मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुत॒: परि॑ ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्ते॑: प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥
मा । नः॒ । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । आ॒युः । इन्द्रः॑ । ऋ॒भु॒क्षाः । म॒रुतः॑ । परि॑ । ख्य॒न् । यत् । वा॒जिनः॑ । दे॒वऽजा॑तस्य । सप्तेः॑ । प्र॒ऽव॒क्ष्यामः॑ । वि॒दथे॑ । वी॒र्या॑णि ॥
नः अस्मान् अश्वं स्तोतुं प्रवृत्तान् मित्रादयो देवाः मा परि ख्यन् परिख्यानं मा कुर्वन्तु । परिख्यानं नाम निन्दा । महानुभावं देवजातम् अश्वं तुच्छा नराः स्तुवन्तीति मा कुर्वन्तु ॥ ख्यातेर्माङि लुङि ‘अस्यतिवक्ति' इत्यादिना च्लेः अङ् ॥ अहरभिमानी देवः मित्रः रात्र्यभिमानी वरुणः । अर्यमा तयोः अन्तरालाभिमानी आदित्यः । आयुः सततगन्ता वायुः ॥ वकारलोपो वा ॥ इन्द्रः प्रसिद्धः। ऋभुक्षाः देवानां निवासभूतः प्रजापतिः। यद्वा । एतन्महन्नाम' इन्द्रविशेषणं ‘ऋभुक्षाः उक्षा ' (नि. ३. ३. १० ) इति तन्नामसु पाठात् । निन्दायाः प्रसक्तिं दर्शयति । यत् यस्मात् वाजिनः वेजनवतो बह्वन्नवतो वा देवजातस्य बहुदेवतास्वरूपेणोत्पन्नस्य । उषआदीनाम् अस्य शिरआद्यवयवत्वादिति भावः । ‘उषा वा अश्वस्य मेध्यस्थ शिरः' (बृ. उ. १. १. १) इत्यादिश्रुतेः । यद्वा । देवेभ्यो जातस्य गन्धर्वकुले उत्पन्नत्वात् । सप्तेः सर्पणशीलस्य । अश्वनामैतत् । एवंविधस्याश्वस्य महानुभावस्य वीर्याणि वीरकमणि सामर्थ्यानि विदथे वेदनसाधने यज्ञे प्रवक्ष्यामः प्रकर्षेण ब्रूमः । अतो मा परि ख्यन् प्रत्युत अनुगृह्णन्त्वित्यर्थः ॥
“Let neither Mitra nor Varuṇa, Aryaman, Āyu, Indra, Ṛbhukṣin,nor the Maruts, censure us; when we proclaim in the sacrifice the virtus of the swift horse sprung from the gods.”
SLIGHT us not Varuna, Aryaman, or Mitra, Rbhuksan, Indra, Ayu, or the Maruts,
When we declare amid the congregation the virtues of the strong Steed, God-descended.
Let not Mitra, Varuṇa, Aryaman, Āyu, Indra the lord of the R̥bhus, and the Maruts disregard us
when we shall proclaim the heroic deeds of the prizewinning, god-born racehorse at the ritual distribution.
Nicht mögen uns Mitra, Varuna, Arjaman, Aju, Indra, Ribhukschan, die Maruts übersehen, wenn wir in der Festversammlung die Trefflichkeiten des schnellen gottentstammten Bosses rühmen werden.
Mögen uns Mitra, Varuna, Aryaman, Ayu, Ribhuksan, die Marut nicht übersehen, wenn wir des gottgeschaffenen siegesgewohnten Rennpferdes Heldentaten in weiser Rede verkünden werden.
Да не проглядят нас Митра, Варуна, Арьяман, подвижный (Агни),
Индра, повелитель Рибху, Маруты,
Когда на месте жертвенных раздач мы будем провозглашать героические деяния,
Скакового коня, несущего награды, рожденного богами.
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथ॑: ॥
यत् । निः॒ऽनिजा॑ । रेक्ण॑सा । प्रावृ॑तस्य । रा॒तिम् । गृ॒भी॒ताम् । मु॒ख॒तः । नय॑न्ति । सुऽप्रा॑ङ् । अ॒जः । मेम्य॑त् । वि॒श्वऽरू॑पः । इ॒न्द्रा॒पू॒ष्णोः । प्रि॒यम् । अपि॑ । ए॒ति॒ । पाथः॑ ॥
यत् यस्मात् निर्णिजा । निर्णिगिति रूपनाम । रेक्णसा। रेक्ण इति धननाम ।' निर्णिक वव्रिः' (नि. ३. ७. १) इति, ‘रेक्णः रिक्थम् ' (नि. २. १०, २) इति च तन्नामसूक्तत्वात् ॥ उभयत्र मत्वर्थो लुप्यते ॥ रूपवता हिरण्यवताभरणेन प्रावृतस्य सर्वतो वेष्टितस्य अश्वस्य मुखतः पुरस्तात् गृभीतां गृहीतां रातिं दातव्यां दातव्यत्वेन गृहीताम् अजां नयन्ति ऋत्विजः। स तादृशः अजः सुप्राङ् सुष्ठु प्रशस्यागमनः मेम्यत् हन्यमानः ॥' मीञ् हिंसायाम्' । अस्मात् यङ्लुगन्तात् कर्मणि व्यत्ययेन शतृ ॥ यद्वा । तस्य शब्दानुकरणं मेमेशब्दं कुर्वन् । विश्वरूपः बहुवर्णोपेतः कृष्णग्रीवः कृष्णललामो वा नैकवर्णः इत्यर्थः । एवंरूपः अयम् इन्द्रापूष्णोः । इन्द्रः प्रसिद्धः। पूषा पोषको देवोऽग्निः । तयोः प्रियम् ।' आग्नेयः कृष्णग्रीवः' (तै, सं. ५. ५, २२ ) इत्युक्तत्वादग्नेः प्रियत्वम् । सर्वेऽपीन्द्रस्येतीन्द्रप्रियत्वम् । एवंरूपं पाथः अन्नम् अप्येति प्राप्नोतु ॥
“When they, (the priests), bring the prepared offering to the presence (of the horse), who has been bathed and decorated with rich (trappings), the various-coloured goat going before him, bleating, becomes an acceptable offering to Indra and Pūṣan.”
What time they bear before the Courser, covered with trappings and with wealth, the grasped oblation,
The dappled goat goeth straightforward, bleating, to the place dear to Indra and to Pusan.
When they lead the gift [=goat] held fast in front of (the horse, which is) decked out with a fresh garment and with family treasure,
facing well forward, constantly bleating, the goat, representing all forms, passes into the fold of Indra and Pūṣan.
Wenn sie die ergriffene Spende des mit Reichthum und Schmuck bedeckten [Rosses] am Zaume führen, so geht schön vorangeführt der bunte Ziegenbock meckernd hin zu dem lieben Sitze des Indra und Puschan.
Wenn sie vor dem mit Gewand und Erbstücken bedeckten, die Opfergabe, gefaßt, voraus führen, so geht der allfarbige Bock meckernd, willig voran zu Indra´s und Pusan´s lieber Zuflucht.
Когда они впереди покрытого праздничным убранством (и) унаследованным добром
(Коня) ведут (жертвенный) дар, спутанный (веревкой),
То козел всех цветов, прекрасно направляющийся вперед, блея,
Вступает на путь, приятный для Индры и Пушана.
ए॒ष च्छाग॑: पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे॑नं सौश्रव॒साय॑ जिन्वति ॥
ए॒षः । छागः॑ । पु॒रः । अश्वे॑न । वा॒जिना॑ । पू॒ष्णः । भ॒गः । नी॒य॒ते॒ । वि॒श्वऽदे॑व्यः । अ॒भि॒ऽप्रिय॑म् । यत् । पु॒रो॒ळाश॑म् । अर्व॑ता । त्वष्टा॑ । इत् । ए॒न॒म् । सौ॒श्र॒व॒साय॑ । जि॒न्व॒ति॒ ॥
एषः छागः शृङ्गरहितोऽजः अश्वेन वाजिना शीघ्रव्यापकेनाश्वेन सह पूष्णः पोषकस्याग्नेः भागः भजनीयः विश्वदेव्यः सर्वदेवार्हः । अग्नेः सर्वदेवात्मकत्वात् तदर्हत्वेन सर्वदेवप्रियत्वम् । एवंविधः अजः पुरः पुरस्तात् नीयते प्राप्यते । यत् यस्मात् एवं क्रियते तस्मात् प्रियं प्रीणयितारं पुरोडाशं पुरस्ताद्दातव्यम् एनम् अजं त्वष्टा सर्वस्योत्पादको देवः। ‘त्वष्टा रूपाणि विकरोति' ( तै. सं. १. ५. ९.२) इति श्रुतेः । तूर्णव्यापकोऽग्निर्वा। ‘उभे त्वष्टुर्बिभ्यतुः ' (ऋ. सं. १. ९५.५) इत्युक्तत्वात् ' अहोरात्रे इति वारणी इति वा ' ( निरु. ८. १५) इति यास्केन अरणी बिभ्यतुरित्युक्तत्वात् अरणिसंबन्धः अग्नेरेवेति गम्यते । अर्वता अरणवता अश्वेन सह सौश्रवसाय देवानां शोभनान्ननिमित्तम् अभि जिन्वति प्रीतिहेतुकं करोति ॥
“This goat, the portion of Pu+ṣan fit for all the gods, is brought first with the fleet courser, to that Tvaṣṭā may prepare him along with the horse, as an acceptable preliminary offering for the (sacrificial) food.”
