किमु॒ श्रेष्ठ॒: किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म । न नि॑न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने॑ भ्रात॒र्द्रुण॒ इद्भू॒तिमू॑दिम ॥
किम् । ऊँ॒ इति॑ । श्रेष्ठः॑ । किम् । यवि॑ष्ठः । नः॒ । आ । अ॒ज॒ग॒न् । किम् । ई॒य॒ते॒ । दू॒त्य॑म् । कत् । यत् । ऊ॒चि॒म । न । नि॒न्दि॒म॒ । च॒म॒सम् । यः । म॒हा॒ऽकु॒लः । अ॒ग्ने॒ । भ्रा॒तः॒ । द्रुणः॑ । इत् । भू॒तिम् । ऊ॒दि॒म॒ ॥
ऋभवो नाम सुधन्वनस्त्रयः पुत्रा ऋभुर्विभ्वा वाज इति । ते च मनुष्याः सन्तः सुकर्मणा देवत्वं प्राप्य कदाचित् कर्मकाले सोमपानाय प्रवृत्ताः । तान् प्रति देवैः प्रेरितोऽग्निः परस्परसमानरूपान् दृष्ट्वा स्वयमपि तदाकारं धृत्वा तेषु मध्ये स्वयं चतुर्थः सन् पातुं प्रवृत्तः । ते च ऋभवः आगतं तं समानरूपमवलोक्य विवेक्तुमसमर्थाः पदस्परमेवं संदिहते । अयं किमु श्रेष्ठः किं नु खलु अस्मत्तोऽयं प्रशस्यतमो वयसा श्रेष्ठः सोऽस्मान् आजगन् आगमत् प्राप्तः ॥ गमेर्लङि छान्दसः शपः श्लुः । हल्ङ्यादिलोपे ' मो नो धातोः' इति नत्वम् । अजगन्निति गतिकर्मा, अगन् अजगन्' (नि. २. १४.११२) इति तन्नामसु पाठात् ॥ किं यविष्ठः किं वा अस्माकं युवतमोऽस्मत्तः कनीयान् आजगन् प्राप्तः । किं वा दूत्यं दूतकर्म देवसंबन्धि ईयते गच्छति । देवैः प्रेरितः दूतोऽस्मानागतो वा ॥ ‘ दूतस्य भागकर्मणी ' इति यत् ॥ यदूचिम यदेतत् ब्रूमः तत् कत् । कथं निश्चेतव्यमित्यर्थः । वयं तावत् त्रय एव इदानीं चत्वारः समानरूपा वर्तामहे तस्मादयमधिकः किमु श्रेष्ठ इति विचिकित्सा । एवं संदिह्य कथंचित् स्वतोऽन्यं निश्चित्य तं प्रति आपरोक्ष्येण ब्रुवते । हे अग्ने भ्रातः भ्रातृवद्भागार्ह । भ्राता यथा बलात् स्वकीयभागं स्वीकरोति तद्वत् समानरूपमाश्रित्य बलात् चमसपानाय प्रवृत्त इति भ्रातरित्युक्तम् । हे तादृशाग्ने चमसं न निन्दिम । अधिकः समागत इति पानमकृत्वा चमसं न दूषयामः ॥ ‘ णिदि कुत्सायाम् । 'छन्दसि वेति वक्तव्यम्' इति द्विर्वचनाभावः ॥ अदूष्यत्वे कारणमाह । यः चमसः महाकुलः महाकुलोत्पन्नः त्वष्ट्रा निर्मितत्वात् । वक्ष्यति च त्वष्टा ग्नास्वन्तर्न्यानजे ' ( ऋ. सं १. १६१. ४ ) इति । अतः कारणात् द्रुणः । विकारे प्रकृतिशब्दः । ततश्च तत्स्थे तच्छब्दः । इच्छब्दोऽवधारणे । दारुविकारचमसस्य भूतिं प्राप्तिम् ऊदिम ब्रूमः ॥ विदेश्छान्दसे लिटि वचिस्वपि ' इति संप्रसारणम् । क्रादिनियमात् इट् ।
“Is this our senior or our junior who has come (to us); has he come upon a message (from the gods); what is it we should say? Agni,brother, we revile not the ladle which is of exalted race; verily we assert the dignity of the wooden (implement).”
WHY hath the Best, why hath the Youngest come to us? Upon what embassy comes he? What have we said?
We have not blamed the chalice of illustrious birth. We, Brother Agni, praised the goodness of the wood.
[The R̥bhus:] “Why has the best, why has the youngest one come here to us? For what messenger’s duty does he speed? What is it that we
have said?
We have not insulted the cup with its great hollow. Brother Agni, we have spoken only of the excellence of the wooden (vessel).”
»Ist uns der jüngste, ist der älteste gemacht? und welche Botschaft bringt er? und was sagten wir? Nicht schalten wir den Becher, er ist gut von Art; des Holzes Güte, Bruder Agni, rühmten wir.«
Ist der Erste, ist der Jüngste zu uns gekommen? Welche Botschaft bringt er? Was war es, das wir gesagt haben? Wir haben den Becher nicht getadelt, der von guter Herkunft ist. Nur von der Entstehung des Holzes haben wir gesprochen, Bruder Agni.
Зачем же пожаловал самый красивый, зачем самый юный?
С каким идет поручением? Что мы такого сказали,
Мы не ругали кубка, который благородного рода.
О Агни-брат, мы говорили только о пригодности дерева. -
Агни:
एकं॑ चम॒सं च॒तुर॑: कृणोतन॒ तद्वो॑ दे॒वा अ॑ब्रुव॒न्तद्व॒ आग॑मम् । सौध॑न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया॑सो भविष्यथ ॥
एक॑म् । च॒म॒सम् । च॒तुरः॑ । कृ॒णो॒त॒न॒ । तत् । वः॒ । दे॒वाः । अ॒ब्रु॒व॒न् । तत् । वः॒ । आ । अ॒ग॒म॒म् । सौध॑न्वनाः । यदि॑ । ए॒व । क॒रि॒ष्यथ॑ । सा॒कम् । दे॒वैः । य॒ज्ञिया॑सः । भ॒वि॒ष्य॒थ॒ ॥
एवं पृष्टोऽग्निस्तान् प्रत्युवाच । हे सौधन्वनाः सुधन्वनः पुत्राः यूयम् एकं चमसं त्वष्ट्रा संपादितं पूर्वमेकमेव सन्तं चमसं चतुरः कृणोतन चतुःसंख्याकान् कुरुत । चतुरः शसि' (पा. सू. ६. १. १६७ ) इत्यन्तोदात्तत्वम् । पूर्ववत् तनप् ॥ यथा उपरितने ' ज्येष्ठ आह चमसा द्वा करेति । इत्युपक्रम्य ‘ कनिष्ठ आह चतुरस्करेति' ( ऋ. सं. ४. ३३. ५) इति चतुष्कं निर्धारितम् । न केवलमहमेव ब्रवीमि किंतु वः युष्मान प्रति तत् उक्तं चतुर्धाकरणरूपं कर्म उत्तरत्र वक्ष्यमाणम् अश्वरथादिकरणरूपं च कर्म देवाः इन्द्रादयः अब्रुवन् । देवत्वप्राप्त्युपायत्वेन तत् तादृशं कर्म वः युष्माकं वक्तुम् अहम् आगमम् प्राप्तोऽस्मि । यस्मादेवं तस्माद्यूयं यद्येवा करिष्यथ यद्येवं मदुक्तप्रकारेण कर्तुं शक्नुथ तथा चेत् देवैः साकं सह यज्ञियासो भविष्यथ । इति तैरुक्तमित्यर्थः ॥
“Make fourfold the single ladle; so the gods command you; and for that purpose have I come, sons of Sudhanvan; if you accomplish this, you will be entitled to sacrifices along with the gods.”
