यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥
यत् । अक्र॑न्दः । प्र॒थ॒मम् । जाय॑मानः । उ॒त्ऽयन् । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् । श्ये॒नस्य॑ । प॒क्षा । ह॒रि॒णस्य॑ । बा॒हू इति॑ । उ॒प॒ऽस्तुत्य॑म् । महि॑ । जा॒तम् । ते॒ । अ॒र्व॒न् ॥
हे अर्वन् अरणकुशलाश्व ते तव जातं जन्म जननम् उपस्तुत्यम् उपेत्य सर्वैः स्तोतव्यम् ॥ स्तौतेः ‘एतिस्तुशास्वृ°' इति क्यप् । ततः तुक् ॥ कथं स्तुत्यत्वमिति उच्यते । यत् यस्मात् समुद्रात् । अन्तरिक्षनामैतत् । उदकसमुन्दनापादानात् यक्षगन्धर्वादिसंमोदनाधिकरणात् वा अन्तरिक्षात् प्रथमं पूर्वं जायमानः उत्पन्नः । यद्वा । समुद्रः आदित्यः समुन्दगात् वृष्ट्या । तस्माद्वा जायमानः । ‘सूरादश्वं वसवो निरतष्ट' (ऋ. सं. १. १६३. २) इति वक्ष्यमाणत्वात् । उत वा अथवा पुरीषात् सर्वकामानां पूरकात् उदकात् प्रथमम् उद्यन् जायमानः । स तादृशस्त्वं यत् यस्मात् अक्रन्दः महाशब्दमकरोः यजमानमनुग्रहीतुम् । किंच ते पक्षा पतनसाधनौ पक्षौ श्येनस्य पक्षाविव । तौ यथा शीघ्रपतनसाधनौ तादृशावित्यर्थः । तव बाहू हरिणस्य बाहू इव । तौ यथा वेगवन्तौ तादृशावित्यर्थः । यस्मादेवं तस्मात्ते जन्म स्तुत्यमित्यर्थः ॥
“Your great birth, O Horse, is to be glorified; whether first springing from the firmament or from the water inasmuchas you have neighed (auspiciously), for you have the wings of the falcon and the limbs of the deer.”
WHAT time, first springing into life, thou neighedst, proceeding from the sea or upper waters,
Limbs of the deer hadst thou, and eagle pinions. O Steed, thy birth is nigh and must be lauded.
When you whinnied on first being born, rising from the sea or from the fertile soil,
(having) the two wings of a falcon, the two forelegs of an antelope— your great birth was worthy of praise, o steed.
Als du wiehertest, da du zuerst geboren wurdest, hervorgehend aus dem Meere oder aus dem Nebel, da wurden dir des Falken Flügel, der Gazelle Füsse, hoher, preisenswerther Ursprung, o Renner.
Als du eben erst geboren wiehertest, aus dem Meer oder aus dem Urquell heraussteigend, mit Flügeln des Adlers und den Vorderfüßen der Antilope - das war deine preisenswerte hohe Geburt, du Renner.
Когда ты заржал впервые, рождаясь,
Вздымаясь из океана или из первородного источника, -
Крылья сокола, передние ноги антилопы –
Достойное хвалы было твое великое рожденье, о скакун.
य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥
य॒मेन॑ । द॒त्तम् । त्रि॒तः । ए॒न॒म् । अ॒यु॒न॒क् । इन्द्रः॑ । ए॒न॒म् । प्र॒थ॒मः । अधि॑ । अ॒ति॒ष्ठ॒त् । ग॒न्ध॒र्वः । अ॒स्य॒ । र॒श॒नाम् । अ॒गृ॒भ्णा॒त् । सूरा॑त् । अश्व॑म् । व॒स॒वः॒ । निः । अ॒त॒ष्ट॒ ॥
यमेन नियामकेनाग्निना दत्तम् एनम् अश्वं त्रितः पृथिव्यादिषु त्रिषु स्थानेषु वर्तमानः स्तीर्णतमो वा वायुः अयुनक् रथे योजितवान् । किंच एनम् अश्वम् इन्द्रः प्रथमः प्रतमः प्रकृष्टतमः । प्रथम इति मुख्यनाम । अध्यतिष्ठत् अधिष्ठितवान् । अस्य गन्धर्वः सोमः। ‘सोमेन समया विपृक्तः ' ( ऋ. सं. १. १६३. ३) इति वक्ष्यमाणत्वात् । स च अस्य अश्वस्य रशनां नियमनरज्जुम् अगृभ्णात् अग्रहीत् । ईदृशोऽश्वः कुतः समुत्पन्नः इति चेत् उच्यते । हे वसवः रश्मयः यूयं सूरात् आदित्यात् अश्वम् एवंमहानुभावं निरतष्ट निःशेषेण साधु संपादितवन्तः । यद्वा ॥ वसुशब्देनोक्ता एव यमादयः परामृश्यन्ते । हे वसवः स्वस्वव्यापारेण सर्वस्याच्छादयितारः यूयं सूरादादित्यात् अश्वम् एनं निरतष्ट अतक्षत । निरित्येष समित्येतस्य स्थाने । तक्षतिः करोतिकर्मा । स च क्रियासमान्यवचनः । अत्रौचित्यात् धारणे वर्तते । सम्यग्धारितवन्त इत्यर्थः ॥ तक्षेर्लङि छान्दसः शपो लुक्। ‘स्कोः संयोगाद्योः०' इति कलोपः ॥
“Trita harnessed the horse which was given by yama; Indra first mounted him, and gandharva seized his reins. Vasus, you fabricated the horse from the sun.”
