स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो॑ वहति स॒प्तना॑मा । त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ॥
स॒प्त । यु॒ञ्ज॒न्ति॒ । रथ॑म् । एक॑ऽचक्रम् । एकः॒ । अश्वः॑ । व॒ह॒ति॒ । स॒प्तऽना॑मा । त्रि॒ऽनाभि॑ । च॒क्रम् । अ॒जर॑म् । अ॒न॒र्वम् । यत्र॑ । इ॒मा । विश्वा॑ । भुव॑ना । अधि॑ । त॒स्थुः ॥
एकचक्रम् एकरथाङ्गोपेतम् । यद्यपि त्रीणि चक्राणि तथापि तेषामेकरूपत्वात् एकचक्रमित्युच्यते । रथं रंहणस्वभावं सूर्यस्य संबन्धिनं सप्त एतत्संख्याका अश्वाः युञ्जन्ति अनुबध्नन्ति वहन्ति अहोरात्रनिर्वाहाय । किं वस्तुतः सप्त नेत्याह। एकः अश्वः सप्तनामा एक एव सप्ताभिधानः सप्तधा नमनप्रकारो वा । एक एव वायुः सप्तरूपं धृत्वा वहतीत्यर्थः। वाय्वधीनत्वात् अन्तरिक्षसंचारस्य । एकचक्रमित्युक्तं कीदृशं तदित्यत आह । त्रिनाभि वलयत्रयमध्यस्थितनाभिस्थानीयच्छिद्रत्रयोपेतम् अजरम् अमरणधर्मकम् अनर्वम् अशिथिलम् । पुनस्तदेव विशेष्यते । यत्र यस्मिन् चक्रे इमा विश्वा भुवना इमानि प्रसिद्धानि सर्वाणि भूतजातानि अधि आश्रित्य तस्थुः तिष्ठन्ति । यद्वा । एकचक्रम् एकचारिणम् असाहाय्येन संचरन्तं रथम् आदित्यमण्डलं सप्त युञ्जन्ति । सर्पणस्वभावाः सप्तसंख्या वा रश्मयः सप्तप्रकारकार्याः असाधारणाः परस्परविलक्षणाः षडृतवः । एकः साधारणः इत्येवम् । अथवा मासद्वयात्मकाः षट् अपरः अधिकमासात्मकः इत्येवं सप्तर्तवो युञ्जन्ति । एतस्य कार्यं निर्वहन्तीत्यर्थः । स चैकः असहायः अश्वो व्यापनशीलः आदित्यः सप्तनामा सप्त रसानां संनमयितारो रश्मयो यस्य तादृशः सप्तर्षिभिः स्तूयमानो वा आदित्यो वहति धारयति भ्रमयतीत्यर्थः । किम् । त्रिनाभि चक्रम् । तिस्रो नाभिस्थानीयाः संध्याः संबद्धा वा त्रय ऋतवो यस्य तत्तादृशम् । के ते। ग्रीष्मवर्षाहेमन्ताख्याः । यद्वा । भूतभविष्यद्वर्तमानाख्यास्त्रयः कालाः त्रिनाभयः । तद्विशिष्टं चक्रं चक्रवत् पुनःपुनः परिभ्रममाणं संवत्सराख्यं चक्रम् अजरं मरणरहितम् । न हि कदाचिदपि कालो म्रियते ‘अनादिनिधनः कालः' इति स्मृतेः । अनर्वम् अप्रतिहतम् । ईदृशं संवत्सराख्यं चक्रं नानाकालावयवोपेतम् अयमादित्यः पुनरावर्तयति । संवत्सरादर्वा चीनानां तत्रैवान्तर्भावात् ततः युगादीनां तदावृत्तिसाध्यत्वात् संवत्सरस्य चक्रत्वेन निरूपणम् । पुनः कीदृशं तत् । यत्र यस्मिन् चक्रे इमा विश्वा भुवना इमानि सर्वाणि भूतानि अधितस्थुः आश्रित्य तिष्ठन्ति कालाधीनत्वात् सर्वस्य स्थितेः। ईदृशस्य कालस्य कारणभूतपरमेश्वरपरिज्ञानेन मोक्षसद्भावात् ‘ ज्ञानमोक्षाक्षरप्रशंसा च ' इत्यनुक्रमण्यामुक्तम् । अयमपि मन्त्रो यास्केन ‘ सप्त युञ्जन्ति रथमेकचक्रमेकचारिणम्' (निरु. ४. २७) इत्यादिना व्याख्या तः । तदत्राप्यनुसंधेयम् ॥
“They yoke the seven (horses) to the one-wheeled car; one horse, named seven, bears it along; the three-axled wheel is undecaying, never loosened, and in it all these regions of the universe abide.”
Seven to the one-wheeled chariot yoke the Courser; bearing seven names the single Courser draws it.
Three-naved the wheel is, sound and undecaying, whereon are resting all these worlds of being.
The seven harness the chariot with a single wheel [=the Sun]. A single horse with seven names draws it.
Triple-naved [=with three seasons?] is the unaging, unassailable wheel, on which all these living beings rest.
Sieben [Priester] schirren den einrädrigen Wagen [die Sonne]; ein Ross, das sieben Namen führt, zieht ihn; drei Naben [die drei Tageszeiten] hat das Rad, das nicht alternde, unaufhaltsame, auf welches alle diese Wesen steigen.
Sieben schirren den einrädrigen Wagen an; ein Pferd zieht ihn, das sieben Namen hat. Dreinabig, niemals altersschwach, unübertroffen ist das Rad, auf dem alle diese Wesen stehen.
Семеро запрягают однокольную колесницу.
Один конь везет с семью именами.
Трехступичатое колесо, нестареющее, неудержимое –
Где все эти существа стоят.
इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वा॑: । स॒प्त स्वसा॑रो अ॒भि सं न॑वन्ते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ॥
इ॒मम् । रथ॑म् । अधि॑ । ये । स॒प्त । त॒स्थुः । स॒प्तऽच॑क्रम् । स॒प्त । व॒ह॒न्ति॒ । अश्वाः॑ । स॒प्त । स्वसा॑रः । अ॒भि । सम् । न॒व॒न्ते॒ । यत्र॑ । गवा॑म् । निऽहि॑ता । स॒प्त । नाम॑ ॥
इमम् उक्तस्वरूपमादित्यमण्डलाख्यं संवत्सराख्यं वा रथं ये सप्त रश्मयः अधि तस्थुः। अधिष्ठिताः। संवत्सरपक्षे अयनर्तुमासपक्षदिवसरात्रिमुहूर्ताख्याः सप्तावयवाः अधितिष्ठन्ति । कीदृशं रथम् । सप्तचक्रम् । चकनाच्चरणात् क्रमणाद्वा चक्राणि रश्मयः ते सप्त यस्य रथस्य तादृशमुभयविधं रथ पूर्वोक्ताः अधिष्ठिताः अश्वाः व्यापनशीलाः सप्त वहन्ति निर्वहन्ति च । तादृशं रथं सप्त स्वसारः स्वयंसरणाः । स्वरादित्यः । तेन सारिताः परस्परं स्वसृभूता वा सप्तसंख्याकाः रश्मय ऋतवश्च अभि सं नवन्ते आभिमुख्येन संगच्छन्ते । असाधारणाः परस्परविलक्षणकार्या: षडृतवः सर्वसाधारणः एकः इति सप्तत्वम्। यद्वा उक्तरूपाः मासद्वयात्मकाः षट् त्रयोदशमासात्मकः सप्तमः इति सप्तत्वम् । कीदृशो रथ इति तदुच्यते । यत्र यस्मिन् रथे उभयविधे गवां वाचां स्तुतिरूपाणां सप्त सप्तविधानि नाम नमनानि सप्तस्वररूपाणि निहितानि । सप्तस्वरोपेतैः सामभिः स्तुत्यं रथमित्यर्थः । यद्वा । गवामुदकानां सप्त सर्पणस्वभावानि नाम नमनानि । यत्र यासु स्वसृषु निहिता स्वसारः परस्परस्वसृभूता देवनद्योऽभि सं नवन्ते ॥
“The seven who preside over this sevenpwheeled chariot (are) the seven horses who draw it; seven sisters ride in it together, and in are deposited the seven forms of utterance.”
The seven who on the seven-wheeled car are mounted have horses, seven in tale, who draw them onward.
Seven Sisters utter songs of praise together, in whom the names of the seven Cows are treasured.
As its seven horses, the seven [=the priests] who stand upon this chariot [=the sacrifice] draw the seven-wheeled (chariot).
Seven sisters [=voices of the priests] together cry out (the words) in
which the seven names of the cows [=poetic speech] are imprinted.
Diesen Wagen [wol wieder die Sonne, aber in ihrem Jahreslauf betrachtet?], welchen [jám statt jé?] die sieben bestiegen haben, den siebenrädrigen, ziehen sieben Rosse; sieben Schwestern [wol die in der Luft gedachten Ströme] rauschen ihm entgegen, dort wo die sieben Namen der Kühe eingesetzt sind.
Während sieben diesen Wagen bestiegen haben, ziehen sieben Rosse den siebenrädrigen Wagen. Sieben Schwestern schreien ihm zu, in dem die sieben Namen der Kühe niedergelegt sind.
В то время как семеро стоят на этой колеснице,
Везут (ее,) семикольную, семь коней.
Семь сестер приветствуют криками (ту),
На которой сложены семь имен коров.
को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति । भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ॥
कः । द॒द॒र्श॒ । प्र॒थ॒मम् । जाय॑मानम् । अ॒स्थ॒न्ऽवन्त॑म् । यत् । अ॒न॒स्था । बिभ॑र्ति । भूम्याः॑ । असुः॑ । असृ॑क् । आ॒त्मा । क्व॑ । स्वि॒त् । कः । वि॒द्वांस॑म् । उप॑ । गा॒त् । प्रष्टु॑म् । ए॒तत् ॥
एवं प्रपञ्चस्य कालायत्ततां प्रतिपाद्य तस्य कारणभूतस्य परमेश्वरस्य अविषयत्वमाह। कः ददर्श को द्रष्टुं शक्नुयात् । कदा । प्रथमं सृष्टेः पूर्वम् । अव्याकृतावस्थायामित्यर्थः । किम् । जायमानं प्रथमभावविकारमापन्नम् । उत्पद्यमानं प्रपञ्चमित्यर्थः । दुर्ज्ञेयत्वे हेतुमाह । यत् यस्मात् अस्थन्वन्तम् अस्थिमन्तं सशरीरम् । उपलक्षणमेतत् । कार्यभावमापन्नमित्यर्थः । अनस्था अस्थिरहिता अशरीरा सांख्यप्रसिद्धा प्रकृतिः वेदान्तप्रसिद्धा ईश्वरायत्ता माया बिभर्ति गर्भवदन्तर्धारयति । अव्याकृतावस्थायाम् अनस्थः अशरीरः परमेश्वरो बिभर्ति । यदा केवलः परमेश्वरो मायाशबलितः सन्निदं जगन्निर्मितवान् उत्पत्तिसमये देहादिसहितस्य कस्यचिदभावात् को ददर्श । तदानीं मनो नित्यमात्मा च नित्यः तत्संयोगात् कश्चिदात्मा जानातीति चेत् सोऽपि न संभवतीत्यत आह । भूम्याः संबन्धि पार्थिवं स्थूलशरीरं असुः प्राणः तदुपलक्षितं सूक्ष्मशरीरं असृक् शोणितम् । एतत्सप्तधातूपलक्षकम् । यद्यपि शरीरं पञ्चभूतात्मकं तथापि भूतद्वयप्रत्यक्षत्वात् तदपेक्षयोक्तम् । आत्मा तैः संबद्धश्चेतनः क्व स्वित् कुत्रास्ते । न कश्चिदस्तीत्यर्थः । नान्यत्किंचन मिषत् ' (ऐ. आ. २. ४. १ ) इति श्रुतेः । विद्वांसं जगत्कारणविषयज्ञानवन्तमन्यं गुर्वेदिकम् एतत् कारणं प्रष्टुं कः शिष्योऽल्पमतिः उप गात् उपगच्छति । तादृशो देहेन्द्रियसंघातरूपः आत्मा तस्मिन् समये कुत्रास्ति । प्रष्टा प्रतिवक्ता च उभावपि नास्तीत्यर्थः, न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' इति श्रुतेः । यद्वा । प्रथमं प्रथमभाविनं जगतः कारणभूतं को ददर्श कः साक्षात्करोति । जायमानमस्थन्वन्तं मनुष्यम् अनस्थिकः परमेश्वरः सशरीरमशरीर: यत् यस्मात् बिभर्ति । द्रष्टुरपि तत्कार्यत्वात् इति भावः । शिष्टं समानम् ॥
“Who has seen the primeval (being) at the time of his being born; what is that endowed with substance which the unsubstantial sustains; from earth are the breath and blood; but where is the soul; who may repair to the sage to ask this?”
Who hath beheld him as he sprang to being, seen how the boneless One supports the bony?
Where is the blood of earth, the life, the spirit? Who may approach the man who knows, to ask it?
Who has seen the first one [=the Sun/Agni] as he is being born, when his boneless (mother) [=the Waters?] carries the one having bones [=the one who is a living being]?
Where is the life, blood, and breath of the earth? Who will approach the knowing one to ask this?
Wer hat den zuerst geborenen Knochenbegabten [das Urwesen] gesehen, wenn ihn der knochenlose [Himmel oder Erdboden oder beides vereint im Chaos] trägt? Wo ist doch der Erde Athem, Blut, Seele? Wer mag zu dem wissenden gehen, dies zu erfragen?
Wer hat den zuerst Geborenen gesehen, da die Knochenlose den Knochigen trägt? Wo ist denn der Erde Lebensgeist, Blut und Seele? Wer trifft einen Wissenden um danach zu fragen?
Кто видел первого рождающегося,
Когда костистого несет бескостная?
Где сила жизни земли, кровь и дыхание?
Кто приблизится к сведущему, чтоб спросить об этом?
पाक॑: पृच्छामि॒ मन॒सावि॑जानन्दे॒वाना॑मे॒ना निहि॑ता प॒दानि॑ । व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ॥
पाकः॑ । पृ॒च्छा॒मि॒ । मन॑सा । अवि॑ऽजानन् । दे॒वाना॑म् । ए॒ना । निऽहि॑ता । प॒दानि॑ । व॒त्से । ब॒ष्कये॑ । अधि॑ । स॒प्त । तन्तू॑न् । वि । त॒त्नि॒रे॒ । क॒वयः॑ । ओत॒वै । ऊँ॒ इति॑ ॥
पाकः पक्तव्यः अपक्वमतिः अहं मनसा असंस्कृतेन अविजानन अतिगहनं तत्त्वं विशेषेण ज्ञातुमशक्नुवन् पृच्छामि प्रश्नं करोमि । अज्ञाने कारणमाह । एना एनानि पदानि संदेहास्पदानि तत्त्वानि देवानां निहितानि देवानामपि गूढानीत्यर्थः । यद्वा । देवानां पदानि तत्त्वानि निधिवद्गोपयित्वा स्थापितानि । अतः पृच्छामि तत्त्वज्ञानोपयोगायेति शेषः । तानि कानीति उच्यते । वत्से सर्वस्य निवासभूते बष्कये । बडिति सत्यनाम । तत् कषतीति बष्कयः आदित्यः । यद्वा । बष्कयो नाम एकहायनो वत्सः । पुनरपि वत्सशब्दस्य पृथग्निर्देशात् बष्कयशब्देन तत्कालमात्रं लक्ष्यते । तस्मिन्नादित्ये अधि अधिकं सप्त तन्तून् तायमानान् सप्त सोमसंस्थान् कवयः मेधाविनो यजमानाः ओतवै जगद्रूपतिर्यक्तन्तून वेतुं वि तत्निरे वितन्वन्ति । यद्वा । सप्त तन्तवः सप्त छन्दांसि । तानि वितन्वन्ति । किमर्थम् । ओतवै सप्तसोमसंस्थारूपतिर्यकन्तुसंतानाय । यज्ञनिर्माणायेत्यर्थः । यज्ञानां स्थितेः सूर्याधीनत्वात् इति भावः । ईदृशं तत्त्वं पृच्छामीत्यर्थः ॥ ॥ १४ ॥
“Immature (in understanding) undiscerning in mind, I inquire of those things which are hidden (even) from the gods; (what are) the seven threads which the sages have spread to envelop the sun, in whom all abide?”
Unripe in mind, in spirit undiscerning, I ask of these the Gods' established places;
For up above the yearling Calf the sages, to form a web, their own seven threads have woven.
Naïve, not understanding, in my mind I ask about these imprinted tracks of the gods.
Upon the full-grown calf [=the fire] the poets have stretched the seven warp-threads (of the sacrifice) in order to weave.
Ich unkundiger frage, mit meinem Geiste es nicht erkennend, nach diesen eingesetzten Stätten der Götter; über dem einjährigen Kalbe [der Sonne in ihrem Jahreslauf] spannten die weisen [Götter] sieben Fäden aus zum Weben [wol die sieben Jahresopfer eines Opfercyklus].
Als Tor, der in seinem Verstand sich nicht auskennt, frage ich nach den darin hinterlassenen Spuren der Götter. An dem ausgewachsenen Kalbe zogen die sieben Seher sieben Fäden auf, um daran zu weben.
Глупец, я спрашиваю, не различая мыслью,
Про эти оставленные следы богов.
На годовалого теленка семь нитей
Натянули провидцы для тканья.
अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् । वि यस्त॒स्तम्भ॒ षळि॒मा रजां॑स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देक॑म् ॥
अचि॑कित्वान् । चि॒कि॒तुषः॑ । चि॒त् । अत्र॑ । क॒वीन् । पृ॒च्छा॒मि॒ । वि॒द्मने॑ । न । वि॒द्वान् । वि । यः । त॒स्तम्भ॑ । षट् । इ॒मा । रजां॑सि । अ॒जस्य॑ । रू॒पे । किम् । अपि॑ । स्वि॒त् । एक॑म् ॥
अचिकित्वान् देवतातत्त्वमजानन्नहं चिकितुषः विशेषेण तत्त्वं जानतः कवीन् क्रान्तदर्शिनः अधिगतपरमार्थान् अत्र अस्मिन् तत्त्वविषये पृच्छामि। किमर्थम्। विद्मने वेदनाय परमार्थज्ञानाय। किं जानन्नेव पराभवाद्यर्थं नेत्याह । विद्वान् न पृच्छामि अपि तु अज्ञानादेव । यः परमेश्वरः तस्तम्भ स्तम्भितवान् नियमितवान् ।' अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय । (छा. उ. ८. ४. १ ) इति श्रुतेः । किम् । इमा इमानि षट् रजांसि लोकान् रञ्जनात्मकान् । ‘लोका रजांस्युच्यन्ते' (निरु. ४. १९ ) इति निरुक्तम् । यद्यपि लोकाः सप्त तथापि सत्यलोकस्य कर्मिणां सर्वेषां साधारणस्वाभावात् षडित्युक्तम् । ननु षडेवोक्ताः सप्तमः किमिति न निर्दिष्टः इति । उच्यते । अजस्य जननादिरहितस्य चतुर्मुखस्य ब्रह्मणः रूपे स्वरूपे एकं सत्यलोकाख्यं पुनरावृत्तिरहितं स्थानं किमपि स्वित् किं स्विदेव । तन्न केनाप्यधिगन्तुं शक्यमित्यर्थः। कैश्चिदेवोपासकैः अर्चिरादिमार्गेण गन्तव्यत्वात् इति भावः । यद्वा । षड्रजांसि विलक्षणाः षडृतवः। तान्यस्तम्भयत्तत्वम् । अजस्य गमनशीलस्य जन्मरहितस्य वा आदित्यस्य रूपे रूप्यमाणे दृश्यमाने मण्डले एकमद्वितीयं किमपि स्वित्। यत्किंचिदवाङ्मनसगम्यं तत्त्वमस्ति तत्पृच्छामि ।' अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते (छा. उ. १.६.६ ) इत्यादिश्रुतिप्रतिपादितं तत्त्वमित्यर्थः। अथवा षडिमानि रजांसि त्रिविधान् भूलोकांश्च यस्तस्तम्भ । ‘ तिस्रो भूमीर्धारयन् त्रीरुत द्यून् ' ( ऋ.सं. २ २७. ८) इति निगमः । तस्याजस्य परब्रह्मणो रूपे नानाविकारभाजि जगति किमपि स्विदेकम् एकात्मकमस्तीति प्रश्नः । अविशेषमस्तिनाममात्रम् एकरूपमस्तीत्युत्तरविवक्षया प्रश्नः । अस्तीत्येवोपलब्धव्यम्' (क. उ. २. ६. १३) इति श्रुतेः ॥
“Ignorant, I inquire of the sages who know (the truth); not as one knowing (do I inquire), for the sake of (gaining) knowledge; what is that one alone, who has upheld these six spheres in the form of the unborn?”
I ask, unknowing, those who know, the sages, as one all ignorant for sake of knowledge,
What was that ONE who in the Unborn's image hath stablished and fixed firm these worlds' six regions.
Unperceptive, I ask also the perceptive poets about this in order to know, since I am unknowing:
What also is the One in the form of the Unborn [=the Sun] that has propped apart these six realms (of heaven and earth)?
Es nicht erkennend frage ich hier die erkennenden weisen aus, um es zu wissen, da ich es nicht weiss. Welcher diese sechs Räume [nach den sechs Weltrichtungen] ausspannte in der Gestalt des ungeborenen, was ist doch recht dies eine?
Als Unkundiger befrage ich darüber die kundigen Seher um es zu wissen, selbst nicht wissend. Was ist denn ferner das Eine in Gestalt des Ungeborenen, der diese sechs Welträume auseinander gestemmt hat?
Незрячий – зрячих провидцев об этом
Я спрашиваю, несведущий – чтобы ведать.
Что ж это за Одно в виде нерожденного,
Который установил порознь эти шесть пространств?
इ॒ह ब्र॑वीतु॒ य ई॑म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः । शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो॑ अस्य व॒व्रिं वसा॑ना उद॒कं प॒दापु॑: ॥
इ॒ह । ब्र॒वी॒तु॒ । यः । ई॒म् । अ॒ङ्ग । वेद॑ । अ॒स्य । वा॒मस्य॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः । शी॒र्ष्णः । क्षी॒रम् । दु॒ह्र॒ते॒ । गावः॑ । अ॒स्य॒ । व॒व्रिम् । वसा॑नाः । उ॒द॒कम् । प॒दा । अ॒पुः॒ ॥
इह इदानीम् ईम् एतद्वक्ष्यमाणं तत्त्वम् अङ्ग क्षिप्रमविचारेण ब्रवीतु । कः। यः वेद सः। कीदृशं तत् । अस्य पुरतो दृश्यमानस्य वामस्य वननीयस्य वेः गन्तु: आदित्यस्य पदं सर्वैः गन्तव्यं स्वरूपं निहितं गूढं वर्तते । किंच अस्य आदित्यस्य शीर्ष्णः शिरोवदुन्नतस्य सर्वेषामुत्कृष्टस्य वा गावः केचन वर्षकालीनाः रश्मयः क्षीरम् उदकं दुहते क्षरन्ति । वव्रिम् । रूपनामैतत् । रूपं वसानाः आच्छादयन्तः अतिविस्तरेण तेजसा तपन्तः केचन अस्य गावो रश्मयः उदकं स्वसृष्टं पदा सृष्टेनैव मार्गेण अपुः पिबन्ति भूमिं निरुदकां कुर्वन्तीत्यर्थः । तस्य स्वरूपं ब्रवीतु इत्यन्वयः ॥
“Let him who knows this (truth) quickly declare it; the mysterious condition of the beautiful ever-moving (sun); the rays shed (their) milk from his (exalted) head investing his form with radiance; they have drunk up the water by the paths (by which they were poured forth).”
Let him who knoweth presently declare it, this lovely Bird's securely founded station.
Forth from his head the Cows draw milk, and, wearing his vesture, with their foot have drunk the water.
Let him speak here, who knows the imprinted track of this treasured bird [=the Sun].
The cows [=rain clouds] yield milk [=rain] from his head [=the Sun]. Clothing themselves in a cloak, they have drunk water with the foot [=the Sun’s rays].
Hier möge der, welcher es recht weiss, dieses schönen Vogels [der Sonne] niedergesetzten Fuss nennen; aus seinem Haupte melken sich Milch die Kühe [die Wolken], in ihr Gewand, das Wasser, gekleidet, erreichten (āpus, Padap. apus) sie seine Stätten.
Hier soll sie sagen, wer sie gewiß kennt, die hinterlassene Spur dieses liebwerten Vogels. Aus seinem Haupte geben die Kühe Milch. Körperform annehmend haben sie das Wasser mit dem Fuß getrunken.
Пусть скажет здесь (о нем) тот, кто его точно знает:
Об оставленном следе этой милой птицы.
Из ее головы молоком доятся коровы.
Облекаясь в тело, ногой они выпили воду.
मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे । सा बी॑भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी॑युः ॥
मा॒ता । पि॒तर॑म् । ऋ॒ते । आ । ब॒भा॒ज॒ । धी॒ती । अग्रे॑ । मन॑सा । सम् । हि । ज॒ग्मे । सा । बी॒भ॒त्सुः । गर्भ॑ऽरसा । निऽवि॑द्धा । नम॑स्वन्तः । इत् । उ॒प॒ऽवा॒कम् । ई॒युः॒ ॥
माता सर्वस्य निर्मात्री पृथिवी पितरं पालकं द्युलोकं तत्स्थं द्युलोकस्थमादित्यमित्यर्थः । तम् आ बभाज आभजते । किमर्थम् । ऋते उदके यज्ञे वा निमित्तभूते सति । केन द्वारेण । धीती धीत्या कर्मणा यागादिरूपेण । स्वकीयेन आज्यसोमादिहविषा तर्पयतीत्यर्थः । अग्रे ततः पूर्वं पिता च मनसा अस्याम् अभिप्रायवता चेतसा सं जग्मे हि संश्लिष्टो वर्तते खलु वृष्टिमकरोदित्यर्थः । अनन्तरं सा माता बीभत्सुः गर्भबन्धनेच्छावती गर्भरसा गर्भरसेन गर्भोत्पत्तिनिमित्तेन रसेन निविद्धा नितरां विद्धा आसीत् । यद्वा । गर्भे रसः औषध्याद्युत्पादनसमर्थमुदकं यस्याः सा तादृशी उदकेनात्यन्तं क्लिन्ना निविद्धा कृषीवलैर्हलमुखेन नितरां विदारिता भवति बीजावापार्थम् । अत्रायं समाधिः । या काचन योषिदपत्यार्थं स्वपतिं युवानं यौति स च तस्यामनुरागयुक्तः संगतो भवति सा चान्तर्वत्नी सती पुत्रान् जनयतीति तद्वदत्रापि । अनन्तरं नमस्वन्तः इत् भाविव्रीहिप्रियङ्ग्वाद्यन्नवन्तः एव उपवाकम् उपेत्य वचनं परस्परं सम्यगभिवृद्धानि सस्यानीति वचनम् 'ईयुः प्राप्नुवन्ति । यद्वा । हविर्लक्षणान्नवन्तः उपेत्य वचनं प्रैषादिरूपमीयुः । वृष्टौ सत्यां सस्यादिद्धारा यागमनुतिष्ठेयुरित्यर्थः ॥
“The mother, (earth), worships the father, (sun), with holy rites, for the sake of water; but he has anticipated (her wants) in his mind; whereupon desirous of progeny, she is penetrated by the dews of impregnation, and, (all) expectant of abundance, exchange words (of congratulation).”