Dear to all Gods, this goat, the share of Pusan, is first led forward with the vigorous Courser,
While Tvastar sends him forward with the Charger, acceptable for sacrifice, to glory.
This billy-goat, belonging to all the gods, is led in front, along with the prizewinning horse, as Pūṣan’s portion.
When (they lead the goat) as the pleasing fore-offering along with the steed, it is Tvaṣṭar himself who stimulates him for (the deed) that
brings good fame.
Dieser Bock wird dem schnellen Rosse vorangeführt als Antheil des Puschan, der allen Göttern willkommen, wenn er den erfreuenden Opferkuchen zu gleich mit dem Renner empfangen hat, so befördert ihn Tvaschtar zu hohem Ruhme.
Dieser Ziegenbock, für alle Götter bestimmt, wird mit dem siegesgewohnten Roß vorausgeführt als Anteil des Pusan. Wenn sie den Bock als willkommnes Voropfer mit dem Rennpferd führen, so ermuntert ihn Tvastri zu rühmlichem Werke.
Этого козла, предназначенного для всех богов, ведут впереди
Вместе с конем, приносящим награды, как долю Пушана.
Когда эту желанную предварительную жертву (ведут) вместе со скакуном,
Сам Тваштар взбадривает ее для славного деяния.
यद्ध॑वि॒ष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षा॒: पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्य॑: प्रतिवे॒दय॑न्न॒जः ॥
यद् । ह॒वि॒ष्य॑म् । ऋ॒तु॒ऽशः । दे॑व॒ऽयानम् । त्रिः । मानु॑षाः । परि॑ । अश्व॑म् । नय॑न्ति । अत्र॑ । पू॒ष्णः । प्र॒थ॒मः । भा॒गः । ए॒ति॒ । य॒ज्ञम् । दे॒वेभ्यः॑ । प्र॒ति॒ऽवे॒दय॑न् । अ॒जः ॥
हविष्यं हविर्योग्यं देवयानं देवानां प्रापणीयम् अश्वं यत् यदा मानुषाः ऋत्विजः ऋतुशः ऋतौ ऋतौ काले काले त्रिः परि नयन्ति पर्यग्निकुर्वन्तीत्यर्थः । अत्र अस्मिन् समये ॥ ‘ऋचि तुनुघ' इति दीर्घः ॥ पूष्णः पोषकस्याग्नेः भागः अजः प्रथमः एति पुरोगामी सन् गच्छति । किं कुर्वन् । यज्ञं देवेभ्यः प्रतिवेदयन् प्रख्यापयन् ॥
“When the priests at the season (of the ceremony), lead forth the horse, the offering devoted to the gods, thrice round (the sacrificial fire); then the goat, the portion of Pūṣan, goes first, announcing the sacrificer to the gods.”
When thrice the men lead round the Steed, in order, who goeth to the Gods as meet oblation,
The goat precedeth him, the share of Pusan, and to the Gods the sacrifice announceth.
When the sons of Manu lead around the horse to be offered three times along (the path) that goes to the gods in proper order,
then the goat, Pūṣan’s portion, goes first, announcing the sacrifice to the gods.
Wenn die Menschen das mit Opfertrank versehene zu den Göttern gehende Ross nach dem Brauche dreimal herumführen, so geht der Ziegenbock als erster Antheil des Puschan, den Göttern das Opfer ankündigend.
Wenn die Menschen das zum Opfer bestimmte Roß dreimal der Reihe nach den Götterweg herumführen, so geht dabei der Opferanteil des Pusan voran, der Bock, der den Göttern das Opfer meldet.
Когда предназначенного для жертвы коня люди
По правилу трижды обводят кругом по пути богов,
То доля Пушана идет первой –
Козел, оповещающий богов о жертве.
होता॑ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥
होता॑ । अ॒ध्व॒र्युः । आऽव॑याः । अ॒ग्नि॒म्ऽइ॒न्धः । ग्रा॒व॒ऽग्रा॒भः । उ॒त । शंस्ता॑ । सुऽवि॑प्रः । तेन॑ । य॒ज्ञेन॑ । सुऽअ॑रङ्कृतेन । सुऽइ॑ष्टेन । व॒क्षणाः॑ । आ । पृ॒ण॒ध्व॒म् ॥
होता देवानामाह्वाता एतन्नामकः ऋत्विक् अध्वर्युः अध्वरयुः अध्वरस्य नेता सोऽपि आवयाः आभिमुख्येन हविषां गमयिता । अध्वर्योर्विशेषणमेतत् ॥ आङ्पूर्वात् वेतेः असुन पूर्वपदप्रकृतिस्वरत्वं च ॥ यद्वा । आभिमुख्येन अवयष्टा प्रतिप्रस्थाता उच्यते ॥ • अवे यजः ' (पा. सू. ३. २. ७२) इति ण्विन् ।' अवाप्योरुपसर्गयोः' इति अल्लोपः ॥ अग्निमिन्धः अग्नीत् ॥ ‘भ्राष्टाग्न्योरिन्धे' ( पा. सू. ६. ३. ७०. ६) इति मुम् ॥ ग्रावग्राभः । ग्राव्णः स्तुत्या गृह्णातीति ग्रावस्तुत् ॥ कर्मण्यण् ॥ उत अपि च शंस्ता प्रशास्ता। सुविप्रः इति मेधाविनाम । शोभनमेधोपेतो ब्रह्मोच्यते। ‘ब्रह्मा त्वो वदति जातविद्याम्' (ऋ. सं. १०. ७१. ११) इत्यत्र ‘ब्रह्मैको जातेजाते विद्यां वदति ब्रह्मा सर्वविद्यः सर्वं वेदितुमर्हति' ( निरु. १. ८) इत्युक्तत्वात् ब्रह्मा एव सुविप्रशब्देनाभिधेयः । स चानुक्तर्त्विगुपलक्षकः । एते सर्वे तेन प्रसिद्धेन स्वरंकृतेन सुष्ठ्वरणीयं कृतेन स्वलंकृतेन वा उच्चारसौष्ठवादिना सुष्ठु संपादितेन स्विष्टेन सुष्ठु इष्टेन यज्ञेन वक्षणाः अभितो घृतकुल्यादीन्' प्रवहणस्वभावाः प्रसिद्धा नदीर्वा आ पृणध्वं सर्वतः पूरयत यज्ञं सम्यग्निर्वत्यै फलं साधयतेत्यर्थः ॥ ॥ ७ ॥
“The invoker of the gods, the minister of the rite, the offerer of the oblation, the kindler of the fire, the bruiser of the Soma, the director of the ceremony, the saage (superintendent of the whole); do you replenish the rivers by this well-ordered, well-conducted, sacrifice.”
Invoker, ministering priest, atoner, fire-kindler Soma-presser, sage, reciter,
With this well ordered sacrifice, well finished, do ye fill full the channels of the rivers.
The Hotar, the Adhvaryu, the Expiator [?], the Fire-kindler, the Handler of the Pressing-stones, and the well-inspired Reciter—
with this sacrifice, well prepared and well offered, fill your bellies.
Der Priester, der Opferdiener, der Vertheiler des Opfers, der Feuerentzünder, der Beweger der Presssteine und der begeisterte Lobsänger, ihr alle füllt mit diesem schön zugerüsteten, schön bereiteten Opfer eure Bäuche.
