कया॑ शु॒भा सव॑यस॒: सनी॑ळाः समा॒न्या म॒रुत॒: सं मि॑मिक्षुः । कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ॥
कया॑ । शु॒भा । सऽव॑यसः । सऽनी॑ळाः । स॒मा॒न्या । म॒रुतः॑ । सम् । मि॒मि॒क्षुः॒ । कया॑ । म॒ती । कुतः॑ । आऽइ॑तासः । ए॒ते । अर्च॑न्ति । शुष्म॑म् । वृष॑णः । व॒सु॒ऽया ॥
इन्द्रवाक्यम् । सवयसः समानवयस्काः सनीळाः समानस्थानाः एते मरुतः कया शुभा कैरपि दुर्ज्ञेयया शोभया समान्या सर्वेषामेकरूपया महत्या युक्ताः । यद्वा । शुबित्युदकनाम । उक्तरूपया शुभा उदकेन । सं मिमिक्षुः लोकं सम्यक् सिञ्चन्ति। मिहिसमानार्थः मिमिक्षतिधातुः ॥ यद्वा । मां युद्धादिषु प्रवर्तमानं सं मिमिक्षुः । तदर्थम् एते मरुतः कया अनिश्चेयया मती मत्या कुतः देशात् एतासः आगताः । आगत्य च एते वृषणः वर्षितारः वसूया वसूयया ॥ ‘सुपां सुलक्° ' इति पूर्वसवर्णदीर्घः ॥ धनेच्छया। यद्वा । वसवो वासयितारो वा ॥ तेनैव जसो याजादेशः ॥ शुष्मं बलं वृष्टिप्रदानजनितं लोके अर्चन्ति पूजयन्ति जगति कुर्वन्ति। यद्वा । मम बलं वर्धयन्तीत्यर्थः। ‘मरुतो हैनं नाजहुः ' ( ऐ. ब्रा. ३.२० ) इति श्रुतेः । अत्र इन्द्रमरुत्संवादरूपे सर्वत्र प्राणजीवात्मपरतयापि योजनीयम् । अत्रापि इन्द्रो ब्रूते ॥
“(Indra speaks): With what auspicious fortune have the Maruts, who are of one age, one residence, one dignity, watered (the earth) together; with what intention; whence have they come; showerers of rain, they venerate through desire of wealth, the energy (that is genitive rated in the world by rain).”
WITH what bright beauty are the Maruts jointly invested, peers in age, who dwell together?
From what place have they come? With what intention? Sing they their strength through love of wealth, these Heroes?
[Indra:] With what beauty have the Maruts—all of the same age, all of the same nest—joined altogether?
With what thought? From where have these antelopes come? With a desire for good things (these) bulls chant explosively.
Mit welchem Schmucke funkeln dort die Maruts in gleicher Pracht, an Alter gleich und Ursprung? Was ist ihr Plan? von wo sind sie gekommen? sie stürmen wild, die Helden, Gut begehrend.
Mit welchem Aufputz haben sich die altersgleichen, versippten Marut gemeinsam zusammengetan? Mit welcher Absicht, woher sind sie gekommen? Diese Bullen preisen den Kampfmut im Wunsch nach Schätzen.
Ради какого (выезда) для блеска собрались вместе
Маруты, одного возраста, из одного гнезда?
С каким намерением, откуда прибыли они?
Они поют воинственный гимн, (эти) быки, желая богатств.
