आ त्वा॑ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये । इन्द्र॑ त्वा॒ सूर॑चक्षसः ॥
आ । त्वा॒ । व॒ह॒न्तु॒ । हर॑यः । वृष॑णम् । सोम॑ऽपीतये । इन्द्र॑ । त्वा॒ । सूर॑ऽचक्षसः ॥
हे इन्द्र वृषणं कामानां वर्षितारं त्वां सोमपीतये सोमपानार्थं हरयः त्वदीया अश्वाः आ वहन्तु अस्मिन् कर्मण्यानयन्तु । तथा सूरचक्षसः सूर्यसमानप्रकाशयुक्ता ऋत्विजस्त्वां मन्त्रैः प्रकाशयन्त्विति शेषः ॥ हरन्तीति हरयः । ‘इन् सर्वधातुभ्यः' (उ. सू. ४. ५५७ ) इति इन्। नित्त्वादाद्युदात्तः । वृषणम् ।' कनिन्युवृषितक्षि° ' ( उ. सू. १. १५४) इत्यादिना कनिन् । कित्त्वात् लघूपधगुणाभावः ।' वा षपूर्वस्य निगमे ' ( पा. सू. ६. ४. ९) इति विकल्पितमुपधादीर्घत्वम् । सोमपीतये । ऐभिरग्ने ' ( ऋ. सं. १. १४. १) इत्यत्रोक्तम् । सूरचक्षसः ।' चक्षिङ् व्यक्तायां वाचि'। सर्वधातुभ्योऽसुन्' ।' चक्षिङः ख्याञ् ( पा. सू. २. ४. ५४ ) इति न भवति • अनसोः प्रतिषेधो वक्तव्यः' ( पा. सू. २. ४. ५४. १० ) इति निषेधात् । 'षू प्रेरणे'। सुवतीति सूरः । ‘सुसूधागृधिभ्यः क्रन्' ( उ. सू. २. १८२ ) इति क्रन् । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । सूरवत् ख्यानं प्रकाशो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“Indra, let your coursers hither bring you, bestower of desires, to drink the Soma juice; may (the priests), radiant as the Sun, (make you manifest).”
LET thy Bay Steeds bring thee, the Strong, hither to drink the Soma draught--
Those, Indra, who are bright as suns.
Let the fallow bays convey you here, the bull to drink the soma— those with the eye of the sun (convey) you, Indra.
Die Füchse mögen, Indra, dich herfahren zu dem Somatrunk, Den Stier die sonnenäugigen.
Dich den Bullen sollen die Falben zum Somatrunk herfahren, dich, Indra, die sonnenaugigen.
Пусть привезут тебя буланые кони,
Быка – для питья сомы,
О Индра, тебя – светлые, как солнце!
इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी॑ इ॒होप॑ वक्षतः । इन्द्रं॑ सु॒खत॑मे॒ रथे॑ ॥
इ॒माः । धा॒नाः । घृ॒त॒ऽस्नुवः॑ । हरी॒ इति॑ । इ॒ह । उप॑ । व॒क्ष॒तः॒ । इन्द्र॑म् । सु॒खऽत॑मे । रथे॑ ॥
हरिशब्द इन्द्ररथस्य वोढारौ अश्वौ आचष्टे । तथा च श्रुत्यन्तरं - ‘हर्योः स्थाता' इति, ‘हरिभ्यां त्वेन्द्रो देवतां गमयतु' (तै. सं. १. ४. २८. १; १. ६. ४. ३.) इति च । एतदेवाभिप्रेत्य निघण्टुकार आह - हरी इन्द्रस्य' (नि. १. १५.१) इति । तादृशौ हरी इमाः यागार्थं वेद्याम् आसादितत्वेन पुरोवर्तिनीः धानाः भ्रष्टयवतण्डुलानुद्दिश्य सुखतमे रथे इन्द्रम् अवस्थाप्य इह अस्मिन् कर्मणि उप वक्षतः वेदिसमीपे वहताम् । कीदृशीर्धानाः घृतस्नुवः अलंकरणोपस्तरणाभिधारणेन घृतस्राविणीः ॥ धीयन्ते इति धानाः। ‘धापॄवस्यजतिभ्यो नः' (उ. सू. ३. २८६ ) इति नः । प्रत्ययस्वरः। घृतस्नुवः। घृतं स्नुवन्तीति घृतस्नुवः । क्विपि तुगभावश्छान्दसः । धातुस्वरः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । स्नोः संयोगपूर्वत्वेन यणभावात् उवङादेशः। हरी । 'हृञ् हरणे'। 'सर्वधातुभ्य इन्। नित्त्वादाद्युदात्तः। प्रगृह्यत्वात् संहितायां प्रकृतिभावः । वक्षतः । प्रार्थनाख्ये लिङर्थे लेट् । तस्य प्रथमपुरुषद्विवचनं तस् । ‘ लेटोऽडाटौ' ( पा. सू. ३. ४.९४) इति अडागमः । शपि प्राप्त ‘ सिब्बहुलं लेटि' ( पा. सू. ३. १. ३४ ) इति सिप् । ढत्वकत्वषत्वानि । तिङ्ङतिङः' इति निघातः । सुखतमे । गतम् ॥
“Let his coursers convey Indra in an easy moving chariot hither, where these grains (of parched barley), steeped in clarified butter, are strewn (upon the altar).”