Der Hotri, Adhvaryu, der Avayaj, der Agnimindha (Feueranzünder), Gravagrabha (Preßsteinhalter) und der redegewandte Samstri (Vortrager), - füllet ihr mit diesem wohlbereiteten, wohlgeopferten Opfer eure Bäuche!
Хотар, адхварью, жрец, отгоняющий жертвой (опасность), зажигатель огня,
Держатель давильных камней, а также вдохновенный произноситель -
Наполните животы этой жертвой,
Прекрасно приготовленной, прекрасно пожертвованной!
यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नं स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
यू॒प॒ऽव्र॒स्काः । उ॒त । ये । यू॒प॒ऽवा॒हाः । च॒षाल॑म् । ये । अ॒श्व॒ऽयू॒पाय॑ । तक्ष॑ति । ये । च॒ । अर्व॑ते । पच॑नम् । स॒म्ऽभर॑न्ति । उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥
यूपव्रस्काः यूपार्हवृक्षस्य व्रश्चनकर्तार्श्छेत्तारः । उत ये च यूपवाहाः छिन्नस्य वोढारः । ये च चषालम् । यूपस्योपरिस्थाप्यं यूपाग्रभागं चषालमाहुः । तत् ये अश्वयूपाय अश्वबन्धनयूपाय तक्षति ॥ तक्षतीति वचनव्यत्ययः ॥ साधु संपादयन्ति । ये च अर्वते अरणवते अश्वाय पचनं पाकसाधनं काष्ठभाण्डादिकं संभरन्ति । उतो अपि च नः अस्मत्संबन्धिनां तेषाम् ऋत्विजाम् अभिगूर्तिः संकल्पः सर्वथा करणीयमिति बुद्धिः इन्वतु व्याप्नोतु ॥ इन्वतिर्व्याप्तिवचनः ‘इन्वति ननक्ष' इति तद्वचनेषु पाठात् ॥ यद्वा । तेषामभिगूर्तिः नः अस्मानिन्वतु । यागं साधुपारं प्रापय्य फलेन योजयत्वित्यर्थः ।
“Whether they be those who cut the (sacrificial) post, or those who bear the post, or those who fasten the rings on the top of the post, to which the horse (is bound); or those who prepare the vessels in which the food of the horse is dressed; let the exertions of them all fulfil our expectation.”
The hewers of the post and those who carry it, and those who carve the knob to deck the Horse's stake;
Those who prepare the cooking-vessels for the Steed,--may the approving help of these promote our work.
The hewers of the sacrificial post and its conveyors, those who
fashion the knob for the post for the horse,
and those who assemble the equipment for cooking the steed—let the applause also of those urge us on.
Die den Pfosten bebauen und die ihn herbeifahren, die den Knauf für den Pferdepfosten zimmern, und die für den Renner das Kochgeschirr zusammenbringen, auch deren freundliche Hülfe fordere uns.
Die Pfostenhauer und Pfostenträger und die den Knauf für den Rosspfosten zimmern, und die für das Rennpferd das Kochgerät zusammentragen, auch deren Beifall soll uns fördern.
(Те,) кто срубает столб, а также кто везет столб,
(Те,) кто вытесывает навершие для конского столба,
Кто собирает (все,) что нужно для приготовления скакового коня, –
Их воспевание пусть также нам благоприятствует!
उप॒ प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् ॥
उप॑ । प्र॑ । अ॒गा॒त् । सु॒ऽमत् । मे॒ । अ॒धा॒यि॒ । मन्म॑ । दे॒वाना॑म् । आशाः॑ । उप॑ । वी॒तऽपृ॑ष्ठः । अनु॑ । ए॒न॒म् । विप्राः॑ । ऋष॑यः । म॒द॒न्ति॒ । दे॒वाना॑म् । पु॒ष्टे । च॒कृ॒म॒ । सु॒ऽबन्धु॑म् ॥
मन्म मननीयं फलं सुमत् उप प्रागात् उपप्रैतु । ‘सुमत्स्वयमित्यर्थः' ( निरु. ६.२२ ) इति यास्कः । यद्वा । स्वयमेव मादयितृतमे मयि अधायि धीयते । फलभूतः अश्वः आगतः स च मया धृतः इत्यर्थः । किमर्थम् । वीतपृष्ठः साधुपोषणेन प्राप्तपश्चाद्भागः कान्तपृष्ठो वा । अत्यन्तं दृप्तः इत्यर्थः। तादृशोऽयं देवानामाशाः पूरयितुम् उप गच्छतु । यागार्थमागतम् एनं सुबन्धुं शोभनबन्धनमश्वं देवानाम् आशास्यमानानां पुष्टे पोषणाय चकृम कुर्मः । तं च विप्राः मेधाविन ऋत्विजः ऋषयः अतीन्द्रियद्रष्टारोऽन्ये वा विप्रा ऋषयश्च अनु मदन्ति अनुमोदन्ताम् । सम्यक् कृतमिति परितुष्यन्तु ॥
“May my desire be of itself accomplished, such as it has been entertained, that the smooth-backed steed should come to (gratify) the expectations of the gods; we have made him well-secured for the nutriment of the gods; let the wise saints now rejoice.”
Forth, for the regions of the Gods, the Charger with his smooth back is come my prayer attends him.
In him rejoice the singers and the sages. A good friend have we won for the Gods' banquet.
(When) he went forth, at that same time my thought was produced— (when) the straight-backed (horse went forth) to the regions of
the gods.
The inspired seers cheer him on. We have made him well connected to the prospering of the gods.
Das Ross mit glattem Rücken ist vorgeschritten, – mein Gebet ist ihm mitgegeben – zu den Oertern der Götter, ihm jauchzen die begeisterten Sänger nach; wir haben es bei dem Mahle den Göttern verwandt gemacht.
Er ist in die Gefilde der Götter eingegangen, der gradrückige Renner - ein schönes Gedicht ist von mir gemacht. Die redekundigen Rishi´s jubeln ihm nach. Wir haben ihn zu einem guten Genossen im Gestüte der Götter gemacht.
Он вошел в пределы богов, (конь) с гладкой спиной -
Мною сложена молитва, сопровождающая (его).
Ему вслед ликуют вдохновенные риши.
Мы сделали (его) добрым товарищем на ниве процветания богов
यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॒३॒॑ तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
यत् । वा॒जिनः॑ । दाम॑ । स॒म्ऽदान॑म् । अर्व॑तः । या । शी॒र्ष॒ण्या॑ । र॒श॒ना । रज्जुः॑ । अ॒स्य॒ । यत् । वा॒ । घ॒ । अ॒स्य॒ । प्रऽभृ॑तम् । आ॒स्ये॑ । तृण॑म् । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु । अ॒स्तु॒ ॥
वाजिनः गमनवतोऽश्वस्य यत् दाम ग्रीवाबद्धा रज्जुः । यच्च संदानं सम्यगवच्छेदकं बन्धकं पादबन्धनं दाम अस्ति । या च अस्य शीर्षण्या शिरसि बद्धा खलीनरज्जुः अस्ति ॥ शिरःशब्दात् ‘भवे छन्दसि' इति यत् । “ ये च तद्धिते' (पा. सू. ६. १. ६१ ) इति शीर्षन्भावः। तित्स्वरितः ॥ यद्वा घ अस्य अश्वस्य आस्ये मुखे प्रभृतं प्रहृतं प्रक्षिप्तं तृणम् अस्ति । घशब्दो हार्थे स च प्रसिद्ध्यर्थः । सर्वा सर्वाणि ता तानि सर्वाणि अपि हे अश्व ते तव संबन्धीनि देवेष्वस्तु सन्तु देवेषु मध्ये भवन्तु । देवत्वं प्राप्नुवन्तु वा ॥ वचनव्यत्ययः । अत्रोपयुक्तानां सर्वेषां देवत्वं किल अश्वस्य तत्प्राप्तिः न आशासनीया ॥
“May the halter and the heel-ropes of the fleet courser, and the head-ropes, the girths, and any other (part of the harness); and the grass that has been put into his mouth; may all these be with you, (horse), amongst the gods.”
May the fleet Courser's halter and his heel-ropes, the head-stall and the girths and cords about him.
And the grass put within his mouth to bait him,--among the Gods, too, let all these be with thee.
The lead-rope of the prizewinner, the harness of the steed, the halter on his head and his bridle,
and the grass brought up into his mouth—let all this of yours be also among the gods.
Was des schnellen Rosses Band und Halfter, was seines Kopfes Zügel und Zaum, oder was das Gras ist, was man seinem Maule zugeführt hat, alles das sei dein eigen bei den Göttern.