The chalice that is single make ye into four: thus have the Gods commanded; therefore am I come.
If, O Sudhanvan's Children, ye will do this thing ye shall participate in sacrifice with Gods.
[Agni:] “ ‘Make the one cup to be four’—that the gods said to you. For that I have come to you.
Sons of Sudhanvan, if you will do thus, you will become worthy (recipients) of the sacrifice along with the gods.”
»Aus einem Becher sollt ihr vier verfertigen; das sagen euch die Götter, darum komm' ich her; Wenn ihr, Sudhanvans Söhne, solches werdet thun, so werdet ihr den Göttern gleich an Ehren sein.«
Aus dem einen Becher machet vier! Das sagten euch die Götter, darum bin ich zu euch gekommen. Ihr Söhne des Sudhanvan, wenn ihr also tun werdet, so sollt ihr zusammen mit den Göttern opferberechtigt werden.
Из одного кубка сделайте четыре!
Это вам сказали боги. За этим я к вам пришел.
О сыновья Судханвана, если вы так сделаете,
То вместе с богами станете достойными жертв! –
Рассказчик:
अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्व॒: कर्त्वो॒ रथ॑ उ॒तेह कर्त्व॑: । धे॒नुः कर्त्वा॑ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ॥
अ॒ग्निम् । दू॒तम् । प्रति॑ । यत् । अब्र॑वीतन । अश्वः॑ । कर्त्वः॑ । रथः॑ । उ॒त । इ॒ह । कर्त्वः॑ । धे॒नुः । कर्त्वा॑ । यु॒व॒शा । कर्त्वा॑ । द्वा । तानि॑ । भ्रा॒तः॒ । अनु॑ । वः॒ । कृ॒त्वी । आ । इ॒म॒सि॒ ॥
हे आगत देव अग्निम् अङ्गनादिगुणविशिष्टं दूतं दूतकर्म प्राप्तवन्तं त्वां प्रति यत् यत्कार्यम् अब्रवीतन अब्रुवन् । व्यत्ययेन मध्यमः । पूर्ववत् तनप् ॥ किमिति अश्वः कर्त्वः । एकस्मादश्वादश्वान्तरं कर्तव्यमित्यर्थः । अश्वादश्वमतक्षत ' ( ऋ.सं. १. १६१. ७) इति वक्ष्यमाणत्वात् ॥ ‘ कृत्यार्थे तवैकेन्' इति त्वन्प्रत्ययः ॥ उत अपि च रथः कर्त्वः कर्तव्यः । धेनुः कर्त्वा । चर्मरहिता मृता गौः नित्यदोग्ध्री पुनर्नूतना कार्या । तदुत्तरत्र ‘ निश्चर्मणो गामरिणीत धीतिभिः ' ( ऋ.सं. १. १६१. ७ ) इति वक्ष्यमाणत्वात् । तथा द्वा द्वौ पितरौ जीर्णौ सन्तो पुनः युवशा युवानौ शयानौ प्रकृष्टयौवनोपेतौ कर्त्वा कर्तव्यौ । हे भ्रातः अग्ने युष्माकं देवानां तैरुक्तानि कर्माणि कृत्वा अनु पश्चात् कृत्वी कृत्व्या कर्मणा एमसि एमः आभिमुख्येन प्राप्नुमः ॥ ‘ इण् गतौ । इदन्तो मसिः॥ यद्वा । ऋषेरिदं वाक्यम् । हे ऋभवः यूयमागतमग्निं दूतं प्रति यदब्रवीतन यत्कार्यं वक्ष्यमाणरूपं कर्तव्यत्वेन वदथ अङ्गीकुरुथ तानि सर्वाणि संपाद्य हे भ्रातरग्ने कृत्व्या कर्मणैमसीति ब्रूथेत्यृषिराह ॥
“Then said they, in answer to Agni, the messenger (of the gods). Whatever is to be done, whether a horse is to be made, or a car is to be made, or a cow is to be made, or the two (old parents) are to be made young, having done all these (acts), Brother Agni, we are then ready to do (what you desire) to be done.”
What to the envoy Agni in reply ye spake, A courser must be made, a chariot fashioned here,
A cow must be created, and the Twain made young. When we have done these things, Brother, we turn to you.
When you replied to the messenger Agni, “A horse must be made, and a chariot also must be made here.
A milk-cow must be made, and the two must be made young. When we have done these things, brother, we will follow you [=gods].”
Als ihr dem Boten Agni drauf erwidertet: »Wir wollen einen Wagen machen und ein Ross, und eine Kuh, zwei Alten Jugendkraft verleihn; Ist das vollbracht, dann, Bruder, gehn wir an eur Werk.«
Was ihr dem Boten erwidertet: " Wir müssen noch ein Roß anfertigen und den Wagen hier anfertigen, eine Kuh anfertigen und zwei jung machen. Wenn wir das getan haben, dann kommen wir euch nach, Bruder.
(Вот) что вы ответили Агни-вестнику:
Надо сделать коня, а также колесницу здесь надо сделать.
Надо сделать дойную корову, двоих сделать молодыми.
После того, как сделаем эти (дела,), брат, отправимся к вам.
