प्र द्यावा॑ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा॑ म॒ही स्तु॑षे वि॒दथे॑षु॒ प्रचे॑तसा । दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या॑णि प्र॒भूष॑तः ॥
प्र । द्यावा॑ । य॒ज्ञैः । पृ॒थि॒वी इति॑ । ऋ॒त॒ऽवृधा॑ । म॒ही इति॑ । स्तु॒षे॒ । वि॒दथे॑षु । प्रऽचे॑तसा । दे॒वेभिः । ये इति॑ । दे॒वऽपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । सु॒ऽदंस॑सा । इ॒त्था । धि॒या । वार्या॑णि । प्र॒ऽभूष॑तः ॥
द्यावा पृथिवी द्यावापृथिव्यौ ॥ ‘ दिवो द्यावा' इति द्यावादेश आद्युदात्तः । पृथिवीशब्दो ङीषन्तोऽन्तोदात्तः । ‘ देवताद्वन्द्वे च ' इति उभयपदप्रकृतिस्वरत्वम् । समासमध्ये पदान्तरपाठश्छान्दसः ॥ अहं यजमानः यज्ञैः यागैस्तत्प्रदानैः निमित्तभूतैः हविष्प्रदानार्थं प्र स्तुषे प्रकर्षेण स्तौमि ॥ पुरुषव्यत्ययः । कीदृश्यौ ते। ऋतावृधा यज्ञस्य वर्धयित्र्यौ मही महत्यौ विदथेषु यागेषु प्रचेतसा प्रकर्षेण अस्मांश्चेतयित्र्यौ अस्माभिश्चेतयितव्ये वा । ईदृश्यौ स्तुषे । अनयोः कोऽतिशय इति उच्यते । ये द्यावापृथिव्यौ देवेभिः यजमानैः देवपुत्रे देवा यजमानाः पुत्रस्थानीयाः शुश्रूषका ययोस्ते तादृश्यौ । यद्वा । देवेभिर्विशिष्टे । सुदंससा । दंस इति कर्मनाम । शोभनकर्मोपेते । इत्था सत्यम् । इत्थेति सत्यनाम, सत्रा इत्था ' (नि. ३. १०. ५) इति तन्नामसु पाठात् । सत्यं धिया अस्मदनुग्रहबुद्ध्या वार्याणि वरणीयानि धनानि अस्मभ्यं प्रभूषतः अलंकुरुतः दत्त इत्यर्थः । यद्वा । वार्याणि हवींषि धिया कर्मणा निमित्तेन कर्मसमाप्त्यर्थं प्रभूषतः प्रकर्षेण स्वीकुरुतः ॥
“I glorify with sacred rites themighty Heaven and Earth, the augmenters of sacrifice, who (are to be contemplated) with devotion at holy ceremonies; those two, who, cherishing their worshippers as children, are venerated by the devout, and therefore with favour bestow (upon us) desirable blessings.”
I PRAISE with sacrifices mighty Heaven and Earth at festivals, the wise, the Strengtheners of Law.
Who, having Gods for progeny, conjoined with Gods, through wonder-working wisdom bring forth choicest boons.
I shall start up the praise, along with sacrifices, to Heaven and to Earth, the two great ones growing strong through truth, the discerning ones, at the rites of distribution,
those of wondrous power, whose sons are gods, who together with the gods tender things of value (to the mortal) who has an insight right to the point.
Mit Opfern ehr den Himmel und die Erde ich, beim Fest die grossen, weisen, die des Rechts sich freun, Die Götterältern, die mit Göttern gross an Macht aus eignem Antrieb schöne Gaben uns verleihn.
Ein Lob stimme ich unter Opfern an auf Himmel und Erde, die Gesetzesstärker, die großen, in der Weisheit erfahrenen, die Göttermütter, die mit den Göttern Gutes wirkend ganz nach ihrem Sinn kostbare Dinge zur Schau tragen.
Я Славлю жертвами Небо и Землю,
Сильных законом, великих, прозорливых на местах жертвенных раздач,
(Тех,) у кого боги сыновья (и) кто вместе с богами творит чудеса,
Кто под воздействием истинной молитвы распоряжается желанными дарами.