Halfter und Fessel des siegesgewohnten Rennpferdes, der Zaum am Kopf, sein Seil, oder das Gras, das in sein Maul gesteckt ward, all das von dir soll bei den Göttern sein!
Тот недоуздок скакового коня, приносящего награды, и узда,
Тот ремень на голове, его веревка,
Или же трава, засунутая ему в рот, –
Все это твое пусть будет среди богов!
यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
यत् । अश्व॑स्य । क्र॒विषः॑ । मक्षि॑का । आश॑ । यत् । वा॒ । स्वरौ॑ । स्वऽधि॑तौ । रि॒प्तम् । अस्ति॑ । यत् । हस्त॑योः । श॒मि॒तुः । यत् । न॒खेषु॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु । अ॒स्तु॒ ॥
अश्वस्य तदवयवभूतस्य क्रविषः आममांसस्य यत् यदङ्गं मक्षिका आश अभक्षयत् ॥ ‘अश भोजने '। यद्वा । कर्मणि षष्ठी ॥ अश्वस्य यन्मांसं भक्षयति। वा अथवा स्वरौ पश्वञ्जनकाले यत् रिप्तं लिप्तम् अस्ति ।' स्वरुणा पशुमनक्ति' इति श्रुतेः । अथवा स्वधितौ छेदनकाले व अवदानकाले यत् रिप्तमस्ति शमितुः हस्तयोः लिप्तमस्ति । विशसनकाले यत् च नखेषु लिप्तम् ता सर्वा तानि सर्वाणि हे अश्व ते तव संबन्धीनि देवेष्वस्तु देवेषु संतोषार्थाय भवन्तु ॥
“Whatever the flies may eat of the raw flesh of the horse; whatever (grease) is smeared upon the brush or upon the axe; (what is smeared) upon the hands or the nails of the immolator, may all this be with you, (horse), amongst the gods.”
What part of the Steed's flesh the fly hath eaten, or is left sticking to the post or hatchet,
Or to the slayer's hands and nails adhereth,--among the Gods, too, may all this be with thee.
What of the horse’s flesh a fly has eaten, or what is smeared on the sacrificial post or on the axe,
what is on the hands of the Queller-priest and what on his nails—let all this of yours be also among the gods.
Was von dem Fleische des Perdes des Fliege frass, oder was an dem Opferpfosten oder am Beile hängen geblieben ist, was an den Händen, was an den Nägeln des Schlächters, alles das sei dein eigen bei den Göttern.
Was die Fliege von dem Fleisch des Rosses gefressen hat, oder was am Pfosten und am Beil kleben bleibt, was an den Händen des Zurichters, was an seinen Nägeln, all das von dir soll bei den Göttern sein!
Что съела муха из мяса коня,
Или что прилипло к жертвенному столбу (и) топору,
Что – к рукам разделывателя (туши), что – к (его) ногтям –
Все это твое пусть будет среди богов!
यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तार॑: कृण्वन्तू॒त मेधं॑ शृत॒पाकं॑ पचन्तु ॥
यत् । ऊव॑ध्यम् । उ॒दर॑स्य । अ॒प॒ऽवाति॑ । यः । आ॒मस्य॑ । क्र॒विषः॑ । ग॒न्धः । अस्ति॑ । सु॒ऽकृ॒ता । तत् । श॒मि॒तारः॑ । कृ॒ण्व॒न्तु॒ । उ॒त । मेध॑म् । शृ॒त॒ऽपाक॑म् । प॒च॒न्तु॒ ॥
उदरस्य संबन्धि यत् ऊवध्यम् ईषज्जीर्णं तृणं पुरीषम् अपवाति अपगच्छति । यः च आमस्य अपक्वस्य क्रविषः मांसस्य गन्धः अस्ति लेशोऽस्ति । पाकस्य समये यत्किंचिदूवध्यमपक्वस्य च लेशोऽस्ति आमगन्धोऽस्ति । तत् सर्वं शमितारः विशसनकर्तारः सुकृता कृण्वन्तु सुकृतम्' उक्तदोषरहितं कुर्वन्तु । उत अपि च मेधं मेध्यं यज्ञार्हं पश्ववयवं शृतपाकं देवयोग्यपाकोपेतं यथा भवति तथा पचन्तु पितृमनुष्यादियोग्यम् अतिपक्वम् ईषत्पक्वं च मा कुर्वन्त्वित्यर्थः ॥ ॥ ८ ॥
“Whatever undigested grass fall from this belly; whatever particle of raw flesh may remain; let the immolators make the whole free from defect, and so cook the pure (offering) that it may be perfectly dressed.”
Food undigested steaming from his belly, and any odour of raw flesh remaining,
This let the immolators set in order and dress the sacrifice with perfect cooking.
The contents of his belly that bloats up, the odor of his raw flesh— let the Queller-priests make that well-done and let them cook the ritual offering until it’s cooked to readiness.
Was die Gedärme des Bauches ausdünsten, welches der Duft des rohen Fleisches ist, das mögen die Schlächter schön zurecht bringen, und mögen den Opfertrank gar kochen.
Der Speiserest in seinem Leib, der ausdünstet, der Geruch seines rohen Fleisches, das alles sollen die Zurichter zurecht machen und sie sollen das Opfertier gar kochen.
(Та) оставшаяся в животе пища, которая пахнет,
(Тот) запах, который издает сырое мясо, –
Пусть разделыватели туши устранят это,
А также сварят жертву до готовности!
यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥
यत् । ते॒ । गात्रा॑त् । अ॒ग्निना॑ । प॒च्यमा॑नात् । अ॒भि । शूल॑म् । निऽह॑तस्य । अ॒व॒ऽधाव॑ति । मा । तत् । भूम्या॑म् । आ । श्रि॒ष॒त् । मा । तृणे॑षु । दे॒वेभ्यः॑ । तत् । उ॒शत्ऽभ्यः॑ । रा॒तम् । अ॒स्तु॒ ॥
हे अश्व ते तव अग्निना पच्यमानात् गात्रात् यत् ऊष्मरूपं रसो वा यत्किंचित् अवधावति । तथा निहतस्य निःशेषेण हतस्य तव यदङ्गं रसरूपं शूलम् अभिलक्ष्य अवधावति निर्गच्छति। तत् तदङ्गं भूम्यां मा आ श्रिषत् आश्लिष्टं मा भूत् ॥ श्रिषेः पुषादित्वात् अङ्॥ पाकसमये तथा मा तृणेषु विशसनसमये दर्भेषु मा अपगच्छतु । तर्हि तत्पतितं कुत्र गच्छत्विति चेत् उच्यते। तत् तादृशम् उशद्भ्यः कृत्स्नं हविः कामयमानेभ्यः देवेभ्यः रातं दत्तम् अस्तु ॥
“Whatever (portion) of your slaughtered (body) fall from your carcass when it is being roasted by the fire, (escaping) from the spit; let it not be left on the ground,nor on the (sacred) grass, but let it (all) be given to the longing gods.”
What from thy body which with fire is roasted, when thou art set upon the spit, distilleth,
Let not that lie on earth or grass neglected, but to the longing Gods let all be offered.
What runs down from your leg as it’s being cooked by the fire when you have been impaled on the spit—
let that not stick to the ground nor to the grasses; let it be given to the gods, who are eager for it.
Was aus deinem am Feuer gebratenen Gliede, wenn du an den Bratspiess gesteckt bist, herabträufelt, das möge nicht auf die Erde fallen, nicht auf die Gräser, den begehrenden Göttern möge es gespendet sein.
Was von deinem am Feuer gebratenen Körperteil abrinnt, wenn du an den Spieß gesteckt bist, das soll nicht auf den Boden, nicht an den Gräsern hängen bleiben. Den verlangenden Göttern soll das gespendet sein!
Что вытекает из части твоего тела, поджариваемой на огне.
Когда ты нанизан на вертел, –
Да не пристанет оно ни к земле, ни к травам!
Пусть будет это пожертвование жаждущим богам!
ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ । ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू॑र्तिर्न इन्वतु ॥
ये । वा॒जिन॑म् । प॒रि॒ऽपस्य॑न्ति । प॒क्वम् । ये । ई॒म् । आ॒हुः । सु॒र॒भिः । निः । ह॒र॒ । इति॑ । ये । च॒ । अर्व॑तः । मां॒स॒ऽभि॒क्षाम् । उ॒प॒ऽआस॑ते उ॒तो इति॑ । तेषा॑म् । अ॒भिऽगू॑र्तिः । नः॒ । इ॒न्व॒तु॒ ॥
ये पक्वं वाजिनम् अश्वम् अश्वावयवं परिपश्यन्ति परितः पावनबुद्ध्या ईक्षन्ते । य ईं ये चैनं सुरभिः शोभनगन्धः अतः निर्हर किंचिदप्यस्मभ्यं देहि इति आहुः । यद्वा । निःशेषेण देवेभ्यो हरेत्याहुः । यतः सुरभिः अतो देवयोग्यमिति । किंच ये चार्वतो मांसभिक्षामुपासते ये नराः अस्य अर्वतः अश्वस्य हुतशिष्टमांसयाचनामुपासते कांक्षन्ते । उतो अपि च तेषाम् उक्तविधानाम् अभिगूर्तिः अभितः उद्यमनं नः अस्मान् इन्वतु व्याप्नोतु । यथा अस्माभिः अश्वे उपालब्धे एवं स्पृहयन्ति तथा यज्ञो निर्वाहयतु इत्यर्थः । यद्वा । मन्त्रः देवपरो व्याख्येयः । ये देवाः वाजिनं पक्वं परिपश्यन्ति कदा होष्यतीति विलम्बं दृष्ट्वा ये च सुरभिरीमेनं निर्हर निःशेषेणास्मभ्यं देहीत्याहुः ये चार्वतोऽश्वस्य मांसभिक्षामुपासते तेषामभिगूर्तिर्न इन्वतु तेषाम् उद्यमः सफलो भवत्वित्यर्थः ॥
“Let their exertions be for our good who watch the cooking of the horse; who say, it is fragrant; therefore give us some; who solicit the flesh of the horse as alms.”
They who observing that the Horse is ready call out and say, the smell is good; remove it;
And, craving meat, await the distribution,--may their approving help promote labour.
Those who inspect the prizewinner when cooked and who say about him: “It smells good! Take it off (the fire)!”
and those who draw near in hopes of a share of the meat of the steed— let the applause also of those urge us on.
Welche das Ross gar gebraten sehen, welche, von ihm sagen: »Schönduftend ist es vom Feuer«, welche die Gabe vom Fleische des Rosses erwarten, auch deren Zustimmung fördere uns.
Die das Streitroß, wenn es gar ist, prüfen, die sagen: es duftet schön, nimm es weg! -und die auf ein Fleischalmosen von dem Rennpferd warten, auch deren Zustimmung soll uns fördern.
(Те,) кто осматривает коня, когда он готов,
Кто говорит: Он пахнет хорошо. Снимай (его).
И кто ожидает угощения мясом скакового коня, –
Их воспевание пусть также нам благоприятствует!
यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ॥
यत् । नि॒ऽईक्ष॑णम् । मां॒स्पच॑न्याः । उ॒खायाः॑ । या । पात्रा॑णि । यू॒ष्णः । आ॒ऽसेच॑नानि । ऊ॒ष्म॒ण्या॑ । अ॒पि॒ऽधाना॑ । च॒रू॒णाम् । अ॒ङ्काः । सू॒नाः । परि॑ । भू॒ष॒न्ति॒ । अश्व॑म् ॥
मांस्पचन्याः मांसपचन्याः ॥ पचतेः अधिकरणे ल्युट् । मांसस्य पचि युड्घञोः ' (का. ६. १. १४४ ) इत्यन्तलोपः ॥ उखायाः स्थाल्याः नीक्षणं पाकपरीक्षासाधनं काष्ठं तथा या यानि पात्राणि यूष्णः रसस्य क्वथितस्य आसेचनानि असेचनसाधनानि तथा ऊष्मण्या ऊष्मनिवारणार्हाणि पात्राणि तथा चरूणां पात्राणां मांसपूर्णानाम् अपिधाना अपिधानानि तत्साधनानि तथा अङ्काः हृदयाद्यवयवाङ्कनसाधनाः वेतसशाखाः सूनाः अवदानसाधनाः स्वधित्यादयः एतम् अश्वम् अश्वावयवं परि भूषन्ति परितो भूषयन्ति स्वस्वव्यापारेण साधयन्तीत्यर्थः ॥ ‘भूष अलंकारे'। भौवादिकः ॥
“The stick that is dipped into the cauldron in which the flesh is boiled; the vessels that distribute the broth; the covers of the dishes, the skewers, the knives, all do honour (to the horse).”
The trial-fork of the flesh-cooking caldron, the vessels out of which the broth is sprinkled,
The warming-pots, the covers of the dishes, hooks, carving-boards,--all these attend the Charger.
The probe for the meat-cooking cauldron, the cups for the pouring of broth,
the covers of the bowls that keep them warm, the hooks, and the
baskets are in attendance around the horse.
Welches der Prüfstab ist des Fleisch kochenden Topfes, welches die Trinkgefässe und die Schüsseln der Brühe sind, die dampfenden Deckel der Kessel, Haken, Körbe, die alle bedienen das Ross.
Das Prüfstäbchen des Fleischkochtopfes, die Schalen zum Eingießen der Brühe, die dampfenden Deckel der Kessel, Haken, Fleischteller warten auf das Roß.
Та палочка, чтобы пробовать из котла при варке мяса,
Те чаши для наливания жижи,
Дымящиеся крышки горшков,
Крюк, блюда – (все они) служат коню.
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥
नि॒ऽक्रम॑णम् । नि॒ऽसद॑नम् । वि॒ऽवर्त॑नम् । यत् । च॒ । पड्बी॑शम् । अर्व॑तः । यत् । च॒ । प॒पौ । यत् । च॒ । घा॒सिम् । ज॒घास॑ । सर्वा॑ । ता । ते॒ । अपि॑ । दे॒वेषु॑ । अ॒स्तु॒ ॥
यत् निक्रमणम् । नितरां क्रमते यत्र तन्निक्रमणं स्थानम् । नितरां सीदत्यत्रेति निषदनम् । विवर्तनं विविधवर्तनम् इतस्ततो लुण्ठनं यत्र तत् ॥ सर्वत्राधिकरणे ल्युट् ॥ यच्च अर्वतः अश्वस्य पडबीशं पदबन्धनम् । यद्वा । बन्धनं पट् तद्वान् प्रदेशः। अत्र सर्वत्र देवार्थस्याश्वस्य रोमादीनामपि निरर्थकत्वाभावाय तत्स्थानमपि स्वीक्रियते । यद्वा । क्रियापरावगन्तव्या । आलम्भसमये निग्रहेण या निक्रमणादयश्चेष्टाः सन्ति ता इत्यर्थः । यच्च पपौ यदुदकमपिबत् । यच्च घासिम् अदनीयं तृणादिकं जघास अभक्षयत् । हे अश्व ते तव ता तानि सर्वाणि निक्रमणादीनि देवेष्वस्तु सन्तु देवेषु व्याप्नोतु तान्यपि निरर्थकानि मा भूवन्नित्यर्थः ॥
“May the plural ce of going forth, of tarrying, of rolling on the ground; the foot-fastening of the horse, (the water) that he has drunk, the grass that he has eaten; may all these be thine among the gods.”
The starting-place, his place of rest and rolling, the ropes wherewith the Charger's feet were fastened,
The water that he drank, the food he tasted,--among the Gods, too, may all these attend thee.
(The gear) that made him set his stride, come to a halt, and turn aside, and the foot-fetter of the steed,
and what he drank and what fodder he ate—let all this of yours be also among the gods.
Worauf der Renner getreten, worauf er sich gelagert und herumgewälzt hat, und was seines Fusses Fessel war; was er[453] getrunken, und das Futter, was er verzehrt hat, das alles sei dein eigen bei den Göttern.
Worauf es schreitet, sich niederläßt, sich wälzt, und die Fußfessel des Rennpferdes, was es getrunken und an Futter gefressen hat, all das soll von dir bei den Göttern sein.
На что он ступает, на что опускается, на чем катается,
И что ножные путы скакуна,
И что он выпил, и трава, что он съел, –
Все это твое пусть будет среди богов!
मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रि॑: । इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वास॒: प्रति॑ गृभ्ण॒न्त्यश्व॑म् ॥
मा । त्वा॒ । अ॒ग्निः । ध्व॒न॒यी॒त् । धू॒मऽग॑न्धिः । मा । उ॒खा । भ्राज॑न्ती । अ॒भि । वि॒क्त॒ । जघ्रिः॑ । इ॒ष्टम् । वी॒तम् । अ॒भिऽगू॑र्तम् । वष॑ट्ऽकृतम् । तम् । दे॒वासः॑ । प्रति॑ । गृ॒भ्ण॒न्ति॒ । अश्व॑म् ॥
हे अश्व त्वा त्वां धूमगन्धिः धूमेन व्याप्तः अग्निः मा ध्वनयीत् मा ध्वनयत् । धूमं दृष्ट्वा शब्दं मा कुर्वित्यर्थः । अश्वस्य शब्दने प्रायश्चित्तविधानात् । यद्वा । हे पच्यमानाश्ववयव त्वा त्वां धूमगन्धिरग्निर्मा ध्वनयीत् । ध्वना सति भाण्डभङ्गः स्यात् । ‘नोनयति । (पा. सू. ३. १. ५१ ) इत्यादिना चङ्प्रतिषेधः । ‘ह्व्यन्तक्षण' इति वृद्ध्यभावः ॥ किंच भ्राजन्ती अत्यन्ताग्निसंयोगेन दीप्ता उखा स्थाली मा अभि विक्त अभितो मा चीचलत्तापातिशयेन मा नीनशदित्यर्थः ॥ ‘ओविजी भयचलनयोः' । छान्दसो विकरणस्य लुक् । लुङि वा ‘झलो झलि' इति सलोपः ॥ स्थाली विशेष्यते । जघ्रिः जिघ्रन्ती तापेन ।' घ्रा गन्धोपादाने'। ‘आदृगमहन ' इति किन्प्रत्ययः ॥ तं तादृशम् अश्वम् इष्टं होतुमिषितं वीतं होमाय आनीतम् अभिगूर्तम् आभिमुख्येन प्रदानाय उद्यतम् । यद्वा । इष्टं प्रयाजैराप्रीतं वीतं पर्यग्निकृतमभिगूर्तं ये यजामहे ' इत्यागूर्युक्तम् । वषट्कृतं वषट्कारेण देवसंस्कृतम्" एवंभूतं तं देवासः देवाः प्रति गृभ्णन्ति प्रतिगृह्णन्ति ॥ ॥ ९ ॥
“Let not smoke-smelling Agni cause you, (horse), to utter sound; let not the glowing cauldron, odoriferous (with its contents), be overturned; the gods accept a horse that has been selected (for sacrifice); that has been led (round the fire); that has been devoutly offered, and has been consecrated by (the exclamation), vaṣat.”
Let not the fire, smoke-scented, make thee crackle, nor glowing caldron smell and break to pieces.
Offered, beloved, approved, and consecrated,--such Charger do the Gods accept with favour.
Let the fire that smells of smoke not besmirch you; let the blazing hot cauldron not topple over.
The one sacrificed, sought out, and greeted when the cry “vaṣaṭ” is
made: that horse do the gods receive.
Nicht möge dich das nach Rauch riechende Feuer einhüllen, noch der kochende sprudelnde Topf dich bespritzen; das geopferte, genossene, beliebte, geweihte Ross, das nehmen die Götter entgegen
Nicht soll dich das nach Rauch riechende Feuer räuchern, nicht soll der glühende Topf verspritzend überwallen. Das geweihte, angebotenen, gebilligte, mit Vasat gesegnete Roß nehmen die Götter in Empfang.
Пусть не закоптит тебя огонь, пахнущий дымом!
Пусть не повредит сверкающий раскаленный котел!
Пожертвованного, желанного, воспетого, приготовленного под (возглас): Вашат!
Этого коня пусть примут боги!
यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । सं॒दान॒मर्व॑न्तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥
यत् । अश्वा॑य । वासः॑ । उ॒प॒ऽस्तृ॒णन्ति॑ । अ॒धी॒वा॒सम् । या । हिर॑ण्यानि । अ॒स्मै॒ । स॒म्ऽदान॑म् । अर्व॑न्तम् । पड्बी॑शम् । प्रि॒या । दे॒वेषु॑ । आ । य॒म॒य॒न्ति॒ ॥
अश्वाय संज्ञप्यमानाय अधीवासम् उपर्याच्छादनयोग्यं यत् वासः उपस्तृणन्ति सर्वतः आच्छादयन्ति ॥ ' स्तृञ् आच्छादने' । क्रैयादिकः ॥ तथा अस्मै अश्वाय या यानि हिरण्यानि सौवर्णराजतकांस्यानि कल्पयन्ति । तथा अर्वन्तम् ॥ षष्य्ार्थे द्वितीया ॥ अर्वतोऽश्वस्य संदानं शिरोबन्धनं पड्बीशं पादेषु प्रविष्टं पदबन्धनम् । एतानि प्रिया देवानां प्रियतराणि चात्वाले बद्ध्वा स्थापितानि देवेषु आ यामयन्ति प्रापयन्ति ॥
“The cloth which they spread as a covering for the horse; the golden (trappings with which they decorate him), the head-ropes, the foot-ropes, all these they offer as acceptable to the gods.”
The robe they spread upon the Horse to clothe him, the upper covering and the golden trappings,
The halters which restrain the Steed, the heel-ropes,--all these, as grateful to the Gods, they offer.
The mantel they spread out for the horse, the over-mantel, and the gold (trappings) that are for him,
the harness, and the foot-fetter—(all these), his own dear things, hold the steed fast among the gods.
Welche Decke sie über das Pferd breiten, welcher Ueberwurf, welchen Goldschmuck, welche Halfter, welches Fussband des Rosses, all dies liebe lenken sie zu den Göttern hin.
Das Gewand das sie dem Pferde unterlegen, das Obergewand, die Goldsachen, die sie ihm unterlegen, die Fessel, die Fußfessel, diese lieben Sachen sollen den Renner bei den Göttern festhalten.
Тот убор, который расстилают для коня,
Верхнее покрывало, те золотые вещи (что кладут) для него,
Узда, конские ножные путы- (вся) принадлежащая (ему сбруя),
Пусть удержат его у богов!
यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या॑ वा॒ कश॑या वा तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥
यत् । ते॒ । सा॒दे । मह॑सा । शूकृ॑तस्य । पार्ष्ण्या॑ । वा॒ । कश॑या । वा॒ । तु॒तोद॑ । स्रु॒चाऽइ॑व । ता । ह॒विषः॑ । अ॒ध्व॒रेषु॑ । सर्वा॑ । ता । ते॒ । ब्रह्म॑णा । सू॒द॒या॒मि॒ ॥
महसा बलेन शूकृतस्य । शब्दानुकरणमेतत् । शूत्कारं कुर्वतः ते तव सादे सदने अगमने निमित्तभूते सति ॥ सदेर्भावे घञ्। 'कर्षात्वतः' इत्यन्तोदात्तत्वम् ॥ अर्थतो गमनं कुर्वन् शूत्कारं कुर्वतः ते त्वां पार्ष्ण्या वा कशया वा तुतोद व्यथयति यत् यस्मात् तस्मात् ते तव ता तानि सर्वा सर्वाणि अध्वरेषु यागेषु ब्रह्मणा मन्त्रेण सूदयामि क्षरामि आहुतित्वेन कल्पयामीत्यर्थः । तत्र दृष्टान्तः । अध्वरेषु यागेषु हविषः हविः आज्यादिकं स्रुचेव स्रुचा यथा सूदयन्ति तद्वत् ॥
“Whoever has goaded you in your paces, either with heel or with whip, whilst nothing in your strength-- all these (vexations) I pour out with holy prayers, as oblation with the ladle.”
If one, when seated, with excessive urging hath with his heel or with his whip distressed thee,
All these thy woes, as with the oblations' ladle at sacrifices, with my prayer I banish.
If, in riding you, anyone goaded (you) with his heel or with a whip, along with too much “come on, come on,”
I make all these sweet for you with a sacred formulation, as (priests) sweeten them [=oblations?] by the ladling of the oblation at the rites.
Was bei deiner Ermüdung durch das Uebermass des Antreibens, oder durch die Ferse [den Sporn] oder durch die Peitsche dich gequält hat, das alles versüsse ich dir durch Gebet, wie bei den Opfern durch den Butterlöffel.
Wenn man dich beim Reiten durch übermäßiges Hetzen oder mit der Ferse oder der Peitsche angespornt hat, all das mache ich dir mit einem Segen wieder gut, wie mit einem Löffel Opferspeise die Fehler im Gottesdienst.
Если во время езды, когда ты сильно храпишь,
(Тебя) пришпорили пяткой или (ударили) кнутом,
То подобно тому как ложкой топленого масла при обрядах (искупают ошибки),
Все это я исцелю молитвой.