Рассказчик:
कस्य॒ ब्रह्मा॑णि जुजुषु॒र्युवा॑न॒: को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त । श्ये॒नाँ इ॑व॒ ध्रज॑तो अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ॥
कस्य॑ । ब्रह्मा॑णि । जु॒जु॒षुः॒ । युवा॑नः । कः । अ॒ध्व॒रे । म॒रुतः॑ । आ । व॒व॒र्त॒ । श्ये॒नान्ऽइ॑व । ध्रज॑तः । अ॒न्तरि॑क्षे । केन॑ । म॒हा । मन॑सा । री॒र॒मा॒म॒ ॥
युवानः नित्यतरुणाः महानुभावाः मरुतः कस्य महाभागस्य ब्रह्माणि परिवृढानि हवींषि जुजुषुः सेवन्ते । कः च महान् अध्वरे स्वकीये यागे मरुतः एतान् आ ववर्त यागान्तरेभ्यो निवर्तयति । दुर्निग्रहत्वे दृष्टान्तमाह। अन्तरिक्षे ध्जतः गच्छतः श्येनान् शंसनीयगमनान एतन्नामकान् पक्षिणः इव। केन तत्प्रीतिसाधनेन महा महता मनसा मननवता स्तोत्रेण रीरमाम रमेमहि ॥
“Of whose oblations do the youthful (Maruts) approve; who attracts them to his (own) sacrifice (from the rites of others); with what powerful praise may we propitiate (them), wandering like kites in the mid-air?”
Whose prayers have they, the Youthful Ones, accepted? Who to his sacrifice hath turned the Maruts?
We will delay them on their journey sweeping--with what high spirit!--through the air like eagles.
In whose sacred formulations have the youths found delight? Who turned the Maruts here to the rite,
(thinking,) “By what great thought shall we bring them to rest, soaring like falcons in the midspace?”
An wessen Spruch erfreuten sich die Jungen? wer hat zum Opfer hergelenkt die Maruts? Sie, die wie Adler durch die Lüfte streichen, durch welches hohe Lied mag man sie fesseln?
An wessen feierlichen Reden haben die Jünglinge Wohlgefallen gefunden? Wer hat die Marut zu seinem Opfer gelenkt? Die gleich Adlern in der Luft dahinschießen, durch welchen hohen Gedanken bringen wir sie zum Stillstehen?
Чьими молитвами насладились юноши?
Кто направил Марутов к этому обряду?
Какой великой мыслью сможем мы остановить (их),
Мчащихся по воздуху, словно ястребы?
Маруты:
कुत॒स्त्वमि॑न्द्र॒ माहि॑न॒: सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था । सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ॥
कुतः॑ । त्वम् । इ॒न्द्र॒ । माहि॑नः । सन् । एकः॑ । या॒सि॒ । स॒त्ऽप॒ते॒ । किम् । ते॒ । इ॒त्था । सम् । पृ॒च्छ॒से॒ । स॒म्ऽअ॒रा॒णः । शु॒भा॒नैः । वो॒चेः । तत् । नः॒ । ह॒रि॒ऽवः॒ । यत् । ते॒ । अ॒स्मे इति॑ ॥
हे इन्द्र सत्पते सतां पालक त्वं माहिनः महनीयः पूजनीयः अनुचरैरनुगन्तव्य इत्यर्थः । तथाभूतः सन् अपि एकः असहायः सन् कुतः यासि कुतः कारणाद्यासि । यद्वा । कुत्र यासि । ते तव इत्था इत्थं किम् । किं त्वमेवमेव किं न कोऽप्यनुचरोऽस्ति । किंच त्वं समराणः अस्माभिः संगच्छमानः सं पृच्छसे समीचीनं पृच्छसि । हे हरिवः हरिभ्यां तद्वन्निन्द्र ते तव अस्मे अस्मासु यत् वक्तुमिष्टतममस्ति तत् नः अस्मभ्यं शुभानैः शोभमानैर्वचनैः वोचेः ब्रूहि ॥
“(The Maruts): Indra, lord of the good, whither do you, who are entitled to honour, proceed alone; what means this (absence of attendance); when followed (by us), you require (what is right); lord of fleet horses say to us, with plural asant words, that which you (have to say) to us.”
Whence comest thou alone, thou who art mighty, Indra, Lord of the Brave? What is thy purpose?
Thou greetest us when meeting us the Bright Ones. Lord of Bay Steeds, say what thou hast against us.
[Leader of the Maruts:] Why do you travel alone, Indra, although you are great, o lord of the settlements? Is this proper for you?
Confronting us, are you going to negotiate with us beautiful ones? You should tell us what you have for us, o master of the fallow bays.
