ते हि द्यावा॑पृथि॒वी वि॒श्वश॑म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी । सु॒जन्म॑नी धि॒षणे॑ अ॒न्तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ सूर्य॒: शुचि॑: ॥
ते इति॑ । हि । द्यावा॑पृथि॒वी इति॑ । वि॒श्वऽश॑म्भुवा । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । रज॑सः । धा॒र॒यत्क॑वी॒ इति॑ धा॒र॒यत्ऽक॑वी । सु॒जन्म॑नी॒ इति॑ सु॒ऽजन्म॑नी । धि॒षणे॒ इति॑ । अ॒न्तः । ई॒य॒ते॒ । दे॒वः । दे॒वी इति॑ । धर्म॑णा । सूर्यः॑ । शुचिः॑ ॥
ते हि ते खलु प्रसिद्धे द्यावापृथिवी अन्तः तयोरन्तराले शुचिः शुद्धो विश्वस्य शोचयिता वा देवः दीप्यमानः सूर्यः धर्मणा प्रकाशोदकदानादिधारणेन युक्तः सन् ईयते सर्वदा गच्छति ॥ ‘ ईङ् गतौ'। दैवादिकः ॥ तादृशं कर्म युवयोरनुग्रहादिति स्तुतिः । कीदृश्यौ ते। विश्वशंभुवा । विश्वं सुखभावयितृ ययोः ते विश्वशंभुवा । विश्वस्य सुखयित्र्यावित्यर्थः । ऋतावरी ऋतवत्यौ ॥ ऋतशब्दात् छन्दसीवनिपौ' इति वनिप् । वनो र च' इति ङीब्रेफौ ॥ रजसः उदकस्य उदकोत्पत्तौ । ‘ उदकं रज उच्यते ' ( निरु. ४. १९) इति निरुक्तम् । धारयत्कवी अकृच्छ्रेण धारकं कवि ययोस्ते तादृश्यौ । उदकोत्पादनाय अप्रयत्नवत्यौ इत्यर्थः । यद्वा । धारयस्कविर्मनीषी आदित्यो ययोस्ते तादृश्यौ । वृष्ट्युदकधारयत्सूर्योपेते इत्यर्थः। सुजन्मनी शोभनजन्मवत्यौ धिषणे धर्षणोपेते स्वव्यापारेषु प्रगल्भे इत्यर्थः। देवी द्योतमाने । अत्र यद्यपि धिषणे इत्येतत् ‘धिषणे रोदसी' (नि. ३. ३०. ३ ) इति तन्नामसु उक्तत्वात् द्यावापृथिवीनाम, तथापि द्यावापृथिवी इत्यस्य विद्यमानत्वात् यौगिकं द्रष्टव्यम् ।
“Those two, the divine Heaven and Earth, are the diffusers of happiness on all, encouragers of truth, able to sustain the water (of the rains), auspicious of birth, and energetic (in action); in the interval between whom proceeds the pure and divine Sun for (the discharge of his) duties.”
THESE, Heaven and Earth, bestow prosperity on all, sustainers of the region, Holy Ones and wise,
Two Bowls of noble kind: between these Goddesses the God, the fulgent Sun, travels by fixed decree.
Because these two, Heaven and Earth, beneficial to all, truthful, are those who uphold the poet of the airy realm,
he speeds between the two Holy Places of good birth—the god, the blazing Sun, between the two goddesses, according to his ordinance.
Sie beide, Erd' und Himmel, bringen allen Heil, die heiligen, die Weisen hegend und den Raum, Und zwischen beiden schöngebornen Göttinnen nach fester Regel geht der lichte Sonnengott.
Himmel und Erde, diese beiden allen ersprießlichen, gesetzestreuen sind es ja, die den Seher des Luftreiches tragen. Zwischen beiden Dhisana, den Göttinnen, den schöngebärenden, wandelt nach der Bestimmung der reine Sonnengott.
Ведь эти Небо и Земля – благодатные для всех,
Благочестивые, несущие поэта воздушного пространства.
Между двумя чашами мироздания, имеющими счастливое рожденье.
Божественными, движется, как положено, чистый бог Сурья.