The Mother gave the Sire his share of Order: with thought, at first, she wedded him in spirit.
She, the coy Dame, was filled with dew prolific: with adoration men approached to praise her.
The mother [=Dawn] gave her father [=the Sun/Heaven] a share in the truth, for in the beginning, through her insight, she united (with him) by her mind.
Recoiling, she whose essence was her child [=Agni/the Sun] was pierced (by her father). Just those offering their reverence went to the
(morning) invocation.
Die Mutter [das Urbild der Erde] machte den Vater [den Himmel als Geist gedacht] theilhaft des gebührenden Werkes; denn durch Denken vermählte sie sich zuerst mit dem Geiste; sie, die spröde, als sie durchbohrt war [vermittels des Zeugungsactes], war angefüllt mit schwängernder Feuchtigkeit; da begannen die Andachtsvollen zu preisen.
Die Mutter macht den Vater seines Rechtes teilhaft, denn sie hatte sich zuvor in ihrem Sinnen und Denken mit ihm geeinigt. Die Spröde ward durchbohrt, von Feuchtigkeit befruchtet. Ehrfurchtsvoll kamen sie ihn zu ermuntern.
Мать приобщила отца к закону:
Ведь (еще) раньше она сошлась (с ним) духом (и) мыслью.
Она, желая удержать (плод), была пронзена, увлажненная плодом.
Почтительные, они явились (к нему) с хвалой.
यु॒क्ता मा॒तासी॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्व॒न्तः । अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं॑ त्रि॒षु योज॑नेषु ॥
यु॒क्ता । मा॒ता । आ॒सी॒त् । धु॒रि । दक्षि॑णायाः । अति॑ष्ठत् । गर्भः॑ । वृ॒ज॒नीषु॑ । अ॒न्तरिति॑ । अमी॑मेत् । व॒त्सः । अनु॑ । गाम् । अ॒प॒श्य॒त् । वि॒श्व॒ऽरू॒प्य॑म् । त्रि॒षु । योज॑नेषु ॥
माता । निर्मीयन्ते अस्मिन् भूतानीति माता द्यौः । दक्षिणायाः अभिमतपूरणसमर्थायाः पृथिव्याः धुरि निर्वहणे युक्ता आसीत् वर्षणाय समर्थाभूदित्यर्थः । कथमिति तदुच्यते । गर्भः गर्भस्थानीयः उदकसंघः वृजनीषु उदकवत्सु मेघपङ्क्तिषु अन्तः मध्ये अतिष्ठत् तिष्ठति । अनन्तरं वत्सः पुत्रस्थानीयः उदकसंघः त्रिषु योजनेषु मेघरश्मिवायुषु संयुक्तेषु सत्सु अमीमेत् वर्षणसमये शब्दयति । अनन्तरं विश्वरूप्यं विश्वरूपवतीं गाम् अनु अपश्यत् अनुक्रमेण पश्यति वर्षतीत्यर्थः । यद्वा । त्रिषु योजनेषु सत्सु वत्सो मेघो वर्षणाय गां भूमिं प्रति अमीमेत् । अनन्तरं सर्वो जनोऽनुक्रमेण विश्वरूप्यं सस्यादिभिर्नानारूपवतीं भूमिम् अपश्यत् पश्यति ॥
“The mother, (sky), was associated in (sustaining) the burden of the fulfiller of desires, (the earth); the embryo (water) rested within the (womb of the) clouds; thereupon the calf bellowed, and beheld the omniform cow in the three combinations.”
Yoked was the Mother to the boon Cow's car-pole: in the dank rows of cloud the Infant rested.
Then the Calf lowed, and looked upon the Mother, the Cow who wears all shapes in three directions.
The mother was harnessed to the yoke-pole of the sacrificial reward; her child stood up amid the penned cows.
The calf [=Agni] bellowed and looked toward the cow of every color [=Dawn], three wagon-treks (in the distance).
Die Mutter war geschirrt an die Deichsel der reichlich milchenden Kuh [etwa des Opfers?], der neugeborene [wol Feuer und Sonne als eins gedacht] stand da mitten unter den Wolkenkühen; es brüllte das Kalb, es blickte hin zu der vielgestaltigen Mutterkuh drei Strecken weit [Morgen, Mittag, Abend].
Die Mutter war ins Joch der Daksina eingespannt, das Kind stand unter den ........ Das Kalb brüllte, es sah sich nach der Kuh um, nach der allfarbigen drei Wegstrecken weit.
Мать запряжена была в ярмо дакшины.
Плод пребывал внутри загонов.
Теленок мычал (и) глядел вслед корове
Многоцветной в трех расстояниях (от него).
ति॒स्रो मा॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्ति । म॒न्त्रय॑न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वाम् ॥
ति॒स्रः । मा॒तॄः । त्रीन् । पि॒तॄन् । बिभ्र॑त् । एकः॑ । ऊ॒र्ध्वः । त॒स्थौ॒ । न । ई॒म् । अव॑ । ग्ल॒प॒य॒न्ति॒ । म॒न्त्रय॑न्ते । दि॒वः । अ॒मुष्य॑ । पृ॒ष्ठे । वि॒श्व॒ऽविद॑म् । वाच॑म् । अवि॑श्वऽमिन्वाम् ॥
एकः प्रधानभूतः असहायो वा पुत्रस्थानीयः आदित्यः संवत्सराख्यः कालो वा तिस्रः मातॄः सस्यवृष्ट्याद्युत्पादयित्रीः । क्षित्यादिलोकत्रयमित्यर्थः । तथा त्रीन् पितॄन जगतां पालयितॄन् लोकत्रयाभिमानिनः अग्निवायुसूर्याख्यान् बिभ्रत् सन् ऊर्ध्वः तस्थौ उन्नतः अत्यन्तदीर्घस्तिष्ठति भूतभविष्यदाद्यात्मना । सूर्यपक्षे सर्वेभ्य उन्नतः। ईम् एनं न अव ग्लपयन्ति ग्लानिं नैव कुर्वन्ति । न हि कालः आदित्यो वा अन्येन पराभूयते । दिवः पृष्ठे द्युलोकस्य उपरि अन्तरिक्षे मन्त्रयन्ते गुप्तं परस्परं भाषन्ते देवाः । किम् । विश्वविदं विश्ववेदनसमर्थां विश्वैर्वेदनीयां वा अविश्वमिन्वाम् असर्वव्यापिनीं वाचं गर्जितलक्षणाम् अमुष्य आदित्यस्य संबन्धिनीं मन्त्रयन्ते इत्यर्थः ॥ ॥ १५॥
“The one sole (sun), having three mothers and three fathers, stood on high; none ever over-weary him; the (gods) on the summit of the sky take counsel respecting him in language all-comprehending (but) not extending to all.”
Bearing three Mothers and three Fathers, single he stood erect: they never make him weary.
There on the pitch of heaven they speak together in speech all-knowing but not all-impelling.
Carrying three mothers [=earths] and three fathers [=heavens] alone, he [=the Sun] stands upright: they do not cause him to weary.
On the back of yonder heaven they [=the gods] recite the speech that knows everything but does not inspire everyone.
Er stand allein aufrecht tragend die drei Mütter und die drei Väter [die drei Erden und die drei Himmel], nicht ermüden sie ihn; auf dem Rücken jenes Himmels sprechen sie den alles Wissen enthaltenden, nicht überall hindringenden Spruch.
Drei Mütter, drei Väter trägt der Eine und steht doch aufrecht da; nicht ermatten sie ihn. Auf dem Rücken jenes Himmels ersinnen sie die allwissende Rede, die nicht einen jeden bewegt.
Трех матерей, трех отцов несет один,
(А) прямо стоит: они не утомляют его.
На спине того неба произносят они
Всеведущее слово, не всем внятное.
द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ । आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥
द्वाद॑शऽअरम् । न॒हि । तत् । जरा॑य । वर्व॑र्ति । च॒क्रम् । परि॑ । द्याम् । ऋ॒तस्य॑ । आ । पु॒त्राः । अ॒ग्ने॒ । मि॒थु॒नासः॑ । अत्र॑ । स॒प्त । श॒तानि॑ । विं॒श॒तिः । च॒ । त॒स्थुः॒ ॥
ऋतस्य उदकस्य सत्यात्मकस्य वा आदित्यस्य चक्रं पुनःपुनःक्रमणशीलं मण्डलाख्यं रथचक्रं वा वर्वर्ति पुनःपुनर्वर्तते संचरति । कुत्र । द्यां परि द्युलोकस्यान्तरिक्षस्य परितः । कीदृशं तत् । द्वादशारं द्वादशसंख्याकमेषादिराश्यात्मकैः मासात्मकैर्वा अरैः रथाङ्गावयवैर्युक्तम् । किंच तत् चक्रं नहि जराय नैव खलु जरायै भवति । हे अग्ने सर्वदा गमनयुक्त आदित्य । यद्वा । अग्नेरेव स्थानत्रये तत्तदात्मना वर्तमानत्वात् असावप्यग्निरित्युच्यते । अत्र अस्मिन् त्वदीये चक्रे मिथुनासः स्त्रीपुंसरूपेण परस्परं मिथुनभूताः सप्त शतानि विंशतिश्च विंशत्युत्तरसप्तशतसंख्याकाः पुत्राः पुत्रवदुत्पद्यमानाः प्राणिनां दुःखात् त्रातारो वा अहोरात्ररूपाः तस्थुः तिष्ठन्ति निष्पद्यन्ते । षष्ठ्यधिकशतत्रयसंख्याकानि अहानि तावत्यः एव रात्रयः इत्येवं तद्विभागः । सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः स एषोऽहःसंमानः ' (ऐ. आ. ३. २. १) इत्यारण्यकम् ॥
“The twelve-spoked wheel, of the true (sun) revolves round the heavens, and never (tends) to decay; seven hundred and twenty children in pais, Agni, abide in it.”
Formed with twelve spokes, by length of time, unweakened, rolls round the heaven this wheel of during Order.
Herein established, joined in pairs together, seven hundred Sons and twenty stand, O Agni.
Twelve-spoked, the wheel of truth [=the Sun] ever rolls around
heaven—yet not to old age.
Upon it, o Agni, stand seven hundred twenty sons in pairs [=the nights and days of the year].
Denn ohne sich je abzunutzen rollt das zwölfspeichige Rad der ewigen Ordnung [das Jahr] um den Himmel, siebenhundertundzwanzig verzwillingte Söhne [360 Tage und Nächte], o Agni, sind auf das selbe hinaufgestiegen.
Dies zwölfspeichige Rad der Zeitordnung dreht sich immer wieder um den Himmel, denn nicht kann es sich abnutzen. Darauf stehen, o Agni, die Söhne paarweise, siebenhundert und zwanzig.
0 двенадцати спицах – ведь оно не изнашивается! -
Вращается колесо закона по небу.
На нем, о Агни, парами сыновья
Стоят, семь сотен и двадцать.
पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हु॒: परे॒ अर्धे॑ पुरी॒षिण॑म् । अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम् ॥
पञ्च॑ऽपादम् । पि॒तर॑म् । द्वाद॑शऽआकृतिम् । दि॒वः । आ॒हुः॒ । परे॑ । अर्धे॑ । पु॒री॒षिण॑म् । अथ॑ । इ॒मे । अ॒न्ये । उप॑रे । वि॒ऽच॒क्ष॒णम् । स॒प्तऽच॑क्रे । षट्ऽअ॑रे । आ॒हुः॒ । अर्पि॑तम् ॥
पञ्चपादं पञ्चसंख्याकर्त्वात्मकपादोपेतम् । एतत् हेमन्तशिशिरयोः एकत्वाभिप्रायम् । पितरं सर्वस्य प्रीणयितारं द्वादशाकृतिं द्वादश मासा एवाकृतयो यस्य तादृशं पुरीषिणं वृष्ट्युदकेन तद्वन्तं प्रीणयितारं वा । पुरीषमित्युदकनाम । उक्तलक्षणं संवत्सरचक्रं दिवः द्युलोकस्य परे अर्धे । तात्स्थ्यात्ताच्छब्द्यम् । परस्मिन्नर्धे अन्तरिक्षलक्षणे अवस्थितः आदित्यः इत्यर्थः । तस्मिन् अर्पितम् आहुः । एतदुत्तरत्र स्थितमत्राप्यनुषज्यते । यद्यत्रार्पितं तत्तदधीनम् अतः संवत्सरं सूर्यायत्तमाहुरित्यर्थः । अथ इमे अपि च अन्ये केचन वेदवादिन एवमाहुः । किमिति। उपरे । उपरमन्ते अस्मिन् उपरताः प्राणिनः अत्र इति वा उपरः संवत्सरः तस्मिन् । कीदृशे । सप्तचक्रे । सप्त आदित्यरश्मयस्तद्द्वारेण चक्रस्थानीया यस्य स तथोक्तः । यद्वा । अयनर्तुमासपक्षाहोरात्रिमुहूर्तानि सप्त सप्त चक्राणि पुनः पुनःक्रममाणानि यस्य तादृशे । षळरे षडृतवः एव अरा नाभौ प्रत्यृताः संबद्धाः यस्य तथोक्तलक्षणे संवत्सरे रथे विचक्षणं विविधदर्शनकरमादित्यम् अर्पितम् आहुः । एतदुक्तं भवति । अमुमादित्यं दक्षिणोत्तररूपभिन्नगतेः तीव्रमन्दादिभावस्य च कालाधीनत्वात्तधीनमाहुः । अन्ये तु वत्सराद्यात्मकस्य कालस्य सूर्यगमनागमनसाध्यत्वात् तदायत्तत्वमाहुः इति ॥
“They have termed the five-footed, twelve-formed parent, Puriṣin, when in the further hemisphere of the sky; and others have termed in Arpita, when in the hither (portion of the sky); shining in his seven-wheeled car), each (wheel) having six spokes.”
They call him in the farther half of heaven the Sire five-footed, of twelve forms, wealthy in watery store.
These others say that he, God with far-seeing eyes, is mounted on the lower seven-wheeled, six-spoked car.
They speak of the father [=the Moon] with five feet [=the seasons] and twelve forms [=the months], the overflowing one in the upper half of heaven.
But these others speak of the far-gazing one [=the Sun] in the nearer (half) fixed on (the chariot) with seven wheels [=the Sun, Moon,
and visible planets] and six spokes [=the seasons, in a different
reckoning].
Fünffüssig, sagen sie, sei der zwölftheilige Vater, der an Feuchtigkeit reiche am entfernten Räume des Himmels [wol sich auf die fünf feuchten Monate beziehend?], und diese andern sagen, der weithinleuchtende sei an dem unteren siebenrädrigen, sechsspeichigen eingefügt [auf die sieben trockenen Monate sich beziehend, die sechs Speichen etwa auf die sechs Jahreszeiten?].
Sie bezeichnen als Vater den fünffüßigen, zwölfteiligen, der auf der entfernten Seite des Himmels im Vollen sitzt. Aber diese anderen sagen, daß es der Hellsichtige auf der unteren Seite sei, der auf den siebenrädrigen sechsspeichigen Wagen gesetzt ist.
О пятиногом, двенадцатичастном говорят,
Что он отец, о владельце источника на дальней половине неба.
А эти другие говорят, что (его) видно
В нижней (стороне) (и) он помещен на семикольную (колесницу) о шести спицах.
पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा॑ । तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी॑र्यते॒ सना॑भिः ॥
पञ्च॑ऽअरे । च॒क्रे । प॒रि॒ऽवर्त॑माने । तस्मि॑न् । आ । त॒स्थुः॒ । भुव॑नानि । विश्वा॑ । तस्य॑ । न । अक्षः॑ । त॒प्य॒ते॒ । भूरि॑ऽभारः । स॒नात् । ए॒व । न । शी॒र्य॒ते॒ । सऽना॑भिः ॥
पञ्चारे पञ्चर्तुरूपैः अरैर्युक्ते चक्रे संवत्सरात्मके परिवर्तमाने संवत्सरपरिवत्सरादिरूपेण पुन:पुनः आवर्तमाने सति तस्मिन् कालचक्रे विश्वा भुवनानि सर्वाणि भूतजातानि वर्तन्ते इत्यर्थः । किंच तस्य चक्रस्य मध्ये वर्तमानः अक्षः भूरिभारः सकलभुवनवहनेन प्रभूतभारोऽपि न तप्यते न पीड्यते । किंच सनादेव सनातनः एव सनाभिः समाननाभिकः सर्वदा एकरूपनाभिरसौ न शीर्यते न भिद्यते । यथा लौकिकरथाक्षः भारेण भग्नो भवति अक्षघातेन च नाभिर्विवृता भवति तद्वदत्रापि नास्तीत्यर्थः ॥
“All beings abide in this five-spoked revolving wheel; the heavily-loaded axle is never heated; its eternal compact nave is never worn away.”
Upon this five-spoked wheel revolving ever all living creatures rest and are dependent.
Its axle, heavy-laden, is not heated: the nave from ancient time remains unbroken.
In the five-spoked wheel [=the year] that rolls round—on that do all living beings take their stand.
Its axle does not become hot, though its load is heavy. From of old it, along with its nave, does not break apart.
Auf diesem fünfspeichigen, sich drehenden Rade stehen alle Wesen; seine vieltragende Achse erhitzt sich nicht; von Alters her wird sie nicht abgenutzt durch den Lauf der Zeiten.
Auf dem fünfspeichigen Rade, das sich im Kreis dreht, auf dem stehen alle Wesen. Seine Achse wird nicht heiß, obwohl sie viele Lasten trägt. Seit alters bricht sie nicht mitsamt der Nabe.
На этом вращающемся по кругу колесе о пяти спицах
Пребывают все существа.
Не нагревается ось его, хоть и несет большой груз.
От века она не ломается вместе со ступицей.
सने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति । सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥
सऽने॑मि । च॒क्रम् । अ॒जर॑म् । वि । व॒वृ॒ते॒ । उ॒त्ता॒नाया॑म् । दश॑ । यु॒क्ताः । व॒ह॒न्ति॒ । सूर्य॑स्य । चक्षिः॑ । रज॑सा । ए॒ति॒ । आऽवृ॑तम् । तस्मि॑न् । आर्पि॑ता । भुव॑नानि । विश्वा॑ ॥
सनेमि समाननेमि एकप्रकारबहिर्वलयमक्षीणनेमि चक्रं संवत्सराख्यम् अजरं सदातनमपि जरारहितं वि ववृते पुनःपुनर्विशेषेण वर्तते। उत्तानायाम् ऊर्ध्वतनायाम् ईषायाम् उपरिविस्तृतभूम्यां वा दश इन्द्रादयः पञ्च लोकपालाः निषादपञ्चमाश्चत्वारो ब्राह्मणादयो वर्णाः मिलित्वा दशसंख्याकाः युक्ताः स्वस्वव्यापारयुक्ताः वहन्ति निर्वहन्ति । कृत्स्नं जगन्निवर्हन्तीत्यर्थः । तन्निर्वाहार्थत्वात् कालस्य । किंच सूर्यस्य आदित्यस्य चक्षुः ख्यानस्वभावं सर्वस्य चक्षुःस्थानीयं वा मण्डलम् । चक्षुः ख्यातेर्वा चष्टेर्वा '( निरु. ४. ३) इति निरुक्तम् । रजसा वृष्ट्युदकेन आवृतं व्याप्तम् एति गच्छति । उदकं रज उच्यते ' ( निरु. ४. १९) इति यास्कः । तादृशे मण्डले विश्वा भुवनानि सवाणि भूतजातानि आर्पिता अर्पितानि तदधीनत्वात्तेषाम् ॥
“The even-fellied, undecaying wheel, repeatedly revolves; ten, united on the upper surface, bear (the world); the orb of the sun proceeds, invested with water, and in it are all beings deposited.”
The wheel revolves, unwasting, with its felly: ten draw it, yoked to the far-stretching car-pole.
The Sun's eye moves encompassed by the region: on him dependent rest all living creatures.
Along with its felly, the unaging wheel [=the night Sun] has turned away. Harnessed to the outstretched (yoke-pole) [=the airy realm?], ten (horses) draw it.
Covered over, the eye of the Sun moves through the airy realm. All living beings are fixed upon it.
Das mit Radkranz versehene, nicht morsch werdende Rad dreht sich herum, an der ausgestreckten Deichsel ziehen zehn angeschirrte Rosse; das Auge der Sonne geht von dem dunklen Luftraume umgeben; in ihm sind alle Wesen eingefügt.
Das Rad dreht sich ohne abzunutzen mitsamt der Felge; zehn ziehen an die waagerechte Deichsel angespannt. Das Auge der Sonne geht, auch wenn es in Dunst gehüllt ist. Darauf sind alle Wesen gesetzt.
Колесо вместе с ободом вращается, нестареющее.
Десятеро везут (его), впряженные в вытянутое (дышло).
Глаз солнца движется, (даже) окутанный дымкой.
На нем помещены все существа.
सा॒कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षळिद्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥
सा॒क॒म्ऽजाना॑म् । स॒प्तथ॑म् । आ॒हुः॒ । ए॒क॒ऽजम् । षट् । इत् । य॒माः । ऋष॑यः । दे॒व॒ऽजाः । इति॑ । तेषा॑म् । इ॒ष्टानि॑ । विऽहि॑तानि । धा॒म॒ऽशः स्था॒त्रे । रे॒ज॒न्ते॒ । विऽकृ॑तानि । रू॒प॒ऽशः ॥
साकंजानाम् एकस्मादादित्यात् सहोत्पन्नानां सप्तानामृतूनां मध्ये सप्तथं सप्तममृतुम् ॥ ‘ थट् च च्छन्दसि ' ( पा. सू. ५. २. ५०) इति थट् ॥ एकजम् एकेनोत्पन्नम् आहुः कालतत्त्वविदः । चैत्रादीनां द्वादशानां मासानां द्वयमेलनेन वसन्ताद्याः षडृतवो भवन्ति । अधिकमासेन एकः उत्पद्यते सप्तमर्तुः । न च तादृशो मास एव नास्तीति मन्तव्यम् । अस्ति त्रयोदशो मास इत्याहुः! (तै. सं. ६. ५. ३. ४ ) इति श्रुतेः । तदेवोच्यते । षडिद्यमाः । इच्छब्द एवकारार्थः। षडेव ऋतवः मासद्यरूपाः ऋषयः गन्तारः । ते च देवजाः देवादादित्यात् जाताः इति एवमाहुः । सप्तमाधारस्य त्रयोदशस्य मासस्य देवाभावः। ‘ निःसूर्योऽधिकमासो मण्डलं तपते रवेः' इत्यादिस्मृतेः। तस्मात् षडेव देवजाः अदेवजः एकः । तेषाम् ऋतूनां स्वरूपाणि इष्टानि सर्वलोकाभिमतानि धामशः तत्तत्स्थाने विहितानि पृथक् पृथक् स्थापितानि रूपशः रूपभेदेन विकृतानि विविधाकृतियुक्तानि । स च रूपभेदस्तैत्तिरीयैराम्नातः- ‘ स रसमह वसन्ताय प्रयच्छद्यवं ग्रीष्माय' (तै. सं. ७. २. १०. १) इत्यादि । स्थात्रे अधिष्ठात्रे तदर्थाय रेजन्ते चलन्ति । जगद्व्यवहाराय पुनःपुनरावर्तन्ते इत्यर्थः ॥
“Of those that are born together, sages have called the seventh single-born; for six are twins, and are moveable, and born of the gods; their desirable (properties), plural ced severally in their proper abode, are various (also) in form, and revolve for (the benefit of) that which is stationary.”
Of the co-born they call the seventh single-born; the six twin pairs are called Rsis, Children of Gods.
Their good gifts sought of men are ranged in order due, and various in their form move for the Lord who guides.
They speak of the seventh of those who are born at the same time as the one born alone, saying, “the twins, the Seers born of the gods, are only six.”
What (places) are desired by these [=the Seven Seers] are distributed according to their spheres. While (the one) [=the pole star] stands still, the ones varied in appearance [=the stars of the Seven Seers] quiver.
Von den zugleich erzeugten [Jahreszeiten] nennen sie die siebente [den Schaltmonat] die einzeln geborene [sofern sie nur aus einem Monat besteht], die sechs gepaarten [sofern jede von ihnen aus zwei Monaten besteht] nennen die Weisen »die von den Göttern erzeugten«, unter diesen sind die erwünschten nach der Ordnung vertheilt, an ihrem Standorte regen sie sich verschiedengestaltet je nach ihrer Art.
Sie sagen, daß der Siebente unter den Paarweise geborenen ein Einling ist. Sechs sind Zwillinge, gottgeborene Rishi´s werden sie genannt. Deren liebe, nach der Ordnung festgestellte Tage bewegen sich zitternd wie die Speichen, während er feststeht, indem sie sich der Form nach verändern.
Седьмой из парнорожденных, говорят, рожден один,
А шестеро – близнецы, это риши, рожденные богами.
Желанные их (дни и. ночи), распределенные по порядку,
Меняясь по форме, трясутся на (своем) месте.