This Steed which Yama gave hath Trita harnessed, and him, the first of all, hath Indra mounted.
His bridle the Gandharva grasped. O Vasus, from out the Sun ye fashioned forth the Courser.
Trita yoked him, who had been given by Yama; Indra was the first to mount him;
the Gandharva grasped his halter. O Vasus, you carved the horse out of the sun.
Diesen von Jama geschenkten hat Trita angeschirrt, Indra zuerst bestiegen; der Gandharve hat seinen Zügel ergriffen, aus der Sonne hattet ihr das Ross gebildet, o Vasu's.
Ein Geschenk des Yama schirrte ihn Trita an; Indra bestieg ihn zum ersten Male. Der Gandharva faßte seinen Zügel. Aus der Sonne habt ihr das Roß gebildet.
Его, подареного Ямой, запряг Трита.
Индра впервые сел на него верхом.
Гандхарва схватил его поводья.
Из солнца вытесали вы коня, о боги.
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥
असि॑ । य॒मः । असि॑ । आ॒दि॒त्यः । अ॒र्व॒न् । असि॑ । त्रि॒तः । गुहे॑न । व्र॒तेन॑ । असि॑ । सोमे॑न । स॒मया॑ । विऽपृ॑क्तः । आ॒हुः । ते॒ । त्रीणि॑ । दि॒वि । बन्ध॑नानि ॥
हे अर्वन् त्वं यमः असि नियमिता अग्निरसि । तेन दत्तत्वात् तच्छब्दव्यपदेशः । तथा आदित्यः असि । ‘सूरान्निरतष्ट' इत्युक्तत्वात् । तथा गुह्येन व्रतेन गोपनीयेन दुर्निरूपेण वा कर्मणा । सर्वत्र व्याप्तिरूपेणेत्यर्थः । तेन त्रितः त्रिषु स्थानेषु तायमानो वायुः असि । त्रित एनमायुनक्' इत्युक्तत्वात्तद्रूपत्वम् । अथवा गुह्येन व्रतेन गोपनीयेन कर्मणा योगादिसाधनरूपेण त्रितः एतन्नामकः ऋषिरसि। किंच हे अश्व त्वं सोमेन समया सह विपृक्तः। वि इत्येष समित्येतस्मिन्नर्थे । संपृक्तः असि तेन गृहीतत्वात्। हे अश्व एवंरूप ते तव दिवि द्युलोके आदित्ये वा वर्तमानस्य त्रीणि बन्धनानि उत्पत्तिकारणानि आहुः पुराविदः । वसवः आदित्यो द्युस्थानं चेति त्रीणि ॥
“Your horse is Yama and you are Āditya; you are Trita by a mysterious act; you are associated with Soma. The sages have said there are three bindings of you in heaven.”
Yama art thou, O Horse; thou art Aditya; Trita art thou by secret operation.
Thou art divided thoroughly from Soma. They say thou hast three bonds in heaven
that hold thee.
You are Yama; you are Āditya, o steed. You are Trita by reason of your hidden commandment.
You were separated all at once from Soma [=the moon?]. They say that you have three (kinship) bonds in heaven.
Du bist Jama, bist Aditja, o Renner, bist Trita nach geheimer Ordnung der Götter; du bist in gleicher Weise wie Soma [dreifach] zertheilt; drei Verbindungen, sagt man, sind dir am Himmel.
Du bist Yama, bist der Aditya, o Renner; du bist Trita durch geheime Bestimmung. Du bist vom Soma unweit entfernt. Sie sagen, daß du drei Bande im Himmel hast.
Ты – Яма, ты – Адитья, о скакун,
Ты – Трита по тайному обету.
Ты наполовину отделен от сомы.
Говорят, что у тебя три привязи на небе.
