस्य वृत्तान्तं मन्त्रोऽनुवदति। स्वयं वा स्वात्मानं पारोक्ष्येण अश्विनोर्महानुभावत्वं प्रकटयितुं ब्रवीति ॥ ॥ १ ॥
“Dīrghatamas, the son of Mamatā, has grown old after the tenth yuga (has passed); he is the Brahmā of those who seek to obtain the object of their (pious) works; he is their charioteer.”
Dirghatamas the son of Mamata hath come to length of days in the tenth age of human kind.
He is the Brahman of the waters as they strive to reach their end and aim: their charioteer is he.
Dīrghatamas, the son of Mamatā, though having grown old in the tenth stage (of life),
becomes the chariot-driver of the waters that are moving toward their goal and the formulator (of the truth).
Dīrghatamas, der Sohn der Mamata, ist gealtert im zehnten Menschenalter; er ist der Brahmane, der die ihrem Ziele zustrebenden Gewässer gelenkt hat.
Dirghatamas, der Mamata Sohn, der Hohepriester wird als Greis im zehnten Lebensalter der Wagenlenker der nach ihrem Ziele strebenden Gewässer.
Диргхатамас, сын Маматы,
Старик в десятом периоде жизни,
Брахман, становится колесничим
Вод, движущихся к цели.