चतु॑स्त्रिंशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑ति॒: समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥
चतुः॑ऽत्रिंशत् । वा॒जिनः॑ । दे॒वऽब॑न्धोः । वङ्क्रीः॑ । अश्व॑स्य । स्वऽधि॑तिः । सम् । ए॒ति॒ । अच्छि॑द्रा । गात्रा॑ । व॒युना॑ । कृ॒णो॒त॒ । परुः॑ऽपरुः । अ॒नु॒ऽघुष्य॑ । वि । श॒स्त॒ ॥
वाजिनः अश्वस्य देवबन्धोः देवानां प्रियस्य चतुस्त्रिंशत् वङ्क्रीः एतत्संख्यानि उभयपार्श्वास्थीनि स्वधितिः छेदनसाधनोऽसिः समेति सम्यग्गच्छति छेदनाय। इतरेषामजादीनां षड्विंशतिरेव, ‘ षड्विंशतिरस्य वङ्क्रयः' (ऐ. ब्रा. २. ६ ) इति प्रैषात् । हे विशसनस्य कर्तारः अस्याश्वस्य गात्राणि शरीरावयवान् अच्छिद्रा अच्छिद्राणि यथा भवन्ति तथा वयुना वयुनानि प्रज्ञानानि । वयुनमिति प्रज्ञानाम, ‘वयुनम् अभिख्या ' ( नि. ३. ९. १०) इति तन्नामसूक्तत्वात् । कृणोत कुरुत ॥ तप्तनप्तनथनाश्च' इति तबादेशः ॥ हृदयजिह्वावक्षःप्रभृतीनि प्रज्ञाथ मध्ये छिन्नानि मा कुरुतेत्यर्थः । तदर्थं परुःपरुः प्रतिपर्व प्रतिहृदयाद्यवयवम् अनुघुष्य इदमवद्यमिति संशब्द्यैव वि शस्त विशसनं कुरुत ॥ ‘शस् हिंसायाम् ' । छान्दसः शपो लुक् ॥ ' गात्रंगात्रमस्यानूनं कृणुतात्' (ऐ. ब्रा. २.६ ) इति प्रैषात् ॥
“The axe penetrates the thirty-four ribs of the swift horse; the beloved of the gods, (the immolators), cut up (the horse) with skill, so that the limbs may be unperforated, and recapitulating joint by joint.”
The four-and-thirty ribs of the. Swift Charger, kin to the Gods, the slayer's hatchet pierces.
Cut ye with skill, so that the parts be flawless, and piece by piece declaring them dissect them.
The axe converges on the thirty-four ribs of the prizewinning horse, who has connection with the gods.
Arrange his legs, undamaged, into patterns, and carve them up joint by joint, having called them out in order.
Die vierunddreissig Rippen des gottverwandten Rosses erreicht das Beil; macht nun es kunstreich, dass jedes Glied unverletzt sei, Gelenk für Gelenk, es laut nennend, schneidet aus.
Auf vierunddreißig Rippen des göttergesellten Streitrosses trifft das Beil. Richtet die Körperteile unverletzt her, zerleget sie Glied für Glied der Reihe nach ausrufend!
Топор наталкивается на тридцать четыре ребра
Коня, приносящего награды, товарища богов.
Приведите в порядок части тела, чтоб они были неповрежденными!
Расчлените сустав за суставом, называя (их) один за другим!
एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ ऋ॒तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥
एकः॑ । त्वष्टुः॑ । अश्व॑स्य । वि॒ऽश॒स्ता । द्वा । य॒न्तारा॑ । भ॒व॒तः॒ । तथा॑ । ऋ॒तुः । या । ते॒ । गात्रा॑णाम् । ऋ॒तु॒ऽथा । कृ॒णोमि॑ । ताऽता॑ । पिण्डा॑नाम् । प्र । जु॒हो॒मि॒ । अ॒ग्नौ ॥
त्वष्टुः अस्य दीप्तस्य अश्वस्य विशस्ता विशसनस्य कर्ता एकः । एक एव । स कः। ऋतुः एतदुपलक्षितः कालात्मा तस्यैव सर्वेषामपि पर्यवसितृत्वात् । यद्वा । ऋतुः निःशङ्कविशसनाय गन्ता शमिता । तथा द्वा यन्तारा नियमयितारौ अहोरात्रे देवौ द्यावापृथिव्यौ वा ऋत्विक्षु भवतः ॥ तथ ऋतुः इत्यत्र ‘ऋत्यकः' इति प्रकृतिभावो ह्रस्वत्वं च ॥ हे अश्व ते तव गात्राणां मध्ये या यानि हृदयाद्यवयवानि ऋतुथा काले कृणोमि छिनद्मि संपादयामि पिण्डानां मध्ये ताता तानि तानि प्रज्ञानानुरोधेन अग्नौ प्र जुहोमि प्रकर्षेण हुतं करोमि ॥
“There is one immolator of the radiant horse, which is Time; there are two that hold him fast; such of your limbs as I cut up in due season, I offer them, made into balls (of meat) upon the fire.”
Of Tvastar's Charger there is one dissector,--this is the custom-two there are who guide him.
Such of his limbs as I divide in order, these, amid the balls, in fire I offer.
There is one carver of Tvaṣṭar’s horse and two to hold him fast: such is the proper way.
The (sacrificial portions) I make from your legs according to the proper order, just those lumps, one after the other, do I offer in the fire.
Einer ist es, der das Ross des Tvaschtar zerlegt, zwei, die es darreichen, so ist die Regel; welche deiner Glieder ich regelrecht zurichte, die Stücke alle opfere ich dem Agni.
Einer ist der Zerleger des Rosses des Tvastri, zwei sind es, die es halten. So ist das richtige Verhältnis. So viele deiner Körperteile ich nach der Reihenfolge herrichte, so viele Klöße opfere ich ins Feuer.
Один – расчленитель коня Тваштара.
Двое бывают удерживателями (коня). Таков порядок.
Сколько твоих частей тела я приготовлю по порядку,
Столько же клецок я пожертвую в огонь.
मा त्वा॑ तपत्प्रि॒य आ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व१॒॑ आ ति॑ष्ठिपत्ते । मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सिना॒ मिथू॑ कः ॥
मा । त्वा॒ । त॒प॒त् । प्रि॒यः । आ॒त्मा । अ॒पि॒ऽयन्त॑म् । मा । स्वऽधि॑तिः । त॒न्वः॑ । आ । ति॒स्थि॒प॒त् । ते॒ । मा । ते॒ । गृ॒ध्नुः । अ॒वि॒ऽश॒स्ता । अ॒ति॒ऽहाय॑ । छि॒द्रा । गात्रा॑णि । अ॒सिना॑ । मिथु॑ । क॒रिति॑ कः ॥
हे अश्व त्वा त्वाम् अपियन्तं देवान् प्रति गच्छन्तं प्रियः आत्मा भोगायतनत्वात् तव प्रियतरो देहः मा तपत् तप्तं मा कार्षीत् वियोगजनिता व्यथा मा भूदित्यर्थः । स्वधितिः शस्त्रं ते तव तन्वः तनूः अङ्गानि मा आ तिष्ठिपत् त्वयि चिरमास्थितानि मा कार्षीत् ॥ स्थापयतेर्लुङि ‘तिष्ठतेरित् '(पा. सू. ७. ४. ५) इति इत्वम् ॥ तथा ते तव गात्राणि गृध्नुः केवलमांसग्रहणेप्सुः अविशस्ता विशसने अकुशलः शमिता अतिहाय न्यूनातिरेकभावेन तत्तदङ्गमतिक्रम्य मध्ये मिथु मिथ्या व्यर्थम् असिना छिद्रा छिद्राणि तिर्यक्छिन्नानि मा कः मा कार्षीत् ॥ करोतेर्लुङि। ‘मन्त्रे घस' इति च्लेर्लुक् । गुणः । हल्यङ्याब्भ्यः' इति तलोपः ॥
“Let not your precious body grieve you, who are going verily (to the gods); let not the axe linger in your body; let not the greedy and unskilful (immolator) missing the members, mangle your limbs needlessly with his knife.”
Let not thy dear soul burn thee as thou comest, let not the hatchet linger in thy body.
Let not a greedy clumsy immolator, missing the joints, mangle thy limbs unduly.
Let your own dear lifebreath not burn you as you go along; let the axe not bring the parts of your body to a standstill.
Let a greedy man who is no carver, skipping steps, not make your legs damaged with a knife gone awry.