स्त्रिय॑: स॒तीस्ताँ उ॑ मे पुं॒स आ॑हु॒: पश्य॑दक्ष॒ण्वान्न वि चे॑तद॒न्धः । क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥
स्त्रियः॑ । स॒तीः । तान् । ऊँ॒ इति॑ । मे॒ । पुं॒सः । आ॑आ॒हुः॒ । पश्य॑त् । अ॒क्ष॒ण्ऽवान् । न । वि । चे॒त॒त् । अ॒न्धः । क॒विः । यः । पु॒त्रः । सः । ई॒म् । आ । चि॒के॒त॒ । यः । ता । वि॒ऽजा॒नात् । सः । पि॒तुः । पि॒ता । अ॒स॒त् ॥
मे मदीया या दीधितयः स्त्रियः संस्त्यानवत्यः योषितः सतीः सत्यः । योषिद्वदुदकरूपगर्भधारणात् स्त्रीत्वम् । एषां रश्मीनाम् आविष्टलिङ्गत्वात् स्त्रीलिङ्गता। तान् उ तान् रश्मीनेव पुंसः आहुः प्रभूतवृष्ट्युदकसेक्तॄन् पुरुषानाहुः । प्रतिनिर्देशापेक्षया पुंलिङ्गता । अमुमर्थम् अत्यन्तनिगूढम् अक्षण्वान् ज्ञानदृष्ट्युपेतः कश्चिन्महान् पश्यत् जानाति । अन्धः अतथारूपः स्थूलदृष्टिः न वि चेतत् न विचेतयति न जानाति । किंच यः कविः क्रान्तदर्शी पुत्रः स्त्रीपुरुषरूपाणां रश्मीनां पुत्रस्थानीयः पुरु जगतां त्राता वृष्ट्युदकलक्षणोऽस्ति सः ईं स एव पुत्रः । यद्वा । ईम् एनमर्थम् । स्त्रीणां सतीनां पश्चात् पुरुषभावम् आ चिकेत सर्वतो जानाति । पित्रोः स्थितिं पुत्र एव जानाति नान्यः । यः कश्चित् ता तानि विजानात् स्त्रीपुरुषपुत्ररूपाणि जानीयात् सः पितुः पिता असत् । पिता वृष्ट्या जगत्पालको रश्मिसमूहः । तस्यापि पिता आदित्यः स भवति । आदित्य एव भवतीत्यर्थः । यद्वा । लौकिकोक्तिरियम् । यस्तानि जानाति स एवं भवति । स्वयं पितुः पुत्रः सन्नपि स्वपुत्रापेक्षया पिता च भवति। पुत्रपौत्रादिसहितः चिरकालं जीवी भवति । इत्यधिदैवतम् ॥ अथाध्यात्मम् । याः इदानीं स्त्रियः सतीः स्त्रीत्वं प्राप्ता आहुलौंकिकाः तान् उ तानेव मे मह्यं पुंसः पुरुषानाहुः प्रतिपादयन्ति तत्त्वज्ञाः । कथमन्यस्य अन्यभावः उच्यते । एकस्यैव निरस्तसमस्तोपाधिकस्य आत्मनः तद्देहावस्थानमात्रेण तत्तद्व्यपदेशोपपत्तेः । श्रूयते हि - ‘ त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी ' ( श्वे. उ. ४. ३) इत्यादि । स्त्रीत्वं पुंस्त्वं च उभयमपि वस्तुतो नास्तीत्युक्तं भवति । श्रुतिरपि तदभावं बोधयति - ‘नैव स्त्री न पुमानेष नैव चायं नपूंसकः । यद्यच्छरीरमादत्ते तेन तेन स चोद्यते ' ( श्वे. उ. ५, १० ) इति । द्वितीयः पादः पूर्ववत् । किंच पुत्रो वयसाल्पोऽपि यः कविः क्रान्तप्रज्ञो ज्ञानी स्यात् ईम् इममर्थं स विचिकेत जानाति । एवमुक्तलक्षणस्य परमात्मनः ता तानि स्त्रीत्वपुंस्त्वादीनि यो विजानात् औपाधिकानि जानीयात् स पितुः स्वोत्पादकस्यापि ज्ञानरहितस्य पिता असत् पितृवत् पूज्यो भवति । उक्तमर्थमभिप्रेत्य ताण्डकब्राह्मणं-- ‘ शिशुर्वा आङ्गिरसो मन्त्रकृतां मन्त्रकृदासीत् स पितॄन् पुत्रका इत्यामन्त्रयत' इत्युपक्रम्य ' ते देवानपृच्छन्त ते देवा अब्रुवन्नेष वाव पिता यो मन्त्रकृत् ' ( तां. ब्रा. १३. ३. २४ ) इति । मन्त्रद्रष्टुरेव किल पितृत्वं तत्त्ववित् पितुः पितासदिति किमाश्चर्यम् इत्यभिप्रायः ॥
“They have called thes, my virtuous feminine les, males; he who has eyes beholds; the blind man sees not; he whois a sage son understands this, and he who discriminates is the father of the father.”
They told me these were males, though truly females: he who hath eyes sees this, the blind discerns not.
The son who is a sage hath comprehended: who knows this rightly is his father's father.
Though they [=the Kr̥ttikās, the Pleiades] are women, yet they speak of them as men to me. He who has eyes sees; the blind man does not differentiate.
One who is a poet, a (poet’s) son, perceives them. One who recognizes these (women), he will be the father of his father.
Welche Weiber sind [Nächte und Morgenröthen?], die nannten sie mir Männer [Tage?], sehen kann sie der mit Augen begabte, der Blinde kann sie nicht unterscheiden. Der Sohn, welcher weise ist, der hat es erwogen; wer dies ganz erkennt, der kann des Vaters Vater sein [soll wol heissen: von dem kann noch sein Vater lernen].
Die eigentlich Frau sind, bezeichnen sie mir als Männer. Wer Augen hat, sieht sie; nicht errät es der Blinde. Der Sohn, der ein Seher ist, der kennt sie. Wer diese errät, der soll der Vater des Vaters sein.
Хоть жены они, мне их называют мужами.
Видит имеющий очи, не различает слепой.
(Тот) сын, что прозорливец, он их постиг.
Кто их разгадает, тот станет отцом отца.
अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् । सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अ॒न्तः ॥
अ॒वः । परे॑ण । प॒रः । ए॒ना । अव॑रेण । प॒दा । व॒त्सम् । बिभ्र॑ती । गौः । उत् । अ॒स्था॒त् । सा । क॒द्रीची॑ । कम् । स्वि॒त् । अर्ध॑म् । परा॑ । अ॒गा॒त् । क्व॑ । स्वि॒त् । सू॒ते॒ । न॒हि । यू॒थे । अ॒न्तरिति॑ ॥
अत्र अग्नौ हूयमानाहुतिरूपेण स्तूयते । गौः गोरूपा गमनशीला एषा आहुतिसंघेन पोष्यं वत्सं वत्सस्थानीयमग्निम् अवः अवस्तात् अधोदेशे परेण पदा पादद्वयेन स्वावयवेन आकृष्य बिभ्रती धारयन्ती तथा परः परस्तात् उपरिदेशे एना अनेन अवरेण च पदा पादद्वयेन आकृष्य तमेव वत्सं बिभ्रती उदस्थात् सूर्यं प्रति उत्तिष्ठति । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ' (मनु. ३. ७६ ) इति स्मृतेः । अथैवं कृतवती सा आहुतिः कद्रीची क्व गतेत्यनिश्चयगमना ॥ आदित्यं प्राप्तवतीत्यर्थः । कं स्वित् कं फलभाजं पुरुषं प्रति अर्धम् अर्धमार्गम् आगत्य। यद्वा । अर्धमृद्धम् । परागात् परागच्छति । आगत्य च क्व स्वित् सूते कुत्र प्रदेशे फलमुत्पादयति । नहि इतरगोवत् इयं यूथे अन्तः सजातीयगोमध्ये सूते । साधारण्येन यत्र क्वचिन्न सूते अपि तु कस्मिंश्चिदनुष्ठातरि । अतः स महान् को नु खल्विति । यद्वा । आदित्यरश्मिसमूहः एव गोरूपेण स्तूयते । गौः उक्तलक्षणा रश्मिरूपा गौः वत्सं वत्सवद्रक्षणीयं यजमानम् उक्तक्रमेण बिभ्रती उदस्थात् । अथ तथा कृत्वा सा कद्रीची अदृश्यगमना सती कं स्वित् अर्धम् ऋद्धम् अर्धस्थानभाजं वा कं स्वित् पुरुषम् आदित्यं परागात् अप्रतिनिवृत्ता गता। ‘ तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ( मु. उ. १. २. ५) इति श्रुतेः । तथा कृत्वा च क्व स्वित्सूते कस्मिन् इन्द्रादिलोके जनयति न सर्वत्र । शिष्टं समानम् ॥
“The cow, holding her calf underneath with her fore-feet, and then above with her hind-feet, has risen up; whither is she gone; to whom has she turned back when half-way; where does she bear young; it is not amidst the herd.”
Beneath the upper realm, above this lower, bearing her calf at foot the Cow hath risen.
Witherward, to what place hath she departed? Where calves she? Not amid this herd of cattle.
Below the upper (realm), above the lower here [=at the horizon], the cow [=Dawn] carrying her calf [=the Sun] has stood up by her foot. In which direction is she? Toward which side did she go away? Where does she give birth, for it is not within the fold?
Unter dem höheren Raum [Himmel] über diesem niederen [der Erde], am Fusse das Kalb [die Sonne] führend, ist die Kuh [die Morgenröthe] emporgestiegen; wohin hat sie sich gewandt? nach welcher Gegend hin ist sie fortgegangen? wo gebiert sie? denn nicht geschieht es innerhalb der Heerde.
Unterhalb des jenseitigen Raumes, jenseits dieses unteren hat sich die Kuh erhoben, die mit ihrem Fuß ein Kalb trägt. Wohin hat sie sich gewendet? Nach welcher Seite ist sie verzogen? Wo gebiert sie denn? Denn sie ist nicht in der Herde.
Ниже дальнего (пространства), дальше этого нижнего
Поднялась корова, ногой несущая теленка.
Куда обращена она? В какую сторону направится?
Где ж она отелится? Ведь она не в стаде.
अ॒वः परे॑ण पि॒तरं॒ यो अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण । क॒वी॒यमा॑न॒: क इ॒ह प्र वो॑चद्दे॒वं मन॒: कुतो॒ अधि॒ प्रजा॑तम् ॥
अ॒वः । परे॑ण । पि॒तर॑म् । यः । अ॒स्य॒ । अ॒नु॒ऽवेद॑ । प॒रः । ए॒ना । अव॑रेण । क॒वि॒ऽयमा॑नः । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वम् । मनः॑ । कुतः॑ । अधि॑ । प्रऽजा॑तम् ॥
अवः अवस्तात् स्थितम् अस्य पितरम् एतल्लोकपालकम् अग्निं परेण आदित्येन सह यः अनुवेद अनुक्रमेण जानाति तथा परः परस्तात् स्थितम् आदित्यम् अस्य पितरं पालकम् । सोऽपि इममेव लोकं वृष्टयादिना पालयति । तादृशमादित्यम् एना अनेन अवरेण अग्निना सह यः अनुवेद अग्न्यादित्यौ व्यतिहारेण उपास्ते । यद्वा । अभिभूतरजस्तमस्कौ उद्बुद्धसत्त्वौ अत एव स्वाधीनमायौ एतौ एकत्वेन वा अधिगच्छति । स तादृशः पुरुषः कवीयमानः कविवदाचरन् क्रान्तदर्शित्वम् आत्मनः ख्यापयन् क इह अस्मिल्ँलोके प्र वोचत् प्रब्रवीति । किंच देवं द्योतमानं देवविषयम् ‘ अलौकिकं वा मनः कुतः कस्मात् अदृष्टविशेषात् अधि आधिक्येन प्रजातम् उत्पन्नम्। उभयमपि दुर्लभमित्यर्थः ॥
“He who knows the protector of this (world) as the inferior associated with the superior, and the superior associated with the inferior, he is, as it were, a sage; but who in this world can expound (it); whence is the divine mind in its supremacy engendereḍ ”
Who, that the father of this Calf discerneth beneath the upper realm, above the lower,
Showing himself a sage, may here declare it? Whence hath the Godlike spirit had its rising?
Below the upper (realm), above the lower here is he [=the Sun] who knows his father.
Showing himself to be a poet, who will proclaim this here: from whence has divine thought been born?
Wer dieses Kalbes Vater unter dem höheren Raume über diesem niederen recht erkennt, als weisester, wer mag es uns hier verkünden? von wo ist der göttliche Urgeist entsprungen?
Wer, der den Vater dieses Kalbes unterhalb des jenseitigen Raumes, jenseits dieses unteren kennt, kann es hier verkünden, als Seher sich erweisend, woher der göttliche Geist entsprungen ist?
Кто, постигнув его отца
Ниже дальнего (пространства), дальше этого нижнего,
Проявляя себя прозорливцем, провозгласит здесь:
Божественная мысль откуда родилась?
ये अ॒र्वाञ्च॒स्ताँ उ॒ परा॑च आहु॒र्ये परा॑ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः । इन्द्र॑श्च॒ या च॒क्रथु॑: सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ॥
ये । अ॒र्वाञ्चः॑ । तान् । ऊँ॒ इति॑ । परा॑चः । आ॒हुः॒ । ये । परा॑ञ्चः । तान् । ऊँ॒ इति॑ । अ॒र्वाचः॑ । आ॒हुः॒ । इन्द्रः॑ । च॒ । या । च॒क्रथुः॑ । सो॒म॒ । तानि॑ । धु॒रा । न । यु॒क्ताः । रज॑सः । व॒ह॒न्ति॒ ॥
ये सूर्यसोमयोश्चक्रे वर्तमाना रश्मयो ग्रहादयश्च तत्परिभ्रमणवशेन अर्वाञ्चः अर्वागञ्चनाः अधोमुखाः सन्ति ताँ उ तानेव पराचः आहुः पराङ्मुखाञ्चनान् ऊर्ध्वान् आहुः कालविदः ॥ तथा प्रथमं ये पराञ्चः परागञ्चनाः ताँ उ तानैव अर्वाचः आहुः । हे सोम त्वम् इन्द्रः परमेश्वरः इरां भूमिं वृष्ट्या धारकः आदित्यः । यद्वा । द्वादशादित्यानां मध्ये इन्द्रोऽप्येकः । ‘ विवस्वदिन्द्रयुताः' इत्युक्तत्वात् अयमपीन्द्रः । सः च युवां या यानि मण्डलपरिभ्रमणानि चक्रथुः कृतवन्तौ तानि रजसः रञ्जनात्मकस्य लोकस्य ॥ कर्मणि षष्ठी ॥ लोकं वहन्ति निर्वहन्ति । तत्र दृष्टान्तः धुरा' शकटादौ धुरि युक्ताः संबद्धाः अश्वादयो यथा धुरं वहन्ति तद्वत् । यद्वा । एतत् पूर्वार्धे दृष्टान्तितम् । धुरा युक्ताः । धुरि स्थितं चक्रमपि धुर्शब्देनोच्यते । तत्र युक्ताः समर्पिताः पुरुषाः तत्परिभ्रमणवशेन अर्वाञ्चोऽपि पराञ्चः पराञ्चोऽपि अर्वाञ्चो भवन्ति तद्वत् ॥
“Those which (the sages) have termed descending, they have also termed ascending; and those they have termed ascending, they have also called descending; and those (orbits) which your, Soma and Indra, have made, bear along the worlds like (oxen) yoked to a twain.”
Those that come hitherward they call departing, those that depart they call directed hither.
And what so ye have made, Indra and Soma, steeds bear as 'twere yoked to the region's car-pole.
What (chariots [=sacrifices?] come) this way—they say that those (will go) away; what (chariots go) away—they say that those (will come) this way.
O Soma and Indra, (the deeds) that you two have done, these draw (those chariots) like (horses) harnessed to the yoke-pole of the
airy realm.
Welche [Tage] hinterwärst stehen, die nennen sie die früheren, und welche vor den andern stehen, die nennen sie die spätern, und welche [Tageshellen] ihr, o Indra und Soma, geschaffen habt, die werden gefahren von den gleichsam an die Deichsel des Luftraums geschirrten.
Die kommenden nennen sie die Gehenden, die Gehenden nennen sie die wieder Kommenden. Die ihr beide, Soma und du Indra, geschaffen habt, die ziehen am Joche der Welt wie angeschirrte Rosse.
Приближающихся они зовут удаляющимися,
Удаляющихся они зовут приближающимися.
О Индра и Сома, те, кого вы двое сотворили,
Везут, словно (кони), впряженные в дышло пространства.
द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते । तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥
द्वा । सु॒ऽप॒र्णा । स॒ऽयुजा॑ । सखा॑या । स॒म॒नम् । वृ॒क्षम् । परि॑ । स॒स्व॒जा॒ते॒ इति॑ । तयोः॑ । अ॒न्यः । पिप्प॑लम् । स्वा॒दु । अत्ति॑ । अन॑श्नन् । अ॒न्यः । अ॒भि । चा॒क॒शी॒ति॒ ॥
अत्र लौकिकपक्षिद्वयदृष्टान्तेन जीवपरमात्मानौ स्तूयेते । यथा लोके द्वौ सुपर्णौ सुपतनौ शोभनगमनौ सयुजा समानयोगौ सखाया समानख्यानौ समानं वृक्षं परि षस्वजाते एकमेव वृक्षं परिषस्वजाते आश्रयतः तयोः अन्यः एकः पिप्पलं पक्वं स्वादुतरम् अत्ति अपरः अनश्नन् अभि चाकशीति अभिपश्यति तद्वत् द्वौ सुपर्णस्थानीयौ क्षेत्रज्ञपरमात्मानौ सयुजा समानयोगौ । योगो नाम संबन्धः स च तादात्म्यलक्षणः । स एवात्मा जीवात्मनः स्वरूपं यस्य परमात्मनः स तदात्मा । एवमन्यस्यापि स एवात्मा परमात्मनः स्वरूपं यस्य जीवात्मनः । एवमेकस्वरूपौ इत्यर्थः । अनेन भास्करमतानुसारिणः अतिरेकिनाम्नो जीवात्मा परमात्मनो नान्यः स च परमात्मा जीवादन्यो नानाजीवाश्रयणादिति मतं निरस्तं भवति । ननु संबन्धो द्विष्ठः स च पक्षिणोरेव भेदमपेक्षते अतः कथमैकात्म्यमिति । न । औपाधिकभेदं वास्तवाभेदं चापेक्ष्य प्रवृत्तः । अत एव सखायौ समानख्यानौ नान्यख्यानौ । ननु एकस्य यादृशं ख्यानं तादृशमेव अन्यस्य इति व्युत्पत्त्या भेदः स्फुटं प्रतिभाति कथं तादात्म्यमुच्यते इति न वक्तव्यम् । नात्र परस्परं दृष्टान्तदार्ष्टान्तिकभावः । अपि तु यस्य यादृशं ख्यानं स्फुरणं परमात्मनः तदेव ख्यानमितरस्यापि जीवात्मनः इति सखायौ इत्युच्यते । एकरूपप्रकाशावित्यर्थः । अतः उपपन्नमैकात्म्यम् । अनेन वास्तवभेदोऽपि निरस्तः । ‘ समानं वृक्षं परि षस्वजाते' इत्यत्र यथा आश्रयान्तराभावात् उभयोरेकाश्रयत्वम् अभ्युपगन्तव्यं तद्वत् सयुजा सखाया इत्युभयत्रापि एकयोगख्याने आश्रयणीये । वृश्च्यते इति वृक्षो देहः । स च उभयोः समानः एक एव । जीवस्य भोगार्थत्वात् परमात्मना सृष्टैः महाभूतैः आरब्धत्वात् तस्योपलब्धिस्थानत्वाच्च उभयोरपि समानः । तादृशं समानं वृक्षं •परि षस्वजाते परिष्वजतः आश्रयतः । न च जीवस्य वस्तुतः ईश्वरत्वे कथं जीवबुद्ध्या संसारशोकौ इति वाच्यं तयोर्मोहकृतत्वात् । तथा च आथर्वणिकाः अमुं मन्त्रम् आम्नाय अस्य सन्देहनिवर्तकमुत्तरं मन्त्रमेवमामनन्ति। ‘ समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः । (मु. उ. ३. १. २ ) इति । अस्यायमर्थः । एक एव शरीरे पूर्णः पुरुषः परमात्मा निमग्नो निगूढः सन् स्वयम् अपि ईश्वरोऽपि अनीशत्वबुद्ध्या मुह्यमानो मूढः सन् शोचति । संसारे अहं कर्ता सुखी दुःखीति जननमरणे अनुभवति । यदा तु जुष्टं नित्यतृप्तमन्यं संसारशोकातीतम् ईशं परमेश्वरं पश्यति स्वानन्यतया साक्षात्करोति । तदा वीतशोको देहाद्व्यतिरिक्तः स्वस्वरूपसाक्षात्कारेण गततापत्रयः सन् अस्य महिमानमिति । निरस्तसमस्तौपाधिकस्य परमेश्वरस्य महिमानं सार्वात्म्यसर्वज्ञत्वादिमहिमानमिति एति प्राप्नोति । न च तद्भावनाप्तौ तन्महिमा प्राप्यते । अतस्तदूपो भवतीत्यर्थः । तस्मात् वस्तुतः एक एव । भेदस्तु मोहकृतः इति सिद्धम् । अनुभवशायां लौकिकबुद्ध्या भेदमभ्युपेत्य उच्यते । तयोः अन्यः जीवात्मा पिप्पलं कर्मफलं स्वादुभूतम् अत्ति भुङ्क्ते । यस्य यदुपार्जितं तत्तस्य स्वादु भवति । अन्यः परमात्मा अनश्नन् आप्तकामत्वेन अभुञ्जानः स्पृहायाः अभावात् । ‘ आप्तकामस्य का स्पृहा । ( मा. उ. का. १. ९) इति स्मृतेः। तस्मात् अवास्तवभेदमुपजीव्य तयोरन्यः इत्युक्तम् । वस्तुतस्तु ‘ अनीशया शोचति मुह्यमानः' इत्युक्तत्वात् अभेद एव । तादृशः परमात्मा स्वात्मनि अध्यस्तं जगत् साक्षित्वेन ईक्षते । अत्र ‘ द्वौ द्वौ प्रतिष्ठितौ सुकृतौ धर्मकर्तारौ ' ( निरु. १४. ३० ) इत्यादि निरुक्ते गतम् अस्य मन्त्रस्य व्याख्यानमनुसंधेयम् ॥ ॥ १७ ॥
“Two birds associated together, and mutual friends, take refuge in the same tree; one of them eats the sweet fig; the other abstaining from food, merely looks on.”
Two Birds with fair wings, knit with bonds of friendship, in the same sheltering tree have found a refuge.
One of the twain eats the sweet Fig-tree's fruitage; the other eating not regardeth only.
Two well-feathered (birds), yokemates and companions, embrace the same tree.
Of those two the one eats the sweet fig; the other, not eating,
keeps watch.
Zwei schöngeflügelte zusammengeschirrte Genossen [Tag und Nacht] umschlingen denselben Baum [die Welt], von diesen beiden geniesst der eine [der Tag] die süsse Frucht, der andre beschaut sie, ohne zu geniessen.
Zwei Vögel, eng verbundene Kameraden, umklammern den gleichen Baum. Der eine von ihnen ißt die süße Beere, der andere schaut ohne zu essen zu.
Два орла, два связанных друг с другом товарища,
Обхватили одно и то же дерево.
Один из них ест сладкую винную ягоду,
Другой наблюдает, не вкушая.
यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति । इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीर॒: पाक॒मत्रा वि॑वेश ॥
यत्र॑ । सु॒ऽप॒र्णा । अ॒मृत॑स्य । भा॒गम् । अनि॑ऽमेषम् । वि॒दथा॑ । अ॒भि॒ऽस्वर॑न्ति । इ॒नः । विश्व॑स्य । भुव॑नस्य । गो॒पाः । सः । मा॒ । धीरः॑ । पाक॑म् । अत्र॑ । आ । वि॒वे॒श॒ ॥
यत्र आदित्यमण्डले सुपर्णाः सुपतनाः शोभनगमना रश्मयः अमृतस्य उदकस्य भागं भजनीयम् अंशम् आदाय अनिमेषम् अनवरतं विदथा वेदनेन ज्ञानेन अस्माभिरेवं कर्तव्यमिति बुद्ध्या अभिस्वरन्ति अभिप्रापयन्ति। यश्च विश्वस्य भुवनस्य भूतजातस्य इनः स्वामी तथा तस्यैव गोपाः गोपायिता रक्षिता । अयम् आदित्यः सः परमेश्वरः धीरः धीमान् प्राण्यनुग्रहबुद्धियुक्तः सन् मा मां पाकं पक्तव्यम् अपक्वप्रज्ञम् अत्र अस्मिन् स्वकीयमण्डले आ विवेश प्रवेशयति । अत्र अस्मदीये देहे वा नियामकतया प्रविष्टः इत्यधिदैवतपक्षे । अथाध्यात्मपक्षे । यत्र यस्मिन्नात्मनि सुपर्णाः शोभनपतनानि स्वस्वविषयग्रहणाय गमनकुशलानीन्द्रियाणि चक्षुरादीनि अमृतस्य भागम् । अत्र विषयावच्छिन्नचैतन्यम् अमृतमित्युच्यते । तस्य भागं भजनीयं स्वस्वांशम् अनिमेषं निमेषरहितम् अनारतं विदथा वेदनेन वृत्य् वच्छिन्नचैतन्येन अवरुद्धानि अभिस्वरन्ति अभिप्रयन्ति आवरणापगमनेन स्फोरयन्ति । किंच यस्तु इनः स्वामी अस्य देहस्य विश्वस्य भुवनस्य गोपा गोपायिता रक्षिता । यद्वा । विश्वस्य भुवनस्य भूतजातस्य स्वामी अस्य देहस्य गोपाः । अनेन तत्वंपदार्थयोः एकत्वं प्रतिपादितं भवति । स परमेश्वरो धीरः समाधिनिष्ठः सर्वदा अविक्रियो मा मां पाकं परिपक्वमनस्कं यागदानादिना अपगतरजस्तमस्कत्वेन दर्पणवदतिनिर्मलसत्त्वोद्रिक्तमनस्कं माम् आ विवेश । उक्तरूपे चित्ते तादृशं वस्तु स्फुरतीत्यर्थः। यद्वा । अपरिपक्वमनाः अहं पूर्वम् अज्ञानदशायां मदन्यः ईश्वरोऽस्तीति अविद्वान् ततः परमस्ति कश्चित्सर्वज्ञः सर्वेश्वरः सत्यज्ञानादिलक्षणः इति निश्चित्य पश्चात् गुरुशास्त्राभ्यां स एवं अहमस्मीति मत्वा एवं पारंपर्येण अवगत्य असंभावनाविपरीतभावने व्युदस्य भावनया साक्षात्कृत्य परिपूर्णः परमात्मा अभूवमित्यर्थः । अयमेव ‘ स मा धीरः पाकमत्रा विवेश ' इत्यनेनोच्यते । ननु अनवच्छिन्नस्य परमात्मनः सर्वत्र व्याप्तत्वात् प्राप्तिरेव नोपपद्यते । संप्रति अत्र प्राप्तिर्द्विविधा प्राप्तप्राप्तिः अप्राप्तप्राप्तिश्चेति । प्राप्तस्यापि कण्ठे चामीकरन्यायेन आवरणाज्ञानहानद्वारेण प्राप्तिः उपपद्यते । अस्य मन्त्रस्य यन्निरुक्तं यत्र सुपर्णाः सुपतना आदित्यरश्मयः' (निरु. ३. १२ ) इत्यादिकं तदत्र द्रष्टव्यम् ॥
“Where the smooth-gliding (rays), cognizant (of their duty), distil the perpetual portion of ambrosia (water); there has the lord and steadfast protector all beings consigned me, (though) immature (in wisdom).”
Where those fine Birds hymn ceaselessly their portion of life eternal, and the sacred synods,
There is the Universe's mighty Keeper, who, wise, hath entered into me the simple.
Where the well-feathered (birds), never blinking, cry out for a share of immortality and for the ritual distributions,
here the forceful herdsman of the whole living world, the insightful one, has entered me, the naïve one.
Wo die beiden schöngeflügelten dem Antheil an dem Unsterblichkeitstranke und den versammelten Scharen [der Opferer?] schlummerlos entgegenrauschen, da ist der mächtige Hüter der ganzen Welt, er, der weise, zu mir, dem thörichten, eingegangen.
Dort, wo die Vögel, ohne zu ruhen, nach einem Anteil an der Unsterblichkeit, nach Weisheit schreien, da ist der mächtige Hüter der ganzen Welt, der Weise in mich Toren eingegangen.
Где орлы о доле в бессмертии,
О наделах, не мигая, взывают,
Там – могучий пастух всего мира,
Мудрый, вошел в меня, глупого.