»Warum, o Indra, sonst dich gross erweisend, fährst du allein, o Herr, was liegt im Sinn dir? Wenn du uns prächt'ge triffst, so plauderst gern du? so sprich, was hast du wider uns, o Rossherr?«
Woher kommst du, Indra, allein, der du doch ein Mächtiger bist, du rechtmäßiger Herr? Was hast du dabei für Absicht? Du willst mit uns paktieren, da du mit den Geputzten zusammengetroffen bist. Sag du uns das, o Falbenlenker, was du für uns hast.
Откуда ты, Индра? Хоть ты и могучий,
А идешь один, о господин сущего. Что ж это у тебя так?
Хочешь поговорить, встретившись с (нами,) разукрашенными,
Так скажи нам, о господин буланых коней: какое (дело) у тебя к нам?
Индра:
ब्रह्मा॑णि मे म॒तय॒: शं सु॒तास॒: शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रि॑: । आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ॥
ब्रह्मा॑णि । मे॒ । म॒तयः॑ । शम् । सु॒तासः॑ । शुष्मः॑ । इ॒य॒र्ति॒ । प्रऽभृ॑तः । मे॒ । अद्रिः॑ । आ । शा॒स॒ते॒ । प्रति॑ । ह॒र्य॒न्ति॒ । उ॒क्था । इ॒मा । हरी॒ इति॑ । व॒ह॒तः॒ । ता । नः॒ । अच्छ॑ ॥
अथैवं तैः पृष्टोऽनया चतुर्थ्या इन्द्रः प्रत्याह । हे मरुतः ब्रह्माणि सर्वाणि कर्माणि हवींषि वा मे मम स्वभूतानि । तथा मतयः चे मननयुक्ताः स्तुतयश्च मे मम शं सुखकार्याः। यद्वा । मे मतयो बुद्धयः तेष्वेव वर्तन्ते इति शेषः । तथा सुतासः अभिषुताः सोमाः मे मदीया मदर्था एव । अतो यज्ञं प्रति गन्तव्यमित्यर्थः। किंच मध्ये राक्षसादिबाधपरिहाराय शुष्मः । बलनामैतत् । बलवान् मे मदीयः अद्रिः शत्रूणां भक्षको वज्रः प्रभृतः सन् इयर्ति गच्छत्येव लक्ष्यं प्रति न च निवर्तते। न केवलं हविरादीनां मदीयत्वमेव अपि तु यजमानाः आ शासते मामेव प्रार्थयन्ते । किंच उक्था उक्थानि शस्त्राणि मां प्रति हर्यन्ति कामयन्ते मामेव शंसन्तीत्यर्थः । किंच नः अस्मदीयौ इमा हरी इमौ अश्वौ ता तानि गन्तव्यानि हविरादीनि अच्छ अभिप्राप्तुं मां वहतः अभिमतदेशं प्रापयतः । अत एव शीघ्रं गच्छामि । युष्माभिरपि तत्प्राप्तुं गन्तव्यमित्यर्थः । अतोऽसहाय इति मन्तव्यमिति भावः ॥
“ (Indra): Sacred rites are mine; (holy) praises give me plural asure; libations are for me; my vigorous thunderbolt, hurled (against my foes), goes (to its mark); me, do (pious worshippers) proptiate; hymns are addressed tome; these horses bear us to the presence (ofwhose worshippers, and worship).”
Mine are devotions, hymns; sweet are libations. Strength stirs, and hurled forth is my bolt of thunder.
They call for me, their lauds are longing for me. These my Bay Steeds bear me to these oblations.
[Indra:] The formulations, the thoughts, the pressed soma are good fortune for me. My explosive power rises; the pressing-stone is
brought forth to me.
The hymns hope for, receive me joyfully. These two fallow bays carry us here to them.
»Gebete, Lieder, Tränke, sie erfreun mich, Begier erwacht, der Pressstein ist geschirrt mir; Sie flehn, willkommen sind mir ihre Sprüche; und meine Füchse fahren uns zum Mahle.«
Mir sagen die feierlichen Reden, die Gedichte, die Somagetränke zu. Der Kampfmut regt sich; der Preßstein ist für mich aufgesetzt. Die Loblieder wünschen, erwarten mich. Dieses Falbenpaar fährt uns zu ihnen.