Nicht quäle dich der liebe Lebenshauch, wenn du [zu den Göttern] eingehst, nicht thue das Beil deinen Gliedern Schaden; nicht möge dir ein hastiger, schlechter Zerleger, unrichtig verfahrend, die Glieder auf verkehrte Art zerspalten.
Nicht soll dich das liebe Leben schmerzen, wenn du eingehst; nicht soll das Beil deinem Körper dauernden Schaden tun. Nicht soll ein gieriger, unerfahrener Zerleger mit dem Hackmesser ausgleitend die zerschnittenen Glieder falsch behandeln.
Пусть не мучит тебя (твое) ощущение жизни, когда ты вступаешь!
Пусть топор не причинит ущерба твоему телу!
Пусть торопливый неопытный расчленитель, промахнувшись
Ножом, не приготовит неверно поврежденные члены!
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभि॑: सु॒गेभि॑: । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥
न । वै । ऊँ॒ इति॑ । ए॒तत् । म्रि॒य॒से॒ । न । रि॒ष्य॒सि॒ । दे॒वान् । इत् । ए॒षि॒ । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । हरी॑ इति॑ । ते॒ । युञ्जा॑ । पृष॑ती॒ इति॑ । अ॒भू॒ता॒म् । उप॑ । अ॒स्था॒त् । वा॒जी । धु॒रि । रास॑भस्य ॥
न वा उ नैव खलु एतन्म्रियसे । वैशब्दः एवकारार्थः । उ इत्यवधारणे । नैव इदानीम् इतराश्ववत् मृतो भवसि देवत्वप्राप्तेर्वक्ष्यमाणत्वात्। अत एव न रिष्यसि न हिंस्यसे । व्यर्थहिंसायाः अभावात् । ननु प्रत्यक्ष्यतो मृतिः अवयवनाशश्च दृश्यते कथमेवमुच्यते इति । उच्यते। सुगेभिः पथिभिः शोभनगमनसाधनैर्मार्गैः देवयानलक्षणैः देवान इत् एषि देवानेव प्राप्नोषि। अतो युक्तैषोक्तिः। कैः साधनैरिति तत्राह। ते त्वां वोढुं हरी एतन्नामानौ इन्द्रस्याश्वौ ते तव युञ्जा रथे युक्तौ अभूतां भविष्यतः । आशंसारूपत्वात् भूतार्थनिर्देशः । ‘हरी इन्द्रस्य' (नि. १. १५. १) इति निरुक्तम् । तथा पृषती पृषत्यौ मरुतां वाहनभूतौ युञ्जा' अभूतां युक्तौ भविष्यतः । ‘पृषत्यो मरुताम् ' (नि. १. १५. ६) इति च निरुक्तम् ॥ युजेः ‘ऋत्विक् ' इत्यादिना क्विन् । 'युजेरसमासे' (पा. सू. ७. १. ७१ ) इति नुम् । ‘सुपां सुलुक्' इति आकारः॥ तथा रासभस्य अश्विवाहनस्य एतन्नामकस्याश्वस्य धुरि स्थाने वर्तमानः कश्चित् वाजी उपास्थात् उपस्थास्यति वहतीत्यर्थः। यद्वा । रासभस्य भानोः धुरि वर्त्मनि युक्तो वाजी अश्वः उपस्थास्यति देवस्वं गच्छतस्तव गमनाय इन्द्रादयः स्वस्ववाहनानि प्रेषयन्तीत्यर्थः । यद्वा । तत्तद्देवभावमापन्नं त्वां तानि तानि वाहनानि वहन्ति ॥
“Verily at this moment you do not die; nor are you harmed; for you go by auspicious paths to the gods. The horses of Indra, the steeds of the Maruts shall be yoked (to their ears), and a courser shall be plural ced in the shaft of the ass of the Aśvins (to bear you to heaven).”
No, here thou diest not, thou art not injured: by easy paths unto the Gods thou goest.
Both Bays, both spotted mares are now thy fellows, and to the ass's pole is yoked the Charger.
Truly in this way you do not die nor are you harmed: you go to the gods by paths easy to travel.
The two fallow bays (of Indra) and the two dappled mares (of the
Maruts) have become your yokemates. The prizewinning (horse) has taken his place at the chariot-pole of the (Aśvins’) donkey.
Fürwahr nicht stirbst du hier, nicht leidest du Schaden; nein, zu den Göttern gehst du auf schöngebahnten Pfaden; die beiden goldfarbnen Rosse [des Indra], die weissgefleckten Gazellen [der Maruts] sind deine Genossen geworden; an des Eselhengstes Deichsel hat sich das schnelle Ross gestellt.
Wahrlich, nicht stirbst du dabei, nicht nimmst du Schaden. Zu den Göttern gehst du auf gangbaren Wegen. Die beiden Falben, die beiden Schecken sind deine Jochgenossen geworden; das Streitroß ward an die Deichsel des Esels eingestellt.
Ты же тут не умираешь, не терпишь ущерба.
К богам ты идешь легкими путями.
Два буланых коня, два в яблоках стали с тобой в одной упряжке.
Боевой конь встал у дышла осла.
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिम् । अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥
सु॒ऽगव्य॑म् । नः॒ । वा॒जी । सु॒ऽअश्व्य॑म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्वा॒ऽपुष॑म् । र॒यिम् । अ॒ना॒गाः॒ऽत्वम् । नः॒ । अदि॑तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः॑ । व॒न॒ता॒म् । ह॒विष्मा॑न् ॥
वाजी अश्वः आलभ्यमानः नः अस्माकं सुगव्यं शोभनेन गोसमूहेन युक्तं विश्वापुषं रयिं विश्वस्य पोषकं धनं कृणोतु करोतु ॥ ‘खलगोरथात्' (पा. सू. ४. २. ५०) इति समूहार्थे यत् । छान्दसमुत्तरपदाद्युदात्तत्वम् । यद्वा । सामूहिकस्याणः प्रसङ्गे ‘सर्वत्र गोरजादिप्रत्ययप्रसङ्गे' (का. ४. ३. १६०) इति यत् । तदन्तस्य ' आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥ तथा स्वश्व्यं शोभनाश्वसमूहयुक्तम् । तथा पुंसः पुत्रान् । पुत्रशब्दः स्त्रीपुमपत्यसाधारणः । अतः पुमपत्यानीत्यर्थः । यद्वा। पुंसो वध्वादीन् पुत्रान् पुरुरक्षकान् आत्मजान्। स्त्र्यपत्यानि" पुमपत्यानि च इत्यर्थः । उत अपि च विश्वापुषं रयिं विश्वपोषणसमर्थं धनम्। किंच नः अस्मान् अदितिः अदीनः अश्वः अनागास्त्वं कृणोतु सर्वतो निष्पापत्वं करोतु । उक्तानां फलानां न्यूनातिरेकजनितपापक्षयाभावे असंभवात् अपापत्वं प्रार्थ्यते । किंच 'हविष्मान् हविर्भूतावयवोपेतः अश्वः नः अस्माकं क्षत्रं बलं क्षात्रं तेजः वनतां संभजतां कुरुताम् ॥ ॥ १० ॥
“May this horse bring to us all-sustaining wealth, with abundance of cows of excellent horses, and of male offspring; may the spirited steed bring us exemption from wickedness; may this horse, offered in oblation, procure for us bodily vigour.”
May this Steed bring us all-sustaining riches, wealth in good kine, good horses, manly offspring.
Freedom from sin may Aditi vouchsafe us: the Steed with our oblations gain us lordship!
(Let) the prizewinner (win) for us a mass of good cattle and good horses, male children, and all-prospering wealth.
Let Aditi make guiltlessness for us. Let the horse, accompanied by our oblations, win sovereignty for us.
Reichthum an Rindern und Rossen schaffe uns das Ross, Helden und Söhne und allnährenden Reichthum; Aditi schaffe uns Schuldlosigkeit, und das opferreiche Pferd verleihe uns Herrschaft.
Schöne Rinder und schöne Rosse, männliche Kinder und allnährenden Besitz soll uns das siegesgewohnte Roß bringen. Schuldlosigkeit soll uns Aditi erwirken. Die Herrschaft soll uns das von Opfergaben begleitete Roß erringen!
Пусть боевой конь (принесет) нам прекрасных коров, прекрасных коней,
Детей мужского пола, а также богатство, кормящее всех!
Пусть Адити создаст нам безгрешность!
Пусть конь, сопровождаемый жертвенным возлиянием, добудет нам власть!