Here are the grains bedewed with oil: hither let the Bay Coursers bring
Indra upon his easiest car.
Here are the roasted grains, bathing in ghee; the fallow bay pair will convey Indra here right to them
in the best-naved chariot.
Hier sind die Körner fettdurchtränkt; den Jndra fahr das Füchsepaar Auf schnellstem Wagen zu uns her.
Zu diesen schmalztriefenden Malzkörnern sollen die beiden Falben Indra hierher fahren auf leichtlaufendstem Wagen.
К этим ячменным зернам, смоченным жиром,
Сюда, пусть привезет Индру
Пара буланых коней на самой быстроходной колеснице
इन्द्रं॑ प्रा॒तर्ह॑वामह॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे । इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥
इन्द्र॑म् । प्रा॒तः । ह॒वा॒म॒हे॒ । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥
प्रातः कर्मारभ्भे प्रातःसवने इन्द्रं हवामहे आह्वयामः । तथैव अध्वरे सोमयागे प्रयति प्रगच्छति प्रारभ्य वर्तमाने सति माध्यंदिने सवने तम् इन्द्रं हवामहे । तथा यज्ञसमाप्त्यवसरे तृतीयसवने सोमस्य पीतये सोमपानार्थं हवामहे ॥ प्रातः । स्वरादिषु अन्तोदात्तो निपातितः । हवामहे । ह्वेञो लटि शपि परतो “ ह्रः संप्रसारणम्' इत्यनुवृत्तौ ‘ बहुलं छन्दसि' इति संप्रसारणं परपूर्वत्वं गुणावादेशौ । प्रयति । ‘ इण् गतौ'। लटः शतृ ।' अदिप्रभृतिभ्यः शपः' इति शपो लुक् । शतुर्ङित्त्वाद्गुणाभावः । प्रादिसमासः । ‘ कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ' ( परिभा. २८ ) इति वचनात् ‘ प्रत्ययग्रहणे ' इति नियमाभावात् ‘शतुरनुमो नद्यजादी' ( पा. सू. ६. १. १७३ ) इति विभक्तेरुदात्तत्वम् । अध्वरे । उक्तम्। संहितायाम् ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' ( पा. सू. ८. २. ४ ) इति अकारस्य स्वरितत्वम् । पीतये । ‘पा पाने '। क्तिनि छान्दसमन्तोदात्तत्वम् ॥
“We invoke Indra at the morning rite, we invoke him at the succeeding sacrifice, we invoke Indra to drink the Soma juice.”
Indra at early morn we call, Indra in course of sacrifice,
Indra to drink the Soma juice.
Indra we invoke early in the morning, Indra as the ceremony advances, Indra to drink of the soma.
Den Indra rufen Morgens wir, den Indra in des Fests Verlauf, Den Indra zu dem Somatrunk.
Indra rufen wir am Morgen, Indra, wenn das Opfer beginnt, Indra zum Trunk des Soma.