उ॒त म॑न्ये पि॒तुर॒द्रुहो॒ मनो॑ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी॑मभिः । सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया॑ अ॒मृतं॒ वरी॑मभिः ॥
उ॒त । म॒न्ये॒ । पि॒तुः । अ॒द्रुहः॑ । मनः॑ । मा॒तुः । महि॑ । स्वऽत॑वः । तत् । हवी॑मऽभिः । सु॒ऽरेत॑सा । पि॒तरा॑ । भूम॑ । च॒क्र॒तुः॒ । उ॒रु । प्र॒ऽजायाः॑ । अ॒मृत॑म् । वरी॑मऽभिः ॥
उत अपि च पितुः पितृस्थानीयायाः पात्र्याः अद्रुहः अद्रोग्धुः । न हि कदाचित् पिता स्वपुत्रादये द्रुह्यति। तादृश्याः पृथिव्याः स्वतवः स्वायत्तं बलं स्वयमेवास्मदनुग्रहाय त्वरमाणम् अत एव महि महत् तत् तादृशमनुग्रहयुक्तं मनः चित्तं हवीमभिः हवनैराह्वानैः मन्ये जानामि प्रसादयामीत्यर्थः। यद्वा । तत्तादृशमुक्तलक्षणं मनो हवीमभिर्हवनैर्महि मन्ये अतिमहत् प्रवृद्धं मन्ये। तथा मातुः सर्वस्योत्पादयितुरन्तरिक्षस्य द्युलोकस्य । 'मातान्तरिक्षं निर्मीयन्तेऽस्मिन्भूतानि' ( निरु. २. ८) इति निरुक्तम् । यद्वा । पितुर्द्युलोकस्य मातुर्भूम्याः। द्यौर्वः पिता पृथिवी माता' ( ऋ. सं. १. १९१. ६) इति श्रुतेः। तत्तादृशमुक्तलक्षणं मनो मन्ये। द्यावापृथिव्योर्मनोऽस्मदाह्वानैः प्रीणयामीत्यर्थः। किंच पितरा माता च पिता च पितरौ द्यावापृथिव्यौ सुरेतसा शोभनसामर्थ्येन प्रजायाः यजमानादिरूपायाः वरीमभिः वरिष्ठैः रक्षणविशेषैः भूम बहुतरम् उरु विस्तीर्णम् अमृतम् अमरणभूतम् अभिलषितं चक्रतुः कुरुतः ॥
“Verily I propitiate, by my invocations, the mind of the benevolent father, and the great and spontaneous (affection) of the mother (of all beings). The parents, with kindness, have secured, by their excellent protections, the vast and manifold immortality of their progeny.”
With invocations, on the gracious Father's mind, and on the Mother's great inherent power I muse.
Prolific Parents, they have made the world of life, and for their brood all round wide immortality.
And I turn my mind to the great and self-powerful mind of the
undeceivable father and of the mother, with my invocations.
The two fathers possessing good semen have made the land wide for offspring and immortal in its expanses.
Und mit Gebeten denk' ich an des Vaters Geist, des gütigen und an der Mutter grosse Macht; Die samenreichen Aeltern schufen alles Sein Unsterblichkeit den Söhnen weit in weitem Raum.
Und ich gedenke mit meinen Anrufungen an den Geist des truglosen Vaters Himmel, an diesen hohen, selbstsicheren Geist der Mutter Erde. Die Eltern, die gut bei Samen, machten die Erde weit für ihre Nachkommenschaft und unsterblich in ganzer Ausdehnung.
А также думаю я о духе отца без обмана,
О том высоком сильном самим собой (духе) матери, (приглашая их) призывами.
Двое родителей о прекрасным семенем создали для потомства
Землю, широкую, бессмертную, с далекими просторами.
ते सू॒नव॒: स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये । स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥
ते । सू॒नवः॑ । सु॒ऽअप॑सः । सु॒ऽदंस॑सः । म॒ही इति॑ । ज॒ज्ञुः॒ । मा॒तरा॑ । पू॒र्वऽचि॑त्तये । स्था॒तुः । च॒ । स॒त्यम् । जग॑तः । च॒ । धर्म॑णि । पु॒त्रस्य॑ । पाथः । प॒दम् । अद्व॑याविनः ॥
ते प्रसिद्धाः सूनवः युवाभ्यामुत्पन्नाः पुत्रस्थानीयाः प्रजाः स्वपसः शोभनकर्माणः सुदंससः शोभनदर्शनाः युवां 'मही महत्यौ माता मातृवद्धितकारिण्यौ जज्ञुः जानन्ति महानुभावतामवगच्छन्ति । किमर्थम् । पूर्वचित्तये प्रथमबुद्धये अनुग्रहरूपायै। किंच ते द्यावापृथिव्यौ स्थातुः स्थावरस्य जगतः जङ्गमस्य पुत्रस्य पुत्रस्थानीयस्य उभयविधस्य जगतः अद्वयाविनः न विद्यते द्वयं यस्य तादृशस्य । स्वजीवनाय युष्मद्व्यतिरिक्तमजानतः इत्यर्थः । ईदृशस्य धर्मणि धारणे रक्षणे निमित्तभूते सति पदं स्थानं सत्यम् अबाध्यं पाथः रक्षथः दत्थ इत्यर्थः । यद्वा। ते प्रसिद्धाः सूनवः उत्पाद्यमानाः स्वपसः शोभनप्रकाशादिकर्माणः सुदंससः शोभनदर्शनाः सुष्ठु उपक्षयन्तः वा आत्मानं स्वव्यापाराय ईदृशा रश्मयो मही महत्यौ द्यावापृथिव्यौ पूर्वचित्तये प्राणिनां पूर्वज्ञानाय जज्ञुः जातवन्तः द्यावापृथिव्योरन्तराले व्याप्ता इत्यर्थः। किंच स्थातुर्जगतश्च धर्मणि धारणे तदर्थम् अद्वयाविनो मार्गद्वयरहितस्य ॥ ‘बहुलं छन्दसि ' इति द्वयशब्दात् मत्वर्थीयो विनिः । ‘ अन्येषामपि दृश्यते' इति दीर्घः ॥ पुत्रस्य युष्मत्पुत्रस्थानीयस्यादित्यस्य पदं मार्गं सत्यं पाथः अवश्यं रक्षथः ॥
“These, your children, the performers of good works, and of goodly appearance, recognize you as their great parents, through experience of former (kindness); preserve uninterrupted stability in the functions of your progeny, whether stationary or moving, (depending for existence) on none other than you.”