त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ॥
त्रीणि॑ । ते॒ । आ॒हुः॒ । दि॒वि । बन्ध॑नानि । त्रीणि॑ । अ॒प्ऽसु । त्रीणि॑ । अ॒न्तरिति॑ । स॒मु॒द्रे । उ॒तऽइ॑व । मे॒ । वरु॑णः । छ॒न्त्सि॒ । अ॒र्व॒न् । यत्र॑ । ते॒ । आ॒हुः । प॒र॒मम् । ज॒नित्र॑म् ॥
पूर्वं दिवि त्रीणि बन्धनानि इत्युक्तम् । इदानीं स्थानत्रयेष्वपि त्रीणि बन्धनानि इत्याह । हे अर्वन् ते तव दिवि बन्धनानि त्रीणि 'आहुः तानि पूर्वमुक्तानि । अप्सु । अबुपजीवितत्वात् भूलोकोऽपि अपशब्देनाभिधीयते । पृथिव्यां त्रीणि बन्धनान्याहुः । अन्नं स्थानं बीजमिति त्रीणि । तथा समुद्रे अन्तः समुद्रमध्ये । समुद्द्रवणादपादानात् समुद्रमन्तरिक्षम् । तस्मिन् त्रीणि वृष्ट्युत्पत्तिनिमित्तानि मेघो विद्युत् स्तनितमिति । उतेव । इवशब्दश्चार्थे । अपि च हे अर्वन् अश्व वरुणः पापस्य वारकः फलस्यावर्जयिता वा त्वं मे मह्यं छन्त्सि कथयसि । किं कथयसीति चेत् उच्यते । ते तव परमं जनित्रं निरतिशयं जन्म ॥ जनेरौणादिकः इत्रप्रत्ययः ॥ यत्र येषु त्रिषूक्तेषु स्थानेषु आहुः कथयन्ति । यद्वा । यत्र यस्मिन् आदित्ये परमं जनित्रमाहुः । ‘सूरादश्वं वसवो निरतष्ट 'इत्युक्तत्वात् । तादृशं प्रशस्यं जन्म यज्ञसाधनभावेन कथयसीत्यर्थः ॥
“They have said that there are your bindings in heaven three upon earth; and three in the firmament. You declare to me, Horse, who are (one with) Varuṇa, that which they have called your most excellent birth.”
Three bonds, they say, thou hast in heaven that bind thee, three in the waters,
three within the ocean.
To me thou seemest Varuna, O Courser, there where they say is thy sublimest birth-place.
Three bonds they say you have in heaven, three in the waters, and three within the sea.
And you will appear to me like Varuṇa, o steed, (in the place [=sea]) where they say is your highest means of begetting.
Drei Verbindungen, sagt man, sind dir am Himmel, drei in den Wassern, drei im Innern des Meeres; und du scheinst mir dem Varuna dort gleich, wo man deine höchste Geburtsstätte nennt.[454]
Drei Bande, so sagen sie, hast du im Himmel, drei im Wasser, drei im Meere. Und du Renner erscheinst mir wie Varuna, dort wo sie sagen, daß dein höchster Geburtsort ist.
Три у тебя, говорят, на небе привязи,
Три в водах, три в океане.
А еще кажешся ты мне подобным Варуне, о скакун,
(Там,) где, говорят, твое высшее место рожденья.
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥
इ॒मा । ते॒ । वा॒जि॒न् । अ॒व॒ऽमार्ज॑नानि । इ॒मा । श॒फाना॑म् । स॒नि॒तुः । नि॒ऽधाना॑ । अत्र॑ । ते॒ । भ॒द्राः । र॒श॒नाः । अ॒प॒श्य॒म् । ऋ॒तस्य॑ । याः । अ॒भि॒ऽरक्ष॑न्ति । गो॒पाः ॥
हे वाजिन् अश्व ते संबन्धीनि अवमार्जनानि अङ्गसंशोधकानि स्थानानि इमा इमान्युक्तानि द्युलोकादीनि किंच सनितुः यागसंभक्तुः तव इमा इमानि शफानां निधानानि स्थानानि संचारप्रदेशा इत्यर्थः । किंच अत्र एव ते तव भद्राः भन्दनीयाः कल्याणाः रशनाः ग्रीवादिषु संयुक्ताः रज्जूः अत्र अपश्यम् एषूक्तेषु स्थानेषु अपश्यम् । रशनाः विशेष्यन्ते । याः गोपाः गोपयित्र्यः रशनाः ऋतस्य सत्यभूतस्य यज्ञसाधनस्य वाश्वस्य ॥ कर्मणि षष्ठी ॥ ऋतम् अभिरक्षन्ति अभितः पालयन्ति ताः अपश्यं दृष्टवानस्मि । यद्वा । इमा ते तव अवमार्जनानि अङ्गप्रक्षालनसाधनान्युदकानि । इमानि सनितुः तव शफानां निधानानि देवयजनभूमयः संचारप्रदेशा वा । अत्रास्मिन् देवयजनस्थाने या रशनाः गोपाः तव पालयितारो राजपुरुषाः ऋत्विजो वा ऋतस्य संबन्धिन्योऽभिरक्षन्ति ता अपश्यम् ॥ ॥ ११ ॥
“I have beheld, Horse, these your purifying (regions) these impressions of the feet of you who share in the sacrifice; and here your auspicious reins, which are the protectors of the rite that preserve it.”
Here-, Courser, are the places where they groomed thee, here are the traces of thy hoofs as winner.
Here have I seen the auspicious reins that guide thee, which those who guard the holy Law keep safely.
Here are (the waters?) to rub you down, o prizewinner, and here places for the winner to set his hooves.
Here I saw your good halters, over which the herdsmen of the truth keep guard.
Hier habe ich, o Ross, deine Striegel, hier neben dir die Tritte deiner Hufe erblickt, dort deine glänzenden Zügel, welche von den Hütern des Rechtes bewacht werden.
Dies sind deine Schwemmen, du Streitroß, dies der Schatz der Hufe, die der Schatz für den Gewinner sind. Dort sah ich deine glückhaften Zügel, die die Wächter des Gesetzes in ihrer Obhut haben.