Индру мы призываем поутру,
Индру – в ходе обряда,
Индру – на питье сомы.
उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिन्द्र के॒शिभि॑: । सु॒ते हि त्वा॒ हवा॑महे ॥
उप॑ । नः॒ । सु॒तम् । आ । ग॒हि॒ । हरि॑ऽभिः । इ॒न्द्र॒ । के॒शिऽभिः॑ । सु॒ते । हि । त्वा॒ । हवा॑महे ॥
हे इन्द्र केशिभिः केसरयुक्तैः हरिभिः अश्वैस्त्वं नः अस्मदीयं सुतम् अभिषुतं सोमं प्रति उप समीपे आ गहि आगच्छ । सुते अभिषुते सोमे निमित्तभूते सति यस्मात् कारणात् त्वा हवामहे त्वामाह्वयामः तस्मादागच्छेति पूर्वत्रान्वयः ॥ गहि । गमेर्लोटः सेर्हिः। शपः' इत्यनुवृत्तौ ‘बहुलं छन्दसि ' इति शपो लुक् । ' इषुगमियमां छः ' ( पा. सू. ७. ३. ७७ ) इति छत्वं न भवति; ‘न लुमताङ्गस्य' इति प्रतिषेधात् ।' अनुदात्तोपदेश° ' ( पा. सू. ६. ४. ३७ ) इत्यादिना अनुनासिकलोपः । तस्य असिद्धवदत्रा भात् ' ( पा. सू. ६. ४. २२ ) इत्यसिद्धत्वात् ‘ अतो हेः' इति हेर्लुक् न भवति । केशिभिः । ‘ क्लिशेरन लो लोपश्च ' ( उ. सू. ५, ७११ ) इति अन् । मत्वर्थीय इनिः । प्रत्ययस्वरः । हवामहे । 'ह्वः' इत्यनुवृत्तौ ‘बहुलं छन्दसि' इति संप्रसारणम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव । ‘ तिङ्ङतिङः' इति न निघात; • हि च । इति प्रतिषेधात् ॥
“Come, Indra, to our libation with our long-maned steeds; the libation being poured out, we invoke you.”
Come hither, with thy long-maned Steeds, O Indra, to the draught we pour
We call thee when the juice is shed.
Come up here to our pressed soma, Indra, with your shaggy fallow bays, for when it is pressed we invoke you.
Komm, Indra, her zu unserm Trank mit dem bemähnten Füchsepaar; Dich rufen wir beim Somasaft.
Komm, Indra, her zu unserem Preßtrank mit den mähnigen Falben, denn wir laden dich zum Preßtrank.
Примчись же к нашему выжатому (соме),
О Индра, на пышногривых буланых конях –
Ведь мы приглашаем тебя к выжатому (соме)!
सेमं न॒: स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम् । गौ॒रो न तृ॑षि॒तः पि॑ब ॥
सः । इ॒मम् । नः॒ । स्तोम॑म् । आ । ग॒हि॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् । गौ॒रः । न । तृ॒षि॒तः । पि॒ब॒ ॥
हे इन्द्र स त्वं नः अस्मदीयम् इमं स्तोमं स्तुतिं प्रति आ गहि आगच्छ । आगमने हेतुरुच्यते । उप देवयजनसमीपे सुतम् अभिषुतसोमयुक्तम् इदम् इदानीमनुष्ठीयमानं सवनं प्रातःसवनादिरूपं कर्म वर्तते । तस्मात् गौरो न गौरमृग इव तृषितः सन् इमं सोमं पिब ॥ सः इमम् इत्यत्र संहितायां: सोऽचि लोपे चेत्पादपूरणम् ' ( पा. सू. ६. १. १३४ ) इति सुलोपः । गहि । गतम् । सवनम् । सूयतेऽस्मिन् सोम इत्यधिकरणे ल्युट् ।' लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । ल्युडन्तात् सप्तम्याः ‘सुपां सुपो भवन्तीति वक्तव्यम्' (पा. म. ७. १. ३९ ) इति वचनात् द्वितीया । अभिषुतसोमयुक्तमिदं सवनमिति कर्मण्येव वा द्वितीया । तदा सुतशब्दात् अर्शआदित्वादच् (पा. सू. ५, २. १२७ )। तृषितः । ‘ञितृष पिपासायाम् । निष्ठा' इति क्तः । प्रत्ययस्वरेणोदात्तः । पश्चात् इट: ‘ आगमा अनुदात्ताः' इत्यनुदात्तत्वम् ॥ ॥ ३० ॥
“Do you accept this our praise, and come to this our sacrifice, for which the libation is prepared; drink like a thirsty stag (gaura).”