Молитвы, поэтические мысли, соки выжатого (сомы) мне на благо.
Воинственный пыл возбуждается. Мне приготовлен давильный камень.
Гимны ожидают (меня), стремятся (ко мне).
К ним нас везет эта пара буланых коней.
Маруты:
अतो॑ व॒यम॑न्त॒मेभि॑र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॒॑: शुम्भ॑मानाः । महो॑भि॒रेताँ॒ उप॑ युज्महे॒ न्विन्द्र॑ स्व॒धामनु॒ हि नो॑ ब॒भूथ॑ ॥
अतः॑ । व॒यम् । अ॒न्त॒मेभिः॑ । यु॒जा॒नाः । स्वऽक्ष॑त्रेभिः । त॒न्वः॑ । शुम्भ॑मानाः । महः॑ऽभिः । एता॑न् । उप॑ । यु॒ज्म॒हे॒ । नु । इन्द्र॑ । स्व॒धाम् । अनु॑ । हि । नः॒ । ब॒भूथ॑ ॥
एवमुक्ता मरुतः तमेवं ब्रुवते । हे इन्द्र त्वं यस्मात् एवं करोषि अतः कारणात् वयम् अपि अन्तमेभिः अन्तिकतमैः अश्वैः युजानाः युक्ताः सन्तः । कीदृशैः । स्वक्षत्रेभिः स्वायत्तबलैः। किंच महोभिः तेजोभिः तन्वः आत्मशरीराणि शुम्भमानाः दीपयन्तः हर्षं प्राप्नुवाना इत्यर्थः । यद्वा । महोभिः स्वमहत्त्वेन युक्ता वयम् एतान् गन्तून् नु क्षिप्रम् उप युज्महे तव साकं हविरादि स्वीकुर्महे इत्यर्थः। हे इन्द्र त्वमपि नः अस्मत्संबन्धि स्वधाम् उदकं बलं वा अनु बभूथ हि अस्मत्सृष्टोदकजन्यं हविः अनुभवसि खलु । हिशब्दः परस्परोपकार्योपकारिभावप्रसिद्धिद्योतनार्थः ॥ ॥ २४ ॥
“ (The Maruts): Therefore we also, decorating our person ns, are ready, with our docile and night-standing steeds, (to attend) you, with all our splendour, to those rites; verily, Indra, you appropriate our (sacrificial) food.”
Therefore together with our strong companions, having adorned our bodies, now we harness,
Our spotted deer with might, for thou, O Indra, hast learnt and understood our Godlike nature.
[Leader of the Maruts:] For this reason, yoking (our chariots) with nearer (horses) that guide themselves and making our bodies
beautiful,
we now yoke antelopes also (as our lead team) by our great powers, for you have experienced our independent will, Indra.
»So werden wir vereint mit unsern Freunden, den freien Männern, unsre Leiber schmückend, Mit grosser Pracht nun unsre Schecken scheeren; denn recht nach Wunsch bist, Indra, du erschienen.«
Aus diesem Grunde haben wir mit den selbstherrlichen Rossen als den nächsten Gespannen fahrend, unsere Leiber mit den Hoheitszeichen schmückend, die Antilopen noch dazugespannt. Du, Indra, hast dich ja in unsere Selbstständigkeit geschickt.
Поэтому мы, запрягающие (обычно) ближайших (коней),
У которых своя сила, (мы,) украшающие свои тела,
Для мощи запрягли вдобавок антилоп.
О Индра, ты ведь (всегда) считался с нашей природой!