О скакун, это твои места для купанья,
Это сокровища копыт победителя.
Здесь я увидел твои несущие счастье поводья,
Которые охраняют пастырей закона.
आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पतं॒गम् । शिरो॑ अपश्यं प॒थिभि॑: सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥
आ॒त्मान॑म् । ते॒ । मन॑सा । आ॒रात् । अ॒जा॒ना॒म् । अ॒वः । दि॒वा । प॒तय॑न्तम् । प॒त॒ङ्गम् । शिरः॑ । अ॒प॒श्य॒म् । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । अ॒रे॒णुऽभिः॑ । जेह॑मानम् । प॒त॒त्रि ॥
हे अश्व ते तव आत्मानं शरीरं मनसा अस्मदीयेन प्रकृष्टगमनवता चेतसा आरात् अतिदूरे स्थितम् अजानां जानामि अतिव्याप्तं भावयामीत्यर्थः । कथम् । अवः अवस्तात् सामर्थ्यात् भूमेः । भूमिमारभ्य दिवा अन्तरिक्षेण मार्गेण पतङ्गम् आदित्यं पतयन्तं गच्छन्तं व्याप्नुवन्तम् । यद्वा । यतो दिवा अन्तरिक्षेण मार्गेण दिवि वा पतयन्तं गच्छन्तं पतङ्गमादित्यम् अवः आवः व्याप्नोषि अतो व्याप्तं जानामि । किंच शिरः अपश्यम् । तव शिरः एवं पश्यामि । कथम् । सुगेभिः शोभनगमनसाधनैः अरेणुभिः अपापैः पथिभिः मार्गैः । आदित्यमण्डलादपि उपरिभूतैः सत्यलोकमार्गैरित्यर्थः । तत्र प्रतिबन्धाभावात् मार्गाणामुक्तरूपत्वम् । तथाविधैस्तैः जेहमानम् उपर्युपरि व्याप्नुवत् पतत्रि पतनवच्छिरोऽपश्यं भावयामि । एवं लोकत्रयव्याप्तं भावयामीत्यर्थः । यद्वा । ते आत्मानम् एवं भावयामि मनसा दिवा द्योतनात्मकेन अन्तरिक्षमार्गेण दिवः सकाशाद्वा अवः अवस्तादवाङ्मुखं पतयन्तं यागदेशं प्रति व्याप्नुवत् अत एव पतङ्गं पतनशीलम् अधःपतदादित्यसदृशं वा । एवं तव शिरो भावयामीत्यर्थः । शिरश्चैवमपश्यम् । उक्तरूपैर्देवयजनमार्गैर्जेहमानं यज्ञदेशं व्याप्नुवत् पतत्रि शीघ्रगामि शिरः पश्यामि । यद्यप्यात्मशब्देन सशिरस्कं शरीरमुक्तं तथापि देहात् पूर्वं शिरसो दृश्यमानत्वात् पृथगभिधीयते ॥
“I recognize in my mind your form afar off, going from (the earth) below, by way of heaven, to the sun. I behold your head soaring aloft, and mountain quickly by unobstructed paths, unsullied by dust.”
Thyself from far I recognized in spirit,--a Bird that from below flew through the heaven.
I saw thy head still soaring, striving upward by paths unsoiled by dust, pleasant to travel.
With my mind I recognized your lifebreath from afar, a bird flying below heaven.
I saw your winged head panting along the dustless paths easy to travel.
Dich selbst erkannte ich im Geiste aus der Ferne, als du geflügelt vom Himmel herabeiltest; ich sah das beschwingte Haupt auf den gangbaren, staublosen Pfaden schnaufen.
Im Geiste erkannte ich von Ferne dein eigenes Selbst, den Vogel, der unterhalb des Himmels fliegt. Ich sah dein Haupt auf gebahnten staublosen Pfaden schnauben, das beflügelte.
Мыслью издали познал я твою суть,
Птицу, летающую в поднебесье.
Я видел (твою) голову, храпящую
В полете по легким путям, лишенным пыли.
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥
अत्र॑ । ते॒ । रू॒पम् । उ॒त्ऽत॒मम् । अ॒प॒श्य॒म् । जिगी॑षमाणम् । इ॒षः । आ । प॒दे । गोः । य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । आत् । इत् । ग्रसि॑ष्ठः । ओष॑धीः । अ॒जी॒ग॒रिति॑ ॥
एवं गमनानन्तरं हे अश्व ते तव उत्तमम् उक्तरूपेणोत्कृष्टतमं रूपम् अत्र अस्मिन् यागदेशे अपश्यं पश्यामि । कीदृशम् । गोः भूम्याः पदे स्थाने देवस्थाने देवयजनप्रदेशे आजिधावनस्थाने वा इषः । कर्मणि षष्ठी ॥ इषम् इष्यमाणम् अन्नम् अन्नानि वा आ सर्वतः जिगीषमाणं गन्तुमिच्छन्तम् । हे अश्व ते तव यदा मर्तः मनुष्यः भोगं भोक्तव्यमन्नम् अनु आनट् ॥ नशतिर्गतिकर्मा ॥ अनुक्रमेण समीपं गमयति । आदित् अनन्तरं तदानीमेव तदनुग्रहात् विलम्बमकृत्वा ग्रसिष्ठः महातृष्णयेव ग्रसितृतमो भक्षयितृतमः सन् ओषधीः अन्नानि अजीगः गिरसि भक्षयसि । महानुभावोऽपि त्वं लौकिकाश्ववत् तुच्छेन पुरुषेण दीयमानं स्वल्पं भक्ष्यम् अनुग्रहात् स्वीकरोषीत्यर्थः ॥
“I behold your most excellent form coming eagerly to (receive) your food in your (holy) plural ce of earth; when your attendant brings you nigh to the enjoyment (of the provender), therefore gredy, you devour the fodder.”