यस्मि॑न्वृ॒क्षे म॒ध्वद॑: सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे॑ । तस्येदा॑हु॒: पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ॥
यस्मि॑न् । वृ॒क्षे । म॒धु॒ऽअदः॑ । सु॒ऽप॒र्णाः । नि॒ऽवि॒शन्ते॑ । सुव॑ते । च॒ । अधि॑ । विश्वे॑ । तस्य॑ । इत् । आ॒हुः॒ । पिप्प॑लम् । स्वा॒दु । अग्रे॑ । तत् । न । उत् । न॒श॒त् । यः । पि॒तर॑म् । न । वेद॑ ॥
अत्र वृक्षस्वरूपकल्पना । अधिदैवम् आदित्यम् अध्यात्मम् आत्मानं च प्रशंसति । यस्मिन् आदित्ये वृक्षे वृक्षवत् सर्वफलाश्रयभूते मध्वदः । मध्वित्युदकनाम । तत् अदन्तीति मध्वदः उदकस्य अत्तारः । सुपर्णाः सुपतना रश्मयः निविशन्ते प्रविशन्ति रात्रौ सुवते च पुनरुदयकाले प्रकाश जनयन्ति च यस्मादादित्यात् । कुत्र। अधि विश्वे विश्वस्योपरि। तस्य आदित्यवृक्षस्य पिप्पलं पालकं फलं स्वादु रसवत् अग्रे उपरि उपासनानन्तरम् आहुः कथयन्ति तत्त्वविदः । यद्वा । सर्वस्य अधि उपरि वर्तमानमाहुः । ईदृशं पितरं जगतः पालयितारं यः नरः न वेद नोपास्ते सः तन्नोनशत् । नशतिर्गतिकर्मा। तत्फलं न प्राप्नोति । वेदितुस्तु” अग्रे पिप्पलमाहुरित्यर्थः । इत्यधिदैवपक्षे ॥ अथाध्यात्मपक्षे । यस्मिन् परमात्मनि वृक्षे वृक्षवत् गमनादिरहिते अविक्रिये सुपर्णाः शोभनगमनानीन्द्रियाणि मध्वदो मधुनो ज्ञानस्यात्तॄणि तज्ज्ञानेन ज्ञानभाञ्जीत्यर्थः । निविशन्ते स्वापकाले स्वस्वविषयेभ्यः प्रतिनिवृतानि आत्मनिवृत्त्या लीयन्ते पुनः प्रबोधकाले अधि विश्वे विश्वस्योपरि सुवते च उद्यन्ति स्वस्वविषयान् लभन्ते इत्यर्थः । तस्य परमात्मनः पिप्पलं पालकं संसारतः उद्धारकं स्वादु आस्वादनीयम् अमृतत्वलक्षणं ज्ञानम् । यत्फलास्वादने पुनः क्षुत्तृष्णाशोकमोहजरामरणादयो न भवन्ति तद्धि स्वादुतमम् । इतरस्वर्गादिफलानि पुनर्जननाद्यापादकत्वात् आपातस्वादूनि । तत्फलम् अग्रे स्वरूपज्ञानोत्तरकालमाहुः । यः पुमान् पितरं पालकं ज्ञानफलं तत्फलाधारम् आत्मानं वा न वेद न जानाति गुरुशास्त्रात् स तत्फलं नोन्नशत् न प्राप्नोति अतः आत्मानं यो वेद स एव तत् मोक्षफलं प्राप्नोतीत्यर्थः । यद्वा । ‘चर्मवदाकाशम् ' ( श्वे, उ, ६. २०) इत्यादिश्रुतिः ज्ञानादन्योपायस्य अमृतत्वप्राप्तिं निवारयति । ब्रह्म वेद ब्रह्मैव भवति' (मु. उ. ३. २. ९ ) इत्यादिका तु ज्ञानात् प्राप्तिमाह । तस्मात् ईदृशं परमेश्वरं विदित्वा मुक्तो भूयासमित्यर्थः ॥
“In the tree into which the smooth-gliding (rays) feeders on the sweet (produce), enter, and again bring forth (light) over all, they have called the fruit sweet, but he partakes not of it who knows not the protector (of the universe).”
The, tree whereon the fine Birds eat the sweetness, where they all rest and procreate their offspring,--
Upon its top they say the fig is luscious none gaineth it who knoweth not the Father.
Just that tree on which all the honey-eating, well-feathered ones settle and give birth,
they say, has the sweet fig at its top. He who does not know the father will not reach up to that.
Auf welchem Baume die schöngeflügelten, welche die süsse Frucht geniessen, alle sich niederlassen und nisten, an dessen Gipfel, sagt man, sei die süsse Feige; diese kann niemand erreichen, der den Vater nicht kennt.
Wo die süße Frucht essenden Vögel alle nisten und ausbrüten, im Wipfel dieses Baumes ist, wie sie sagen, die süße Beere. Zu der langt nicht hinan, wer nicht den Vater kennt.
На дереве том, где вкушающие мед орлы
Селятся, размножаются все,
На вершине его, говорят, – ягода сладкая,
До нее не доберется тот, кто не знает отца.
यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद्वा॒ त्रैष्टु॑भं नि॒रत॑क्षत । यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः ॥
यत् । गा॒य॒त्रे । अधि॑ । गा॒य॒त्रम् । आऽहि॑त॑म् । त्रैस्तु॑भात् । वा॒ । त्रैस्तु॑भम् । निः॒ऽअत॑क्षत । यत् । वा॒ । जग॑त् । जग॑ति । आऽहि॑तम् । प॒दम् । ये । इत् । तत् । वि॒दुः । ते । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ ॥
गायत्रे अधि गायत्रमाहितम् प्राथम्यात सर्वैः स्तुत्यत्वाच्च गायत्री भूः । तदीयं स्थानं गायत्रम् । अधि उपरि तत्र गायत्रम् आग्नेयं पदम् आहितम् । प्रथमसृष्टत्वात् गायति त्रायते च इति व्युत्पत्त्या च प्रजापतेर्मुखात् गायत्र्या सह उत्पन्नत्वात् भक्त्या अग्निरपि गायत्रः। ‘ गायत्रोऽग्निः । (तै. सं. २. २. ५, ५) इति श्रुतेः । भूम्यामग्निः स्थापितः इति यत् अस्ति । तथा त्रैष्टुभात् द्वितीयत्वात् वृष्टिपर्जन्यविद्युद्रूपत्रिस्तोभयुक्तात् अन्तरिक्षात् त्रैष्टुभं स्तोभयुक्तम् ऊर्ध्वाधस्तिर्यग्लक्षणस्तोभत्रयोपेतं वायुं निरतक्षत साधु संपादितवन्तो देवाः इति यदस्ति । वा अथवा जगति सर्वैर्गन्तव्ये उद्गततमे वा तृतीयभूते द्युलोके जगत् गमनशीलम् आदित्याख्यं पदम् आहितम् इति यत् अस्ति । तत् इदं त्रिषु स्थानेषु त्रयाणामग्न्यादीनां पदाधानं य इत् ये एव नराः विदुः जानन्ति ते एव अमृतत्वमानशुः अमरणरूपं पदमाप्नुवन्ति । इत्यधिलोकम् । अथाधियज्ञम् । गायत्रे प्रातःसवने अधि उपरि गायत्रं छन्दः पदमाहितमिति यत् । तथा त्रैष्टुभात् माध्यंदिनात् सवनात् त्रैष्टुभं छन्दो निरतक्षत तत्र आहितमिति यत् । वा किंचेत्यर्थः। जगति तृतीयसवने जगत् जागतं पदमाहितमिति यत् । तत्तादृशं सवनत्रयेषु छन्दस्त्रयसंस्थानं ये नरा विदुः यजमाना विदुः जानन्ति ते अमृतत्वं ज्ञानानुष्ठानद्वारेण" मोक्षम् आनशुः आप्नुवन्ति । अथवा गायत्रे प्रातःसवने । त्रिषु सवनेषु छन्दस्त्रयपरिमाणात् सवनान्यपि तत्तच्छन्दःशब्देनोच्यन्ते । ‘गायत्रं प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्' (तै. स. २. २. ९. ५-६ ) इति श्रुतेः । तादृशे प्रातःसवने अधि उपरि गायत्रम् अष्टाक्षरात्मकम् आहावप्रतिगररूपं गायत्रं पदमाहितम् । तद्यथा होता ‘ शोंसावोम्' इति त्र्यक्षरेण तथा ‘शंसामोदैवोम्' इति पञ्चाक्षरेण अध्वर्युः प्रतिगृणाति । तन्मिलित्वा अष्टाक्षरं संपद्यते । तच्च अष्टाक्षरं गायत्रीसदृशं तस्याः अपि पादस्य अष्टाक्षरत्वात् । इदमेकं प्रातःसवनरूपे गायत्रपदप्रतिष्ठापनम् । तथा सवनान्ते अपि शंसनानन्तरम् उक्थं वाचि' इति चतुरक्षरमाह। ‘ओमुक्थशाः' इति चतुरक्षरम् अध्वर्युः । तदष्टाक्षरं संपद्यते । एतदेकं परं गायत्रे गायत्रस्थापनम् । तथा त्रैष्टुभात् माध्यंदिनसवनात् त्रैष्टुभम् आहावप्रतिगरणरूपं पदं निरतक्षत ऋत्विजः । तद्यथा माध्यंदिनसवने होता ‘ अध्वर्यो शोंसावोम्' इति आह्वयते षडक्षरेण अध्वर्युश्च ‘शंसामोदैवोम्' इति पञ्चाक्षरेण प्रतिगृणाति । तन्मिलित्वा एकादशाक्षरं संपद्यते । इदमेकं माध्यंदिनसवनादौ त्रैष्टुभे त्रैष्टुभाधानम् । तथा सवनान्तेऽपि शंसनानन्तरम् उक्थं वाचि इन्द्राय' इति सप्ताक्षरमाह । अध्वर्युश्च ‘ओमुक्थशाः' इति चतुरक्षरेण प्रतिगृणाति । तन्मिलित्वा एकादशाक्षरं संपद्यते । इदमपरं त्रैष्टुभे त्रैष्टुभस्थापनम् । तथा तृतीयसवने होता अध्वर्यो शोंशोंसावोम्' इति सप्ताक्षरेण आह्वयते ‘शंसामोदैवोम्' इति पञ्चाक्षरेण अध्वर्युः प्रतिगृणाति । द्वादशाक्षरं भवति । तदिदं प्रथमं जागते जागतोत्पादनम् । तथा पञ्चादपि शंसनानन्तरमाह ‘उक्थं वाचि इन्द्राय देवेभ्यः इति । एतदेवैकादशाक्षरं भवति । अध्वर्युश्च ‘ ओम्' इत्येकाक्षरेण प्रतिगृणाति । तदुभयं मिलित्वा द्वादशाक्षरं भवति । तदिदमपरं जागते जागतपदस्थापनम् । एवं त्रिषु छन्दःसु त्रिषु गायत्र्यादिसवनेषु गायत्रादिच्छन्दस्त्रयपदप्रतिष्ठापनम् । एतत्सर्वम् ऐतरेयब्राहाणे ‘ देवविशः कल्पयितव्याः' (ऐ. ब्रा. ३. १२) इति खण्डे विस्पष्टमाम्नातम् । तत्तादृशं छन्दसि छन्दःस्थापनं य इत्तद्विदुः ये एव जानन्ति ते एव अमृतत्वम् आनशुः प्राप्नुवन्ति अनुष्ठानद्वारा । एवम् अजानन्तः अनुष्ठानेनापि फलं न प्राप्नुवन्तीत्यर्थः । तस्य साकल्याभावादिति भावः ॥
“They who know the station of Agni upon the earth; the station of Vāyu that was fabricated from the firmament; and that station of the Sun which is plural ced in heaven, obtain immortality.”
How on the Gayatri the Gayatri was based, how from the Tristup they fashioned the Tristup forth,
How on the Jagati was based the Jagati,--they who know this have won themselves immortal life.
How the gāyatrī (track) [=gāyatrī line] is based upon a gāyatrī (hymn) or how a triṣṭubh (track) [=triṣṭubh line] was fashioned out of a triṣṭubh (hymn),
or how the jagat track [=jagatī line] is based on the jagat [=jagatī]
(hymn)—only those who know this have reached immortality.
Wie an die Gājatrī-Zeile die Gājatrī-Zeile gefügt wird, wie aus der Trischtubh-Zeile die [neue] Trischtubh-Zeile entspringt, oder wie die Dschagatī-Zeile an die Dschagatī-Zeile gefügt wird, welche das verstehen, die haben Unsterblichkeit erlangt.
Nur die haben die Unsterblichkeit erlangt, die wissen, daß der Gayatrifuß auf dem Gyatrilied beruht, oder daß der Tristubhfuß aus dem Tristubhlied herausgebildet wurde, oder daß der Jagatfuß auf dem Jagatlied beruht.
Что на (песне) гаятри основан (размер) гаятри,
Или из (песни) триштубх образовался (размер) триштубх,
Или же размер джагат основан на (песне) джагат –
Кто это знает, те достигли бессмертия.
गा॒य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् । वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे॑ण मिमते स॒प्त वाणी॑: ॥
गा॒य॒त्रेण॑ । प्रति॑ । मि॒मी॒ते॒ । अ॒र्कम् । अ॒र्केण॑ । साम॑ । त्रैस्तु॑भेन । वा॒कम् । वा॒केन॑ । वा॒कम् । द्वि॒ऽपदा॑ । चतुः॑ऽपदा । अ॒क्षरे॑ण । मि॒म॒ते॒ । स॒प्त । वाणीः॑ ॥
गायत्रेण गायत्रच्छन्दसा अर्कम् अर्चनसाधनं मन्त्रं प्रति मिमीते प्रत्येकं परिच्छिन्नत्ति । ‘ अर्को मन्त्रो भवति यदेनेनार्चन्ति' (निरु. ५, ४ ) इति निरुक्तम् । प्रतिमन्त्रं गायत्रेण छन्दसा उपनिबद्धं करोति । उपलक्षणमेतदन्येषां छन्दसाम् । यद्वा । इतरेषां छन्दसाम् अस्यैव चतुश्चतुरक्षराधिक्येन तत्तच्छन्दोभिः प्रतिमिमीते इत्यर्थः। यद्वा । प्रतिशब्दः सम् इत्येतस्मिन्नर्थे । छन्दोभिर्मन्त्रान् संमितं करोतीत्यर्थः । अर्केण साम । उक्तलक्षणेन मन्त्रेण साम गायत्ररथंतरसंज्ञकं साम प्रति मिमीते । ननु ‘ एकं साम तृचे क्रियते' इति तिसृषु एकं साम विहितम् अतः अर्कैः साम इति वक्तव्यं कथमुच्यते अर्केण इति । न । वस्तुतः एकं साम एकस्याम् ऋचि आरूढम् । पश्चादन्योन्यां तदुत्तरयोर्गायति इत्यतिदेशतः प्राप्तं तिसृषु गानम् । अतः एकवचनमविरुद्धम् । त्रैष्टुभेन वाकम् । अत्र त्रिष्टुबुपादानम् इतरच्छन्दःप्रदर्शनार्थम् । अथवा अनादेशे सर्वत्र त्रिष्टुभो ग्रहणात् प्राचुर्याभिप्रायेण इदमुक्तम् । त्रैष्टुभेन द्विवारत्रिवारावृत्तेन द्वृचतृचरूपं: वाकं वक्तव्यमेकैकं छन्दः प्रति मिमीते । अथवा वाकं सूक्तम् एतावद्भिस्त्रिष्टुब्भिः उपनिबद्धमिदं सूक्तमिति । तादृशेन वाकेन वाकं वर्गमनुवाकं वा मिमीते। कीदृशेन वाकेनेति स विशेष्यते । द्विपदा चतुष्पदा । पादद्धयबद्धविराडादिच्छन्दोनिबद्धमन्त्ररूपेण चतुष्पदा पादचतुष्टयोपेतेन अनु ष्टुबादिमन्त्ररूपेणेति । इयतीभिर्द्विपदाभिर्वर्ग: इयतीभिश्चतुष्पदाभिरूपेतो वर्गः । इयद्द्विपदरूपैर्वाकैः इयच्चतुष्पदरूपैर्वाकैश्च परिमितोऽनुवाक इति । सूक्तपक्षे एतावद्भिः सूक्तैः अयमनुवाकः इति । किंच अक्षरेण अक्षरेणैव सप्त वाणीः वागधिष्ठितानि सप्त छन्दांसि मिमते निर्माणं कुर्वन्ति। अष्टाक्षरा गायत्री एकादशाक्षरा त्रिष्टुप् द्वादशाक्षरा जगतीति । अक्षरैः पादाः परिमीयन्ते परिमितैः पादैश्छन्दांसि । ततः पादानां छन्दसाम् अक्षरं मूलमिति । तथा ऋग्वर्गसूक्तानुवाकादीनां च अक्षरं मूलमित्यक्षरप्रशंसा ॥
“He constructs the prayer with the gāyatrī metre; with the prayer (he constructs) the Soma, and with the triṣṭubh metre the couplet (or triplet); with the couplet (or triplet) he constructs the hymn with (verses of) two or four distichs; and with the syllable they construct the seven metres.”
With Gayatri he measures out the praise-song, Sama with praise-song, triplet with the Tristup.
The triplet with the two or four-foot measure, and with the syllable they form seven metres.
By the gāyatrī (track) [=line] one measures the chant; by the chant the melody; by the triṣṭubh (track) [=line] (one measures) the
recitation;
by the two-footed and the four-footed recitation the (full) recitation. By the syllable the seven voices assume their measure.
Nach dem Versmass der Gājatrī misst er das Preislied [arká], nach dem Preislied das Singlied [sâman], nach dem Versmass der Trischtubh das Spruchlied [vācá], nach dem zweizeiligen und vierzeiligen Spruchmasse das Spruchlied, nach den Silben messen sie die sieben Versmasse.
Nach dem Gyatrifuß bildet er die Gesangesstrophe, nach der Gesangesstrophe die Sangesweise, nach dem Tristubhfuß die Sprechstrophe, nach der zweifüßigen, der vierfüßigen Sprechstrophe das vorgetragene Lied. Mit der Silbe bilden sie die sieben Stimmen.
(Размером) гаятри он меряет песнь,
Песнью – напев, (размером) триштубх – произносимую строфу,
Двустопной, четырехстопной произносимой строфой - гимн.
Слогом они меряют семь голосов.
जग॑ता॒ सिन्धुं॑ दि॒व्य॑स्तभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत् । गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ॑हु॒स्ततो॑ म॒ह्ना प्र रि॑रिचे महि॒त्वा ॥
जग॑ता । सिन्धु॑म् । दि॒वि । अ॒स्त॒भा॒य॒त् । र॒थ॒म्ऽत॒रे । सूर्य॑म् । परि॑ । अ॒प॒श्य॒त् । गा॒य॒त्रस्य॑ । स॒म्ऽइधः॑ । ति॒स्रः । आ॒हुः॒ । ततः॑ । म॒ह्रा । प्र । रि॒रि॒चे॒ । म॒हि॒ऽत्वा ॥
जगतीच्छन्दस्कायाम् ऋचि उत्पन्नं साम जगत् । तेन ब्रह्मा सृष्टिकाले सिन्धुं स्यन्दनशीलमुदकस्य स्यन्दकं वा आदित्यं दिवि द्युलोके अस्तभायत् स्तम्भितवान् । ‘ जागतो वा एष य एष तपति' इति श्रुतिः । रथंतरे एतन्नामके साम्नि स्तम्भितं सूर्यं पर्यपश्यत् परिदृष्टवान् प्रजापतिः । तदाधारभूतायामृचि ‘स्वर्दृशम् ' ( ऋ.सं. ७. ३२. २२) इति सूर्यप्रतिपादकशब्ददर्शनात् ।' असौ वाव स्वर्दृक्' ( ऐ. ब्रा. ४. १० ) इति हि श्रुतिः । अत एव तत्र सूर्यदर्शनं विधीयते।' रथंतरे प्रस्तूयमाने संमीलयेत् स्वर्दृशं प्रति वीक्षेत ' ( तां. ब्रा. ७. ७. १५) इति सामब्राह्मणेन । गायत्रस्य गायत्र्यामुत्पन्नस्य साम्नः समिधः समिन्धनाः तिस्रः विभक्तीः आहुः पादत्रयमाहुरित्यर्थः । अथवा तिस्र ऋच आहुः । ततः हेतोः मह्ना बलेन महित्वा महत्त्वेन प्र रिरिचे प्ररिच्यते । अन्यानि सामानि पृथक्पृथक् निर्मितवान् । यद्वा । गायत्रशब्दश्छन्दोवाची । तस्य तिस्रो मूर्तीः आहुः क्रमेण अष्टाक्षरैकादशाक्षरद्वादशाक्षरैः गायत्रीत्रिष्टुब्जगत्यात्मिकाः । यस्मादेवं ततस्तस्माद्गायत्री छन्दसां कनिष्ठा सती मह्ना बलेन महत्त्वेन प्र रिरिचे सर्वाणि छन्दांस्यतिक्रामति येनैव बलेन सोममाहृतवती तादृशेनैवं भवति ॥ ॥ १८ ॥
प्रवर्ग्ये घर्मधुगाह्वानकाले ‘ उप ह्वये ' इत्यादिके द्वे ऋचौ । उप ह्वये सुदुघां धेनुमेतामिति द्वे ( आश्व. श्रौ. ५.७ ) इति सूत्रितत्वात् ॥
“With the hymns in the jagatī metre he fixed the rain in heaven, and surveyed the Sun in the rathantara. They have declared three divisions of the gāyatrī metre, whence it surpasses (all the rest) in force and majesty.”
With Jagati the flood in heaven he stablished, and saw the Sun in the Rathantara Saman.
Gayatri hath, they say, three brands for kindling: hence it excels in majesty and vigour.
By the jagat [=jagatī] (stanza) he buttressed the river in heaven; in the rathantara (chant), he watched over the Sun.
They say that there are three kindling sticks [=three lines in a gāyatrī stanza] belonging to the gāyatrī (stanza). By its greatness it [=the
gāyatrī stanza] has passed beyond those in greatness.
Durch das Dschagatī-Lied befestigte er den Strom am Himmel, in dem Rathantara-Liede erblickte er die Sonne; drei Flammen, sagt man, gehören dem Gajatrī-Masse zu; darum ragte es durch seine Macht und Grösse hervor.
Mit der Jagatweise festigte er den Strom am Himmel, im Rathantara entdeckte er die Sonne. Sie sagen, daß das Gayatriversmaß drei Brennhölzer habe. Darum überragt es die anderen Metren an Macht und Größe.
(Размером) джагат он укрепил поток на небе,
В (напеве) ратхантара он разглядел солнце.
В (размере) гаятри, говорят, три полена,
Оттого мощью, могуществом он превзошел (другие размеры).
उप॑ ह्वये सु॒दुघां॑ धे॒नुमे॒तां सु॒हस्तो॑ गो॒धुगु॒त दो॑हदेनाम् । श्रेष्ठं॑ स॒वं स॑वि॒ता सा॑विषन्नो॒ऽभी॑द्धो घ॒र्मस्तदु॒ षु प्र वो॑चम् ॥
उप॑ । ह्व॒ये॒ । सु॒ऽदुघा॑म् । धे॒नुम् । ए॒ताम् । सु॒ऽहस्तः॑ । गो॒ऽधुक् । उ॒त । दो॒ह॒त् । ए॒ना॒म् । श्रेष्ठ॑म् । स॒वम् । स॒वि॒ता । सा॒वि॒ष॒त् । नः॒ । अ॒भिऽइ॑द्धः । घ॒र्मः । तत् । ऊँ॒ इति॑ । सु । प्र । वो॒च॒म् ॥
अहं होता उप ह्वये उपेत्याह्वयामि । किम् । एतां धेनुम् आगच्छन्तीं क्षीरेण प्रीणयित्रीं गां प्रवर्ग्यार्थम् । पुनः कीदृशीम् । सुदुघां सुष्ठु दोग्ध्रीम् । उत अपि च एनाम् उक्तलक्षणां गां सुहस्तः शोभनहस्तो दोहनकुशलः गोधुक् गोदोग्धा अध्वर्युः दोहत् दोग्धि यस्मादेवं तस्मादुप ह्वये इत्यर्थः । तदर्थं सविता सर्वस्यानुज्ञाता परमेश्वरः नः अस्मदीयं श्रेष्ठं प्रशस्यं सवं सोमयागं क्षीरं वा साविषत् अनुजानातु । कथमेवम् । तच्छब्दश्रुतेर्यच्छब्दध्याहारः । यद्यस्मात् घर्मः प्रवर्ग्यः । ‘यद्घ्राँ ३ इत्यपतत्तद्घर्मस्य घर्मत्वम् ' (तै. आ. ५, १.५ ) इति तैत्तिरीयकम् । तत्तादृशः अभीद्धः अभिदीप्तः। तदुशब्द एवकारार्थः । तस्मादेव कारणात् सु प्र वोचं सुष्ठु ब्रवीमि उपह्वये इति । यद्वा । एतां पुरतः दृश्यमानां धेनुं वृष्ट्या प्रीणयित्रीं मेघलक्षणां धेनुम् उपह्वये आह्वयामि वर्षदोहाय। किंच एनां धेनुं सुहस्तः शोभनदोहनकुशलहस्तोपेतो गोधुक् गोदोग्धा आदित्यो वा वायुर्वा दोहत् दोग्धि । तदधीनत्वात् वर्षणस्य । किंच तदर्थं सविता प्रेरकः परमेश्वरोऽस्मदर्थमस्मदुपभोगादृष्टमपेक्ष्य साविषत् अनुजानातु । प्रतिबन्धं मा करोत्वित्यर्थः । किमितीदमुच्यते इति उच्यते । घर्मो ग्रीष्मः अवर्षणजनितः सस्यशोषः अभीद्धः प्रवृद्धः। तदु षु प्र वोचं तस्मादेव कारणात् ब्रवीमि ॥ ब्रवीतेर्लुङि वच्यादेशे अस्यतिवक्ति' इत्यादिना च्लेः अङ्। छान्दसः अडभावः ॥
“I invoke the cow that is easily milked, that the handy milker may milk her; may Savitā accept this our excellent libation, that his heat may (thereby) increase; it is for this, verily, that I earnestly invoke him.”
I invocate the milch-cow good for milking so that the milker, deft of hand, may drain her.
May Savitar give goodliest stimulation. The caldron is made hot; I will proclaim it.
I summon this milk-cow giving good milk, and the deft-handed milker will milk her.
Savitar will impel the most excellent impetus in us. The gharma pot has been heated: this shall I proclaim.
Ich rufe herbei diese schönmilchende Kuh und der schönhändige Kuhmelker [der Priester] möge sie melken; die heilsamste Erquickung möge uns Savitar schaffen; der Kessel ist ans Feuer gesetzt, das will ich verkünden.
Ich locke diese gutmelkende Kuh heran und der Melker mit geschickter Hand soll sie melken. Die beste Weisung soll uns Savitri geben. Der Milchkessel steht am Feuer. Dies melde ich fein.
Я подзываю эту хорошо доящуюся корову,
А доильщик умелой рукой пусть подоит ее!