उ॒रु॒व्यच॑सा म॒हिनी॑ अस॒श्चता॑ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः । सु॒धृष्ट॑मे वपु॒ष्ये॒३॒॑ न रोद॑सी पि॒ता यत्सी॑म॒भि रू॒पैरवा॑सयत् ॥
उ॒रु॒ऽव्यच॑सा । म॒हिनी॒ इति॑ । अ॒स॒श्चता॑ । पि॒ता । मा॒ता । च॒ । भुव॑नानि । र॒क्ष॒तः॒ । सु॒धृष्ट॑मे॒ इति॑ सु॒ऽधृष्ट॑मे । वपु॒ष्ये॒ इति॑ । न । रोद॑सी॒ इति॑ । पि॒ता । यत् । सी॒म् । अ॒भि । रू॒पैः । अवा॑सयत् ॥
उरुव्यचसा प्रभूतव्यचनवत्यौ अतिविस्तीर्णे महिनी अत एव महत्यौ असश्चता असज्जमाने परस्परवियुक्ते इत्यर्थः। पिता पालयित्री द्यौः माता निर्मात्री पृथिवी च इत्युभे भुवनानि भूतजातानि रक्षतः पालयतः । ‘ द्यौष्पितः पृथिवि मातः' (ऋ. सं. ६. ५१. ५) इत्यादिश्रुतेर्मातापितृरूपत्वम् । किंच सुधृष्टमे अतिशयेन धृष्टे ॥ छान्दसस्तकारलोपः ॥ प्रगल्भे रोदसी द्यावापृथिव्यौ वपुष्ये न वपुषो हिते इव । प्राणिनां पितराविव शरीररक्षके इत्यर्थः । तदेवोपपादयति । यत् यस्मात् सीं सर्वतः पिता पितृस्थानीयो द्यौः रूपैः निरूपणसाधनैः प्रशस्तैः प्रकाशैः निरूप्यमाणैर्वृष्ट्यादिभिर्वा अभि अवासयत् अभिवासयति अधितिष्ठति तस्मात् पिता माता च भुवनानि रक्षतः ॥
“Wide-spreading, vast, unconnected, the father and mother (of all beings), they two preservethe worlds. Resolute, as if (for the good) of embodied (beings), are Heaven and Earth, and the father ahs invested evry thing with (visible) forms.”
Widely-capacious Pair, mighty, that never fail, the Father and the Mother keep all creatures safe:
The two world-halves, the spirited, the beautiful, because the Father hath clothed them in goodly forms.
The two great ones of broad expanse, inexhaustible, the father and mother, protect living beings—
the two world-halves, the very boldest ones, who are like (girls) inviting admiration, when their father has decked them out with their forms.
Sie, weit an Umfang, unvergleichlich, reich und gross, als Vater, Mutter schützen alle Wesen sie; Die Welten, herrlich wirkend wie zwei schöne Fraun, da sie mit Pracht der Vater ausgestattet hat.
Breiträumig, großmächtig, nie versiegend, behüten Vater und Mutter die Geschöpfe. Die sehr kecken Rodasi sind wie zwei schöne Frauen, da der Vater sie in Farben kleidete.
Занимающие широкий простор, великие, неиссякающие,
Отец и мать охраняют (все) существа.
Два мира – словно две самые дерзкие красавицы,
Когда отец одел их в (разные) цвета.
स वह्नि॑: पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया॑ । धे॒नुं च॒ पृश्निं॑ वृष॒भं सु॒रेत॑सं वि॒श्वाहा॑ शु॒क्रं पयो॑ अस्य दुक्षत ॥
सः । वह्निः॑ । पु॒त्रः । पि॒त्रोः । प॒वित्र॑ऽवान् । पु॒नाति॑ । धीरः॑ । भुव॑नानि । मा॒यया॑ । धे॒नुम् । च॒ । पृश्नि॑म् । वृ॒ष॒भम् । सु॒ऽरेत॑सम् । वि॒श्वाहा॑ । शु॒क्रम् । पयः॑ । अ॒स्य॒ । धु॒क्ष॒त॒ ॥
पित्रोः मातापित्रोर्द्यवापृथिव्योः ॥ पिता मात्रा ' इति पिता शिष्यते । ‘ उदात्तयणः । इति पितुर्विभक्तिरुदात्ता ॥ पुत्रः पुरुत्राता पुत्रस्थानीयः आदित्यः पवित्रवान् 'पावनरश्मियुक्तः धीरः धीमान् सः वह्निः फलस्य वोढा धारकः सन् 'मायया प्रज्ञया स्वकीयया भुवनानि भूतजातानि पुनाति पावयति प्रकाशयतीत्यर्थः । किंच स एव पुत्रः पृश्निं शुक्लवर्णां धेनुं प्रीणयित्रीं भूमिं सुरेतसं शोभनसामर्थ्यं शोभनोदकं वा वृषभं सेक्तारं द्युलोकं च मायया पुनाति प्रकाशयतीत्यर्थः । कदा । विश्वाहा सर्वाण्यप्यहानि सर्वकालमित्यर्थः । किंच अस्य द्युलोकस्य । यद्वा ॥ कर्मणि षष्ठी । इमं द्युलोकम् । शुक्रं पयः दीप्तं पयःसदृशमुदकं धुक्षत दोग्धि ॥ दुहेश्छान्दसे लुङि ‘ शल इगुपधादनिटः क्सः' इति च्लेः क्सादेशः ॥ ईदृशो महानुभावः आदित्यस्तयोः पुत्रः इति द्यावापृथिव्योः स्तुतिः ॥
“The pure and the resolute son of (these) parents, the bearer (of rewards), sanctifies the worlds by his intelligence;. as well as the cow (the earth), and the vigorous bull (the heaven), and daily milks the pellucid milk (of the sky).”