Индра:
क्व१॒॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑ । अ॒हं ह्यु१॒॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ॥
क्व॑ । स्या । वः॒ । म॒रु॒तः॒ । स्व॒धा । आ॒सी॒त् । यत् । माम् । एक॑म् । स॒म्ऽअध॑त्त । अ॒हि॒ऽहत्ये॑ । अ॒हम् । हि । उ॒ग्रः । त॒वि॒षः । तुवि॑ष्मान् । विश्व॑स्य । शत्रोः॑ । अन॑मम् । व॒ध॒ऽस्नैः ॥
स्या सा स्वधा तदुदकं बलं वा वः युष्माकं संबन्धि क्व आसीत् नैवासीदित्यर्थः । अस्माकमुदकं त्वमनुभवसीति ब्रूथ। यत् या स्वधा एकम् असहायं माम् अहिहत्ये वृष्टयर्थं मेघहननकर्मणि वृत्रवधे वा समधत्त सहितमभूत् । समासीदिति संबन्धः । असहायस्य कथमिति मतं सेत्स्यतीति अतः आह । अहं हि अहं खलु उग्रः उद्गूर्णबलः तविषः बलवान् तुविष्मान् महत्त्वोपेतोऽस्मि । यस्मात् अतिबलोऽहं तस्मात् विश्वस्य कृत्स्नस्य शत्रोः मेघस्य । शत्रुरेवायम् ॥ कर्मणि षष्ठी ॥ सर्वं शत्रुसंघं वधस्नैः वधरूपैः शोधनैः वधकौशलैरित्यर्थः । यद्वा । वध इति वज्रनाम । वधस्नैर्वज्रस्यासनैः क्षेपणप्रकारैः । अनमम् अनमयम् । अन्तर्भावितण्यर्थोयम् ॥ वशीकरोमीत्यर्थः ॥
“(Indra): Where, Maruts, has that (sacrificial) food been assigned to you, which, for the destruction of Ahi was appropriated to me alone; for I indeed am fierce and strong, and mighty, and have bowed down all mine enemies with death-dealing shafts.”
Where was that nature then of yours, O Maruts, that ye charged me alone to slay the Dragon?
For I in truth am fierce and strong and mighty. I bent away from every foeman's weapons.
[Indra:] Where was this independent will of yours, Maruts, when you tasked me alone to smash the serpent?
For I, the powerful and mighty, possessed of might, humbled with my weapons those of every rival.
»Wo war, o Maruts, damals dies eur Wünschen, als ihr allein mich liesst im Drachenkampfe? Ich freilich, stark, gewaltig, vielvermögend schlug jeden Feind mit meinen Waffen nieder.«
Wo war denn diese eure Selbständigkeit, ihr Marut, als ihr mich im Drachenkampf allein ließet? Denn ich, der Gewaltige, Starke, Überlegene parierte jedes Feindes Waffen mit meinen Waffen.
Где же была та ваша природа, о Маруты,
Когда вы оставили меня одного (в борьбе) со змеем?
Ведь это я, грозный, сильный, могучий,
Сгибал (смертельное оружие) любого врага (своим) смертельным оружием.
Маруты:
भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः । भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेन्द्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म ॥
भूरि॑ । च॒क॒र्थ॒ । युज्ये॑भिः । अ॒स्मे इति॑ । स॒मा॒नेभिः॑ । वृ॒ष॒भ॒ । पौंस्ये॑भिः । भूरी॑णि । हि । कृ॒णवा॑म । श॒वि॒ष्ठ॒ । इन्द्र॑ । क्रत्वा॑ । म॒रु॒तः॒ । यत् । वशा॑म ॥
अथैवमुक्ताः इन्द्रं पुनराहुः । हे इन्द्र वृषभ वर्षितः त्वं भूरि चकर्थ प्रभूतं कृतवानसि सत्यमेव । तथापि अस्मे अस्माकं समानेभिः समानैः युज्येभिः अस्माभिर्युक्तैः पौंस्येभिः पुंसः कर्मभिः सामर्थ्यैरेव चकर्थ । न तु एक एवेत्यर्थः । हे शविष्ठ । शव इति बलनाम। हे इन्द्र बलवत्तम वयं भूरीणि हि त्वत्कृतादपि प्रभूतानि कर्माणि कृणवाम कृतवन्तः स्म । हे इन्द्र क्रत्वा क्रतुना कर्मणा यत् यद्वृष्ट्यादिकं वशाम कामयामहे । तानि त्वत्तोऽप्यधिकानीत्यर्थः । यतो वयं मरुतः ॥ छान्दसमनुदात्तत्वम् ॥ एतेन स्वमहत्त्वं स्थापितं भवति । स्वरो व्यस्तः । अथवा इन्द्रस्येदं वाक्यम् । हे मरुतः यत् यस्यैव तत् तस्यैव भवतु । तर्हि अहं च यूयं च सहैव क्रत्वा कर्मणा यद्वशाम यत् वृष्टिकर्मं कामयामहे तस्मादुदकं समानमेवेत्यर्थः । एवं मरुत इति निघातस्वरस्य व्याख्यानम् ॥
“(The Maruts): Showerer (of benefits), you have done much; but it has been without united equal energies; for we, too, most powerful Indra, have done many things, and by our deeds (we are, as) we desire to be, Maruts.”