Пусть Савитар возбудит в нас лучшее возбуждение!
Раскален котелок с молоком. Я это громко провозглашаю.
हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त् । दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥
हि॒ङ्ऽकृ॒ण्व॒ती । व॒सु॒ऽपत्नी॒ । वसू॑नाम् । व॒त्सम् । इ॒च्छन्ती॑ । मन॑सा । अ॒भि । आ । अ॒गा॒त् । दु॒हाम् । अ॒श्विऽभ्या॑म् । पयः॑ । अ॒घ्न्या । इ॒यम् । सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ॑गाय ॥
यथा आहूता गौः हिङ्कृण्वती वत्सं प्रति हिङ्कारं कुर्वती वसूनां वसुपत्नी क्षीरदध्याज्यादिबहुधनानां सर्वदा पालयित्री । वृत्यवृत्तिभ्यां वसुनः पालयितृत्वं तस्यैवाधिक्यं च प्रतिपाद्यते । पुनः कीदृशी । मनसा वत्सम् इच्छन्ती । ईदृशी सा अभ्यागात् अभ्यागमत् । इयम् आगता अघ्न्या । गोनामैतत् । अहननीया गौः अश्विभ्यां ताभ्यामर्थाय पयः क्षीरं दुहां दुग्धाम् । सा तादृशी महते सौभगाय प्रवृद्धाय सौभाग्याय वर्धतां प्रवृद्धा भवतु । यद्वा । अस्मै सौभगाय क्षीरं वर्धयताम् । अत्रापि वृष्टिपरत्वेन यथायोगं योज्यम् । हिङ्कृण्वती वर्षणाय शब्दयन्ती वसूनां गोसस्यादिधनानां बहूनां वसुपत्नी तेषामेव पालयित्री वत्सं लोकं वत्सवत्पोषणीयं मनसा इच्छन्ती प्रीणयितुम् अभ्यागात् अभिगच्छति मेघरूपा । सा च अघ्न्या अहन्तव्या । प्रस्तुत्या इत्यर्थः । पयः उदकमश्विभ्यां व्याप्ताभ्यां स्थावरजङ्गमाभ्यामर्थाय । यद्वा । अश्विनौ वाय्वादिद्यौ । ताभ्यां सकाशात् दुहां दुग्धाम् । तौ हि वृष्टेर्मोचयितारौ । शिष्टमविशिष्टम् ॥
“She comes lowing, abounding in rich (products), desiring her calf in her mind;may this cow grant her milk to the Aśvins; may she thrive for our great advantage.”
She, lady of all treasure, is come hither yearning in spirit for her calf and lowing.
May this cow yield her milk for both the Asvins, and may she prosper to our high advantage.
Making the sound hiṅ, the goods-mistress of goods, seeking her calf, has come near through (my) thinking.
Let this inviolable cow give milk to the Aśvins. Let her increase for our great good fortune.
Die Schatzherrin der Schätze, beim Suchen des Kalbes ihr »Hing« ertönen lassend, kam willig her; es möge diese Milchkuh für die beiden Açvinen ihre Milch strömen lassen; sie möge wachsen zu grossem Glücke.
Schnüffelnd und ihr Kalb im Gedanken suchend ist die Herrin der Schätze herzugekommen. Diese Kuh soll ihre Milch für die Asvin geben; sie soll sich zu großem Glücke mehren.
Вышла навстречу со (звуком) Хин!
Повелительница добра, мыслью ища теленка.
Пусть эта невредимая даст надоить молока для Ашвинов!
Пусть возрастет она на великое благо!
गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ । सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
गौः । अ॒मी॒मे॒त् । अनु॑ । व॒त्सम् । मि॒षन्त॑म् । मू॒र्धान॑म् । हिङ् । अ॒कृ॒णो॒त् । मात॒वै । ऊँ॒ इति॑ । सृक्वा॑णम् । घ॒र्मम् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पयः॑ऽभिः ॥
गौः धेनुः मिषन्तं निमीलिताक्षं वत्सम् अनु प्राप्य अमीमेत् शब्दं करोति । मीमयतिः शब्दकर्मा । यद्वा । उक्तं वत्सं अन्वात्मानं प्रक्षिपति । किंच तस्य वत्सस्य मूर्धानं मातवै मातुं निर्मातुं लेहनेन शोधयितुम् । उशब्दोऽवधारणे । हिङ्ङकृणोत् हिङ्कारमकरोत् करोति। किंच सृक्वाणं वत्सस्य शब्दवदनप्रान्तं फेनस्य स्रष्टारं घर्मं क्षीरस्य क्षरणशीलं वत्सम् अभि अभिलक्ष्य वावशाना भृशं कामयमाना मायुं शब्द मिमाति निर्माति करोति । तादृशी सती पयोभिः प्रभूतैः क्षीरैः पयते प्यायते आप्यायनं करोति वत्सम् । अत्रापि मेघपरतया योजनीयम् । एवमाहूता मेघरूपा गौर्धेनुः मिषन्तं वृष्टिरूपक्षीराभावेन निमीलिताक्षं लोकाख्यं पुत्रम् अनु अनुसृत्य अमीमेत् गर्जनशब्दं वर्षणचिह्नरूपं करोति । मूर्धस्थानीयां भूमिं मातवा उ निर्मातुमेव सस्यादियुक्तां कर्तुं हिङ्ङकृणोत् हिङ्काररूपं शब्दमकरोत् । प्रतिपादनभेदादपुनरुक्तिः । किंच सृक्वाणं फलस्य स्रष्टारं घर्मं दीप्तं पुत्रमभि वावशाना आभिमुख्येन कामयमाना पयोभिः उदकैः पयते प्यायते आप्यायनं करोति ॥
“The cow bellows for her calf, (who stands) with winking eyes, and lows as (she proceeds to lick his forehead; she utters a cry, as, anxious, she sees the moisture in the corners of his mouth, and nourishes him with her milk.”
The cow hath lowed after her blinking youngling; she licks his forehead, as she lows, to form it.
His mouth she fondly calls to her warm udder, and suckles him with milk while gently lowing.
The cow bellowed after her blinking calf. She made the sound hiṅ against his head (for him) to bellow.
Lowing toward his hot jaw, she bellows her bellow and swells her swell of milk.
Die Kuh blökte hin nach dem schlummernden Kalbe, sie streckte den Kopf vor, um ihr »Hing« zu blöken; seinem warmen Maule entgegenbrüllend lässt sie ihr Geblök ertönen, und tränkt es mit ihrer Milch.
Die Kuh blökte nach dem Kalb, das die Augen öffnet, seinen Kopf beschnüffelte sie, um zu blöken. Nach dem heißen Maule des Kalbes verlangend blökt sie ihr blöken. Sie strotzt von Milch.
Корова мычала (,тянясь) к теленку, открывающему глаза.
Она издавала (звук) Хин!, собираясь измерить голову его.
Стремясь к жаркой морде (теленка),
Мычит она мычанье, доится струями молока.
अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता । सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं॑ वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥
अयम् । सः । शि॒ङ्क्ते॒ । येन॑ । गौः । अ॒भिऽवृ॑ता । मिमा॑ति । मा॒युम् । ध्व॒सनौ॑ । अधि॑ । श्रि॒ता । सा । चि॒त्तिऽभिः॑ । नि । हि । च॒कार॑ । मर्त्य॑म् । वि॒ऽद्युत् । भव॑न्ती । प्रति॑ । व॒व्रिम् । औ॒ह॒त॒ ॥
सः अयं वत्सः शिङ्क्ते अव्यक्तध्वनिं करोति । येन वत्सेन गौः माता अभीवृता आगत्याभितो वेष्टिता भवति । किंच सा गौः मायुं शब्दं मिमाति निर्मिमाति । कुन्न स्थिता । ध्वसनावधि श्रिता ध्वसनस्थाने गवां निवासाश्रयेऽधिष्ठिता। सा तादृशी चित्तिभिः ज्ञानैः तत्पूर्वकैः कर्मभिर्वा मर्त्यं नि चकार हि नीचैः करोति । ज्ञानविशिष्टाः मनुष्याः यथा बालकस्य अदनस्तनपानादिस्नेहं कुर्वन्ति ततोऽप्यतिशयमियं करोतीत्यर्थः । किंच विद्युद्भवन्ती बहुक्षीरतया विद्योतमाना वव्रिं स्वकीयं रूपम् । वव्रिरिति रूपनाम । रूपं प्रति औहत प्रकाशयति । यद्वा । वत्सस्नेहातिशयस्वरूपं विद्युद्भवन्ती विद्युदिव शीघ्रदर्शना औहत । अयमेकोऽर्थः। अर्थान्तरं च । शाकपूणिर्नाम निरुक्ताचार्यः सकलमन्त्रदेवता जानामीति अभिमानितवान्। दुर्ज्ञेयस्य तत्त्वस्य स्वरूपमसौ जानाति किल एनं व्यामोहयामीति मनसि कृत्वा संदिग्धोभयलिङ्गा देवता प्रादुरासीत् अथ तस्य पुरतः । स च तां न बुबुधे । बुभुत्सया च तां स्वरूपं प्रदर्शय इति पप्रच्छ । सा च ‘अयं स शिङ्क्ते इत्येषा मद्देवता तत्र प्रतीयमानं मत्स्वरूपमित्युपदिदेश (निरु. २. ८) । कथमत्रोभयलिङ्गत्वं वस्तुतः उभयलिङ्गत्वे कथं दैवतैक्यमिति । उच्यते । अत्रोभयलिङ्गत्वमुभयथा संभवति स्त्रीपुंलिङ्गद्वयेन मध्यमोत्तमलिङ्गद्वयेन च । तत्कथम् । अयं स येन ' इति पुंलिङ्गवाचिना शब्दत्रयेण मेघः प्रतीयते । ‘ अधि श्रिता सा' इत्यादिना स्त्रीलिङ्गवाचकेन माध्यमिका वाक् । अत उभयलिङ्गत्वम् । तथा विद्युद्भवन्तीत्यन्तं मध्यमलिङ्गं तत्र मेघस्तनितयोर्माध्यमिकयोः प्रतीतेः । तथा सति वव्रिमौहत' इत्यत्र वर्षेण पृथिवीं प्रच्छाद्य तस्याः रसं प्रत्यादत्ते इत्ययमर्थो विवक्षितः । स च आदित्यव्यापारः इत्युत्तमलिङ्गत्वम् । तर्हि वस्तुतः उभयलिङ्गत्वप्रतीतेः उभे अपि देवते ‘यल्लिङ्गं सा देवता' (ऋ. अनु. १. १३९) इति न्यायात् । अतः कथम् एकदेवतासिद्धिः इति । अयं स येन' इत्येतेषां व्यत्ययाश्रयणेन सर्वदेवतानाम् अधिष्ठात्मिकायाः एकत्वाश्रयणेन वा सर्वफलदात्रात्मन एकत्वाश्रयणेन वा देवतैक्योपपत्तेः । अनेन मध्यमोत्तमभेदेन उभयलिङ्गत्वपक्षेऽपि देवतैक्यमुक्तं भवति । अतः ‘एकैव वा महानात्मा देवता' इत्युक्तत्वात् वस्तुतो देवतैक्यं अधिष्ठात्रधिष्ठानभेदेन भेदश्च न विरुध्यते ॥ अयं स शिङ्क्ते । इयं सा माध्यमिकाया वाचोऽधिष्ठात्री देवता शिङ्क्ते अव्यक्तध्वनिं करोति । येन गौरभीवृता । गौरिति वाङ्नाम । माध्यमिका वाक् ययाभिवृता अभितो व्याप्ता अधिष्ठितेत्यर्थः । सेयं शिड्क्ते । अथवा ' अयं स शिङ्क्ते' इति नैव माध्यमिका वाक् निर्दिश्यते अपि तु मेघः । तस्यां वाचि शिञ्जानायां स एव शिङ्क्ते इत्युपचर्यते मञ्चाः क्रोशन्ति इतिवत् । अयं स मेघः शब्दं करोति येन माध्यमिका वाक् अभिव्याप्ता । शब्दने प्रकार एवोच्यते । मिमाति मायुं स्तनितलक्षणं शब्दं करोति । अथवा अयम् । लुप्तोपमा । मिनोति स्वतेजः सर्वत्र प्रक्षिपतीति मायुरादित्यः । तमिव अतिदीप्तं करोतीत्यर्थः । अथवा सामर्थ्यादात्मानमादित्यसदृशं निर्मिमीते । कुत्र स्थिता । ध्वसनावधि श्रिता
ध्वंसने मेघेऽधिश्रिता । सा ईदृशी चित्तिभिः। कर्मनामैतत् । स्वकर्मभिः वृष्टिरूपैर्मर्त्यं मरणधर्मार्णं स्थावरजङ्गमरूपं कृत्स्नं जगत् नि हि चकार नीचैः करोति। मनुष्यान् प्रणतान् करोति । ओषध्यादिकं फलेनावनतं करोति । अथवा चित्तिभिः द्योतनलक्षणैः कर्मभिः । विद्युति विद्योतमापद्यमाना प्रति वव्रिमौहत । वविरिति रूपनाम । ऊहतिरत्र सामर्थ्यात् उपसंहारवाची । प्रत्युपसंहरति । उदकलक्षणं रूपं पुनरादत्ते । रश्मिद्वारा वृष्टमुदकं पुनर्घर्मकाले आदत्ते । एकस्यैव ज्योतिषः त्रेधाकरणाद्विद्युतः सूर्यरश्मिभावः उपपद्यते तमू अकृण्वन्त्रेधा भुवे कम्' (ऋ. सं. १०, ८८, १०) इति वक्ष्यमाणत्वात् । स्तनितस्य विद्युद्भावो मेघविद्युत्स्तनितानामभेदाभिप्रायेण ॥
“He, too, bellows, and the cow utters inarticulate sounds, as, encompassed by him, she repairs to her stall; (influenced) by her instrumental ncts, she acts like a human being, and, radiant, manifests her nature.”
He also snorts, by whom encompassed round the Cow laws as she clings unto the shedder of the rain.
She with her shrilling cries hath humbled mortal man, and, turned to lightning, hath stripped off her covering robe.
This hums—that by which the cow is enclosed. She bellows her bellow, resting upon the smoky (fire).
Because she has put down (what is) mortal with the sound “chit-chit,” becoming lightning, she pushed away her covering.
Es schnaubt der Stier [wohl Pardschanja] von dem die Kuh [die Wolke] belegt ist, sie brüllt ihr Gebrüll an den spritzenden angeschmiegt; durch ihr Zischen hat sie den Sterblichen erschreckt, denn zum Blitze werdend hat sie ihre Hülle abgestreift.
Er summt, von dem die Kuhmilch umschlossen wird; sie blökt ihr Blöken, an das sprühende Feuer gesetzt. Durch ihr Geknatter macht sie ja, daß der Sterbliche sich duckt. In den Blitz sich verwandelnd streifte sie ihre Hülle zurück.
Он гудит – тот, в кого заключена корова.
Она мычит мычанье, поставленная на мечущий искры (огонь),
Она (своим) треском пригнула смертного.
Превращаясь в молнию, она сбросила покров.
अ॒नच्छ॑ये तु॒रगा॑तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या॑नाम् । जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः ॥
अ॒नत् । श॒ये॒ । तु॒रऽगा॑तु । जी॒वम् । एज॑त् । ध्रु॒वम् । मध्ये॑ । आ । प॒स्त्या॑नाम् । जी॒वः । मृ॒तस्य॑ । च॒र॒ति॒ । स्व॒धाभिः॑ । अम॑र्त्यः । मर्त्ये॑न । सऽयो॑निः ॥
अनत् प्राणनं कुर्वत् जीवं जीवनवत् तुरगातु स्वव्यापाराय तूर्णगमनं सत् एजत् तत् शये शेते वर्तते । पश्चात प्राणापगमनानन्तरम् उक्तविलक्षणं सत् ध्रुवम् अविचलितं सत् पस्त्यानां गृहाणां मध्ये आ शेते च स्थाणुवत्तिष्ठति । आकारः पूरणो वा । अथ जीवस्य वैलक्षण्यमाह। मृतस्य शरीरस्य संबन्धी जीवः मर्त्येन मरणधर्मकेण शरीरेण सयोनिः पूर्वं समानोत्पत्तिस्थानः । यद्यपि जीवस्य न जन्मास्ति तथापि वपुषस्तत्सद्भावात् तत्संबन्धेनोपचर्यते । तदेवाह । अमर्त्यः अमरणस्वभावः । जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते' (छा. उ. ६. ११.३) इति श्रुतेः । उक्तस्वभावो जीवः स्वधाभिः चरति पुत्रकृतैः स्वधाकारपूर्वकदत्तैः अन्नैश्चरति वर्तते इत्यर्थः॥ ॥ १९ ॥
“Life endowed with breath, eager (in discharge of its functions), reposes, steady, in the midst of its (proper) abodes; the life of the mortal body, cognate with the mortal frame, endures immortal (sustained) by (obsequial) offerings.”
That which hath breath and speed and life and motion lies firmly stablished in the midst of houses.
Living, by offerings to the Dead he moveth Immortal One, the brother of the mortal.
Breathing, life rests (though remaining) on its headlong course, stirring (though) steadfast in the midst of the dwelling places.
The living one keeps moving by the will of the dead one; the immortal one shares the same womb with the mortal one.
Das athmende, das rasch gehende, das lebendige, das sich regende, das feste liegt in der Mitte der Wohnsitze; der Lebendige wandert mit der Kraft des Verstorbenen (?); der Unsterbliche ist gleichen Schoosses mit dem Sterblichen.
Atmend ruht das Leben und ist doch schnellen Ganges, sich regend und doch fest inmitten der Flüsse. Die Seele des Toten wandert nach eigenem Ermessen. Die unsterbliche Seele ist gleichen Ursprungs mit dem Sterblichen.
Дыша покоится жизнь, (хоть она и) быстротечна,
Шевелясь, (но оставаясь) твердой среди рек.
Дух жизни умершего бродит по своей воле.
Бессмертный – из одного лона со смертным.
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥
अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् । सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥
अहं गोपां सर्वस्य लोकस्य वृष्टिप्रकाशादिना गोपायितारम् अनिपद्यमानं कदाचिदपि अविषण्णं तथा पथिभिः विचित्रैर्मार्गैः अन्तरिक्षरूपैः आ चरन्तं च परा चरन्तं च उदयप्रभृति आ मध्याह्नमागच्छन्तं मध्याह्नप्रभृति आ सायं पराङ्मुखं गच्छन्तं एवंमहानुभावमादित्यम् अपश्यं याथात्म्येन पश्येयम् । किंच सः आदित्यः सध्रीचीः सहाञ्चन्तीः विषूचीः विष्वगञ्चन्तीः रात्रावपि चन्द्रभौमादित्यानां प्रकाशयित्रीः त्विषः वसानः आच्छादयन् भुवनेषु भुवनैकदेशेषु लङ्कादिप्रदेशेषु अन्तः मध्ये आ वरीवर्ति उदयास्तमयं कुर्वन् पुनःपुनरावर्तते । तमपश्यमित्यर्थः ।' एष वै गोपा एष हीदं सर्वं गोपायति' इत्याद्यस्मद्ब्राह्मणम् । अपश्यं गोपामित्याह असौ वा आदित्यो गोपा स हीमाः प्रजा गोपायति (तै. आ. ५. ६. ४ ) इत्यादि तैत्तिरीयकं च द्रष्टव्यम् ॥
“I have beheld the unwearied protector of the universe, the sun, travelling upwards, the downwards by various paths;invested with aggregative and diffusive radiance, he revolves in the midst of the regions.”
I saw the Herdsman, him who never stumbles, approaching by his pathways and departing.
He, clothed with gathered and diffusive splendour, within the worlds continually travels.
I saw the herdsman who never settles down, roaming here and afar along his paths.
Clothing himself in those that converge and diverge, he moves back and forth among living beings.
Ich sah den Hüter, welcher nimmer hinfällt, der hin und her auf seinen Pfaden wandert; sich hüllend in die gleichen und verschiednen [Strahlen], geht hin und her er innerhalb der Welten. [= 1003, 3]
Ich sah den Hirten auf seinen Wegen hin und her gehen ohne zu rasten. Er hüllte sich in die Gewässer, die in gleicher und in entgegengesetzter Richtung laufen und bewegt sich hin und her in den Geschöpfen.
Я видел пастуха, без отдыха
Бродящего по дорогам туда и сюда.
Скрываясь (в водах), текущих вместе и в разные стороны,
Он шевелится во всех существах.
य ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त् । स मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निॠ॑ति॒मा वि॑वेश ॥
यः । ई॒म् । च॒कार॑ । न । सः । अ॒स्य । वे॒द॒ । यः । ई॒म् । द॒दर्श॑ । हिरु॑क् । इत् । नु । तस्मा॑त् । सः । मा॒तुः । योना॑ । परि॑ऽवीतः । अ॒न्तः । ब॒हु॒ऽप्र॒जाः । निःऽऋ॑तिम् । आ । वि॒वे॒श॒ ॥
अत्र गर्भवासक्लेशपूर्वकजननप्रतिपादनेन तत्परिहाराय आत्मा ज्ञातव्यः इत्यर्थात् प्रतिपाद्यते। यः पुमान् पुत्रार्थी ईम् एनं गर्भं चकार करोति विक्षिपति वा तत्कारणभूतस्य विक्षेपद्वारेण न सः पुमान् अस्य तत्त्वं वेद ॥ कर्मणि षष्ठी वा ॥ एनं गर्भं न जानाति । कथंभूतः कथं वा केन प्रयोजनेनेति सर्वात्मना न जानातीत्यर्थः । यः च मातुरुदरस्थं ददर्श उदरवृद्ध्यन्यथानुत्पत्त्या अनुमानेन वा दर्शयति तस्मात् द्रष्टुः सकाशात् सः हिरुगिन्नु । हिरुगित्यन्तर्हितनाम । इच्छब्दः एवकारार्थः । नु निश्चये । अत्यन्तमन्तर्हित एव खलु । यद्वा । यः संसारावस्थायाम् ईम् एनं कृषिवाणिज्यवेदाध्ययनादिकं चकार सोऽस्य एतन्न वेद लोकान्तरे जन्मान्तरे वा । तथा यः ईमेनं ददर्श गिरिनदीसमुद्रबन्ध्वादिकं ददर्श जीवनसमये तस्मात् दृष्टात् हिरुगिन्नु पृथगेव । अत्रानुभूतं सर्वं न जन्मान्तरे लोकान्तरे वा अनुभवतीत्यर्थः। सः तादृशः मातुः जनन्याः योना योनौ अन्तः परिवीतः उल्बजरायुभ्यां परितो वेष्टितः सन् बहुप्रजाः बहुजन्मभाक्। अथवा । उत्पन्नः सन् स्वयमपि अपत्योत्पादनेन बहुप्रजाः । एवं गर्भदुःखमनुभवन् निर्ऋत्याभिधानं प्रदुःखमनुभवति यावत् स्वरूपभूतात्मज्ञानम् । अतस्तपरिहाराय आत्मा ज्ञातव्यः इत्युक्तं भवति । एवमात्मविदामभिप्रेतोऽर्थः। नैरुक्तानां तु मते य ईं चकार मध्यस्थानो वायुर्मेघो वा एतद्वृष्ट्युदकं करोति सोऽस्य । तत्वमिति शेषः । अथवा एतत्कर्म न जानाति । तयोरचेतनत्वादिति भावः । यस्तु ईम् एतद्ददर्श पश्यति तस्मादपि हिरुक् अन्तर्हितः। प्राणिकर्मवशेन काले वर्षिता परमेश्वरः आदित्यात्मनि गूढः इत्यर्थः । य ईं हिरुगन्तर्हितम् ईम् एतद्ददर्श पश्यति स वृष्टिलक्षणः पुत्रो मातुर्निर्मातुरन्तरिक्षस्य योनौ योनिवदुत्पत्त्याधारभूतेऽन्तरिक्षे । उभयोरप्यन्तरिक्षनामत्वात् सामान्यविशेषभावो द्रष्टव्यः । अन्तरिक्षैकदेशे योन्यामन्तर्मध्ये बहुप्रजाः बहुप्रजातान्नो बहुप्राण्युपकारी । अथवा । जनिः अत्र अन्तर्भावितण्यर्थः । बहूनां धाराणां सस्यनिष्पादनद्वारेण प्राणिनां वा प्रजनयिता सन् । निर्ऋतिं निरमणसाधनां भूमिम् आ विवेश प्रविशति प्राप्नोतीत्यर्थः ॥
“He who has made (this state of things) does not comprehend it; he who has beheld it, has it also verily hidden (from him); he, whilst yet enveloped in his mother's womb, is subject to many births, and has entered upon evil.”
He who hath made him cloth not comprehend him: from him who saw him surely is he hidden.
He, yet enveloped in his Mother's bosom, source of much life, hath sunk into destruction.
He who created him does not know him. He is far away from him who has seen him.
He is surrounded within the womb of his mother. Having many
offspring, he has entered into destruction.
Der ihn geschaffen hat, der kennt ihn nicht; der ihn gesehen hat, vor dem ist er verborgen; wenn er noch vom Mutterschose umhüllt ist, ist er, der kinderreiche [die Regengüsse als Kinder des Blitzes gedacht], schon dem Untergang verfallen.
Wer ihn hervorgebracht hat, der kennt ihn nicht; wer ihn gesehen hat, dem entschwindet er. In den Schoß der Mutter eingehüllt ist er der Vernichtung verfallen, während er viele Nachkommen hat.
Кто его создал, тот его не ведает.
Кто его видел, от того он тут же прочь.
Скрытый повсюду в лоне матери,
Имея обширное потомство, он пришел к гибели.
द्यौर्मे॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्मे मा॒ता पृ॑थि॒वी म॒हीयम् । उ॒त्ता॒नयो॑श्च॒म्वो॒३॒॑र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥
द्यौः । मे॒ । पि॒ता । ज॒नि॒ता । नाभिः॑ । अत्र॑ । बन्धुः॑ । मे॒ । मा॒ता । पृ॒थि॒वी । म॒ही । इ॒यम् । उ॒त्ता॒नयोः॑ । च॒म्वोः॑ । योनिः॑ । अ॒न्तः । अत्र॑ । पि॒ता । दु॒हि॒तुः । गर्भ॑म् । आ । अ॒धा॒त् ॥
दीर्घतमा ब्रवीति । मे मम द्यौः द्युलोकः पिता पालकः । न केवलं पालकत्वमात्रं अपि तु जनिता जनयितोत्पादयिता । तत्रोपपत्तिमाह । नाभिरत्र नाभिभूतो भौमो रसोऽत्र तिष्ठतीति शेषः । ततश्चान्नं जायते अन्नाद्रेतः रेतसो मनुष्य इत्येवं पारंपर्येण जननसंबन्धिनो हेतोः रसस्यात्र सद्भावात् । अनेनैवाभिप्रायेण जनितेत्युच्यते । अत एव बन्धुः बन्धिका । तथा इयं मही महती पृथिवी मे माता मातृस्थानीया स्वोद्भूतौषध्यादिनिर्मात्रीत्यर्थः । किंच उत्तानयोः ऊर्ध्वतानयोः चम्वोः सर्वस्य अत्त्र्योः भोगसाधनयोर्द्यावापृथिव्योः अन्तः मध्ये योनिः सर्वभूतनिर्माणाश्रयमन्तरिक्षं वर्तते इति शेषः । अत्र अस्मिन्नन्तरिक्षे पिता द्युलोकः । अधिष्ठात्रधिष्ठानयोः अभेदेन आदित्यो द्यौरुच्यते। स स्वरश्मिभिः । अथवा इन्द्रः पर्जन्यो वा । दुहितुः दूरे निहिताया भूम्याः गर्भं सर्वोत्पादनसमर्थं वृष्ट्युदकलक्षणम् आधात् सर्वतः करोति ॥
“The heaven is my parent and progenitor; the navel (of the earth) is my kinsman; the spacious earth is my mother. The womb (of all beings) lies between the two uplifted ladles, and in it the parent has deposited the germ (of the fruitfulness) of the daughter.”