These Sons of yours well skilled in work, of wondrous power, brought forth to life the two great Mothers first of all.
To keep the truth of all that stands and all that moves, ye guard the station of your Son who knows no guile.
These their sons, good artisans with wondrous powers, begot the two great ones, two mothers, to be first in their thought.
You two protect what is real in upholding the standing and the moving; you protect the footprint of your son who is unduplicitous [=Agni?].
Und diese Söhne, reich an Kunst und Wunderkraft, gestalteten sogleich das grosse Aelternpaar; Im Umfang dessen, was da geht und steht, beschützt den festen Ort des Sohnes ihr, der nimmer täuscht.
Diese kunstfertigen, guteswirkenden Söhne erzeugten die großen Eltern, daß man ihrer zuerst gedenken soll. Ihr beiden schützet die Wahrheit, um alles was steht und geht, zu erhalten und ihr schützet den Schritt eines aufrichtigen Sohns.
Эти сыновья, прекрасно действующие, совершающие чудеса,
Породили пару великих родителей, чтобы (о них) думали в первую очередь.
При поддержании неподвижного и подвижного мира
Вы охраняете (истину-) след (вашего) недвоедушного сына.
ते मा॒यिनो॑ ममिरे सु॒प्रचे॑तसो जा॒मी सयो॑नी मिथु॒ना समो॑कसा । नव्यं॑नव्यं॒ तन्तु॒मा त॑न्वते दि॒वि स॑मु॒द्रे अ॒न्तः क॒वय॑: सुदी॒तय॑: ॥
ते । मा॒यिनः॑ । म॒मि॒रे॒ । सु॒ऽप्रचे॑तसः । जा॒मी इति॑ । सयो॑नी॒ इति॒ सऽयो॑नी । मि॒थु॒ना । सम्ऽओ॑कसा । नव्य॑म्ऽनव्यम् । तन्तु॑म् । आ । त॒न्व॒ते । दि॒वि । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । सु॒ऽदी॒तयः॑ ॥
ते प्रसिद्धे द्यावापृथिव्यौ मायिनः । माया प्रज्ञा। स्वविषयप्रज्ञावन्तः प्रज्ञोपलक्षितकर्मवन्तो वा सुप्रचेतसः सुष्ठु प्रकर्षेण चेतितुं शक्ताः रश्मयः ममिरे मिमते प्रमाणेन परिच्छिन्दन्ति । कीदृश्यौ ते । जामी परस्परं भगिनी। एतत्कुतः इति चेत् उच्यते । सयोनी समानोत्पत्तिस्थाने मिथुना प्राण्युत्पत्तये मिथुनभूते परस्परमवियुक्ते इत्यर्थः । समोकसा समानस्थाने । द्युपृथिव्योः एकस्मिन्नेव अवकाशरूपे आकाशेऽवस्थानात् । समीचीनस्थाने वा। किंच कवयः मेधाविनः स्वव्यापारविषयज्ञानवन्तः सुदीतयः सुष्ठुद्योतना रश्मयः दिवि द्योतमाने समुद्रे अन्तरिक्षे अन्तः मध्ये। समुद्रशब्दः अन्तरिक्षनामसु पाठात् तद्वचनः । स चैवं यास्केन निरुक्तः - समुद्रः कस्मात्समुद्भवन्त्यस्मादापः समभिद्रवन्त्येनमापः संमोदन्तेऽस्मिन्भूतानि समुदको भवति समुनत्तीति वा । (निरु. २. १०) इति । नव्य॑नव्यं तन्तुं तननीयं विस्तारणीयम् । जात्येकवचनम् । रश्मीन् आ तन्वते समन्ताद्विस्तारयन्ति ॥
“Those provident and intelligent sisters, (the rays of light), conceived of the same womb, (ever) united (with each other), and dwelling in the same abode, metre out (all things); knowing (their functions), and bright-shining, they spread in ever new (directions) throughout the radiant firmament.”