च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन् । य॒दावाख्य॑च्चम॒साञ्च॒तुर॑: कृ॒तानादित्त्वष्टा॒ ग्नास्व॒न्तर्न्या॑नजे ॥
च॒कृ॒ऽवांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । क्व॑ । इत् । अ॒भू॒त् । यः । स्यः । दू॒तः । नः॒ । आ । अज॑गन् । य॒दा । अ॒व॒ऽअख्य॑त् । च॒म॒सान् । च॒तुरः॑ । कृ॒तान् । आत् । इत् । त्वष्टा॑ । ग्नासु॑ । अ॒न्तः । नि । आ॒न॒जे॒ ॥
हे ऋभवः तत् कार्यं यथा 'चकृवांसः कृतवन्तो यूयम् अपृच्छत प्रश्नं कुरुत ॥ करोतेर्लिटः क्वसुः । अत्र यद्यपि ऋभुरिति त्रयाणां मध्ये एकस्य नाम तथापि तस्य प्राथम्यात् ‘छत्रिणो गच्छन्ति ' इतिवत् सर्वेऽपि ऋभवः' उच्यन्ते । किमिति । स्यः सः दूतः क्वेदभूत् कुत्र गतः । स इत्युक्तं क इत्याह । यः यो दूतः नः अस्मान् आजगन् आगमत् प्राप्तः । एवंभूते सति यदा अयं त्वष्टा चतुरः कृतान् चमसान् अवाख्यत् अभिपश्यति ॥ ख्यातेर्लुङि • अस्यतिवक्तिख्याति° इति च्लेः अङादेशः ॥ आदित् अनन्तरमेव त्वष्टा तस्य चमसस्योत्पादकः एतन्नामको देवः ग्नासु स्त्रीषु । मेना ग्ना इति स्त्रीणाम्' ( निरु. ३. २१) इति निरुक्तम् । अन्तः मध्ये न्यानजे न्यक्तोऽभूत् । स्त्रियम् आत्मानम् अमन्यत इत्यर्थः ॥ अञ्जेर्लिटि तस्मान्नुड्द्विहलः' इति नुट् । छान्दसोऽनुनासिकलोपः ॥
“So doing Ṛbhus, you inquired: where, indeed, is he who came to us as a messenger? When Tvaṣṭā observed the one ladle become four, he was immediately lost amongst the women.”
When thus, O Rbhus, ye had done ye questioned thus, Whither went he who came to us a messenger?
Then Tvastar, when he viewed the four wrought chalices, concealed himself among the Consorts of the Gods.
Having done these things, R̥bhus, you asked this: “Just where has he gone who came here to us as a messenger?”
When he caught sight of the four cups that were made, just then Tvaṣṭar was anointed among the Wives (of the Gods).
Als das, o Ribhu's, ihr vollbracht, so fragtet ihr: »Wo ging der hin, der uns die Botschaft hat gebracht?« Doch Tvaschtar, als vier Becher er gefertigt sah, versteckte sich hinschlüpfend zu der Weiber Schar.
Als ihr Ribhu´s das gemacht hattet, fragtet ihr: "Wo ist der hin, der zu uns als Bote gekommen war?" - Als Tvastri die vier farbigen Becher erblickt hatte, da versteckte er sich unter die Götterfrauen.
Сделав (это,) вы Рибху, спросили (вот) что:
Куда же девался тот, кто приходил к нам вестником?
Когда же Тваштар разглядел четыре готовых кубка,
Он затерялся среди божественных жен.
हना॑मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे॑व॒पान॒मनि॑न्दिषुः । अ॒न्या नामा॑नि कृण्वते सु॒ते सचाँ॑ अ॒न्यैरे॑नान्क॒न्या॒३॒॑ नाम॑भिः स्परत् ॥
हना॑म । ए॒ना॒न् । इति॑ । त्वष्टा॑ । यत् । अब्र॑वीत् । च॒म॒सम् । ये । दे॒व॒ऽपान॑म् । अनि॑न्दिषुः । अ॒न्या । नामा॑नि । कृ॒ण्व॒ते॒ । सु॒ते । सचा॑ । अ॒न्यैः । ए॑नान् । क॒न्या॑ । नाम॑ऽभिः । स्प॒र॒त् ॥
एनान् वक्ष्यमाणान् हनाम इति यत् यदा अब्रवीत् त्वष्टा । पूजार्थं बहुवचनम् । एतच्छब्दस्य प्रकृतपरामर्शकत्वात् ऋभूणां प्रकृतत्वात् तेषां हननप्रसक्तिं दर्शयति। ये देवपानं देवैः पातव्यं 'चमसं ये ऋभवः अनिन्दिषुः निन्दामकुर्वन्। देवयोग्यं त्वाष्ट्रचमसं मनुष्याः ऋभवः स्वीकृत्य चतुर्धा व्यभजन तान् हनामेति यदा अब्रवीदित्यर्थः । तदाप्रभृति मनुष्याः सुते अभिषुते सोमे पानाय प्रस्तुते सति सचा सह परस्परम् अन्या नामानि अन्यानि होत्रध्वर्यूद्गात्रादीनि कृण्वते कुर्वन्ति । पूर्वनाम प्रच्छाद्य उपहवकाले ‘अध्वर्य उपह्वयस्व होतरुपह्वयस्व' इत्येवम् अन्यैरेव नामभिः आत्मानं त्वष्टृवधभीत्या प्रख्यापयन्तीत्यर्थः । पूर्वम् अन्यानि कथं प्रसक्तानीत्यत आह । एनान् नरान् कन्या स्वोत्पादयित्री माता अन्यैः एव नामभिः स्परत् प्रीणयति ॥ ‘ स्पृ प्रीतिबलयोः '। लेट्यडागमः ॥ ॥ ४ ॥
“When Tvaṣṭā said: let us slay those who have profaned the ladle, (designed) for the drinking of the gods; then they made use of other names for one another as the libation was poured out; and the maiden (mother) propitiated them by different appellations.”
As Tvastar thus had spoken, Let us slay these men who have reviled the chalice, drinking-cup of Gods,
They gave themselves new names when Soma juice was shed, and under these new names the Maiden welcomed them.
When Tvaṣṭar said, “We shall smash those who have insulted the cup that gives drink to the gods”—
they [=the R̥bhus] make other names for themselves during the soma-pressing—by their other names the maiden will rescue them.
Als Tvaschtar sprach: »Lasst diese Männer tödten uns, die frech durch Spott der Götter Trinkgefäss entweiht«, Da legten sie beim Trunk sich andre Formen an, die so versteckten rettete ein Mädchen dann.
Als Tvastri sprach: "Wir wollen sie erschlagen, die die Becher für den Göttertrank getadelt haben", da nahmen sie bei dem Somaopfer andere Namen an. Unter anderen Namen brachten sie die Jungfrau in Sicherheit.
Когда Тваштар сказал: Мы убьем тех,
Кто ругал кубок, служащий богам для питья!, –
Они приняли другие имена при выжимании (сомы).
Под другими именами их освободила девица.