Dyaus is my Father, my begetter: kinship is here. This great earth is my kin and Mother.
Between the wide-spread world-halves is the birth-place: the Father laid the Daughter's germ within it.
[The Sun:] “My father, my progenitor, is Heaven; here is my navel. My mother, this great Earth, is my relation.
My womb is within the two open cups [=Heaven and Earth]. Here my father placed the child [=the Sun] of his daughter [=Dawn].”
»Der Himmel ist mein Vater und Erzeuger, dort ist mein Ursprung, meine Mutter und Verwandte ist diese weite Erde; zwischen den beiden weit ausgedehnten Weltschalen ist der Schooss [der mich getragen hat], dorthin setzte der Vater die Leibesfrucht der Tochter.«
Der Himmel ist mein Vater, der Erzeuger, dort ist mein Nabel. Diese große Erde ist meine Sippe, die Mutter. In diesen hat der Vater die Leibesfrucht der Tochter gelegt.
Небо – отец мой, родитель. Там (мой) пуп.
Родня моя, мать – эта великая земля.
Внутри (этих) двух простертых чаш – (мое) лоно.
Здесь отец вложил зародыш дочери.
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभि॑: । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॑: पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥
पृ॒च्छामि॑ । त्वा॒ । पर॑म् । अन्त॑म् । पृ॒थि॒व्याः । पृ॒च्छामि॑ । यत्र॑ । भुव॑नस्य । नाभिः॑ । पृ॒च्छामि॑ । त्वा॒ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । पृ॒च्छामि॑ । वा॒चः । प॒र॒मम् । विऽओ॑म ॥
हे यजमान त्वा त्वां पृच्छामि प्रश्नं करोमि । किम् । पृथिव्याः परमन्तम् उत्कृष्टां काष्ठाम् । यत्र सर्वा पृथिवी समाप्यते तत्पृच्छामि । तथा त्वामन्यत् पृच्छामि । किं तदिति उच्यते । यत्र भुवनस्य भूतजातस्य नाभिः संनाहो बन्धनम् । यत्र सर्वं संनद्धं भवति तमित्यर्थः । किंच त्वा त्वां वृष्णः वर्षकस्य अश्वस्य व्याप्तस्यादित्यस्य । असौ वा आदित्यो वृषाश्वः' (तै. आ. ५. ३. ५) इति तैत्तिरीयकम् । तस्य रेतः रेतोवत्कारणं तत्किमिति पृच्छामि । तथा वाचः सर्वस्य वाग्जातस्य परमं निरतिशयं व्योम स्थानं सर्वस्य वचसः कारणम् । एतत् प्रश्नचतुष्टयं पृच्छामि ॥
“I ask you, (instrumental tutor of the rite), what is the uttermost end of the earth; I ask you, where is the navel of the world. I ask you, what is the fecundating power of the rain-shedding steed; I ask you, what is the supreme heaven of (holy) speech.”
I ask thee of the earth's extremest limit, where is the centre of the world, I ask thee.
I ask thee of the Stallion's seed prolific, I ask of highest heaven where Speech abideth.
I ask you about the farthest end of the earth. I ask where is the navel of the living world.
I ask you about the seed of the bull(-like) horse. I ask about the highest heaven of speech.
Ich frage dich nach dem äussersten Ende der Erde, ich frage, wo der Welt Nabel ist; ich frage dich nach dem Samen des besamenden Hengstes, ich frage nach dem höchsten Himmel, wo die Rede [vâc] thront.
Ich frage dich nach der äußersten Grenze der Erde, ich frage dich wo der Nabel der Welt ist? Ich frage dich nach dem Samen des Hengstes, ich frage dich nach dem höchsten Inbegriff der Rede.
Я спрашиваю тебя о крайней границе земли.
Я спрашиваю, где пуп мироздания.
Я спрашиваю тебя о семени племенного жеребца.
Я спрашиваю о высшем небе речи.
इ॒यं वेदि॒: परो॒ अन्त॑: पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभि॑: । अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥
इ॒यम् । वेदिः॑ । परः॑ । अन्तः॑ । पृ॒थि॒व्याः । अ॒यम् । य॒ज्ञः । भुव॑नस्य । नाभिः॑ । अ॒यम् । सोमः॑ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । ब्र॒ह्मा । अ॒यम् । वा॒चः । प॒र॒मम् । विऽओ॑म ॥
पृथिव्याः प्रथनवत्या भूम्याः परो अन्तः परमन्तं पर्यवसानम् इयं वेदिः । न हि वेद्यतिरिक्ता भूमिरस्ति । एतावती वै पृथिवी यावती वेदिः '(तै. सं. २. ६. ४ ) इति श्रुतेः ॥ तथा अयं यज्ञः भुवनस्य भूतजातस्य नाभिः संनहनम् । तत्रैव वृष्ट्यादिसर्वफलोत्पत्तेः सर्वप्राणिनां बन्धकत्वात् । अथ वृष्णः वर्षकस्यादित्यस्य रेतः अयं सोमः रसात्मकः । अग्नौ हुतः सोमरसः आदित्यं प्राप्य वृष्ट्यादिफलं जनयति । अयं ब्रह्मा प्रजापतिरेव वाचः मन्त्रादिरूपायाः परमं व्योम उत्कृष्टं रक्षकं स्थानम् । तत्रैवोत्पत्तेस्तत्रैव पर्यवसानाच्च ॥ ॥ २० ॥
“This altar is the uttermost end of the earth; this sacrifice is the navel of the world; this Soma is the fecundating power of the rain-shedding steed; this Brahmā is the supreme heavn of (holy) speech.”
This altar is the earth's extremest limit; this sacrifice of ours is the world's centre.
The Stallion's seed prolific is the Soma; this Brahman highest heaven where Speech abideth.
This altar here is the farthest end of the earth. This sacrifice here is the navel of the living world.
This soma here is the seed of the bull(-like) horse. This formulator here is the highest heaven of speech.
»Dieser Altar ist das äusserste Ende der Erde, dies Opfer ist der Welt Nabel; dieser Soma ist der Same des besamenden Hengstes; dieser Brahmane ist der höchste Himmel, wo die Rede thront.«
Diese Vedi ist die äußerste Grenze der Erde; dieses Opfer ist der Nabel der Welt. Dieser Soma ist der Same des Hengstes, dieser Brahmanpriester ist der höchste Inbegriff der Rede.
Этот алтарь – крайняя граница земли.
Это жертвоприношение – пуп мироздания.
Этот сома – семя племенного жеребца.
Брахман этот – высшее небо речи.
स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि । ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चित॑: परि॒भुव॒: परि॑ भवन्ति वि॒श्वत॑: ॥
स॒प्त । अ॒र्ध॒ऽग॒र्भाः । भुव॑नस्य । रेतः॑ । विष्णोः॑ । ति॒ष्ठ॒न्ति॒ । प्र॒ऽदिशा॑ । विऽध॑र्मणि । ते । धी॒तिऽभिः॑ । मन॑सा । ते । वि॒पः॒ऽचितः॑ । प॒रि॒ऽभुवः॑ । परि॑ । भ॒व॒न्ति॒ । वि॒श्वतः॑ ॥
सप्त सर्पणस्वभावाः सप्तसंख्या वा रश्मयः अर्धगर्भाः संवत्सरस्यार्धे गर्भं गर्भस्थानीयमुदकं धारयमाणाः । यद्वा । ब्रह्माण्डस्यार्धे मध्येऽन्तरिक्षे गर्भवद्वर्तमानाः । भुवनस्य लोकस्य रेतः सारं वृष्टिप्रदत्वेन रेतोभूताः तादृशा रश्मयः विष्णोः व्यापकस्यादित्यस्य विधर्मणि जगद्धारणव्यापारे प्रदिशा प्रदेशेन तिष्ठन्ति वर्तन्ते । किच ते धीतिभिः प्रज्ञाभिः मनसा जगदुपकारः कर्तव्यः इति बुद्ध्या च विश्वतः सर्वतः ॥ द्वितीयार्थे तसिः ॥ विश्वं परि भवन्ति परितो भावयन्ति कृत्स्नं जगद्व्याप्नुवन्तीत्यर्थः । यस्मादेवं तस्मात् ते ते एव विपश्चितः बुद्धियुक्ताः परिभुवः सर्वत्र व्याप्ताश्च यद्वा । सप्तार्धगर्भाः । सप्त महदहंकारौ पञ्च तन्मात्राणीति मिलित्वा सप्तसंख्यानि तत्त्वानि । अर्धगर्भा अविकृतिरूपाः । विकाराश्रयाया मूलप्रकृतेः प्रकृतिविकृतेरुदासीनस्यात्मनश्चोत्पन्नत्वादर्धांशेन प्रपञ्चकारेण परिणामादर्धगर्भाः । पुरुषांशस्य अविक्रियत्वादित्यभिप्रायः । अत एव तेषां प्रकृतिविकृतित्वम् । यस्मादेवं तस्माद्भुवनस्य रेतः कारणम् । कारणभूतानि तान्येव विष्णोर्व्याप्तस्य पुरुषस्य विधर्मणि प्रदिशा प्रदेशेन तिष्ठन्ति । इतरत्समानम् ॥
“The seven (sustaining), the embryo (rain) for half a year, the fecundating (element) of the world, abide, by appointment, in the various functions of Viṣṇu. By their intelligence they pervade in thought all around (them), for they are intelligent and diffusive.”
Seven germs unripened yet are heaven's prolific seed: their functions they maintain by Visnu's ordinance.
Endued with wisdom through intelligence and thought, they compass us about present on every side.
The seven children of the (two world-)halves [=the Seven Seers], the seed of the living world, take their place by the direction of Viṣṇu in the spreading expanse.
By their insights and their thought these encompassing perceivers of inspired words encompass (everything) everywhere.
Sieben aus einer Welthälfte [der Erde] geborene stehen als der Welt Samen auf Geheiss des Vischnu am Himmel [es scheinen die sieben ṙṣi gemeint, welche als die sieben Sterne des grossen Bären an den Himmel versetzt sind], sie, die durch Gedanken und Geist weisen, sie, die umfangenden umfangen schützend das All.
Sieben Halbsöhne sind beschäftigt, nach Vishnu´s Weisung den Samen der Welt zu verteilen. Sie überragen an Gedanken und Verstand allenthalben, diese überragenden Weisen.
Семеро полуотпрысков по приказу Вишну
Заняты распределением семени мироздания.
Они – молитвами, они, вдохновенные, – мыслью
(Всех) превосходят во всем, (эти) превосходящие.
न वि जा॑नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि । य॒दा माग॑न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ॥
न । वि । जा॒ना॒मि॒ । यत्ऽइ॑व । इ॒दम् । अस्मि॑ । नि॒ण्यः । सम्ऽन॑द्धः । मन॑सा । च॒रा॒मि॒ । य॒दा । मा । आ । अग॑न् । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । आत् । इत् । वा॒चः । अ॒श्नु॒वे॒ । भा॒गम् । अ॒स्याः ॥
अहं यदिवेदं यदपीदं विश्वम् अस्मि कृत्स्नः प्रपञ्चोऽप्यहमेवास्मि । नामरूपांशम् अपरमार्थं त्यक्त्वा सर्वत्र अनुगतोऽस्ति भाति प्रियमिति योऽयं सच्चिदानन्दाकारोऽस्ति सोऽहमस्मीति न वि जानामि । विविच्य नाज्ञासिषम् । परं शास्त्रजनितमिदमहमस्मीति ज्ञानं जातम्। अविवेक्यहमित्यर्थः। कार्यकारणयोरभेदात् कृत्स्नप्रपञ्चस्यापि ब्रह्मानन्यत्वेन ब्रह्मैकत्वावगमे प्रपञ्चजातमपि स्वस्वरूपमेव भवति । ‘ इदं सर्वं यदयमात्मा', ‘ ब्रह्मैवेदं सर्वं ', 'आत्मैवेदं सर्वं, ‘स ईक्षत बहु स्यां प्रजायेय' इत्यादिश्रुतिभ्यः एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानात् । तदनन्यत्वमारम्भणशब्दादिभ्यः ( ब्र. सू. २. १. १४ ) इत्याद्युपपत्तिभिश्च प्रपञ्चस्य ब्रह्मानन्यत्वं सिद्धम् । यद्वा । इवशब्दः उपमार्थः। यदिव यदापरोक्ष्यज्ञानं सर्वैकात्म्यरूपमानुभविकमस्ति तदिव तद्वदेवाहमस्मि। इदं सर्वमहमस्मीति ज्ञानं मे जातम् । अपि तु एतद्दार्ष्टान्तिकभूतम् । आनुभविकं सार्वात्म्यं यदस्ति तन्न वि जानामि न प्राप्तोऽस्मि । शास्त्रजनितं सार्वात्म्यं जातं न तु आनुभविकमित्यर्थः । तत्र कारणमाह । यतोऽहं निण्यः । अन्तर्हितनामैतत् । अन्तर्हितो मूढचित्तः । चित्तप्रत्यक्प्रवणताभावेन परिच्छिन्नः इत्यर्थः । तत्रोपपत्तिमाह । संनद्धः अविद्याकामकर्मभिः सम्यग्बद्धो वेष्टितः अत एव मनसा युक्तो भावनासहिष्णुना बहिर्मुखेन विक्षिप्तेन चेतसा युक्तः संचरामि संसारे। अथवा मनसा संनद्धश्चरामि । इन्द्रियपरवश एव सन् संसारे दुःखमनुभवामि । न सार्वात्म्यं जानामीति परिदेवते। यास्कोऽपि इमं परिदेवनार्थत्वेनोदाजहार 'अथापि परिदेवना कस्माच्चिद्भावात् न वि जानामि यदिवेदमस्मि । ( निरु. ७. ३ ) इति । बहिर्मुखचेतसः स्वरूपापरिज्ञानजनितं दुःखमन्यत्र श्रूयते ‘पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ पश्यति नान्तरात्मन् ' (क. उ. २. ४. १ ) इति । तर्हि कदैतद्भवतीत्याह । यदा मागन् आगमिष्यति तदा । किं तदिति उच्यते । ऋतस्य परमार्थस्य परस्य ब्रह्मणः प्रथमजाः प्रथमोन्मेषः प्रथमोपन्नश्चित्तप्रत्यक्प्रवणजनितः अनुभवः । स यदा मा मां प्राप्नोति आदित् अनन्तरमेव अव्यवधानेन अस्याः वाचः ऐकात्म्यप्रतिपादिकाया उपनिषद्वाचो यदिवेदमस्मीत्युक्ताया वा भागं भजनीयं शब्दब्रह्मणा व्याप्तव्यं परं ब्रह्मपदम् अश्नुवे प्राप्नोमि । चित्तस्य बहिर्मुखतां परित्यज्य अन्तर्मुखतैव अदुःसंपादा। सा यदा स्यात् तदानीमेव स्वरूपं द्रष्टुं सुशकं भवति पश्चाद्विलम्बाभावात् । यथा गिरिशिखरात् पतन् पाषाणोऽविलम्बेन पतति तद्वत्। चित्तप्रत्यङ्मुखत्वस्य दुःशकत्वमपि तत्रैव श्रूयते --
‘ कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्' ( क. उ. २. ४. १ ) इति ॥
“I distinguish not if I am this all; for I go perplexed, and bound in mind; when the first-born (perceptions) of the truth reach me, then immediately shall I obtain a portion (of the meaning) of that (sacred) word.”
What thing I truly am I know not clearly: mysterious, fettered in my mind I wander.
When the first-born of holy Law approached me, then of this speech I first obtain a portion.
I do not understand what sort of thing I am here: though bound, I roam about in secret by my thinking.
When the first-born of truth [=Agni] has come to me, only then do I attain a share of this speech here.
Ich weiss nicht, was ich eben bin; innerlich gerüstet im Geiste wandere ich; als zu mir kam der erst geborene des heiligen Werkes, da erst erlangte ich den Antheil dieser heiligen Rede.
Ich verstehe nicht, was dem vergleichbar ist, was ich bin. Ich wandele, heimlich mit dem Denken ausgerüstet. Sobald der Erstgeborene der Weltordnung über mich gekommen ist, da erlange ich Anteil an dieser Rede.
Не понимаю я, чему я подобен.
Затаившись, я странствую, мыслью вооруженный.
Стоит только войти в меня перворожденному закона,
Сразу же получаю я долю в этой речи.
अपा॒ङ्प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः । ता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्य१॒॑न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ॥
अपा॑ङ् । प्राङ् । ए॒ति॒ । स्व॒धया॑ । गृ॒भी॒तः । अम॑र्त्यः । मर्त्ये॑न । सऽयो॑निः । ता । शश्व॑न्ता । वि॒षू॒चीना॑ । वि॒ऽयन्ता॑ । नि । अ॒न्यम् । चि॒क्युः । न । नि । चि॒क्युः॒ । अ॒न्यम् ॥
अमर्त्यः अमरणधर्म अयमात्मा मर्त्येन मरणधर्मणा भूतात्मना देहेन सयोनिः समानस्थानः । यत्र परिच्छेदको देहोऽस्ति तत्र सर्वत्र सोऽयमपि तिष्ठन्नित्यर्थः। यद्वा । समानोत्पत्तिः । सहवासेन स्वस्मिन्नपि उत्पत्तिरुपचर्यते । एवंभूतः सन् 'स्वधया अन्नोपलक्षिततद्भोगेन गृभीतः । यद्वा । स्वधाशब्देन अन्नमयं शरीरं लक्ष्यते । तेन गृहीतः सन् अपाङ् एति अशुक्लं कर्म कृत्वा अधो गच्छति । प्राङेति ऊर्ध्वं स्वर्गादिलोकं प्राप्नोति । परमात्मैव सूक्ष्मशरीरोपाधिकः सन् नानाविधकर्म कृत्वा तद्भोगाय जीवसंज्ञां लब्ध्वा शरीरत्रयेण संबद्धो लोकान्तरेषु संचरति स्थूलसूक्ष्मोभयशरीरपरिग्रहेण लोके गुणत्रयान्वितः सन् परिश्रमति । तथा च श्रूयते - ‘ गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता । स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः संचरति स्वकर्मभिः । (श्वे. उ. ५. ७) इति । इदानीमुभयप्राधान्येनाह ।ता तौ भूतात्मकर्त्रात्मानौ शश्वन्ता अविभागेन सर्वदा वर्तमानौ । यद्वा । सूक्ष्मशरीरपक्षे सर्वदा सहवास उपपद्यते। स्थूलशरीरपक्षेऽपि सात्त्विकजाते: तत्कारणानां भूतसूक्ष्माणां सद्भावात् तत्र शरीरसंबन्ध उपपद्यते । विषूचीना इह लोके सर्वत्रगमनौ वियन्ता तत्तत्फलोपभोगाय सर्वत्र लोकान्तरेषु गच्छन्तौ वर्तेते । तत्र नराः अन्यं भूतात्मानं नि चिक्युः नितरां विशेषेण पश्यन्ति जानन्ति। अन्यम् अपरं देहवच्छायातिरिक्तं न नि चिक्युः न जानन्ति । केचन पामरा देहव्यतिरिक्तं न जानन्ति । केचन विवेकिनः कर्तृत्वभोक्तृत्वोपेतो देहातिरिक्तः कश्चिदस्ति इत्यनुमिमते । न केऽपि देहत्रयव्यतिरिक्तमात्मानं जानन्ति । अतो दुर्लभमात्मज्ञानमित्यर्थः ॥
“The immortal cognate with the mortal, affected by (desire of) enjoyment, goes to the lower or the upper (sphere); but (men beholding them) associated, going everywhere (in this world together); going everywhere (in other worlds together); have comprehended the one, but have not comprehended the other.”
Back, forward goes he, grasped by strength inherent, the Immortal born the brother of the mortal
Ceaseless they move in opposite directions: men mark the one, and fail to mark the other.
He goes inward and outward, controlled by his own will—he, the immortal one of the same womb as the mortal one.
Those two are ever going apart in different directions. They observe the one; they do not observe the other.
Es schreitet rückwärts und vorwärts der aus eigner Lust ergriffene Unsterbliche [der Gott, der den Sänger begeistert], der mit dem Sterblichen [Sänger] gleichen Ursprung hat; sie beide gehen fort und fort nach verschiedenen Seiten, den einen sieht man [den Sänger], den andern [den Gott] sieht man nicht.
Rückwärts, vorwärts geht er durch Eigengesetz festgehalten. Der Unsterbliche ist gleichen Ursprungs mit dem Sterblichen. Diese beiden gehen beständig nach verschiedener Richtung auseinander. Wenn man den einen wahrnimmt, nimmt man den anderen nicht wahr.
Назад-вперед он идет, удерживаемый своим обычаем,
Бессмертный – одного происхождения со смертным.
Эти двое расходятся постоянно, направляясь в разные стороны.
Когда видят одного, не видят другого.
ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑म॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः । यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सते ॥
ऋ॒चः । अ॒क्षरे॑ । प॒र॒मे । विऽओ॑मन् । यस्मि॑न् । दे॒वाः । अधि॑ । विश्वे॑ । नि॒ऽसे॒दुः । यः । तत् । न । वेद॑ । किम् । ऋ॒चा । क॒रि॒ष्य॒ति॒ । ये । इत् । तत् । वि॒दुः । ते । इ॒मे । सम् । आ॒स॒ते॒ ॥
पूर्वमन्त्रे देहात्मजीवात्मानावुक्तौ । तयोरन्यस्य जीवात्मनः पारमार्थिकं रूपमस्ति तदत्रोच्यते । ऋचः अक्षरे । अत्र ऋक्शब्देन ऋक्प्रधानभूताः साङ्गापरविद्यात्मकाश्चत्वारो वेदा उच्यन्ते । ऋगादीनामपरविद्यात्वं मुण्डके श्रूयते -द्वे विद्ये वेदितव्ये' इति प्रतिज्ञाय तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदः' ( मु. उ. १. १. ५) इत्यादिना । तस्याः संबन्धिनि अक्षरे अदृश्यादिगुणके क्षरणरहितेऽनश्वरे नित्ये सर्वत्र व्याप्ते ब्रह्मणि । अक्षरशब्दस्य ब्रह्मवाचकत्वम् एतद्वै तदक्षरस्य प्रशासने गार्गि' (बृ. उ. ३. ८), ' यया तदक्षरमधिगम्यते' (मु. उ. १ १, ५ ), ‘ येनाक्षरं पुरुष वेद सत्यम्' (मु. उ. १. २. १३) इत्यादिश्रुतिषु प्रसिद्धम् । ऋगक्षरयोः प्रतिपाद्यप्रतिपादकभावः संबन्धः । सर्वैर्वेदैः खलु ब्रह्म अधिगम्यते ‘तं त्वौपनिषदं पुरुषं पृच्छामि' (बृ. उ. ३. ९. २६ ) इत्यादिश्रुतेः । ननु उपनिषद्भागानां तथास्तु । इतरेषां तु कथं ब्रह्मविषयत्वमिति उच्यते । यद्यपि इतरभागानां यागादिविषयत्वं तथापि बुद्धिशुद्ध्युत्पादनद्वारा वेदनसाधनत्वेन ब्रह्मविषयत्वं भविष्यति • वेदानुवचनेन ब्राह्मणा विविदिषन्ति' (बृ. उ. ४. ४. २२) इत्यादिश्रुतेः । तदेव विशेष्यते । परमे उत्कृष्टे निरतिशये व्योमन् व्योमनि व्योमसदृशे । अलेपत्वनीरूपत्वव्यापित्वादिसादृश्येन व्योमेत्युक्तम् । यद्वा । विशेषेण सर्वस्य रक्षके । निरधिष्ठा न कस्यचिदस्ति स्वाध्यस्तस्य सर्वस्याधिष्ठानत्वेन रक्षकत्वात् । तादृशे तत्त्वे सर्वम् अध्यस्तमित्यर्थः । पुनस्तदेव विशेष्यते । यस्मिन् परमात्मनि विश्वे सर्वे देवाः अधि निषेदुः निषीदन्ति आश्रित्य तिष्ठन्ति तस्मिन् । यद्वा । उक्तलक्षणे वस्तुनि ऋगुपलक्षिताः सर्वे साङ्गा वेदाः पर्यवसिता इत्यर्थः । यः यो मर्त्यः तत् तादृशं देवादीनां स्वरूपलाभास्पदं कृत्स्नवेदतात्पर्यप्रतिपाद्यं यद्वस्तु न वेद न जानाति स मर्त्यः ऋचा पूर्वोक्तेन ऋगादिशब्दजालेन किं करिष्यति । वेदनसाधनेन वेदेन वेद्यम् अविदित्वा किं साधयतीत्यर्थः । प्रयोजनाभावात् सर्वस्यापि वेदस्य नैष्फल्यात् इति भावः । अथवा योऽक्षरमविदित्वा कर्मणां कर्ता भवति यागादीननुतिष्ठति तेन किंचिदपि कर्म कृतं न भवतीत्यर्थः । य इत् ये एव तत् तत्त्वं विदुः जानन्ति त इमे समासते ते एव इमे ज्ञातारः समासते सम्यक्तिष्ठन्ति । अपुनरावृत्त्या स्वरूपेऽवस्थानं समासनम् । यद्वा । ये विदुः इत् ये जानन्त्येव नानुतिष्ठन्ति । इच्छब्दोऽवधारणे । त इमे ते एव समासते। गवामयनादिसहस्रसंवत्सरसत्त्रपर्यन्तानि सहोपयन्ति । सहार्थे संशब्दः । सत्त्राधिकानां यागानामभावात् तेषामपि फलम् एतज्ज्ञानेनैव प्राप्तं भवतीत्यर्थः । कर्तॄणां बहुत्वात् बहुवचननिर्देशः ॥ अन्ये तु अन्यथा वर्णयन्ति । ऋचः । ऋक् अर्चनीयमादित्यमण्डलम् ऋगादिमयं वा । ‘ ऋग्भिः पूर्वाह्णे दिवि देवः', 'आदित्यो वा एष एतन्मण्डलं तपति तत्र ता ऋचः ' इत्यादिश्रुतेः । तस्य संबन्धिनि अक्षरे परमे व्योमन् इत्युक्तलक्षणे ब्रह्मणि ‘ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते' इत्यादिश्रुत्युक्तस्वरूपे यस्मिन् सर्वे देवा द्योतमाना रश्मयो निषेदुः वर्तन्ते । य एतन्न वेद सः केवलया ऋचा किं करिष्यति । ये जानन्ति भावयन्ति त एव विद्वांसः समासते । भूम्यां सुखेन रोगादिरहिता भोगिनः सन्तश्चिरकालं जीवन्ति । अपरे प्रकारान्तरेण प्रतिपादयन्ति । ऋचोऽक्षरे ऋगुपलक्षितसर्ववेदसंबन्धिनि अक्षरे प्रणवरूपे ओंकारे अविनाशिनि सर्ववेदेषु व्याप्ते वा । प्रणवस्य सर्ववेदसारत्वं ब्राह्मणे श्रूयते - तान्वेदानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्ताकार उकारो मकार इति तानेकधा समभरत् तदेतदोमिति ' (ऐ. ब्रा. ५. ३२ ) इति । परमे निरतिशये । न हि प्रणवादधिकं किंचिन्मन्त्रजातमस्ति त्रिकालातीतस्य ब्रह्मणः प्रतिपादकत्वात् । यच्चान्यत् त्रिकालातीतं तदप्योंकार एव' (मा. उ. १), ओमिति ब्रह्म'(तै. आ. ७. ८) इत्यादिश्रुतेः। वेदानां प्रणवस्य स्थानप्रतिनिधिभावः संबन्धः ‘य ऋचोऽधीते' इत्याद्युपक्रम्य ‘यः प्रणवमधीते स सर्वमधीते ओमिति प्रतिपद्यत एतद्वै यजुस्त्रयीं विद्यां प्रत्येषा वागेतत्परममक्षरम्' (तै. आ. २. ११. ४ ) इत्यादिश्रुतेः । यस्मिन् विश्वे सर्वे देवा अधि निषेदुः । प्रणवस्य सर्वमन्त्रात्मकत्वात् मन्त्रेषु सर्वदेवतानां निवासात् सर्वदेवनिवासत्वम् । ब्रह्माधिष्ठानत्वाद्वा ब्रह्मणि सर्वदेवानां निवासात् । शिष्टमविशिष्टम् । अयं मन्त्रो निरुक्ते (निरु. १३. १०) व्याख्यातः । अपरे तु अपरथा वर्णयन्ति । ऋचः । ऋक् अर्चनीयो जीवः । तस्य संबन्धिन्यक्षरेऽविनाशे व्याप्ते वा परमात्मनीत्यर्थः। अत एव जीवापेक्षया परमे उत्कृष्टे निरुपाधिके व्योमन् विशेषेण सर्वाधिष्ठानत्वेन रक्षके व्योमसदृशे वा । यस्मिन् परमात्मनि देवा गमनवन्तो व्यवहरन्तः वा इन्द्रियसंज्ञका विश्वे सर्वेऽपि अधि निषेदुः निषीदन्ति आश्रित्य वर्तन्ते । यस्तन्न वेद न जानाति उपाध्यंशपरित्यागे तदेव स्वरूपमिति न पश्यति स्थूलः जनः किमृचा करिष्यति । केवलेन जीवेन जीवभावेन किं फलं प्राप्स्यति । जननमरणादिक्लेशस्य अत्यागादिति भावः । ये तत्तत्त्वं विदुस्त इत्यादि सिद्धम् ॥
“All the gods have taken their seats upon this supreme heaven, the imperishable (text) of the Veda; what will he, who knows not this, do with the Veda? but they who do know it, they are perfect.”