Here I beheld thy form, matchless in glory, eager to win thee food at the Cow's station.
Whene'er a man brings thee to thine enjoyment, thou swallowest the plants most greedy eater.
Here I saw your highest form, seeking to win refreshments in the track of the cow.
When the mortal attained the benefit from you, just after that the foremost devourer of plants [=Agni] awakened (you?).
Hier sah ich deine herrlichste Gestalt am Orte der Kuh begierig nach den Tränken hinstreben; so oft der Sterbliche es erlangt, dass du sie geniessest, dann sogleich verschlingst du als bester Verschlinger die Pflanzen.
Dort sah ich deine höchste Gestalt, wie sie auf der Fährte der Kuh die Speise zu gewinnen sucht. Sobald der Sterbliche in deinen Genuß gelangt ist, hat der Verzehrer der Pflanzen ihn geweckt.
Здесь увидел я твой высший образ,
Стремящийся к подкреплениям в следе коровы.
Как только смертный достиг наслаждения тобой,
Тот, кто больше всех пожирает растения, пробудил (их).
अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भग॑: क॒नीना॑म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ॥
अनु॑ । त्वा॒ । रथः॑ । अनु॑ । मर्यः॑ । अ॒र्व॒न् । अनु॑ । गावः॑ । अनु॑ । भगः॑ । क॒नीना॑म् । अनु॑ । व्राता॑सः । तव॑ । स॒ख्यम् । ई॒युः॒ । अनु॑ । दे॒वाः । म॒मि॒रे॒ । वी॒र्य॑म् । ते॒ ॥
इदानीं कृत्स्नस्य लोकस्यापि मुख्यः इति प्रतिपादयति । हे अर्वन् गमनशीलाश्व त्वा त्वाम् अनु अनुसृत्य रथः गच्छति । ततः पुरतोऽश्वस्य गमनात् । तथा मर्यः मर्त्यः त्वा त्वाम् अनु । जात्येकवचनम् ॥ अनु गावः । गावोऽपि त्वामनुगच्छन्ति । तथा कनीनां कन्यकानां स्त्रीणां भगः भाग्यं सौन्दर्यं त्वद्भगम् अनु। तथा व्रातासः व्राताः संघात्मकाः अन्ये अश्वसमूहाः वस्वादिदेवगणाः वा त्वाम् अनु अनुसृत्य तव सख्यम् ईयुः सखिभावं गच्छन्ति । देवाः ऋत्विजो द्योतमाना देवा वा त्वामनुसृत्य ते वीर्यं वीरकर्म ममिरे स्तुत्या मान्ति । अतः सर्वोऽपि त्वाम् अनुसरः त्वं तु सर्वस्य श्रेष्ठ इत्यर्थः ॥
“The car follows you, O Horse; men attend you; cattle follow you; the loveliness of maidens (waits) upon you; troops of demi-gods following you have sought your friendship; the gods themselves have been admirers of your vigour”
After thee, Courser, come the car, the bridegroom, the kine come after, and the charm of maidens.
Full companies have followed for thy friendship: the pattern of thy vigour Gods have copied.
The chariot (goes) after you, after you the dashing youth, o steed; after you the cows, after you the good fortune of maidens.
The troops have gone after your companionship. The gods have measured themselves against your heroic strength.
Dir, o Renner, strebt der Wagen nach, dir der junge Freier, dir die Liebe der Mädchen, nach deiner Freundschaft streben alle Scharen, nach deiner Heldenkraft bildeten sich die Götter.
Dir, o Renner, folgt der Wagen, dir der junge Mann, dir die Kühe, dir die Gunst der Jungfrauen. Deiner Freundschaft folgen die Truppen. Die Götter haben dir die Stärke zugetraut.
Следом за тобой – колесница, следом – юный муж, о скакун,
Следом – коровы, следом – благосклонность девиц,
Следом за твоей дружбой идут войска.
Боги наделили тебя героической силой.
हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥
हिर॑ण्यऽशृ॒ङ्गः । अयः॑ । अ॒स्य॒ । पादाः॑ । मनः॑ऽजवाः॑ । अव॑रः । इन्द्रः॑ । आ॒सी॒त् । दे॒वाः । इत् । अ॒स्य॒ । ह॒विः॒ऽअद्य॑म् । आ॒य॒न् । यः । अर्व॑न्तम् । प्र॒थ॒मः । अ॒धि॒ऽअति॑ष्ठत् ॥
अयमश्वः हिरण्यशृङ्गः हितरमणीयशृङ्गो वा उन्नतशिरस्को हृदयरमणशृङ्ग स्थानीयशिरोरुहो वा अस्य पादाः अयः अयोमयाः अयःपिण्डसदृशा इत्यर्थः । तथा मनोजवाः मनोवेगाः । अथवा एतदिन्द्रविशेषणम् । ईदृशस्याश्वस्य सामर्थ्यं प्रति मनोवेगः इन्द्रः अपि अवरः निकृष्टः आसीत् । किंच अस्य अश्वस्य हविरद्यं हविषः अदनं भक्षणम् ॥ स्वार्थिको यत् ॥ अदनयोग्यं हविर्वा अपेक्ष्य देवा इत् सर्वेऽपि देवाः आयन् प्राप्ताः । यः इन्द्रः अर्वन्तं प्रथमः प्रथमभावी सन् अध्यतिष्ठत् अधिष्ठितवान् स्वहविष्ट्वेन' स्वकीयत्वेन वा आश्रितवानित्यर्थः । ‘इन्द्र एणं प्रथमो अध्यतिष्ठत्' इति ह्युक्तम् ॥
“His mane is of gold; his feet are of bronze; and fleet as thought, Indra is his inferior (in speed). The gods have come to partake ofhis (being offered as) oblation; the first who mounted the horse was Indra.”
Horns made of gold hath he: his feet are iron: less fleet than he, though swift as thought, is Indra.
The Gods have come that they may taste the oblation of him who mounted, first of all, the Courser.
Having golden horns [=rays], his feet copper, swift as thought he was (an) Indra in the lower (realm).
The gods themselves came to eat the oblation of him, who first mounted the steed.
Goldhufig ist er, Eisen seine Füsse, der gedankenschnelle Indra blieb hinter ihm zurück; die Götter alle kamen zu der Opferspeise dessen, der zuerst den Renner bestieg.
Mit goldenen Hörnern, seine Füße von Erz, ist er schnell wie der Gedanke - Indra blieb hinter ihm zurück. Die Götter kamen zu dessen Opfermahl, der als erster das Rennpferd bestieg.
Он с золотыми рогами, его ноги из железа,
Он стремителен, как мысль, – Индра остался позади него.
Сами боги пришли вкусить жертву у того,
Кто первым сел верхом на коня.
ई॒र्मान्ता॑स॒: सिलि॑कमध्यमास॒: सं शूर॑णासो दि॒व्यासो॒ अत्या॑: । हं॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वा॑: ॥
ई॒र्मऽअ॑न्तासः । सिलि॑कऽमध्यमासः । सम् । शूर॑णासः । दि॒व्यासः । अत्याः॑ । हं॒साःऽइ॑व । श्रे॒णि॒ऽशः । य॒त॒न्ते॒ । यत् । आक्षि॑षुः । दि॒व्यम् । अज्म॑म् । अश्वाः॑ ॥
अत्र अश्वसमूहस्तुतिद्वारेण अयं स्तूयते। ईर्मान्तासः ईरिताः प्रेरिताः अन्ताः येषां ते तथोक्ताः। विरलान्ता इत्यर्थः। सिलिकमध्यमासः संसृताः संगताः मध्यप्रदेशाः येषां ते तथोक्ताः । मध्ये निबिडा इत्यर्थः । अथवा शरीरस्यैते विशेषणे । ईर्म ईरितः पुरतो नुन्नः इत्यर्थः । तादृशः पृथुः अन्तो जघनप्रदेशो येषां ते तादृशाः । तथा सिलिकमध्यमासः । संसृतः संगतः संलग्नो मध्यभागो येषां ते तादृशाः । पुष्टत्वात् प्रौढपृष्ठाः संलग्नमध्याश्चेत्यर्थः । जघनपुरोभागावपेक्ष्य सिलिकमध्यमाः। इत्युक्तम् । सम् इत्ययमुपसर्गो यतन्ते इत्याख्यातेन संबन्धयितव्यः । शूरणासः विक्रमशीलाः दिव्यासः दिवि भवाः अत्याः अतनशीलाः । यद्यप्ययमश्वनाम तथाप्यश्वशब्दस्य वक्ष्यमाणत्वात् अयं यौगिकोऽवगन्तव्यः । ईदृशा अश्वाः श्रेणिशः । एकव्यापाराणां बहूनां समूहः श्रेणिरित्युच्यते । शीघ्रधावनाय श्रेणिशः पङ्क्तीभूय सं यतन्ते सम्यक् यत्नं कुर्वन्ति । तत्र दृष्टान्तः । हंसाइव । ते यथा श्रेणीभूताः ईर्मान्तासः इत्याद्युक्तरूपाः सन्तः अन्तरिक्षे गमनाय यतन्ते तद्वत् । कदा । उच्यते । यत् यदा अश्वाः दिव्यम् अज्मं गमनं गन्तव्यं वा मार्गम् आक्षिषुः व्याप्नुवन्ति तदा । अयं मन्त्रो यास्केनैवं व्याख्यातः - ’ईर्मान्ताः समीरितान्ताः पृथ्वन्ता वा सिलिकमध्यमाः संसृतमध्यमाः शीर्षमध्यमा वा अपि वा शिर आदित्यो भवति यदनुशेते सर्वाणि भूतानि मध्ये चैषां तिष्ठति । इदमपीतरच्छिर एतस्मादेव समाश्रितान्येतदिन्द्रियाणि भवन्ति । सं शूरणासो दिव्यासो अत्याः । शूरः शवतेर्गतिकर्मणो दिव्या दिविजा अत्या अतनाः । हंसा इव श्रेणिशो यतन्ते । हंसा हन्तेर्घ्नन्त्यध्वानम् । श्रेणिशः इति श्रेणिः श्रयतेः समाश्रिता भवन्ति । यदाक्षिषुर्यदापुर्दिव्यमज्ममजनिमाजिमश्वाः' (निरु. ४. १३) इति ॥ ॥ १२ ॥
“The full-haunched, slender-waistd, high-spirited, and celestial coursers (of the sun), gallop along like swans in rows, when the horses spread along the heavenly path.”