Son of these Parents, he the Priest with power to cleanse, Sage, sanctifies the worlds with his surpassing power.
Thereto for his bright milk he milked through all the days the party-coloured Cow and the prolific Bull.
That draft-horse, the son of the two fathers, the insightful one
provided with the means of purification purifies living beings by his magical power.
Out of the dappled cow and the bull possessing good semen he has
milked his blazing milk all the days.
Der Sohn der beiden, fahrend, reinen Glanzes voll bestrahlt die Wesen, er, der weise, wunderbar, Dem samenreichen Stiere und der bunten Kuh entzog er melkend immerdar den hellen Saft.
Der wagenfahrende Sohn, der das Läuterungsmittel der beiden Eltern besitzt, der weise, läutert mit Zauberkraft die Geschöpfe. Aus der bunten Kuh und dem gutbesamten Stier melkt er alle Tage dessen Samen und Milch.
Этот сын, возница (своих) родителей, имея цедилку,
Очищает, мудрый, с помощью волшебной силы (все) существа.
У пестрой дойной коровы и у быка с прекрасным семенем
Все дни он выдаивает молоко – его семя.
अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश॑म्भुवा । वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे॑भि॒: स्कम्भ॑नेभि॒: समा॑नृचे ॥
अ॒यम् । दे॒वाना॑म् । अ॒पसा॑म् । अ॒पःऽत॑मः । यः । ज॒जान॑ । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा । वि । यः । म॒मे । रज॑सी॒ इति॑ । सु॒क्र॒तु॒ऽयया॑ । अ॒जरे॑भिः । स्कम्भ॑नेभिः । सम् । आ॒नृचे ॥
पूर्वं पुत्रमाहात्म्येनैते प्रशस्य इदानीं स्वोत्पादकस्तुत्या प्रशंसति । अयं देवानां मध्ये देवतमः अपसामपस्तमः । अप इति कर्मनाम । तेन तद्वान् लक्ष्यते । कर्मवतां मध्ये प्रकृष्टकर्मा । अयमित्युक्तं क इत्याह। यः देवः विश्वशंभुवा सर्वप्रकारेण भूतानां सुखस्य भावयित्र्यौ रोदसी द्यावापृथिव्यौ महानुभावे जजान उत्पादितवान् । न केवलमुत्पादनमात्रं अपि तु यः देवः रजसी रञ्जनात्मिके द्यावापृथिव्यौ । रजसी इति द्यावापृथिव्योर्नाम, ‘रजसी सदसी' (नि. ३. ३०.८) इति तन्नामसु पाठात् । उक्तरूपे वि ममे विशेषेण परिच्छिनत्ति । किं स्वोपभोगाय नेत्याह। सुक्रतूयया शोभनकर्मेच्छया । येन कर्मणा प्राणिनां सुखं संभवति तादृक्कर्मेच्छया । अथवा एतदुत्तरत्र संबध्यते । सुक्रतूयया उक्तेन निमित्तेन इमे द्यावापृथिव्यौ अजरेभिः अजीर्णैर्दृढतरैः स्कम्भनेभिः गतिप्रतिबन्धसाधनैः शङ्कुभिः समानृचे सम्यक् सर्वतः पूजितवान् स्थापितवानित्यर्थः ॥ ऋच स्तुतौ'। लिटि रेफसामान्यात् द्विहल्त्वमस्तीति तस्मान्नुड्द्विहलः' इत्यभ्यासस्य नुट् । यस्मादेवं तस्माद्यमेव देवः अयमेव अपस्तमः इत्येवंमहानुभावेन परमेश्वरेणोत्पन्ने इति स्तुतिः ॥
“He it is, amongst gods (the most divine), amongst (pious) works the most pious, who gave birth to the all-delighting heaven and earth; who measured them both, and, for the sake of holy rites, propped them up with undecaying pillars.”
Among the skilful Gods most skilled is he, who made the two world-halves which bring prosperity to all;
Who with great wisdom measured both the regions out, and stablished them with pillars that shall ne'er decay.