Upon what syllable of holy praise-song, as twere their highest heaven, the Gods repose them,--
Who knows not this, what will he do with praise-song? But they who know it well sit here assembled.
The syllable of the verse, upon which all the gods have settled, is in the highest heaven—
he who does not know that (syllable), what will he accomplish by his verse? Only those who know it sit together here.
Auf welchem Worte [oder welcher Silbe »Om«] des Preisliedes im höchsten Himmel alle Götter sich niederliessen, wer das nicht weiss, was wird der mit dem Preisliede ausrichten? die es aber wissen, die sind hier versammelt.
Wer die Silbe Ric nicht kennt, auf der im höchsten Raum alle Götter ihren Sitz haben, was will der mit der Ric anfangen? Die sie kennen, die sitzen hier beisammen.
Кто не знает того слога гимна
На высшем небе, на котором боги все восседают,
Что же он поделает с гимном?
А кто его знает, те сидят (здесь) вместе.
सू॒य॒व॒साद्भग॑वती॒ हि भू॒या अथो॑ व॒यं भग॑वन्तः स्याम । अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर॑न्ती ॥
सु॒य॒व॒स॒ऽअत् । भग॑ऽवती । हि । भू॒याः । अथो॒ इति॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ । अ॒द्धि । तृण॑म् । अ॒घ्न्ये॒ । वि॒श्व॒ऽदानी॑म् । पिब॑ । शु॒द्धम् । उ॒द॒कम् । आ॒ऽचर॑न्ती ॥
हे अघ्न्ये । गोनामैतत् । अहननीये हे गौः त्वं सूयवसात् शोभनयवसस्य तृणादिकस्य अत्त्री सती भगवती । भग इति धननाम । सर्वैर्भजनीयप्रभूतक्षीरादिधनवती भूयाः भव । हिः पूरणः प्रसिद्धौ वा । लोके यवसादिभक्षणेन क्षीरादिसमृद्धिः प्रसिद्धा । अथो अनन्तरमेव वयं यजमाना अपि भगवन्तः प्रभूतेन धनेन तद्वन्तः स्यामः । अथ एकवारं पूर्वमुक्तमिदानीं सर्वदा कर्तव्यमिति प्रार्थयते । विश्वदानीं विश्वकालं सर्वदा तृणम् अद्धि भक्षय। आचरन्ती सर्वतो निर्गच्छन्ती शुद्धं निर्मलम् उदकं पिब । अयं मन्त्रो यास्केनैवं व्याख्यातः- ‘ सूयवसादिनी भगवती हि भवाथेदानीं वयं भगवन्तः स्यामाद्धि तृणमघ्न्ये सर्वदा पिब च शुद्धमुदकमाचरन्ती' (निरु. ११. ४४ ) इति ॥ ॥ २१ ॥
“Cow, may you be rich in milk through abundant fodder; that we also may be rich (in abundance); eat grass at all seasons, and, roaming (at will), drink pure water.”
Fortunate mayst thou be with goodly pasture, and may we also be exceeding wealthy.
Feed on the grass, O Cow, at every season, and coming hitherward drink limpid water.
Because you would become blessed, feeding upon good pasturage, so then we would also be blessed.
Feed on grass always, o inviolable cow [=Speech]! Coming here, drink pure water!
Gute Weide geniessend mögest du, o Kuh, beglückt sein; auch wir seien beglückt; friss das Gras zu allen Zeiten, trinke herwandernd das reine Wasser. [Dieser Vers gehört wol ursprünglich einem andern Liede an, und hat wol mit der vâc nichts zu thun].
So mögest du denn auf guter Weide grasend glücklich sein und auch wir möchten glücklich sein. Friß allezeit Gras, o Kuh, trink reines Wasser, zur Tränke kommend!
Да будешь ты счастлива, пасясь на тучном пастбище!
Да будем счастливы также и мы!
Ешь траву постоянно, о невредимая!
Пей чистую воду, приходя (на водопой)!
गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा पर॒मे व्यो॑मन् ॥
गौ॒रीः । मि॒मा॒य॒ । स॒लि॒लानि॑ । तक्ष॑ती । एक॑ऽपदी । द्वि॒ऽपदी॑ । सा । चतुः॑ऽपदी । अ॒ष्टाऽप॑दी । नव॑ऽपदी । ब॒भू॒वुषी॑ । स॒हस्र॑ऽअक्षरा । प॒र॒मे । विऽओ॑मन् ॥
गौरीः गरणशीला. माध्यमिका वाक् ॥ सुलोपाभावश्छान्दसः । मिमाय शब्दयति । किं कुर्वती । सलिलानि वृष्ट्युदकानि तक्षती सम्यक्संपादयित्री। एकपदी एकपादोपेता एकाधिष्ठाना मेघे वर्तमाना गमनसाधनेन वायुना एकपदी वा द्विपदी मेघान्तरिक्षाख्यद्व्यधिष्ठाना । आदित्यो वा द्वितीयः । तथा सा चतुष्पदी पादचतुष्टयोपेता दिक्चतुष्टयाधिष्ठाना । अथ अष्टापदी विदिगपेक्षया अष्टपादोपेता अष्टाधिष्ठाना नवपदी उपरिदिगपेक्षया सूर्येण वा नवदिगधिष्ठाना बभूवुषी एवंभूता। भवेश्छान्दसः क्वसुः । ततो ङीपि वसोः संप्रसारणम् ॥ किमनया परिगणनया । सहस्राक्षरा । अपरिमितवचनोऽयम् । अपरिमितव्याप्तियुक्ता बहुव्यापनशीलोदकवतीत्यर्थः । कुत्रेति तदुच्यते । परमे व्योमन उदकाश्रयत्वेनोत्कृष्टेऽन्तरिक्षे। केचिदेवमाहुः । गौरीर्गरणशीला शब्दब्रह्मात्मिका वाक् मिमाय माति ॥ प्रसिद्धार्थे धातुः । प्रतिष्ठितानि घटादिद्रव्याणि तक्षती तत्तद्वाचकत्वेन निष्पादयन्ती एकपदी अव्याकृतत्वेन एकप्रतिष्ठाना एकरूपा वा आत्मना द्विपदी सुप्तिङ्भेदेन पादद्वयवती चतुष्पदी नामाख्यातोपसर्गनिपातभेदेन अष्टापदी आमन्त्रितसहिताष्टभेदेन अष्टपदी नवपदी बभूवुषी साव्ययैरुक्तैरष्टभिः नवपदी । अथवा सनाभिकेषु उरकण्ठादिषु नवसु पदेषु भवन्ती पश्चाद्बहुविधाभिव्यक्तिमुपेयुषी परमे व्योमन् उत्कृष्टे हृदयाकाशे मूलाधारे सहस्राक्षरा अनेकाकारेण व्याप्ता अनेकध्वनिप्रकारा भवतीत्यर्थः । अयं मन्त्रः आचार्येणैवं व्याख्यातः - गौरीर्मिमाय सलिलानि तक्षती कुर्वत्येकपदी मध्यमेन द्विपदी मध्यमेन चादित्येन च चतुष्पदी दिग्भिरष्टापदी दिग्भिश्चावान्तरदिग्भिश्च नवपदी दिग्भिश्चावान्तरदिग्भिश्चादित्येन च सहस्राक्षरा बहूदका परमे व्यवने ' ( निरु. ११. ४० ) इति ॥
_
31अथैकत्रिंशीमाह -
परमे व्योम्नि ब्रह्मणि प्रतिष्ठिता गौरी गौरवर्णा वाग्देवी सृष्ट्युपक्रमे सलिलसदृशानि वर्णपदवाक्यानि तक्षती सृजन्ती मिमाय शब्दमकरोत् । कथम्? प्रथमं प्रणवात्मनैकपदी ब्रह्मणो मुखान्निर्गता । अनन्तरं व्याहृतिरूपेण सावित्रीरूपेण च द्विपदी । ततो वेदचतुष्टयरूपेण चतुष्पदी । ततो वेदाङ्गैः षड्भिः पुराणधर्मशास्त्राभ्यां चाष्टापदी । ततो मीमांसान्यायसांख्ययोगपाञ्चरात्रपाशुपतायुर्वेदधनुर्वेदगान्धर्वैर्नवपदी । ततोऽनन्तैर्वाक्यसंदर्भैः सहस्राक्षरा अनन्तविधा बभूवुषी संपन्ना ॥
“The sound (of the clouds) has been uttered, fabricating the waters, and being one-footed, two-footed, four-footed, eight-footed, nine-footed, or infinite in the highest heaven.”
Forming the water-floods, the buffalo hath lowed, one-footed or two-footed or four-footed, she,
Who hath become eight-footed or hath got nine feet, the thousand-syllabled in the sublimest heaven.
The buffalo-cow [=Speech] has bellowed, fashioning oceans. One-footed and two-footed, she is four-footed,
having become eight-footed and nine-footed: she has a thousand syllables in the highest heaven.
Es brüllte die Büffelin, die die Wasser erzeugt [die donernde Regenvolke als Sängerin, als vâc aufgefasst], die in einzeiligem, zwei-, vier-, acht-, neun-, vielzeiligen Versmassen brüllt mit tausend Silben im höchsten Himmel.
Die Büffelkuh hat gebrüllt, Wasserfluten hervorbringend, einfüßig, zweifüßig, viefüßig, achtfüßig, neunfüßig geworden, tausendsilbig im höchsten Raum.
Буйволица замычала, создавая потоки воды,
Став одноногой, двуногой, четырехногой,
Восьминогой, девятиногой,
Тысячесложной на высшем небе.
तस्या॑: समु॒द्रा अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः । तत॑: क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ॥
तस्याः॑ । स॒मु॒द्राः । अधि॑ । वि । क्ष॒र॒न्ति॒ । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिशः॑ । चत॑स्रः । ततः॑ । क्ष॒र॒ति॒ । अ॒क्षर॑म् । तत् । विश्व॑म् । उप॑ । जी॒व॒ति॒ ॥
तस्याः उक्ताया गोः सकाशात् समुद्राः वृष्ट्युदकसमुन्दनाधिकरणभूता मेघाः अधि अधिकं प्रभूतमुदकं वि क्षरन्ति विविधं क्षरन्ति । तेन उदकेन प्रदिशश्चतस्रः । प्रशब्दो वीत्यर्थः । विदिशश्चतस्रो दिशश्च । अथवा प्रकृष्टा दिशो मुख्याश्चतस्रः । तत्स्थेषु ताच्छब्द्यम् । तत्स्थाः पुरुषाः जीवन्ति । ततः पश्चात् तत् अक्षरम् उदकं क्षरति सस्यादिकमुत्पादयतीत्यर्थः। तत् सस्यादिकं विश्वं जगत् उप जीवति । अयमपि यास्केन व्याख्यातः - तस्याः समुद्रा अधिविक्षरन्ति वर्षन्ति मेघास्तेन जीवन्ति दिगाश्रयाणि भूतानि ततः क्षरत्यक्षरमुदकं तत्सर्वाणि भूतान्युपजीवन्ति । ( निरु. ११. ४१ ) इति ॥
“From her the clouds shed abundant rain, and thence (the people of) the four quarters live; thence the moisture spreads (to the grain), and the universe exists.”
From her descend in streams the seas of water; thereby the world's four regions have their being,
Thence flows the imperishable flood and thence the universe hath life.
Seas flow everywhere from her: by that the four directions live, from that the syllable flows, upon that does everything live.
Von ihr strömen die Meere aus, davon leben die vier Erdräume; von dort ergiesst sich das unversiegbare Wasser, davon lebt alles
Von ihr strömen Meere aus, davon leben die vier Weltgegenden. Davon strömt das Unvergängliche aus, von dem zehrt alles.
Из нее моря вытекают.
Этим живут четыре стороны света.
Оттуда вытекает непреходящее.
Им живет все.
श॒क॒मयं॑ धू॒ममा॒राद॑पश्यं विषू॒वता॑ प॒र ए॒नाव॑रेण । उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ॥
श॒क॒ऽमय॑म् । धू॒मम् । आ॒रात् । अ॒प॒श्य॒म् । वि॒षु॒ऽवता॑ । प॒रः । ए॒ना । अव॑रेण । उ॒क्षाण॑म् । पृश्नि॑म् । अ॒प॒च॒न्त॒ । वी॒राः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् ॥
शकमयं शकृन्मयं शुष्कगोमयसंभूतं धूमम् आरात् नातिदूरे अपश्यम् दृष्टवानस्मि । दिवा धूमस्य दूरे दृश्यमानत्वात् स एव दर्शनविषयतया उक्तः । विषुवता व्याप्तिमता एना अनेन अवरेण निकृष्टेन धूमेन परः परस्तात् तत्कारणभूतमग्निमपश्यम् । अहं यजमान इत्यर्थः । किंच उक्षाणं फलस्य सेक्तारं पृश्निं शुक्लवर्णम् । प्राश्नुते तेन फलमिति स्वयं प्राश्नुत इति वा पृश्निर्वल्लीरूपः सोमः । तं वीराः विविधैरणकुशला ऋत्विजः अपचन्त । अत्र धात्वर्थानादरेण तिङ्प्रत्ययः करोत्यर्थः । स च क्रियासामान्यवचनः अत्र औचित्यात अभिषवेण संपादितवन्त इत्यर्थः । तानि
तत्साधनानि धर्माणि अनुष्ठानानि प्रथमानि प्रतमानि प्रकृष्टानि फलपर्यवसायीनि आसन् संपादितान्यभवन् । यद्वा । सोम उक्षाभवत् पूर्वं तं देवाः शकृतापचन् । यज्ञार्थे तद्भवो धूमो मेघं आसीत् तदुच्यते । तत्परत्वेन वा मन्त्रो व्याख्येयो विचक्षणैः ॥
“I beheld near (me) the smoke of burning cow-dung; and by that tall-pervading mean (effect, discovered the cause (fire); the priests have the Soma ox, for such are their first duties.”
I saw from far away the smoke of fuel with spires that rose on high o'er that beneath it.
The Mighty Men have dressed the spotted bullock. These were the customs in the days aforetime,
At the midpoint, beyond this nearer (fire), I saw dung-smoke from afar. Heroes cooked the dappled bullock. These were the first foundations (of the rite).
Ich sah von ferne den aus dem Miste [des gebratenen Stieres??] aufsteigenden Rauch, hoch über diesem unteren in der Mitte befindlichen [Feuer], die Männer brieten einen bunten Stier; das waren die ersten Bräuche.
Ich sah von ferne den Düngerrausch in der Mitte jenseits dieses unteren Raumes. Die Männer brieten sich den bunten Stier. Dies waren die ersten Bräuche.
Издали я увидел дым от (горящего) навоза
Посредине, над этим нижним (пространством).
Мужи жарили себе пятнистого быка.
Таковы были первые обычаи.
त्रय॑: के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् । विश्व॒मेको॑ अ॒भि च॑ष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ॥
त्रयः॑ । के॒शिनः॑ । ऋ॒तु॒ऽथा । वि । च॒क्ष॒ते॒ । स॒व्ँम्व॒त्स॒रे । व॒प॒ते॒ । एकः॑ । ए॒षा॒म् । विश्व॑म् । एकः॑ । अ॒भि । च॒ष्टे॒ । शची॑भिः । ध्राजिः॑ । एक॑स्य । द॒दृ॒शे॒ । न । रू॒पम् ॥
केशस्थानीयप्रकृष्टरश्मियुक्ता: त्रयः अग्न्यादित्यवायवः । ते च ऋतुथा कालेकाले वि चक्षते विविधलक्षणां भूमिं पश्यन्ति । तेषां पृथक्पृथक्कार्यमाह । एषां मध्ये एकः अग्निः संवत्सरे अतीते सति संवत्सरं वपते दाहेन केशस्थानीयौषधिवनस्पत्यादिके छेदनं नापितकार्यं करोति । एकः अन्यः आदित्यः विश्वं सर्वं जगत् शचीभिः स्वकीयैः प्रकाशवृष्ट्यादिकर्मभिः अभि चष्टे सर्वतः पश्यति। एकस्य वायोः ध्राजिः गतिः ददृशे दृश्यते सर्वैः न रूपम् अप्रत्यक्षत्वात् । स्पर्शशब्दधृतिकम्पलिङ्गैः गम्यते' इति हि न्यायविदो वदन्ति । अयमपि मन्त्रो यास्केन एवं व्याख्यातः - त्रयः केशिन ऋतुथा विचक्षते काले कालेऽभिविपश्यन्ति संवत्सरे वपत एक एषामित्यग्निः पृथिवीं दहति सर्वमेकोऽभिविपश्यति कर्मभिरादित्यो गतिरेकस्य दृश्यते न रूपं मध्यमस्य ' (निरु. १२. २७) इति ॥
“The three, with beautiful tresses, look down in their several seasons upon the earth; one of them, when the year is ended, shears (the ground); one, by his acts, overlooks the universe; the course of one is visible, though not his form.”
Three with long tresses show in ordered season. One of them sheareth when the year is ended.
One with his powers the universe regardeth: Of one, the sweep is seen, but his figure.
Three long-haired ones gaze out in succession: in a year one [=Agni] of them shears away (the land) for himself;
another [=the Sun] gazes upon everything with his powers; the rush of another [=Wind] is visible, but not his form.
Drei schönhaarige zeigen sich nach der Ordnung, der eine von ihnen streut Gaben aus im Laufe des Jahres [Agni], der andere beschaut alles mit Kraft [die Sonne], des dritten Dahingleiten sieht man wohl, nicht seine Gestalt [des Windes].
Drei Langhaarige lassen sich zu bestimmter Zeit blicken: Der eine unter ihnen schert im Laufe des Jahres ab; der eine überschaut nach Kräften das All; von dem einen nimmt man die Geschwindigkeit wahr, nicht die Gestalt.
Трое волосатых появляются в определенное время.
В течение года стрижется один из них.
Один мощно все озирает.
Порыв у одного виден, не внешность.
च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिण॑: । गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ॥
च॒त्वारि॑ । वाक् । परि॑ऽमिता । प॒दानि॑ । तानि॑ । विदुः । ब्रा॒ह्म॒णाः । ये । म॒नी॒षिणः॑ । गुहा॑ । त्रीणि॑ । निऽहि॑ता । न । इ॒ङ्ग॒य॒न्ति॒ । तु॒रीय॑म् । वा॒चः । म॒नु॒ष्याः॑ । व॒द॒न्ति॒ ॥
वाक् वाचः कृत्स्नायाः पदानि चत्वारि परिमिता परिमितानि । लोके या वागस्ति सा चतुर्विधा विभक्तेत्यर्थः। तानि पदानि ब्राह्मणाः वेदविदः मनीषिणः मनस ईषिणो मेधाविनः विदुः जानन्ति । तेषां मध्ये त्रीणि गुहा गुहायां निहिता स्थापितानि नेङ्गयन्ति न चेष्टन्ते न प्रकाशन्ते इत्यर्थः । वाचः तुरीयं पदं मनुष्याः अज्ञास्तज्ज्ञाश्च वदन्ति व्यक्तमुच्चारयन्ति व्यवहरन्ति । कानि तानि चत्वारि इत्यत्र बहवः स्वस्वमतानुरोधेन बहुधा वर्णयन्ति । सर्ववैदिकवाग्जालस्य संग्रहरूपाः भूरादयस्तिस्रो व्याहृतयः प्रणव एक इति वेदत्रयसारत्वात् तासां व्याहृतीनामेव सारसंग्रहभूतत्वात् अकाराद्यात्मकस्य प्रणवस्येति सप्रणवासु व्याहृतिषु सर्वा वाक् परिमितेति केचन वेदवादिनो वदन्ति । अपरे व्याकरणमतानुसारिणो नामाख्यातोपसर्गनिपातभेदेन । क्रियाप्रधानमाख्यातम् । द्रव्यप्रधानं नाम । प्रागुपसृज्यते आख्यातपदस्येत्युपसर्गः प्रादिः । उच्चावचेष्वर्थेषु निपतनान्निपातः अपि तु च इत्यादिः । एतेष्वेव सर्वा वाक् परिमितेत्यखण्डायाः कृत्स्नाया वाचश्चतुर्धा व्याकृतत्वात् । ‘ वाग्वै पराच्यव्याकृतावदत् तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्तस्मादियं व्याकृता वागुद्यते' (तै. सं. ६. ४. ७. ३) इति श्रुतेः । अन्ये तु याज्ञिकाः मन्त्राः कल्पो ब्राह्मणं चतुर्थी लौकिकीति । याज्ञिकैः समाख्यातोऽनुष्ठेयार्थप्रकाशको वेदभागो मन्त्राः । मन्त्रांविधानप्रतिपादको वेदभागः इति मन्त्राः कल्पोऽत ऊर्ध्वम् '(तै. आ. १. ३१. २) इत्यादिनोक्तः कल्पः । मन्त्रतात्पर्यार्थप्रकाशको वेदभागो ब्राह्मणम्। भोगविषया गामानय इत्यादिरूपा व्यावहारिकी । एष्वेव सर्वा वाक् नियमितेति याज्ञिकाः । ऋग्यजुःसामानि चतुर्थी व्यावहारिकीति नैरुक्ताः । सपणा वाग्वयां क्षुद्रसरीसृपस्य च चतुर्थी व्यावहारिकीत्यैतिहासिकाः । पशुषु तूणवेषु मृगेष्वात्मनि चेत्यात्मवादिनः। अपरे मातृकाः प्रकारान्तरेण प्रतिपादयन्ति । परा पश्यन्ती मध्यमा वैखरीति चत्वारीति। एकैव नादात्मिका वाक् मूलाधारादुदिता सती परेत्युच्यते । नादस्य च सूक्ष्मत्वेन दुर्निरूपत्वात् सैव हृदयगामिनी पश्यन्तीत्युच्यते योगिभिर्द्रष्टुं शक्यत्वात् । सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमेत्युच्यते । मध्ये हृदयाख्ये उदीयमानत्वात् मध्यमायाः । अथ यदा सैव वक्त्रे स्थित ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति तदा वैखरीत्युच्यते । एवं चत्वारि वाचः पदानि परिमितानि । मनीषिणो मनसः स्वामिनः स्वाधीनमनस्का ब्राह्मणाः स्वाख्यस्य शब्दब्रह्मणोऽधिगन्तारो योगिनः परादिचत्वारि पदानि विदुः जानन्ति । तेषु मध्ये त्रीणि परादीनि गुहा निहितानि हृदयान्तर्वर्तित्वात्। तुरीयं तु पदं वैखरीसंज्ञकं मनुष्याः सर्वे वदन्ति । व्याकरणप्रसिद्धनामाख्यातादिपक्षे मनीषिणो ब्राह्मणाः प्रकृतिप्रत्ययादिविभागज्ञा वाग्योगविदस्तानि पदामि जानन्ति । अवाग्योगविदः पामरा वाचो वाङ्मयस्य तुरीयं चतुर्थं भागं वदन्ति व्यवहरन्ति अर्थप्रकाशनाय प्रयुञ्जते । अयं मन्त्रो निरुक्ते व्याख्यातः सोऽत्राप्यनुसंधेयः- ‘ अथापि ब्राह्मणं भवति । सा वै वाक् सृष्टा चतुर्धा व्यभवदेष्वेव लोकेषु त्रीणि पशुषु तुरीयम् । या पृथिव्यां साग्नौ सा रथंतरे । यान्तरिक्षे सा वायौ सा वामदेव्ये । या दिवि सादित्ये सा बृहति सा स्तनयित्नावथ पशुषु ततो या वागत्यरिच्यत तां ब्राह्मणेष्वदधुः । तस्माद्ब्राह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुष्याणाम् ' ( निरु. १३. ९) इति ।
येयं वाक्सा परिमिता इयत्तया परिच्छिन्नानि चत्वारि पदानि चतुरोऽवयवान्प्राप्य वर्तते । परा पश्यन्ती मध्यमा वैखरीत्येते चत्वारः पादाः । तानि चत्वार्यपि पदानि ये ब्राह्मणा मनीषिणः शास्त्रज्ञाः ते विदुः न त्वितरे मूढाः । तत्र हेतुरुच्यते - त्रीणि परा पश्यन्ती मध्यमेत्येतानि पदानि गुहायां शरीरमध्ये निहितानि स्थापितानि वर्तन्ते । नेङ्गयन्ति न तु बहिः प्रसरन्ति । वाचस्तुरीयं वैखरीत्याख्यं पदं मनुष्याः सर्वे वदन्ति उच्चारयन्ति ॥
एतच्च शिक्षाकारेणा स्पष्टीकृतम्-
आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ।
प्रातस्सवनयोगं तं छन्दो गायत्रमाश्रितम् ॥
कण्ठे माध्यंदिनयुगं मध्यमं त्रैष्ट्वभानुगम् ।
तारं तार्तीयसवनं शीर्षण्यं जगतानुगम् ॥
सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः ।
वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः ॥
स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः ।
इति वर्णविदः प्राहुर्निपुणं तं निबोधत ॥
इति । तस्माच्छरीरमध्ये गूढं पादत्रयं मनीषिण एव जानन्ति । मूढास्तुरीयमेव वदन्ति ॥
“Four are the definite grades of spech; those Brahmaṇas who are wise know them; three, deposited in secret, indicate no meaning; men speak the fourth grade of speech.”