Yea, much hast thou achieved with us for comrades, with manly valour like thine own, thou Hero.
Much may we too achieve, O mightiest Indra, with our great power, we Maruts, when we will it.
[Leader of the Maruts:] You did many things when we were there, with our united manly powers (ready) to be deployed, o bull;
we shall do many things in accordance with your purpose, o most
powerful Indra, when we, o fellow Maruts, shall wish it.
»Gar viel hast du vollbracht mit uns verbündet o starker, mit vereinten Heldenkräften, Und vieles werden wir, o Indra, wirken mit Kraft, o stärkster, wenn wir Maruts wollen.«
Vieles hast du mit uns als Verbündeten, mit vereinten Kräften, du Bulle, getan. Vieles werden wir drum noch tun, du gewaltigster Indra, wenn wir ernstlich wollen, ihr Marut.
Ты многое совершил вместе с нами как с союзниками,
Общими (для нас) силами мужества, о бык.
Много чего мы еще совершим, о могущественнейший
Индра, если мы пожелаем (этого нашей) силой духа, о Маруты,
Индра:
वधीं॑ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥
वधी॑म् । वृ॒त्रम् । म॒रु॒तः॒ । इ॒न्द्रि॒येण॑ । स्वेन॑ । भामे॑न । त॒वि॒षः । ब॒भू॒वान् । अ॒हम् । ए॒ताः । मन॑वे । वि॒श्वऽच॑न्द्राः । सु॒ऽगाः । अ॒पः । च॒क॒र॒ । वज्र॑ऽबाहुः ॥
इदानीम् इन्द्रः आह । हे मरुतः अहम् इन्द्रः इन्द्रियेण स्वेन भामेन कोपेन तविषः बलवान् बभूवान् भूतः संपन्नः । कस्मै कमिति तदुच्यते । मनवे मनोरर्थाय एताः विश्वश्चन्द्राः सर्वाह्लादकाः सुगाः सुगमनाः सर्वत्र नद्यादिषु गमनशीलाः अपः वृष्ट्युदकानि चकर चकार कृतवानस्मि । यतोऽहं वज्रबाहुः । अनेन सहायनैरपेक्ष्यमुक्तं भवति ॥
“(Indra): By my own prowess, Maruts, I, mighty in my wrath, slew Vṛtra; armed with my thunderbolt, I created all these pellucid genitive ly-flowing waters for (the good of) man.”
Vrtra I slew by mine own strength, O Maruts, having waxed mighty in mine indignation.
I with the thunder in my hand created for man these lucid softly flowing waters.
[Indra:] O Maruts, I smashed Vr̥tra with my Indrian strength, having become mighty through my own rage.
Bearing my mace in my arms, I made these all-gleaming waters go easily to Manu.
»Den Vritra schlug mit Indrakraft ich, Maruts, durch eignen Grimm bin ich so stark geworden; Ich war's, der den allglänzenden Gewässern, den Blitz im Arm, zum Menschen freie Bahn brach.«
Ich erschlug den Vritra, ihr Marut, mit der Indrakraft, durch meinen eigenen Grimm stark geworden. Ich habe diese allschimmernden Gewässer für Manu wegsam gemacht mit der Keule im Arm.
Я убил Вритру, о Маруты, благодаря мощи Индры,
Став сильным от своей ярости.