Symmetrical in flank, with rounded haunches, mettled like heroes, the Celestial Coursers
Put forth their strength, like swans in lengthened order, when they, the Steeds, have reached the heavenly causeway.
The heavenly chargers take their places like geese in formation—with the edges (of the formation) their legs, its middle hollow,
its nose a hero [=the lead horse], when the horses have driven their heavenly drive.
Die himmlischen Sonnenrosse, die schnellen, die rasch an beiden Seiten laufen und in der Mitte eng aneinandergeschlossen, dringen vor wie gereihte Gänse, wenn die Rosse die himmlische Bahn erreicht haben.
Die .......... himmlischen Rennpferde, von denen das Ende des Zuges noch stillsteht, während die mittleren laufen, sie ziehen in einer Reihe wie die Gänse, wenn die Rosse in die himmlische Rennbahn gelangt sind.
Небесные кони, играющие силой, –
Края (их вереницы) исчезли, середина отчетлива...
Словно гуси, смыкаются кони в ряд,
Когда они достигли небесного ристалища.
तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येष॒ज जर्भु॑राणा चरन्ति ॥
तव॑ । शरी॑रम् । प॒त॒यि॒ष्णु । अ॒र्व॒न् । तव॑ । चि॒त्तम् । वातः॑ऽइव । ध्रजी॑मान् । तव॑ । शृङ्गा॑णि । विऽष्ठि॑ता । पुरु॒ऽत्रा । अर॑ण्येषु । जर्भु॑राणा । च॒र॒न्ति॒ ॥
हे अर्वन् तव शरीरं पतयिष्णु पतनशीलं व्याप्तमित्यर्थः । तथा तव चित्तं मनः वातइव ध्रजीमान् शीघ्रगमनवायुरिव तद्वच्छीघ्रगमनानुकूलमित्यर्थः । किंच तव शृङ्गाणि शिरसो निर्गताः शृङ्गस्थानीयाः केशाः पुरुत्रा पुरुषु बहुषु प्रदेशेषु विष्ठिता विष्ठितानि विविधं स्थिताः । किंच त एव अरण्येषु जर्भुराणा मनोहराणि पूर्यमाणानि वा एवंभूताः केशाः चरन्ति । यद्वा । अत्र अश्वस्य शृङ्गाभावात् तद्वदुन्नतानि तेजांसि परिगृह्यन्ते ॥
“Your body, horse, is made for motion; your mind is rapid (in intention) as the wind; the hairs (of your mane) are tossed in manifold directions; and spread beautiful in the forests.”
A body formed for flight hast thou, O Charger; swift as the wind in motion is thy spirit.
Thy horns are spread abroad in all directions: they move with restless beat in wildernesses.
Your body is flying, o steed; your perception is swooping like the wind.
Your horns [=rays], dispersed in many places, keep flickering in the wilderness.
Schnellfliegend, o Renner, ist dein Körper, dein Geist dahinschiessend, wie der Wind; deine Hufe sich überall hin verbreitend, eilen stampfend in der Ferne.
Dein Körper eilt mit Flügeln, o Renner, dein Geist saust dahin wie der Wind. Deine Hörner sind vielerorts verteilt, in den Wäldern bewegen sie sich auf und ab hüpfend.
Тело твое в полете, о скакун.
Твоя мысль скользит, словно ветер.
Твои рога, находящиеся во многих местах,
Движутся, извиваясь, полюсам.