इन्द्रो॒ हरी॑ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति॑र्वि॒श्वरू॑पा॒मुपा॑जत । ऋ॒भुर्विभ्वा॒ वाजो॑ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं॑ भा॒गमै॑तन ॥
इन्द्रः॑ । हरी॑ । यु॒यु॒जे । अ॒श्विना॑ । रथ॑म् । बृह॒स्पतिः॑ । वि॒श्वऽरू॑पाम् । उप॑ । आ॒ज॒त॒ । ऋ॒भुः । विऽभ्वा॑ । वाजः॑ । दे॒वान् । अ॒ग॒च्छ॒त॒ । सु॒ऽअप॑सः । य॒ज्ञिय॑म् । भा॒गम् । ऐ॒त॒न॒ ॥
पूर्वं सृष्टानां क्रमेण विनियोगमाह । इन्द्रो हरी युयुजे । एतन्नामानावश्वौ रथे योजितवान् । तथा अश्विना अश्विनौ रथं योजितवन्तौ । तथा बृहस्पतिः बृहतो मन्त्रस्य पालयिता एतन्नामको देवः विश्वरूपां नानारूपोपेतां गाम् उपाजत उपागमत् स्वीकृतवानित्यर्थः । यद्यप्यत्र गौरिति विशेषो न श्रुतः तथापि पूर्वं धेनुः कर्त्वेत्युक्तत्वात् पुरस्ताच्च ‘ये धेनुं विश्वजुवं विश्वरूपाम् ' (ऋ.सं. ४. ३३. ८) इति वक्ष्यमाणत्वाच्च विश्वरूपा गौरित्येवाध्यवसीयते । अत एव विश्वरूपाम् इत्यस्याश्वपङ्क्तिरिति केचन व्याचक्षते तदसत्। युष्मत्संपादितानि रथादीनि इन्द्रादयः स्वभागत्वेनाकल्पयन् । तस्मात् ऋभुर्विभ्वा वाजः च यूयं देवान् इन्द्रादीन् अगच्छत । गत्वा च हे स्वपसः शोभनाश्वरथादिकर्मवन्तो यूयं यज्ञियं यज्ञार्हं यज्ञसंबन्धिनं भागं सोमरूपं देवत्वं प्राप्तैः सेवनीयम् ऐतन प्राप्नुत । कर्मसामर्थ्येन हविर्भुजो भवतेत्यर्थः । इत्येवमृषिराह ॥
“Indra has caparisoned his horses; the Aśvins have harnessed their car; Bṛhaspati has accepted the omniform (cow); therefore, Ṛbhu, Vibhva and Vāja, go the gods, doers of good deeds, enjoy your sacrificial portion.”
Indra hath yoked his Bays, the Asvins' car is horsed, Brhaspati hath brought the Cow of every hue.
Ye went as Rbhus, Vibhvan, Vaja to the Gods, and skilled in war, obtained your share in sacrifice.
Indra has hitched up his two fallow bays, and the Aśvins their chariot. Br̥haspati drove near (the cow) of all forms.
You—R̥bhu, Vibhvan, and Vāja—went to the gods. By your skillful work you came to a share in the sacrifice.
Die Füchse schirrte Indra sich, und ihr Gefährt das Ritterpaar, die Wunderkuh Brihaspati, Zu Göttern gingen Ribhu, Vibhvan, Vadscha ein, und Götterehre ward den Künstlern da zu Theil.
Indra schirrte das Falbenpaar an, die Asvin ihren Wagen, Brihaspati trieb die Kuh Visvarupa ein. Als Ribhu, Vibhvan, Vaja ginget ihr unter die Götter, als Künstler kamet ihr zu einem Opferanteil.
Индра запряг пару буланых коней, Ашвины – колесницу,
Брихаспати пригнал (корову) Вишварупу.
Как Рибху, Вибхван, Ваджа вы отправились к богам,
Как прекрасные мастера вы пришли к (вашей) доле (в жертве).
निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर॑न्ता युव॒शा ताकृ॑णोतन । सौध॑न्वना॒ अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ अ॑यातन ॥
निः । चर्म॑णः । गाम् । अ॒रि॒णी॒त॒ । धी॒तिऽभिः॑ । या । जर॑न्ता । यु॒व॒शा । ता । अ॒कृ॒णो॒त॒न॒ । सौध॑न्वनाः । अश्वा॑त् । अश्व॑म् । अ॒त॒क्ष॒त॒ । यु॒क्त्वा । रथ॑म् । उप॑ । दे॒वान् । अ॒या॒त॒न॒ ॥
हे सौधन्वनाः यूयं निश्चर्मणः मृतायाः गोः सकाशात् उत्कृत्ताच्चमर्णः गां नृतनां निः अरिणीत निरगमयत उत्पादितवन्त इत्यर्थः । तेनैव चर्मणा संवीतां तत्सदृशीमन्यां धेनुं कृतवन्त इत्यर्थः । यद्यपि पूर्वमेव अश्वादीनां विनियोगः उक्तः तथापि तेषामत्यन्तदुःखसंपादत्वज्ञापनाय पुनराह । न केवलं गोकरणमेव अपि च या जरन्ता यौ जीर्णौ पितरौ ता तौ युवशा युवानौ अकृणोतन अकुरुत । किंच अश्वादश्वम् एकेन विद्यमानेनाश्वेन अश्वान्तरम् अतक्षत प्रयत्नेन संपादितवन्तः । यस्मादेवं कृतवन्तस्तस्मात् रथं युष्मदीयं युक्त्वा अश्वैर्योजयित्वा देवान् इन्द्रादीन् उप अयातन देवसमीपं प्राप्नुत ॥ इदमुंदकं पिबतेत्यब्रवीतनेदं वा वा पिबता मुञ्जनेजनम् । सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्यै ॥ ८ ॥
“Sons of Sudhanvan, from a hideless (cow) you have formed a living one; by your marvellous acts you have made your aged parents young; from one horse you have fabricated another; harness now your chariot, and repair unto the gods.”
Ye by your wisdom brought a cow from out a hide; unto that ancient Pair ye gave again their youth.
Out of a horse, Sudhanvan's Sons, ye formed a horse: a chariot ye equipped, and went unto the Gods.
From the hide you made the cow to flow (milk) by your insights. You made those young who were the aging pair.
O sons of Sudhanvan, you fashioned a horse from a horse, and having hitched up the chariot, you journeyed toward the gods.
Mit Weisheit löstet ihr die Kuh aus ihrem Fell, die beiden Alten habt ihr wieder jung gemacht; Aus einem Ross, Sudhanvans Söhne, noch ein Ross; geschirrten Wagens fuhret zu den Göttern ihr.
Aus dem Fell ließet ihr durch eure Erfindungsgabe die Kuh herauslaufen; die beiden Alten machtet ihr jung. Ihr Söhne des Sudhanvan, aus einem Pferd zimmertet ihr ein zweites Pferd. Ihr schirrtet den Wagen an und fuhret zu den Göttern.
Из шкуры вы силой поэтического вдохновения воссоздали корову.
Тех двоих, что старели, вы (снова) сделали юными.
Сыновья Судханвана, из коня вы выточили (второго) коня.
Запрягши в колесницу, вы приехали к богам.
इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुञ्ज॒नेज॑नम् । सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै ॥
इ॒दम् । उ॒द॒कम् । पि॒ब॒त॒ । इति॑ । अ॒ब्र॒वी॒त॒न॒ । इ॒दम् । वा॒ । घ॒ । पि॒ब॒त॒ । मु॒ञ्ज॒ऽनेज॑नम् । सौध॑न्वनाः । यदि॑ । तत् । नऽइ॑व । हर्य॑थ । तृ॒तीये॑ । घ॒ । सव॑ने । मा॒द॒या॒ध्वै॒ ॥
इदानीमृषिः देवैरुक्तमर्थं तान् संबोध्य यूयम् ऋभून् एवमुक्तवन्तः स्थ इति अनुवाचयति। हे सौधन्वनाः सुधन्वनः पुत्राः यूयम् इदमुदकं सोमलक्षणं पिबतेत्यब्रवीतन इत्युक्तवन्तः ॥ ब्रवीतेर्लङि मध्यमबहुवचनस्य तस्य तनबादेशे पित्त्वात् ‘ब्रुव ईट्' (पा. सू. ७. ३. ९३ ) ॥ एतत् प्रातःसवनिकाभिप्रायम् । वा अथवा । घ इत्यनर्थकः प्रसिद्ध्यर्थो वा । इदं मुञ्जनेजनम् । मुञ्जवान्नाम पर्वतः सोमोत्पत्तिस्थानम् । तत आहृतत्वात् तेन मुञ्जतृणेन शोधितं अपगततृणमित्यर्थः । इदं सोमरसरूपमुदकं पिबत इत्यब्रवीतन । एतत् माध्यंदिनसवनाभिप्रायम् । हे ऋभवः यूयं तत् उभयसवनसंबन्धि सोमपानकार्यं नेव हर्यथ नैव कामयथ । हर्यतिः कान्तिकर्मा, ‘ हर्यति उशिक्' (नि. २. ६. १० ) इति तत्कर्मसु पाठात् । तृतीये सवने तु मादयाध्वै अत्यर्थं तृप्ताः भवथ । ‘ ऋभवो देवाः सोमस्य मत्सन्' इति तृतीयसवने तेषां सोमपानसद्भावात् । एवं यूयमृभूनुक्तवन्तः । अथवा ऋभून्प्रति तस्यैव इदं वाक्यम् । हे सौधन्वनाः यूयं देवत्वं प्राप्य देवयजनं प्रति सोमपानाय रथेनागत्य श्रान्तानश्वान् प्रातःसवने इदमुदकं सोमलक्षणं पिबतेत्यब्रवीतन । तत्र यदि नेच्छथ इदं वा मुञ्जनेजनं मुञ्जेन दूषितं वाजिनं पिबतेत्यब्रवीतन पश्चात् तत् द्वयं यदि नेव हर्यथ हे अश्वा यूयं तृतीये सवने मादयध्वै । तत्रापि वाजिनप्रचारात् ॥
“They, (the gods), have said, sons of Sudhanvan, drink of this water, (the Soma); or drink that which has been filtered through the muñja grass; or, if you be plural ased with neither of these, be exhilarated (by that which is drunk) at the third (daily) sacrifice.”
Drink ye this water, were the words ye spake to them; or drink ye this, the rinsing of the Muñja-grass.
If ye approve not even this, Sudhanvan's Sons, then at the third libation gladden ye yourselves.
[The R̥bhus to the gods:] “You said, ‘Drink this water, or drink this, the rinse-water of muñja-reeds.
Sons of Sudhanvan, if you do not in any way find satisfaction in this, you shall find exhilaration in the Third Pressing rite.’”
»Trinkt ihr das Wasser«, also sprachet ihr zu uns, »trinkt selbst die Lache, die ihr aus dem Schilf geschöpft«, Wenn das euch, o Sudhanvanssöhne, nicht behagt, so thut euch gütlich an der dritten Spende denn.
Trinket ihr dies Wasser", so sprachet ihr, "oder trinket diese Schliffschlempe!" "Ihr Söhne des Sudhanvan, wenn ihr das nicht recht möget, so sollt ihr euch an der Somaspende ergötzen.
Пейте эту воду, – так вы сказали, –
Или же пейте эти ополоски от мунджи! –
О сыновья Судханвана, если это вам так не нравится,
Опьяняйтесь (сомой) третьей выжимки!
आपो॒ भूयि॑ष्ठा॒ इत्येको॑ अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो अ॑ब्रवीत् । व॒ध॒र्यन्तीं॑ ब॒हुभ्य॒: प्रैको॑ अब्रवीदृ॒ता वद॑न्तश्चम॒साँ अ॑पिंशत ॥
आपः॑ । भूयि॑ष्ठाः । इति॑ । एकः॑ । अ॒ब्र॒वी॒त् । अ॒ग्निः । भूयि॑ष्ठः । इति॑ । अ॒न्यः । अ॒ब्र॒वी॒त् । व॒धः॒ऽयन्ती॑म् । ब॒हुऽभ्यः॑ । प्र । एकः॑ । अ॒ब्र॒वी॒त् । ऋ॒ता । वद॑न्तः । च॒म॒सान् । अ॒पिं॒श॒त॒ ॥
चमचतुर्धाकरणकाले किमिति सत्यं वदन्तो व्यभजन्निति तदाह । एकः त्रयाणामन्यतमः आपो भूयिष्ठाः इति अब्रवीत नहि उदकात् प्रशस्तं लोकोपकारकं तत्त्वान्तरमस्ति । आपो भूयिष्ठाः इति ऋतम् अवादीत् । अपामेव श्रेष्ठत्वम् अप एव ससर्जादौ ' (मनु. १.८) इत्यादिशास्त्रात्। तथा अन्यः अग्निर्भूयिष्ठ इति अब्रवीत् । आन्तरं बाह्यं च दाहपाकभुक्तजरणादिव्यापारेण अग्नेरेव जगन्निर्वाहकत्वादग्नेरेव भूयिष्ठत्वम् इत्येव मन्यते । तथा वधर्यन्तीम् । वधरिति रेफान्तः अपि वज्रनाम, ‘वधः अर्कः ' (नि. २. २०, ७) इति तन्नामसु पाठात् । तदिच्छति वृष्ट्युदकायेति वधर्यन्ती मेघपङ्क्तिरुच्यते । यद्यपीयं स्ववधार्थं वज्रं स्वयमेव नापेक्षते तथापि वृष्ट्यर्थम् इन्द्रवज्रेण हन्यमानत्वात् तदिच्छतीत्युपचर्यते । यद्वा । बहुभ्यः तेषामर्थाय वधर्यन्तीं वधमात्मन इच्छन्ती भूमिम् ॥ छान्दसो रेफोपजनः । तामेव एकः बहुभ्यः संवादिभ्यः श्रेष्ठतमाम् अब्रवीत् । उदकस्यापि मेघकारणत्वात् । एवम् ऋता ऋतानि उक्तरूपाणि यथार्थानि वाक्यानि वदन्तः परस्परं ब्रुवन्तः चमसान् अपिंशत अवयविनोऽकुरुत चतुर्धा व्यभजत इत्यर्थः॥ ‘पिश अवयवे'। ‘शे मुचादीनाम ' इति नुम् । इदमेव ऋतवदनम् अपेक्ष्य ऋभुशब्दं व्याचक्षाणो यास्कः - ‘ ‘ऋभव उरु भान्तीति वर्तेन भान्तीति वर्तेन भवन्तीति वा' (निरु. ११, १५) इत्युक्तत्वात् ॥
“Waters are the most excellent said one (of them). Agni is that most excellent, said another; the third declared to many the Earth (to be the most excellent), and thus speaking true things the Ṛbhus divided the ladle.”