Я сделал для человека эти всюду сверкающие
Воды текущими по хорошим путям, (я) с ваджрой в руке.
Маруты:
अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः । न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥
अनु॑त्तम् । आ । ते॒ । म॒घ॒व॒न् । नकिः॑ । नु । न । त्वाऽवा॑न् । अ॒स्ति॒ । दे॒वता॑ । विदा॑नः । न । जाय॑मानः । नश॑ते । न । जा॒तः । यानि॑ । क॒रि॒ष्या । कृ॒णु॒हि । प्र॒ऽवृ॒द्धः॒ ॥
इदानीं ते मरुतो हर्षेण प्रत्याहुः । ॥ आ इति स्मरणे । स्मृतवन्तो वयम् इदानीं हे मघवन् ते त्वया अनुत्तम् अप्रेरितं नकिर्नु नैवास्ति । नु निश्चये । त्वया यदुक्तं तत्सत्यमित्यर्थः । हे देव त्वावान् त्वत्सदृशः विदानः विद्वान् ॥ व्यत्ययेन शानच् ॥ जयोपायवेदिता देवता देवः न अस्ति । किंच हे प्रवृद्ध अतिबल जायमानः जातः वा कश्चिद्देवो मर्त्यो वा त्वं यानि वृत्रवधादीनि करिष्या कर्तव्यानि कृणुहि कुरुषे तानि न नशते न व्याप्नोति । नशतिर्व्याप्तिकर्मा । नान्यः त्वच्चेष्टितानुकार्येवेत्यर्थः ॥
“(The Maruts): Verily, Maghvan, nothing (done) by you is unavailing; there is no divinity as wise as you; no one being born, or that has been born, ever surpasses the glorious deeds which you, mighty (Indra), have achieved.”
Nothing, O Maghavan, stands firm before thee; among the Gods not one is found
thine equal.
None born or springing into life comes nigh thee. Do what thou hast to do, exceeding mighty?
[Leader of the Maruts:] This is conceded to you, generous one: There is no one like you known among the gods.
Neither one who is born nor one who was born will attain you. What *you will do, do!—o you who are grown fully strong.
»Nichts ist fürwahr, o Held, dir unbezwinglich, dir gleich gibt's keinen unter allen Göttern, Kein lebender, kein früherer erreicht dich, so thu, o starker, was zu thun du vorhast.«
An die dir zugestandene Macht, o Gabenschenker, reicht keiner je heran - nicht ist einer, der dir gliche, unter den Göttern bekannt - weder einer, der noch geboren wird, noch ein Geborener. Was du vorhast, das tu, du Erstarkter!
Никогда твоя (власть) не склонялась (ни перед кем), о щедрый.
Нет равного тебе, не известно (такого) среди богов!
Ни (тот,) кто рождается, ни (тот,) кто родился, не достигнет (твоего могущества)!
Соверши (подвиги,) которые ты должен совершить, о возросший (силой)!
Индра:
एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा । अ॒हं ह्यु१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी॑श एषाम् ॥
एक॑स्य । चि॒त् । मे॒ । वि॒ऽभु । अ॒स्तु॒ । ओजः॑ । या । नु । द॒धृ॒ष्वान् । कृ॒णवै॑ । म॒नी॒षा । अ॒हम् । हि । उ॒ग्रः । म॒रु॒तः॒ । विदा॑नः । यानि॑ । च्यव॑म् । इन्द्रः॑ । इत् । ई॒शे॒ । ए॒षा॒म् ॥
इदानीम् इन्द्र आह। मे मम एकस्य चित् एकस्यैव विभु सर्वत्रगमनशीलम् ओजः बलम् अस्तु । यद्वा । बलम् एकस्यैवास्तु किमर्थमिति चेत् उच्यते । या यानि कर्माणि मनीषा मनीषया मनसः ईषया दधृष्वान् धर्षितवानहं नु क्षिप्रं कृणवै कर्तुं शक्नुवानि । हे मरुतः अहं हि अहं खलु उग्रः उद्गूर्णबलः विदानः वेदनावान् । यानि यानि वसूनि च्यवं अवगच्छामि एषाम् अहमेव इन्द्र इत् ईश्वर एव सन् ईशे ईश्वरो भवामि । अथवा विदानोऽहं यानि च्यवं यान्युद्दिश्य गच्छेयं एषामीशे । यतोऽहमिन्द्रः अतः शक्त इत्यर्थः ॥ ॥ २५ ॥
“(Indra): May the prowes of me alone be irresistible; may I quickly accomplish whatever I contemplate in my mind; for verily, Maruts, I am fierce and sagacious and to whatever (objects) I direct (my thoughts), of them I am the lord, and rule (over them).”