Come thou to this our song of praise, to the libation poured for thee
Drink of it like a stag athirst.
Come here to this praise of ours, up to this pressing here when it is pressed.
Drink like a thirsty buffalo.
Komm her zu unserm Lobgesang, zu diesem ausgepressten Saft, Und wie ein durst'ger Büffel trink.
Komm du her zu unserem Loblied, zu dieser ausgepreßten Trankspende; trink wie ein durstiger Büffel!
Приди на это наше восхваление,
На этот праздник выжатого (сомы)!
Пей, как бык, мучимый жаждой!
इ॒मे सोमा॑स॒ इन्द॑वः सु॒तासो॒ अधि॑ ब॒र्हिषि॑ । ताँ इ॑न्द्र॒ सह॑से पिब ॥
इ॒मे । सोमा॑सः । इन्द॑वः । सु॒तासः॑ । अधि॑ । ब॒र्हिषि॑ । तान् । इ॒न्द्र॒ । सह॑से । पि॒ब॒ ॥
इन्दुशब्दः ‘उन्दी क्लेदने' इति धातोरुत्पन्नः । इन्दवः क्लेदनयुक्ताः इमे वेद्यामवस्थिताः सोमासः तत्तत्पात्रगताः सोमाः बर्हिषि यज्ञे अधि आधिक्येन सुतासः अभिषुताः । हे इन्द्र सहसे बलार्थं तान् सोमान् पिब ॥ सोमासः । ‘ आजसेरसुक्' (पा. सू. ७. १. ५० ) इति जसोऽसुगागमः । इन्दवः । उक्तम् । सुतासः । पूर्ववत् असुक् । संहितायां ‘ प्रकृत्यान्तःपादमव्यपरे इति प्रकृतिभावात् परपूर्वत्वं न भवति । बर्हिषि । बृहेर्नलोपश्च' ( उ. सू. २. २६६ ) इति इस् । प्रत्ययस्वरः । ‘ ताँ इन्द्र ' इत्यत्र ‘ दीर्घादटि समानपादे' इति रुत्वम् । यत्वयलोपौ । अनुनासिकः । सहसे । ' षह मर्षणे ' । असुनन्तो नित्त्वादाद्युदात्तः ॥ .
“These dripping Soma juices are effused upon the sacred grass; drink them, Indra, (to recruit your) vigour.”
Here are the drops of Soma juice expressed on sacred grass: thereof
Drink, Indra, to increase thy might.
Here are the pressed soma drops on the ritual grass.
Drink them, Indra, for might.
Die Somatropfen stehen hier gepresst, o Indra, auf der Streu, Zu deiner Stärkung trinke sie.
Diese ausgepreßten Somasäfte sind auf dem Barhis, die trink zur Stärke, Indra!
Эти соки сомы, выжатые
Капли – на жертвенной соломе.
Пей их, Индра, для силы!