Most excellent are waters, thus said one of you; most excellent is Agni, thus another said.
Another praised to many a one the lightning cloud. Then did ye shape the cups, speaking the words of truth.
One (R̥bhu) said, “Waters are most important,” and the other said, “Fire is most important.”
(The third) one proclaimed the weapon-wielding (speech?) from among the many. Speaking truths, you carved the cups.
Der eine sprach: »das Wasser ist das herrlichste«; der andre sprach: »Nein, Feuer ist das herrlichste«; Der dritte pries um vieles mehr das Blitzgeschoss; so Gutes redend bildetet die Becher ihr.
Das Wasser ist das Wichtigste", so sprach der eine. "Das Feuer ist das Wichtigste", so sprach der andere. Der eine gab der Gewitterzeit vor vielen den Vorzug. Wahre Reden führend schnitztet ihr die Becher.
Вода – самая главная, – так сказал один.
Огонь – самый главный, – так сказал другой.
Один назвал жаждущую небесного оружия (землю как главную) перед многими (другими).
Говоря о вещах, связанных с законом, вы украшали кубки.
श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेक॑: पिंशति सू॒नयाभृ॑तम् । आ नि॒म्रुच॒: शकृ॒देको॒ अपा॑भर॒त्किं स्वि॑त्पु॒त्रेभ्य॑: पि॒तरा॒ उपा॑वतुः ॥
श्रो॒णाम् । एकः॑ । उ॒द॒कम् । गाम् । अव॑ । अ॒ज॒ति॒ । मां॒सम् । एकः॑ । पिं॒श॒ति॒ । सू॒नया॑ । आऽभृ॑तम् । आ । नि॒ऽम्रुचः॑ । शकृ॒त् । एकः॑ । अप॑ । अ॒भ॒र॒त् । किम् । स्वि॒त् । पु॒त्रेभ्यः॑ । पि॒तरौ॑ । उप॑ । आ॒व॒तुः॒ ॥
अत्र ऋभव एव ऋत्विग्रूपेण स्थित्वा सर्वत्र यज्ञं निर्वहन्तीत्याह। श्रोणां शोणम् ॥ ‘ वा छन्दसि ' इति पररूपाभावः ॥ शोणवर्णम् उदकं रुधिरम् एकः ऋभुषु मध्ये ऋत्विक् गाम् अवाजति बाह्यभूमिं प्रति गमयति रक्षोभागत्वेन स्थापयति । तथा एकः मांसं सूनया छेदनसाधनेन स्वधितिना आभृतं संपादितं पिंशति हृदयजिह्वावक्षआद्याकारेण आहृतं संपादितं मांसं पिंशति अवयवीकरोति स्वधितिना तत्तद्वयवान् विभजतीत्यर्थः । अथ एकः निम्रुचः निःशेषेण छिन्नात् मांसात् शकृत् कुक्षिस्थं जरत्तृणम् ऊबध्यनामकम् अपाभरत् अपाहरन्निरसनाय । एवमृत्विग्रूपेण स्थितेभ्यः पुत्रेभ्यः पुरुत्रातृभ्यः पुत्रस्थानीयेभ्य ऋभुभ्यः सर्वेष्वनुष्ठितेषु पितरा यज्ञस्य पालयितारौ जायापती किं स्वित् उपावतुः किं नु खलु प्राप्नुतः ॥ अवतेः प्राप्त्यर्थाच्छान्दसो लिट् ॥ सर्वं तैरेवानुष्ठितमिति तयोर्न किंचित्कृत्यमस्तीत्यर्थः । अथवायमर्थः । एकस्तेषामन्यतमः श्रोणां पङ्गुकां गामुदकं प्रत्यवगमयति । अपरः सूनया मांसविक्रयिण्या आभृतं संपादितं मांसं पिंशति । अपर आ निम्रुचः अस्तमयादर्वागेव शकृत् गोपुरीषं हरति । एवम् ऋभुभिरनुष्ठिते सति किं स्विदेतस्मात् परिचरणात् अन्यत् पुत्रेभ्यः सकाशात् उपावतुः उपगच्छेतामिति ॥ ॥ ५ ॥
“One pours the red water (the blood) upon the ground; one cuts the flesh, divided into fragments by the chopper; and a third seperates the excrement from the other parts; in what manner may the parents (of the sacrifice) render assistance to their sons?”
One downward to the water drives the crippled cow, another trims the flesh brought on the carving-board.
One carries off the refuse at the set of sun. How did the Parents aid their children in their task!
One drives the lame cow down to the water. One carves the flesh, carried here with a basket.
Up till sunset one bore away the dung. Have the parents given help to their sons?
Der eine treibt die lahme Kuh zum Wasser hin, der andre schneidet auf dem Brett das Fleisch zurecht, Der dritte kehrt am Abend allen Mist hinweg; ob wol den Aeltern wohlgefiel der Söhne Thun?
Einer treibt die lahme Kuh zum Wasser hinab; einer zerlegt das Fleisch, das im Korb gebracht wird. Bis Sonnenuntergang trug einer den Dung fort. Haben wohl die beiden Eltern ihren Söhnen dabei geholfen?
Один гонит вниз к воде хромую корову.
Один разделывает мясо, принесенное в корзине.
Один относил навоз до заката солнца.
А родители помогали сыновьям?