Speech hath been measured out in four divisions, the Brahmans who have understanding know them.
Three kept in close concealment cause no motion; of speech, men speak only the fourth division.
Speech is measured in four feet [/quarters]. Brahmins of inspired thinking know these.
They do not set in motion the three that are imprinted in secret; the sons of Manu speak the fourth (foot/quarter) of speech.
Die Rede hat vier abgegrenzte Gattungen; die sind bekannt den Brahmanen, welche weise sind; die drei ins Verborgene gesetzte [die drei Veden?] offenbaren sie nicht; die vierte Gattung der Rede sprechen die Menschen.
Auf vier Viertel ist die Sprache bemessen; die kennen die nachsinnenden Brahmanen. Die drei Viertel, die geheim gehalten werden, bringen sie nicht in Umlauf. Das vierte Viertel der Sprache reden die Menschen.
На четыре четверти размерена речь.
Их знают брахманы, которые мудры.
Три тайно сложенные (четверти) они не пускают в ход.
На четвертой (четверти) речи говорят люди.
इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् । एकं॒ सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑त॒रिश्वा॑नमाहुः ॥
इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । आ॒हुः॒ । अथो॒ इति॑ । दि॒व्यः । सः । सु॒ऽप॒र्णः । ग॒रुत्मा॑न् । एक॑म् । सत् । विप्राः॑ । ब॒हु॒ऽधा । व॒द॒न्ति॒ । अ॒ग्निम् । य॒मम् । मा॒त॒रिश्वा॑नम् । आ॒हुः॒ ॥
अमुमादित्यम् ऐश्वर्यविशिष्टम् इन्द्रम् आहुः । तथा मित्रं प्रमीतेर्मरणात् त्रातारमहरभिमानिनमेतन्नामकं देवं तमाहुः । वरुणं पापस्य निवारकं राज्यभिमानिनं देवमाहुः । तथा अग्निम् अङ्गनादिगुणविशिष्टम् एतन्नामकमाहुः । अथो अपि च अयमेव दिव्यः दिवि भवः सुपर्ण: सुपतनः गरुत्मान् गरणवान् पक्षवान्वा । एतन्नामको यः पक्ष्यस्ति सः अप्ययमेव । कथमेकस्य नानात्वमिति । उच्यते । अमुमेवादित्यम् एकम् एव वस्तुतः सन्तं विप्राः मेधाविनो देवतातत्वविदः बहुधा वदन्ति । तत्तत्कार्यकारणेन इन्द्राद्यात्मानं वदन्ति । एकैव वा महानात्मा देवता स सूर्य इत्याचक्षते' इत्युक्तत्वात् ।'किंच तमेव वृष्ट्यादिकारणं वैद्युताग्निं यमं नियन्तारं मातरिश्वानम् अन्तरिक्षे श्वसन्तं वायुम् आहुः । सूर्यस्य ब्रह्मणोऽनन्यत्वेन सार्वात्म्यमुक्तं भवति। अत्र ये केचित् अग्निः सर्वा देवताः' ( ऐ. ब्रा. २. ३) इत्यादिश्रुतितोऽयमेवाग्निरुत्तरे अपि ज्योतिषी इति मत्वा अग्नेरेव सार्वात्म्यप्रतिपादकोऽयं मन्त्र इति वदन्ति । तत्पक्षे प्रथमोऽग्निशब्दः उद्देश्यः । तमग्निमुद्दिश्य इन्द्राद्यात्मकत्वकथनम्। अयं मन्त्रो निरुक्ते एवं व्याख्यातः - ‘ इममेवाग्निं महान्तमात्मानमेकमात्मानं बहुधा मेधाविनो वदन्ति इन्द्रं मित्रं वरुणमग्निं दिव्यं च गरुत्मन्तम् । दिव्यो दिविजो गरुत्मान् गरणवान् गुर्वात्मा महात्मेति वा ' ( निरु. ७. १८) इति ॥ ॥ २२ ॥
“They have styled (him, the Sun), Indra, Mitra, Varuṇa, Agni, and he is the celestial, well-winged Garutmat, for learned priests call one by many names as they speak of Agni, Yama, Mātariśvan.”
They call him Indra, Mitra, Varuna, Agni, and he is heavenly nobly-winged Garutman.
To what is One, sages give many a title they call it Agni, Yama, Matarisvan.
They say it is Indra, Mitra, Varuṇa, and Agni, and also it is the winged, well-feathered (bird) of heaven [=the Sun].
Though it is One, inspired poets speak of it in many ways. They say it is Agni, Yama, and Mātariśvan.
Den Agni nennen sie Indra, Mitra und Varuna, und er ist der himmlische schöngeflügelte Vogel, der in der Höhe schwebt [die Sonne]; der nur einer ist, ihn nennen sie auf vielfache Art, den Agni nennen sie Jama, Matariçvan.
Sie nennen es Indra, Mitra, Varuna, Agni und es ist der himmlische Vogel Garutmat. Was nur das Eine ist, benennen die Redekundigen vielfach. Sie nennen es Agni, Yama, Matarisvan.
Индрой, Митрой, Варуной, Агни (его) называют,
А оно, божественное, – птица Гарутмант.
Что есть одно, вдохновенные называют многими способами.
Агни, Ямой, Матаришваной (его) называют.
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति । त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ॥
कृ॒ष्णम् । नि॒ऽयान॑म् । हर॑यः । सु॒ऽप॒र्णाः । अ॒पः । वसा॑नाः । दिव॑म् । उत् । प॒त॒न्ति॒ । ते । आ । अ॒व॒वृ॒त्र॒न् । सद॑नात् । ऋ॒तस्य॑ । आत् । इत् । घृ॒तेन॑ । पृ॒थि॒वी । वि । उ॒द्य॒ते॒ ॥
कृष्णं कृष्णवर्णं नियानं नियमेन गच्छन्तं मेघं हरयः उदकस्य हर्तारः सुपर्णाः शोभनपतना रश्मयः अपः वसानाः उदकानि वासयन्तो मेघेषु। अद्भिर्मेघान्पूरयन्त इत्यर्थः॥ अन्तर्भावितण्यर्थत्वात् द्विकर्मकत्वम् ॥ यद्वा । कृष्णं नियानं नियमनं रात्रिः । देवानां हि रात्रिर्दक्षिणायनम् । तत्प्रति । तस्मिन्वर्षकाले इत्यर्थः । एवं कुर्वन्तः दिवं द्युलोकं तदाश्रितमादित्यं वा उद्दिश्य उत्पतन्ति ऊर्ध्वं गच्छन्ति । ते रश्मयः ऋतस्य सदनात् उदकस्य स्थानात् आदित्यमण्डलात् आववृत्रन् आवर्तन्ते अर्वाञ्च आगच्छन्ति । आदित् अनन्तरमेव यदा अर्वाग्गच्छन्ति तदानीमेव घृतेन उदकेन पृथिवी व्युद्यते विविधं क्लिद्यते । ‘ कृष्णं निरयणं रात्रिरादित्यस्य हरयः सुपर्णा हरणा आदित्यरश्मयः । (निरु. ७. २४ ) इत्यादि निरुक्तं द्रष्टव्यम् ॥
“The smooth-gliding wafters (of the rain, the solar rays), clothing the waters with a dark cloud, ascend to heaven; they come down again from the dwelling of the rain, and immediately the earth is moistened with water.”
Dark the descent: the birds are golden-coloured; up to the heaven they fly robed in the waters.
Again descend they from the seat of Order, and all the earth is moistened with their fatness.
Along the dark course, tawny well-feathered (birds) [=flames], clothing themselves in the waters, fly up toward heaven.
These have returned here (as rain) from the seat of truth [=heaven]. Only then is the earth moistened with ghee.
Den dunklen Weg [der Nacht] durchfliegen die schöngeflügelten Rosse der Sonne in Wasser gekleidet zum Himmel hin [um am Tage am östlichen Himmel aufzusteigen]; sie eilten herbei vom Sitze der göttlichen Ordnung [von Osten]; dann erst wird die Erde mit [Fruchtbarkeit] benetzt.
Auf schwarzer Bahn fliegen die gelben Vögel, in Wasser sich hüllend, zum Himmel auf. Sie sind jetzt von dem Sitze der Ordnung zurückgekehrt; dann wird die Erde mit Schmalz benetzt.
По черному пути золотистые птицы,
Рядясь в воды, взлетают на небо.
Они вернулись из сиденья закона,
И вот земля окропляется жиром.
द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत । तस्मि॑न्त्सा॒कं त्रि॑श॒ता न श॒ङ्कवो॑ऽर्पि॒ताः ष॒ष्टिर्न च॑लाच॒लास॑: ॥
द्वाद॑श । प्र॒ऽधयः॑ । च॒क्रम् । एक॑म् । त्रीणि॑ । नभ्या॑नि । कः । ऊँ॒ इति॑ । तत् । चि॒के॒त॒ । तस्मि॑न् । सा॒कम् । त्रि॒ऽश॒ताः । न । श॒ङ्कवः॑ । अ॒र्पि॒ताः । ष॒ष्टिः । न । च॒ला॒च॒लासः॑ ॥
द्वादश एतत्संख्याकाः प्रधयः परिधयः प्रहिता वर्तन्ते । तत्स्थानीया द्वादश मासाः एकम् अद्वितीयं चक्रं क्रमणस्वभावं संवत्सराख्यं चक्रमाश्रिताः। तथा त्रीणि त्रिसंख्याकानि नभ्यानि नाभ्याश्रयाणि फलकानि तत्स्थानीयानि ग्रीष्मवर्षाहेमन्ताख्यान्याश्रितानि । यथा सूर्यरथचक्रस्य द्वादश परिधयः नाभ्यर्हाणि त्रीणि फलकानि सन्ति तद्वत्कालचक्रस्यापि । क उ कोऽपि महान् तत चक्रं चिकेत जानाति । तस्मिन् चक्रे साकं सह शङ्कवः न शङ्कवः इव । अत्र पुरस्तादुपचारोऽपि नशब्दः सामर्थ्यादुपमार्थीयः । तस्मिन्नपि संवत्सरचक्रे त्रिशताः एतत्संख्याकाः षष्टिर्न । नशब्दः चार्थे । षष्टिश्च अरा अरस्थानीयान्यहानि अर्पिताः अर्पितानि । कीदृशानि तानि । चलाचलासः । एकश्चलशब्दो द्विर्भावप्राप्तः । चलाः । चलनस्वभावानीत्यर्थः ॥ ‘ चरिचलिपतिवदीनामच्याक्चाभ्यासस्य ' ( पा. सू. ६. १. १२, ६ ) इति द्विर्वचनमागागमश्च । ततोऽसुक् ॥ ‘ षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहानि ' (श, ब्रा. ९. १. १. ४३) इति ब्राह्मणम् । द्वादश प्रधयश्चक्रमेकमिति मासानां मासा मानात् ' (निरु. ४, २७ ) इत्यादि निरुक्तम् ॥
“The fellies are twelve; the wheel is one; three are the axles; but who knows it? within it are collected 360 (spokes), which are, as it were, moveable and immoveable.”
Twelve are the fellies, and the wheel is single; three are the naves. What man hath understood it?
Therein are set together spokes three hundred and sixty, which in nowise can be loosened.
The chariot-wheel (of the Sun) is one, its wheel-segments are twelve, its wheel-naves are three: who understands this?
They [=the days] that wander on and on are fitted together on that, like three hundred pegs, like sixty (more).
Zwölf Felgen [die Monate] sind an dem einen Rade [des Jahres] und drei Naben, wer versteht das? An ihm sind zugleich dreihundert nicht wankende und sechzig nicht schwankende Speichen [die Tage] befestigt.
Zwölf Speichenbretter, ein Rad, drei Nabenstücke: wer versteht das? Darin sind zusammen dreihundertundsechzig wie Pflöcke befestigt, die sich nicht lockern.
Косяков двенадцать, колесо одно,
Три ступицы – кто же это постигнет?
В нем укреплены вместе колышки,
Словно триста шестьдесят подвижных и (одновременно) неподвижных.
यस्ते॒ स्तन॑: शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि । यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्र॒: सर॑स्वति॒ तमि॒ह धात॑वे कः ॥
यः । ते॒ । स्तनः॑ । श॒श॒यः । यः । म॒यः॒ऽभूः । येन॑ । विश्वा॑ । पुष्य॑सि । वार्या॑णि । यः । र॒त्न॒ऽधाः । व॒सु॒ऽवित् । यः । सु॒ऽदत्रः॑ । सर॑स्वति । तम् । इ॒ह । धात॑वे । क॒रिति॑ कः ॥
हे सरस्वति ते तव संबन्धी यः स्तनः स्तनवच्छिशुस्थानीयानां प्राणिनामाप्यायनकारी लौकिकवैदिकसुशब्दरूपः स्तनः शशयः शयान्ः तव देहे वर्तमानः । यः च स्तनः मयोभू: रसास्वादिनां सुखस्य भावयिता । येन स्तनेन विश्वा सर्वाणि वार्याणि वरणीयान्यभिमतरूपाणि धनानि पुष्यसि भोक्तृभ्यः । यः च स्तनः रत्नधाः बहुविधरमणीयरसानां धारयिता वसुवित् वसूनां वासयितॄणां धनानां वेत्ता लब्धा वेदयिता वा । किंच यः स्तनः सुदत्रः। शोभनदानः । ‘सुदत्रः कल्याणदानः ' ( निरु. ६. १४ ) इति निरुक्तम् । अत्र असकृत् यच्छब्दश्रवणं स्तनस्य अतिप्रशस्तत्वज्ञापनार्थम् । हे देवि तं तादृशं सर्वप्राण्युपकारकं सूक्तमयं स्तनम् इह अस्मिन्कर्मणि इदानीं वा धातवे अस्माभिर्धातुं पातुं पानाय कः कुरु ॥
“Sarasvatī, that retiring breast, which is the source of delight, with which you bestow all good things, which is the container of wealth, the distributor of riches, the giver of good (fortune); that (bodom) do you lay open at this season for our nourishment.”
That breast of thine exhaustless, spring of pleasure, wherewith thou feedest all things that are choicest,
Wealth-giver, treasure. finder, free bestower,--bring that, Sarasvati, that we may drain it.
Your breast, which is ever full, which is joy itself, by which you make all desirable things prosper,
which confers treasure and finds wealth, which brings good gifts—o Sarasvatī, you prepare that to suckle us here.
Welche unversiegliche Mutterbrust du hast, o Sarasvati, welche erquickend ist, durch welche du alles Schöne zur Blüte bringst, welche Schätze gibt, Güter verschafft, welche reich an Gaben ist, die schaffe her, dass wir sie saugen.
Deine ausgiebige Brust, die erquickende, mit der du alles Köstliche in Fülle gibst, die Kleinode bringende, Güter findende, gabenschöne, an dieser laß uns hier trinken, Sarasvati!
Та грудь твоя, неисчерпаемая, подкрепляющая,
Чем ты даешь в изобилии все лучшие блага,
Та, приносящая сокровища, находящая добро, прекраснодающая -
О Сарасвати, позволь здесь прильнуть к ней!
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
य॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒सन् । ते । ह॒ । नाक॑म् । म॒हि॒मानः॑ । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्याः । सन्ति॑ । दे॒वाः ॥
देवाः व्यवहर्तारो यजमानाः यज्ञेन निर्मथ्याग्निना यज्ञं होमसाधनमाहवनीयम् अयजन्त पूजितवन्तः अनुष्ठानाय संयोजितवन्त इत्यर्थः । ‘अग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते । (तै. सं. ६. २. १.७ ) इति हि तैत्तिरीयकम् । तानि धर्माणि अग्निसाधनानि कर्माणि प्रथमानि। प्रथम इति मुख्यनाम । प्रतमानि प्रकृष्टतमानि आसन् फलप्रसवसमर्थान्यभवन्नित्यर्थः। ते ह ते च यजमानाः नाकम् । नास्मिन्नकमस्तीति नाकः स्वर्गः। ते महिमानः माहात्म्ययुक्ताः सचन्त संगताः । कीदृशं नाकम् । यत्र यस्मिन्नाके पूर्वे पूर्वतनाः साध्याः साधना: यज्ञादिसाधनवन्तः । कर्मदेवा इत्यर्थः । ते 'सन्ति निवसन्ति तं सचन्त । तस्मादिदानीमपि मनुष्यैः एवं कर्तव्यमित्यर्थः । यद्वा। देवा इदानीं देवभागमापन्नाः पूर्वं यज्ञेनाग्निना पशुभूतेन यज्ञं यष्टव्यमग्निमयजन्त पूजितवन्तः । अग्नेरेव मूर्तिभेदेन देवत्वं च पशुत्वं च द्रष्टव्यम् । अग्निः पशुरासीत्तमालभन्त तेनायजन्त' इति श्रुतेः । शिष्टं पूर्ववत् । यत्र यस्मिन् स्वर्गे निमित्तभूते सति पूर्वे पूर्वतनाः साध्या देवाः साधनाश्छन्दोऽभिमानिनः। आदित्या अङ्गिरसश्च साध्या देवा उच्यन्ते। ‘छन्दांसि वै साध्या देवास्तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्ग लोकमायन्नादित्याश्चैवेहासन्नङ्गिरसश्च तेऽग्रेऽग्निनाग्निमयजन्त ते स्वर्गं लोकमायन्'(ऐ. ब्रा. १. १६) इति ब्राह्मणम् । एते देवाः स्वर्गे सन्ति भवन्ति स्वर्गप्राप्ताः इत्यर्थः । यद्वा। यज्ञेन ज्ञानादियज्ञेन यज्ञं विष्णुमयजन्त पूजयन्ति । ते नाकं विष्णुलोकं महानुभावाः सचन्त संगच्छन्ते । यत्र पूर्वे साध्यादयो देवाः सन्ति तत्स्थानम्। 'अग्निनाग्निमयजन्त देवाः' (निरु. १२. ४१) इत्यादि निरुक्तमनुसंधेयम् ॥
“The gods sacrifice with sacrifice, for such are their first duties; those mighty ones assemble in heaven, where the divinities who are to be propitiated (by sacred rites) abide.”
By means of sacrifice the Gods accomplished their sacrifice: these were the earliest ordinances.
These Mighty Ones attained the height of heaven, there where the Sadhyas, Gods of old, are dwelling.
With the sacrifice the gods performed the sacrifice: these were the first foundations.
These, its greatnesses, followed to heaven’s vault, where the ancient
Sādhyas and the gods are.
Durch Opfer opferten die Götter das Opfer; das waren die ersten Bräuche; sie, die erhabenen, gelangten zum Gipfel des Himmels, wo die alten zu gewinnenden Götter sind. [= 916, 16]
Mit Opfer opferten die Götter dem Opfer. Dies waren die ersten Bräuche. Diese Mächte folgten in den Himmel nach, in dem die früheren Götter, die Sadhya´s sich befinden.
Жертву жертве пожертвовали боги.
Таковы были первые обычаи.
Эти могущества последовали на небо,
Где находятся прежние боги – садхья.
स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः । भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति॒ दिवं॑ जिन्वन्त्य॒ग्नय॑: ॥
स॒मा॒नम् । ए॒तत् । उ॒द॒कम् । उत् । च॒ । एति॑ । अव॑ । च॒ । अह॑ऽभिः । भूमि॑म् । प॒र्जन्याः॑ । जिन्व॑न्ति । दिव॑म् । जि॒न्व॒न्ति॒ । अ॒ग्नयः॑ ॥
एतत् प्रसिद्धम् उदकं समानम् एकरूपमित्यर्थः । अहभिः कैश्चिदहोभिः ग्रीष्मकालीनैः उच्चैति उर्ध्वं गच्छति । तथा अहभिः वर्षकालीनैरेव तदुदकम् अव च एति अवाङ्मुखं च गच्छति ॥ ‘चवायोगे प्रथमा ' इति प्रथमा विभक्तिर्न निहन्यते ॥ रश्मिनाड्यैव भूमिं प्राप्नोति । तदेवोच्यते । पर्जन्याः प्रीणयितारो मेघाः भूमिं जिन्वन्ति उदकसंस्त्यायेन सस्याद्युत्पादनद्वारा भूमिष्ठान् प्रीणयन्ति । तथा अग्नयः आहवनीयाद्याः स्वे हुते आहुत्या दिवं द्युलोकस्थान् देवान् जिन्वन्ति प्रीणयन्ति ।
“The uniform water passes upwards and downwards in the course of days; clouds give joy to the earth; fires rejoice the heaven.”
Uniform, with the passing days, this water mounts and fails again.
The tempest-clouds give life to earth, and fires re-animate the heaven.
This water remains the same: it goes up and down throughout the days. Thunderstorms vivify the earth, and fires vivify heaven.
Dies allen gemeinsame Wasser steigt auf und kommt herab im Lauf der Tage; die Erde beleben die Regenwolken, den Himmel beleben die Feuer.
Dieses gleiche Wasser steigt im Lauf der Tage auf und kommt herab. Die Regengötter erquicken die Erde, die Feuer erquicken den Himmel.
Эта одна и таже вода
Движется вверх и вниз с течением дней.
Землю дожди оживляют.
Небо оживляют огни.
दि॒व्यं सु॑प॒र्णं वा॑य॒सं बृ॒हन्त॑म॒पां गर्भं॑ दर्श॒तमोष॑धीनाम् । अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पय॑न्तं॒ सर॑स्वन्त॒मव॑से जोहवीमि ॥
दि॒व्यम् । सु॒ऽप॒र्णम् । वा॒य॒सम् । बृ॒हन्त॑म् । अ॒पाम् । गर्भ॑म् । द॒र्श॒तम् । ओष॑धीनाम् । अ॒भी॒प॒तः । वृ॒ष्टिऽभिः॑ । त॒र्पय॑न्तम् । सर॑स्वन्तम् । अव॑से । जो॒ह॒वी॒मि॒ ॥
दिव्यं दिवि भवं सुपर्णं शोभनगमनं वायसं गमनशीलं बृहन्तं महान्तम् अपां गर्भं वृष्ट्युदकानां गर्भवदुत्पादकम् । ओषधीनाम् ओषधीः दर्शतं दर्शनाय । दर्शयन्तमित्यर्थः। यद्वा । ओषधीनां गर्भं दर्शतमिति पृथग्विशेषणम् । किंच अभीपतः आनुकूल्येन वृष्टिभिस्तर्पयन्तं जगत्प्रीणयन्तम् । यद्वा । अभीपतोऽभिगमनवतः सलिलाधारांस्तटाकादींस्तर्पयन्तम् अथवा अभिगन्ताहम् । सरस्वन्तम् उदकवन्तम् । सर इत्युदनाम । देवं सूर्यं वा अवसे रक्षणाय जोहवीमि पुनः पुनः आह्वयामि ॥ ॥ २३ ॥ ॥ २२ ॥
“I invoke for our protection the celestial, well-winged, swift-moving, majestic (Sun); who is the germ of the waters; the displayer of herbs; the cherisher of lakes replenishing the ponds with rain.”
The Bird Celestial, vast with noble pinion, the lovely germ of plants, the germ of waters,
Him who delighteth us with rain in season, Sarasvan I invoke that he may help us.
The heavenly well-feathered, lofty bird, child of the waters, and beautiful (child) of the plants,
the one bringing satisfaction by the rains from what is bounded by
waters: Sarasvant!—him do I call upon again and again for help.
The last collection of hymns in the first maṇḍala, I.165–191, is attributed to Agastya, who according to later tradition was the son of Mitra and Varuṇa and of the Apsaras Urvaśī. Several times in his hymns, however, Agastya refers to himself as Mānya, the son of Māna (e.g., I.165.14–15, 177.5, 184.4). The collection opens with hymns to the Maruts or to Indra and the Maruts (165–173) and hymns to Indra (174–178). Somewhat oddly placed after these is a hymn that takes the form of a dialogue between Agastya and his wife Lopāmudrā (179). Next are hymns to
the Aśvins (180–184), followed by a series of single hymns, first hymns to Heaven and Earth (185) and to the All Gods (186), then a praise of food (187), an Āprī hymn (188) and an Agni hymn (189), a hymn to Br̥haspati (190), and the concluding hymn of the first maṇḍala, a charm against poisonous animals (191). Like the col
lection of Dīrghatamas, the Agastya hymns thus form an unusual sequence. Also like the Dīrghatamas hymns, the Agastya hymns are stylistically creative, especially in his hymns to Indra and the Maruts. He uses puns and verbal play (e.g., 167), suppression of key words and ambiguous reference (171, 174), intricate simi les and unexpected turns of phrase (168, 169), syntactic innovation (168, 173, 174), and striking imagery (173, 176). This lively and difficult poetry marks Agastya as one of the great masters of the R̥gvedic tradition. He is best known for three hymns, 165, 170, and 171, which together describe how Indra and the Maruts argued over a sacrifice offered by Agastya and were finally reconciled with one another, and for his dialogue with Lopāmudrā (179), which turns on the tension between the ascetic ideal and the responsibility to continue the family lineage. But both the set of Indra and Marut hymns and the dialogue with Lopāmudrā also concern questions of ritual innovation that define Agastya not only as a great poet but also as a signifi cant figure in the development of Vedic ritual practice.
In all but six of his hymns Agastya concludes with his signature pāda vidyā́meṣáṃ vr̥jánaṃ jīrádānum “May we know refreshment and a community having lively waters.” Also 165–168 share the same final verse, as do 175 and 176, and 183 and 184.
Diesen himmlischen, schöngeflügelten Aar, den grossen Spross der Gewässer, den schönen [Spross] der Kräuter, der vom Wolkenraume aus durch Regen erquickt, den flutenreichen rufe ich zur Hülfe.
Den himmlische Adler, den großen Vogel, das gerngesehene Kind der Gewässer, der Pflanzen, der stracks durch Regen labt, den Sarasvat rufe ich zum Beistand an.
Небесного орла, птицу большую,
Отпрыска вод, приятного на вид, (отпрыска) растений,
Насыщающего дождем вдосталь –
Сарасвата я призываю на помощь.