अ॒यं ते॒ स्तोमो॑ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः । अथा॒ सोमं॑ सु॒तं पि॑ब ॥
अ॒यम् । ते॒ । स्तोमः॑ । अ॒ग्रि॒यः । हृ॒दि॒ऽस्पृक् । अ॒स्तु॒ । शम्ऽत॑मः । अथ॑ । सोम॑म् । सु॒तम् । पि॒ब॒ ॥
हे इन्द्र अयम् अस्माभिः क्रियमाणः स्तोमः स्तोत्रविशेषः अग्रियः श्रेष्ठः सन् ते तव हृदिस्पृक् मनस्यङ्गीकृतः शंतमः सुखतमः अस्तु । अथ स्तुतेरनन्तरं सुतम् अभिषुतं सोमं पिब ॥ अग्रियः । ‘ अग्रात् ' इत्यनुवृत्तौ ‘ घच्छौ च ' (पा. सू. ४. ४. ११७) इति घच् । चित्त्वादन्तोदात्तः । हृदि स्पृशतीति हृदिस्पृक्। ‘स्पृशोऽनुदके क्विन्' (पा. सू. ३. २. ५८)। तत्पुरुषे कृति बहुलम् । (पा. सू. ६. ३. १४ ) इति अलुक् । ‘ क्विन्प्रत्ययस्य कुः ' ( पा. सू. ८. २. ६२ ) इति शकारस्य कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । शंतमः । सुखकरद्रव्यवचनोऽत्र शंशब्दः । ततस्तमप् । अत्र सुखप्रकर्षस्य गुणद्वारा गुणनिष्ठद्रव्ये संक्रान्तत्वात् ' अद्रव्यप्रकर्षे' इति निषेधात् ' किमेत्तिङव्यय° ' ( पा. सू. ५. ४. ११) इत्यादिना आम् न भवति, द्रव्यस्य स्वतः प्रकर्षाभावात् । ईदृगर्थं एव हि स निषेधः । अथा सोमम् । संहितायां • निपातस्य ' इति दीर्घः ॥
“May this our excellent hymn, touching your heart, be grateful to you, and thence drink the effused libation.”
Welcome to thee be this our hymn, reaching thy heart, most excellent:
Then drink the Soma juice expressed.
Here is the foremost praise for you; let it be most availing, touching your heart.
So drink the pressed soma.
Zuerst sei sehr willkommen dir dies Loblied und ergreif dein Herz, Dann trink den ausgepressten Trank.
Dieses vorzüglichste Loblied soll dein Herz rühren, dir recht zusagen. Dann trink den ausgepreßten Soma!
Это замечательное восхваление
Пусть коснется твоего сердца, самое благодатное!
Так пей же выжатого сому!
विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा॑य गच्छति । वृ॒त्र॒हा सोम॑पीतये ॥
विश्व॑म् । इत् । सव॑नम् । सु॒तम् । इन्द्रः॑ । मदा॑य । ग॒च्छ॒ति॒ । वृ॒त्र॒ऽहा । सोम॑ऽपीतये ॥
वृत्रहा शत्रुघातकः इन्द्रः सोमपीतये सोमपानाय मदाय तत्पानजन्यहर्षाय च विश्वमित् सर्वमपि सुतम् अभिषुतसोमयुक्तं सवनं प्रातःसवनादिरूपं कर्म गच्छति ॥ विश्वम् । 'अशिप्रुषि' इत्यादिना क्वन् । नित्त्वादाद्युदात्तः। सवनं सुतम् । पूर्ववत् । मदाय । ‘ मदोऽनुपसर्गे ( पा. सू. ३. ३. ६७ ) इति अप्प्रत्ययः । पित्त्वात् धातुस्वरः । गच्छति । इषुगमियमां छः '(पा. सू. ७. ३. ७७ )। वृत्रहा। वृत्रं हतवान् । “ ब्रह्मभ्रूणवृत्रेषु क्विप्' ( पा. सू. ३. २. ८७ )। इन्हन् ' इत्यादिना निवृत्तं दीर्घत्वं ‘ सौ च ' ( पा. सू. ६. ४. १२-१३ ) इति प्रतिप्रसवात् भवति । कृदुत्तरपदप्रकृतिस्वरत्वम् । सोमपीतये । व्यधिकरणबहुव्रीहिः इत्युक्तम् । तत्पुरुषे वा दासीभारादित्वात् ( पा. सू. ६. २. ४२ ) पूर्वपदप्रकृतिस्वरत्वम् ॥
“Indra, the destroyer of enemies, repairs assuredly to every ceremony where the libation is poured out, to drink the Soma juice for (his) exhilaration.”
To every draught of pressed-out juice Indra, the Vrtra-slayer, comes,
To drink the Soma for delight.
To every pressing when it is pressed Indra goes for exhilaration,
the Vr̥tra-smasher, to drink the soma.
Zu jedem ausgepressten Saft kommt Indra zu berauschen sich, Der Vritrafeind zum Somatrunk.