उ॒द्वत्स्व॑स्मा अकृणोतना॒ तृणं॑ नि॒वत्स्व॒पः स्व॑प॒स्यया॑ नरः । अगो॑ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ॥
उ॒द्वत्ऽसु॑ । अ॒स्मै॒ । अ॒कृ॒णो॒त॒न॒ । तृण॑म् । नि॒वत्ऽसु॑ । अ॒पः । सु॒ऽअ॒प॒स्यया॑ । न॒रः॒ । अगो॑ह्यस्य । यत् । अस॑स्तन । गृ॒हे । तत् । अ॒द्य । इ॒दम् । ऋ॒भ॒वः॒ । न । अनु॑ । ग॒च्छ॒थ॒ ॥
पुराणप्रसिद्धान् सुधन्वनः पुत्रान् कर्मणा देवत्वं प्राप्तवतः ऋभून् स्तुत्वा वेदप्रसिद्धया सूर्यरश्मिरूपान् ऋभून् इदानीं स्तौति । तथा च यास्को निरुक्ते पुराणप्रक्रिया सिद्धानृभून् बहुधा निरुच्य तदुदाहरणत्वेन ‘ विष्ट्वी शमी ' इत्येतामुदाहृत्य • आदित्यरश्मयोऽप्यृभव उच्यन्ते' ( निरु. ११. १६) इत्युक्त्वा तस्मिन्नर्थे एतामृचमुदाजहार । हे ऋभवः उरु प्रभूतं भासमानाः ऋतेन आदित्येन भासमाना वा ऋतेनोदकेन उदकार्थमुत्पन्ना वा । रश्मीनामुरुभासमानत्वं प्रसिद्धम् । तथा आदित्यादुत्पत्तिरपि । उदकार्थं भवनमपि रश्मीनां घर्मकाले भूमिगतं सारमादाय पुनः वर्षकाले प्रवर्षन्तीति प्रसिद्धम् ।' आदित्याज्जायते वृष्टिः' (मनु. ३.७६ ) इति शास्त्रात् । तथाविधाः नरः प्रकाशवृष्ट्युकादेर्नेतारः यूयम् उद्वत्सु उन्नतेषु प्रदेशेषु मेर्वादिषु तृणं व्रीहियवादिरूपम् अस्मै प्राणिजाताय तदुपकारार्थम् अकृणोतन कृतवन्तः स्थ ॥ ‘उपसर्गाच्छन्दसि धात्वर्थे ' इति वतिः ॥ तथा निवत्सु प्रवणदेशेषु अस्मै एव अपः उदकानि अकृणोतन अकुरुत । किं स्वभोगार्थं नेत्याह । स्वपस्यया शोभनकर्मेच्छया । शोभनं कर्म एभिः कृतमिति यथा यजमानाः स्तुवन्ति तदिच्छयेत्यर्थः। किंच यूयम् अगोह्यस्य अग्राह्यस्यादित्यस्य गृहे मण्डले यत् यावत्कालम् असस्तन सुप्तवन्तः स्थ रात्रौ निर्व्यापारास्तिष्ठथ ॥ ‘ षस स्वप्ने '। अस्माल्लङि पूर्ववत्तस्य तनबादेशः । अदादित्वात् शपो लुक् । तत् तावन्तं कालम् अद्य अहनि इदम् इदानीं नानु गच्छथ अनुसृत्य न गच्छथ ॥ यावन्तं कालं रात्रौ सूर्ये निगूढा वर्तध्वे तावन्तमेव कालम् अहन्यपि नानुगच्छथेत्यर्थः । यद्वा । अगोपनीयस्य तस्य गृहे अन्तरिक्षे यत् यावन्तं कालम् असस्तन वृष्टिम् अदत्त्वा स्वापमकुरुत तत्तावन्तं कालम् अद्येदानीं वर्षसमये इदं सस्याभिवर्धनवृष्टिप्रवाहरूपं कर्म नानु गच्छथ अनुसृत्य न प्राप्नुथ । यावन्तं कालं विवर्षथ तावन्तमेव कालं प्रवर्षथेत्यर्थः ॥
“Ṛbhus, leaders (of the rains), you have caused the grass to grow upon the high plural ces; you have caused the waters to flow over the low plural ces; for (the promotion of) good works; as you have reposed for a while in the dwelling of the unapprehensible (Sun), so desist not today from (the discharge of) this (your function).”
On the high places ye have made the grass for man, and water in the valleys, by your skill, O Men.
Rbhus, ye iterate not to-day that act of yours, your sleeping in the house of him whom naught can hide.
You made grass for him on the heights and waters in the valleys by your skillful work, o men,
when you slept in the house of Agohya: you do not continue that here today, o R̥bhus.
Als ihr im Hause des Agohja schlummertet, da schufet ihr, o Männer, Kraut ihm auf den Höhn, Und in den Thälern Wasser ihr durch eure Kunst; das Werk, o Ribhu's, führt ihr heute nicht mehr aus.
Auf den Höhen legtet ihr für ihn Gras an, in die Niederungen leitetet ihr Männer mit Kunstfertigkeit das Wasser, als ihr im Hause des Agohya geschlafen hattet: Das macht ihr Ribhu´s heute nicht mehr nach.
На возвышенностях вы создали траву для этого (народа),
В низинах (провели) воду благодаря своему мастерству, о мужи,
Когда вы проспали в доме у Агохьи.
Теперь, о Рибху, вы не повторяете этого.
स॒म्मील्य॒ यद्भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा॑ व आसतुः । अश॑पत॒ यः क॒रस्नं॑ व आद॒दे यः प्राब्र॑वी॒त्प्रो तस्मा॑ अब्रवीतन ॥
स॒म्ऽमील्य॑ । यत् । भुव॑ना । प॒रि॒ऽअस॑र्पत । क्व॑ । स्वि॒त् । तात्या । पि॒तरा॑ । वः॒ । आ॒स॒तुः॒ । अश॑पत । यः । क॒रस्न॑म् । वः॒ । आ॒ऽद॒दे । यः । प्र । अब्र॑वीत् । प्रो इति॑ । तस्मै॑ । अ॒ब्र॒वी॒त॒न॒ ॥
हे ऋभवः रश्मयः यूयं यत् यदा भुवना भूतजातानि संमील्य संमीलनं कृत्वा जलधरपटलैराच्छाद्य पर्यसर्पत परितः सर्पणं कुरुथ वर्षथेत्यर्थः । तात्या तातौ तायमाने वृष्ट्युदके । यद्वा । तात्या तासु वर्षासु ॥ छान्दसस्त्यप्रत्ययो दकारस्यात्वं च ॥ अथवा पितृविशेषणम् । तात्या तत्कालीनौ पितरा जगतः पालकौ सूर्यचन्द्रमसौ क्व स्वित् आसतुः कुत्र खलु तिष्ठतः ॥ अस्तेर्लिटि व्यत्ययेन भूभावाभावः । यद्वा । असतेर्गत्यर्थस्य लिटि एतद्रूपम् ॥ अहोरात्रविभागेन प्रवर्षयथेत्यर्थः । किंच ईदृशान् वः युष्मान् यः कोऽपि वृष्टिप्रतिबन्धकारी राक्षसादिः करस्नम् । बाहुनामैतत् , ‘करस्नौ बाहू ' (नि. २. ४. ७ ) इत्युक्तत्वात् । अत्र तु अकारान्तम् । युष्मदीयं हस्तम् आददे गृह्णाति प्रतिरोधं करोति तम् अशपत नाशयथ । यः च प्राब्रवीत् प्रकर्षेण वाचा निरुन्द्धे तस्मै प्रो प्रैव अब्रवीतन प्रकर्षेण भर्त्सनादिशब्दं कुरुथ । यद्वा । यो नूनं स्तौति तं प्रकर्षेण स्तुतेत्यर्थः ॥
“As you glide along enveloping the regions (in clouds); where, then, are the parents (of the world)? curse him who arrests your arm; reply sternly to him who speaks disrespectfully (to you).”
As, compassing them round, ye glided through the worlds, where had the venerable Parents their abode?
Ye laid a curse on him who raised his arm at you: to him who spake aloud to you ye spake again.
When, having shut your eyes, you crept around the living worlds, where were your loving parents? You cursed him who took your arm. Who made a declaration (to you), to him you also made a declaration.
Als ihr geschlossnen Auges durch die Wesen schlicht, wo weilte damals eur geliebtes Aelternpaar? Ihr fluchtet dem, der hemmend in den Arm euch fiel; dem, der euch grüsste, botet ihr den Gegengruss.