They with surpassing skill, most wise, have measured out the Twins united in their birth and in their home.
They, the refulgent Sages, weave within the sky, yea, in the depths of sea, a web for ever new.
Masters of magical power, having good forethought, they measured [=created] the kindred pair who share the same womb, the married
couple who share the same dwelling place.
They stretch an ever newer thread to heaven and within the sea—the very brilliant poets.
Es schufen jene weisen, wunderkräftigen das Zwillingspaar von gleichem Schoosse, gleichem Sitz, Die lichten Seher spannen neuen Aufzug stets am Himmel aus und in des Luftmeers Innerem.
Die Zauberkundigen haben wohl vorausdenkend die beiden verschwisterten als ein Paar dem gleichen Schoß entsprossen, zusammengehörigen ausgemessen. Die erleuchteten Seher spannen immer einen neuen Faden zum Himmel im Meere aus.
Эти обладающие силой превращений очень прозорливые (сыновья) измерили
Обоих: брата и сестру, пару, происходящую из одной утробы, из одного дома.
Все новую и новую нить тянут к небу
(И) в океан озаренные поэты.
तद्राधो॑ अ॒द्य स॑वि॒तुर्वरे॑ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे । अ॒स्मभ्यं॑ द्यावापृथिवी सुचे॒तुना॑ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन॑म् ॥
तत् । राधः॑ । अ॒द्य । स॒वि॒तुः । वरे॑ण्यम् । व॒यम् । दे॒वस्य॑ । प्र॒ऽस॒वे । म॒ना॒म॒हे॒ । अ॒स्मभ्य॑म् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । सु॒ऽचे॒तुना॑ । र॒यिम् । ध॒त्त॒म् । वसु॑ऽमन्तम् । श॒त॒ऽग्विन॑म् ॥
वयं यजमानाः सवितुः सर्वस्य प्रसवितुः देवस्य आदिस्यस्य अन्तर्यामिरूपिणः प्रसवे अनुज्ञायां सत्यां तत् तादृशं वरेण्यं वरणीयं राधः पुरुषार्थसाधनसमर्थं गवादि धनं मनामहे याचामहे ॥ मन्यतिर्याच्ञाकर्मा । छान्दसः शप् । यद्वा । पुनःपुनरभ्यस्यामः । लप्सीमहीति यावत् ॥ ‘ म्ना अभ्यासे' । व्यत्ययेनात्मनेपदम् । शपि पाघ्रादिना मनादेशः ॥ किंच अस्मभ्यं द्यावापृथिवी द्यावापृथिव्यौ सुचेतुना शोभनचेतनेन अस्मदनुग्रहबुद्ध्या रयिं धनं धत्तं दत्तम् । कीदृशम्। वसुमन्तं निवासयोग्यगृहादिविशिष्टं शतग्विनं शत-संख्याक-गवादि-विशिष्टम् ॥ ॥ २ ॥
“We solicit today of the divine sun, his favour being propitiated, that wealth which is desirable. Benignant Heaven and Earth, bestow upon us riches, (consisting of) habitations and hundreds (of cattle and the like).”
This is to-day the goodliest gift of Savitar: this thought we have when now the God is furthering us.
On us with loving-kindness Heaven and Earth bestow riches and various wealth and treasure hundredfold!
The desirable largesse of Savitar shall we think upon today at the impulse of the god.
For us, o Heaven and Earth, through your kind attention establish
wealth consisting of goods and a hundred cows.
An diese vielbegehrte Huld des Savitar gedenken heute bei des Gottes Spende wir; O Erd' und Himmel gebet uns mit holdem Sinn an Gütern reichen hundertfachen schönen Schatz.
An dieses wünschenswerte Geschenk des Savitri wollen wir heute, wenn der Gott heraustreibt, gedenken. Bringet uns, Himmel und Erde, wohlwollend güterreichen Besitz, hundert Kühe zählenden!
Эту желанную милость Савитара мы хотим вспомнить
Сегодня, когда бог побуждает (все существа).
Нам, о Небо и Земля, благосклонно
Даруйте богатство, полное благ, дающее сто коров!