Zu jeder ausgepreßten Trankspende kommt Indra, um sich zu berauschen, der Vritratöter zum Somatrunk.
На каждый праздник выжатого сомы
Индра идет для опьянения,
Убийца Вритры – для питья сомы.
सेमं न॒: काम॒मा पृ॑ण॒ गोभि॒रश्वै॑: शतक्रतो । स्तवा॑म त्वा स्वा॒ध्य॑: ॥
सः । इ॒मम् । नः॒ । काम॑म् । आ । पृ॒ण॒ । गोभिः॑ । अश्वैः॑ । श॒त॒क्र॒तो॒ इति॑ शतक्रतो । स्तवा॑म । त्वा॒ । सु॒ऽआ॒ध्यः॑ ॥
हे शतक्रतो सः त्वं नः अस्मदीयम् इमं कामं काम्यमानं फलं गोभिरश्वैः च सह आ पृण सर्वतः पूरय । वयमपि स्वाध्यः सुष्ठु सर्वतो ध्यानयुक्ताः सन्तः त्वा त्वां स्तवाम ॥ सेमम् । संहितायां: सोऽचि लोपे चेत्पादपूरणम्' इति सुलोपः। कामम् । कमेर्घञि ‘ कर्षत्वतो घञोऽन्त उदात्तः ' ( पा. सू. ६. १. १५९ ) इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । पृण । 'पृण प्रीणने '। लोटः सेर्हिः। ‘ तुदादिभ्यः शः' । तस्य ङित्वाद्गुणाभावः । अतो हेः' इति हेर्लुक् । गोभिः। 'सावेकाचः' इति प्राप्तं विभक्तेरुदात्तत्वं ‘ न गोश्वन्साववर्ण° । इति प्रतिषिध्यते । अश्वैः । क्वनन्त इत्युक्तम् । असामर्थ्यात् न पराङ्गवद्भावः । स्तवाम । ष्टुञ् स्तुतौ '। ‘धात्वादेः षः सः' । लोडुत्तमबहुवचनस्य ‘ लोटो लङ्वत्' इति लङ्वद्भावात् ' नित्यं ङितः ' ( पा. सू. ३. ४. ९९ ) इति सकारस्य लोपः। ‘ आडुत्तमस्य पिच्च' ( पा. सू. ३. ४. ९२) इति आडागमः । प्रत्ययस्य पित्त्वादनुदात्तत्वम् । धातुस्वर एव । स्वाध्यः। ‘ध्यै चिन्तायाम्। स्वाङोरुपसर्गयोः प्राक्प्रयोगः । ‘ अन्येभ्योऽपि दृश्यते ' ( पा. सू. ३. २. १७८) इति क्विप् । दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वात् अत्र संप्रसारणे सति परपूर्वत्वम् ।' हलः ' ( पा. सू. ६. ४. २ ) इति दीर्घः । जसि ‘ एरनेकाचः ' ( पा. सू. ६. ४. ८२ ) इति यणादेशः । ‘ गतिकारकोपपदात्कृत्' इत्युत्तरपदप्रकृतिस्वरत्वम् । उदात्तयणो हल्पूर्वात्' (पा, सू. ६. १. १७४ ) इति जस उदात्तत्वं न भवति, तत्र ‘ असर्वनामस्थानम् ' इत्यनुवृत्तेः । अतः ‘ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ' ( पा. सू. ८. २. ४ ) इति स्वरितत्वमेव भवति ॥ ॥ ३१ ॥
“Do you, Śatakratu, accomplish our desire with (the gift of) cattle and horse; profoundly meditating, we praise you.”
Fulfil, O Satakratu, all our wish with horses and with kine:
With holy thoughts we sing thy praise.
Fulfill this desire of ours with cows and horses, o you of a hundred resolves.
Very attentive, we will praise you.
Erfülle unsre Wünsche du durch Rind und Ross, vielwirkender, Dich woll'n wir loben andachtsvoll.
Erfülle du diesen unseren Wunsch durch Rinder, Rosse, du Ratreicher! Wir wollen dich mit gutem Bedacht preisen.
Исполни ты это наше желание –
Дай коров, коней, о стосильный!
Мы хотим прославить тебя прекрасной молитвой.