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥
उप॑ । प्र । अ॒गा॒त् । शस॑नम् । वा॒जी । अर्वा॑ । दे॒व॒द्रीचा॑ । मन॑सा । दीध्या॑नः । अ॒जः । पु॒रः । नी॒य॒ते॒ । नाभिः॑ । अ॒स्य॒ । अनु॑ । प॒श्चात् । क॒वयः॑ । य॒न्ति॒ । रे॒भाः ॥
अयम् अर्वा अरणकुशलः वाजी अश्वः शसनं विशसनस्थानम् उप प्रागात् उपप्रैति । किं कुर्वन् । देवद्रीचा मनसा देवान् गच्छता मनसा दीध्यानः ध्यायन् । कदा । देवान् अस्मदवयवेन अर्चामि देवत्वं प्राप्नोमीति वा मनसि ध्यायन् । किंच अस्य पुरः पुरस्तात् 'नाभिः नहनं बन्धुभूत इत्यर्थः । यद्वा। अस्य बन्धनस्थानीयः अविमुक्तत्वात्। एवंभूतः अजः पुरः नीयते पुरतः प्राप्यते अनु अनुसृत्य पश्चात् अनन्तरम् । अत्र यद्यप्युभयोः पर्यवसितोऽर्थः एक एव तथापि अजाश्वोभयान न्तर्यत्वप्रकटनाय पदद्वयम् । यद्वा । अन्विति क्रियया संबध्यते। कवयः अनूचानाः रेभाः स्तोतारः ऋत्विजः यन्ति गच्छन्ति । ‘ये वा अनूचानास्ते कवयः' इति श्रुतेः । यद्वा । कवय इति मेधाविनाम, ‘कविः मनीषी' ( नि, ३. १५. १०) इति तन्नामसु पठितत्वात् । रेभः इति स्तोतृनाम, ‘रेभः जरिता ' (नि. ३. १६. 1) इति तत्र पाठात् ॥
“The swift horse approaches the plural ce of immolation, meditating with mind intent upon the gods; the goat bound to him is led before him; after him follow the priests and the singers.”
The strong Steed hath come forward to the slaughter, pondering with a mind directed God-ward.
The goat who is his kin is led before him the sages and the singers follow after.
The prizewinning steed has gone forth to slaughter, reflecting with a mind turned to the gods.
The goat, his umbilical kin, is led in front. The poets and singers come along behind.
Der schnelle Renner ist zur Schlachtbank vorgeschritten, aufmerkend mit dem zu den Göttern hingewandten Sinn; der Bock wird vorangeführt, der ihm nah verbundene, und ihm folgen die weisen Sänger.
Er ist zur Schlachtung gegangen, der siegreiche Renner, mit gottwärts gerichtetem Gedanken sinnend. Der Bock wird vorausgeführt, seine Verwandtschaft. Die weisen Sänger wandeln hinterdrein.
На заклание отправился скакун, приносящий награды,
С мыслью, обращенной к богам, с даром прозрения.
Козла ведут впереди, его сородича.
Позади следом идут мудрые певцы.
उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च । अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥
उप॑ । प्र । अ॒गा॒त् । प॒र॒मम् । यत् । स॒धऽस्थ॑म् । अर्वा॑न् । अच्छ॑ । पि॒तर॑म् । मा॒तर॑म् । च॒ । अ॒द्य । दे॒वान् । जुष्ट॑ऽतमः । हि । ग॒म्याः । अथ॑ । आ । शा॒स्ते॒ । दा॒शुषे॑ । वार्या॑णि ॥
अर्वान् अरणकुशलोऽयमश्वः उप प्रागात् उपगच्छति । किम् । यत् परमम् उत्कृष्टं सधस्थं सहस्थानं सुकृतिभिरेकत्रनिवासयोग्यं स्वर्गाख्यं यदस्ति तत् । किमर्थम् । पितरं मातरं च अच्छ आभिमुख्येन प्राप्तुम् । हे अश्व अद्य अस्मिन् काले जुष्टतमः प्रीततमः स्वर्गं प्राप्नोमीति हर्षयुक्तः इत्यर्थः। एवंभूतः देवान् गम्याः गच्छेर्देवान् । हिशब्दो यज्ञे उपयुक्तस्य पशोः स्वर्गप्राप्तेः ‘सगभ्योऽनु सखा सयूथ्यः' (तै. सं. १. २. ४. २) इत्यादिमन्त्रान्तरप्रसिद्धिद्योतनार्थः । अथ अनन्तरं यजमानः आ शास्ते । कस्मै । दाशुषे हविर्दत्तवते स्वस्मै । कानि । वार्यणि वरणीयानि धनानि । यद्वा ॥ पुरुषस्य व्यत्ययः ॥ आ शास्ते प्रार्थये यजमानार्थम् ॥ ॥ १३ ॥
“The horse proceeds to that assembly which is most excellent; to the presence of his father and his mother, (heaven and earth). Go, (Horse), today rejoicing to the gods, that (the sacrifice) may yield blessings to the donor.”
The Steed is come unto the noblest mansion, is come unto his Father and his Mother.
This day shall he approach the Gods, most welcome: then he declares good gifts to him who offers.
The steed has gone forth to the highest seat, to his father and mother [=Heaven and Earth].
He should go to the gods today, for he is most pleasing (to them); then he expresses his hope for desirable things for the pious man.
Der Renner ist vorgeschritten zu dem herrlichsten Sitze, den es gibt, zum Vater und zur Mutter; denn heute noch wird er zu den Göttern als sehr willkommen gelangen, und dann weist er dem Verehrer Schätze zu.
Er ist zum höchsten Wohnsitz eingegangen, der Renner zu Vater und Mutter. Drum möge er heute recht willkommen zu den Göttern gehen, und dann bittet er um erwünschte Gaben für den Spender.
Он отправился в ту высшую общую обитель,
Скакун – к отцу и матери.
Так пусть сегодня он пойдет к богам как самый приятный (для них)
И испросит тогда желанные дары для жертвователя!