This one here, the best artisan of the artisans of the gods, who begat the two world-halves beneficial to all,
who measured out the two airy realms with a display of his good resolve, with unaging props—he has been universally praised.
Der kunstbegabten Götter bester Künstler war der, welcher kunstvoll wirkend Erd' und Himmel schuf, Die beiden Welten, welche allen Heil verleihn, durch Stützen, die nicht altern, fest errichtete.
Dieser war unter den werkkundigen Göttern der Werkkundigste, der Himmel und Erde, die alles ersprießlichen, erzeugt hat, der die beiden Reiche mit gutem Bedacht ausgemessen hat. Er hält sie mit morschen Stützen zusammen.
Тот из деятельных богов самый деятельный,
Кто породил два мира, благодатных для вас,
Кто отмерил два пространства о помощью прекрасной силы духа,
Он почтил (их) нестареющими опорами.
ते नो॑ गृणा॒ने म॑हिनी॒ महि॒ श्रव॑: क्ष॒त्रं द्या॑वापृथिवी धासथो बृ॒हत् । येना॒भि कृ॒ष्टीस्त॒तना॑म वि॒श्वहा॑ प॒नाय्य॒मोजो॑ अ॒स्मे समि॑न्वतम् ॥
ते । नः॒ । गृ॒णा॒ने इति॑ । म॒हि॒नी॒ इति॑ । महि॑ । श्रवः॑ । क्ष॒त्रम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒स॒थः॒ । बृ॒हत् । येन॑ । अ॒भि । कृ॒ष्टीः । त॒तना॑म । वि॒श्वहा॑ । प॒नाय्य॑म् । ओजः॑ । अ॒स्मे इति॑ । सम् । इ॒न्व॒त॒म् ॥
ते प्रसिद्धे हे द्यावाथिवी द्यावापृथिव्यौ गृणाने अस्माभिः स्तूयमाने सत्यौ ॥ कर्मणि कर्तृप्रत्ययः ॥ महि महदतिप्रभूतं श्रवः सर्वत्र प्रसिद्धमन्नं सर्वत्र श्रूयमाणां कीर्तिं वा नः अस्मभ्यं धासथः धत्तम् ॥ दधातेर्लेट्यडागमः । ‘ सिब्बहुलम्' इति सिप् । तथा बृहत् अतिप्रभूतं क्षत्रं बलं धासथः । तदेव विशेष्यते । येन अन्नबलेन विश्वहा सर्वेष्वपि अहःसु कृष्टीः पुत्रादिरूपाः प्रजाः अभि ततनाम अभितो विस्तारयाम॥ तनोतेर्लोटि छान्दसो विकरणस्य श्लुः। ‘आडुत्तमस्य इति आडागमः । तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् अभ्यस्ताद्युदात्तत्वाभावे धातुस्वरः ॥ कृष्टय इति मनुष्यनाम, कृष्टयः चर्षणयः ' ( नि. २. ३. ७) इति तन्नामसु पाठात् । किंच पनाय्यं स्तुत्यम् ओजः शरीरबलम् अस्मे अस्मासु सम्यक् इन्वतं व्याप्नुतं प्रवर्धयतमित्यर्थः । इन्वतिर्व्यप्तिवचनः, ‘इन्वति ननक्ष' ( नि. २. १८. १ ) इति तन्नामसु पाठात् ॥ ॥ ३ ॥
“Glorified by us, grant to us, Heaven and Earth abundant food and great strength; whereby we may daily multiply mankind; bestow upon us commendable vigour.”
Extolled in song, O Heaven and Earth, bestow on us, ye mighty Pair, great glory and high lordly sway,
Whereby we may extend ourselves ever over the folk; and send us strength that shall deserve the praise of men.
While being sung, o great ones, you will establish great fame for us and lofty dominion, o Heaven and Earth,
by which we will extend (our control) over the communities all the days. Jointly impel to us power worthy of wonder.
Von uns gepriesen gebet, Erd' und Himmel, uns, ihr grossen, hohe Herrschermacht und grossen Ruhm, Durch den wir alle Völker überragen rings; ihr möget preisenswerthe Stärke uns verleihn.
Gepriesen möget ihr großmächtigen Himmel und Erde uns großen Ruhm und hohe Herrschaft gewähren, durch die wir allezeit die Völker überstrahlen. Lasset uns anerkannte Kraft zukommen!
Воспетые, эти двое великих: Небо и Земля,
Пусть дадут нам великую славу, высокую власть,
С помощью которой все дни мы будем возвышаться над народами!
Пробудите в нас силу, достойную удивления!