Als ihr mit geschlossenen Augen die Wesen umschlichet, wo waren da eure zärtlichen Eltern? Ihr fluchtet dem, der euch am Arme faßte. Wer euch anredete, dem standet ihr Rede.
Когда с закрытыми глазами вы двигались ощупью вокруг существ,
Где были ваши любящие родители?
Вы прокляли (того,) кто взял вас за руку.
Кто заговорил (с вами), с тем и вы заговорили.
सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो॑ह्य॒ क इ॒दं नो॑ अबूबुधत् । श्वानं॑ ब॒स्तो बो॑धयि॒तार॑मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ॥
सु॒षु॒प्वांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । अगो॑ह्य । कः । इ॒दम् । नः॒ । अ॒बू॒बु॒ध॒त् । श्वान॑म् । ब॒स्तः । बो॒ध॒यि॒तार॑म् । अ॒ब्र॒वी॒त् । स॒व्ँम्व॒त्स॒रे । इ॒दम् । अ॒द्य । वि । अ॒ख्य॒त॒ ॥
हे ऋभवः रश्म्यात्मका: यूयं सुषुप्वांसः आदित्यमण्डले स्वपन्तो वर्षणाय ॥ स्वपेर्लिटः क्वसुः ॥ तमादित्यं तत् वाक्यम् अपृच्छत प्रश्नं कुरुथ । किं तदिति चेत् उच्यते । हे अगोह्य केनचिदगोपनीयादित्य स्वामिन् नः अस्मदीयम् इदं कर्म वर्षणरूपं कः अबूबुधत् बोधयति प्रेरयति साहाय्यं करोति । बुधेर्ण्यन्तात् लुङि चङि रूपम् ॥ बस्तः सर्वस्य वासयिता आदित्यः । वसेरौणादिकस्तप्रत्ययः । बवयोरभेदात् बत्वम् ॥ बोधयितारं प्रेरयितारं श्वानम् अब्रवीत् अन्तरिक्षे श्वसन्तं वायुं प्रावादीत् । असौ युष्मान् प्रेरयतीति । अथ वायुसहायेन वर्षन्तो यूयं संवत्सरे पूर्णे अद्य इदानीम् इदं जगत् व्यख्यत विविधं प्रकाशितवन्तः । पूर्वं सूर्याचन्द्रमसौ यथा न दृश्येते तथा वर्षित्वा इदानीं वर्षकालेऽतीते विश्वं जगत् व्यक्तं कुरुथेत्यर्थः ॥ ख्यातेर्लुङि ‘अस्यतिवक्तिख्याति' इति अङ् ॥
“Ṛbhus, reposing in the solar orb, you inquire: who awakens us, unapprehensive (Sun), to this office (of sending rain). The Sun replies: the awakener is the wind; and the year (being ended), you again today light up this (world).”
When ye had slept your fill, ye Rbhus, thus ye asked, O thou whom naught may hide, who now hath wakened us?
The goat declared the hound to be your wakener. That day, in a full year, ye first unclosed our eyes.
After you slept, R̥bhus, you asked this: “Who awakened us here, o Agohya?”
The billy-goat [=the Sun?] said the dog [=the Moon?] was the awakener. Here today, after a year, you opened your eyes.
Als, Ribhu's, ihr dann ausgeschlafen fragtet ihr: Agohja, sprich, wer hat uns eben aufgeweckt? Da gab der Bock den Hund als euren Wecker an; nach einem Jahre schlugt ihr da die Augen auf.
Als ihr Ribhu´s ausgeschlafen hattet, da fragtet ihr: " Agohya! Wer hat uns da geweckt?" Der Bock nannte den Hund als Wecker. Nach Jahresfrist habt ihr euch heute in dieser Welt umgeschaut.
Выспавшись, о Рибху, вы спросили (вот) о чем:
Агохья, кто это нас разбудил?
Баран сказал, что разбудил пес.
И вот через год вы раскрыли глаза.
दि॒वा या॑न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो॑ अ॒न्तरि॑क्षेण याति । अ॒द्भिर्या॑ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छन्त॑: शवसो नपातः ॥
दि॒वा । या॒न्ति॒ । म॒रुतः॑ । भूम्या॑ । अ॒ग्निः । अ॒यम् । वातः॑ । अ॒न्तरि॑क्षेण । या॒ति॒ । अ॒त्ऽभिः । या॒ति॒ । वरु॑णः । स॒मु॒द्रैः । यु॒ष्मान् । इ॒च्छन्तः॑ । श॒व॒सः॒ । न॒पा॒तः॒ ॥
हे शवसः वृष्टिकार्यस्य बलस्य नपातः नपातयितारः ऋभवः युष्मान् इच्छन्तः वृष्ट्यनुकूलचिकीर्षया युष्मानेवेच्छन्तः सर्वे देवा आयान्ति । कस्मादिति तदुच्यते । मरुतः वृष्ट्यनुकूलाः देवाः दिवा द्युलोकात् यान्ति आगच्छन्ति ॥ ‘सावेकाचः०' इति तृतीयाविभक्तेरुदात्तत्वम् ॥ भूम्या भूमेः सकाशात् अग्निः याति आगच्छति । अयं वातः सर्वदा संचारी वायुः अन्तरिक्षेण याति अन्तरिक्षादायाति । तथा वरुणः आवरको जलाभिमानी देवः समुद्रै समुन्दनस्वभावैः अद्भिः ताभ्य आयाति । यद्वा पूर्वं वृष्टिसाहाय्याय आगता एते देवाः कृतकार्याः सन्तः पुनर्युष्मान् कामयमानाः स्वस्वदेशं प्रति यान्तीत्यर्थः ॥ ॥ ६ ॥
“Sons of Strength, the Maruts, desirous of your coming, advance from the sky; Agni comes (to meet you) from the earth; the wind traverses the firmament; and Varuṇa comes with undulating waters.”
The Maruts move in heaven, on earth this Agni; through the mid-firmament the Wind approaches.
Varuna comes in the sea's gathered waters, O Sons of Strength, desirous of your presence.
The Maruts travel through heaven, Agni along the earth; the Wind here travels through the midspace;
Varuṇa travels through the waters and seas—seeking you, o sons of strength.
The following two hymns treat the Horse Sacrifice (Aśvamedha) and are the only absolutely clear reflections of this ritual in the R̥gveda.
Am Himmel gehn die Maruts, auf der Erde geht Agni, und der Wind hier durch die Lüfte; und Varuna geht durch des Meeres Fluten; sie alle suchen euch, der Stärke Söhne.
Am Himmel gehen die Marut, auf der Erde Agni, der Wind geht im Luftraum; in den Wassern, in den Meeren geht Varuna, indem sie euch suchen, ihr Kinder der Kraft.
Маруты движутся по небу, Агни по земле,
Этот Вата движется по воздуху,
По водам, по морям движется Варуна –
(Все они -) ища вас, о дети сомы.