Mine only be transcendent power, whatever I, daring in my spirit, may accomplish.
For I am known as terrible, O Maruts I, Indra, am the Lord of what I ruined.
[Indra:] Even if I am alone, let my force be far ranging (to do) what in my daring I shall now do according to my inspired thinking,
for I am known as the powerful one, Maruts. What things I shall set in motion, just I, Indra, am master of these.
»So muss denn mir allein die höchste Kraft sein; was ich begonnen, führ' ich aus mit Weisheit; Denn mich, o Maruts, kennt man als den starken; was ich ergreife, Indra, der bemeistert's.
Auch wenn ich allein bin, muß meine Stärke genügend sein, was ich auch jemals wagend mit Bedacht vollführen mag, denn ich bin als der Gewaltige bekannt, ihr Marut. Was ich ins Werk setzte, das bemeistert Indra.
Даже когда я один, да будет моя сила огромна!
На что дерзаю, я совершу обдуманно!
Ведь я, о Маруты, известен как грозный.
Те (дела,) что я привожу в движение, – только Индра властен над ними!
Индра:
अम॑न्दन्मा मरुत॒: स्तोमो॒ अत्र॒ यन्मे॑ नर॒: श्रुत्यं॒ ब्रह्म॑ च॒क्र । इन्द्रा॑य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा॑यस्त॒न्वे॑ त॒नूभि॑: ॥
अम॑न्दत् । मा॒ । म॒रु॒तः॒ । स्तोमः॑ । अत्र॑ । यत् । मे॒ । न॒रः॒ । श्रुत्य॑म् । ब्रह्म॑ । च॒क्र । इन्द्रा॑य । वृष्णे॑ । सुऽम॑खाय । मह्य॑म् । सख्ये॑ । सखा॑यः । त॒न्वे॑ । त॒नूभिः॑ ॥
इदमपि इन्द्रवाक्यम् । हे मरुतः मा माम् अत्र अस्मिन् उदकोत्पादनविषये स्तोमः स्तोत्रम् अमन्दत् मादयति मोदयते वा । हे नरः सखायः यूयं मे मम यत् श्रुत्यं सर्वैः श्रोतव्यं ब्रह्म परिवृढमेघधारणादिरूपं चक्र कृतवन्तः। ‘स्वप्रभूतं स्तोत्रं वानुत्तमा ते' इत्यादिकम् । इन्द्राय परमैश्वर्यगुणकाय वृष्णे अभिसतवर्षित्रे सुमखाय शोभनयागाय सख्ये युष्माभिः समानख्यानाय तनूभिः अनेकशरीरैरुपेताय मह्यं मम तन्वे मदीयशरीरपोषाय भवतु । यद्वा । तनूभिरस्मच्छरीरभूतैर्युष्माभिः कृतं मह्यमेवास्त्वित्यर्थः ॥
“Maruts, on this occasion praise delights me; that prise which is to be heard (by all), which men have offered me. To Indra, the showerer (of benefits), the object of pious sacrifice; to me, (endowed) with many forms (do you) my friends (offer sacrifices) for (the nourishment of my) person n.”
Now, O ye Maruts, hath your praise rejoiced me, the glorious hymn which ye have made me, Heroes!
For me, for Indra, champion strong in battle, for me, yourselves, as lovers for a lover.
The praise song here has exhilarated me, o Maruts, the formulation worthy to be heard that you created for me, o men—
for me, (who am) Indra, the bull and strong combatant—for (me), your companion as my companions, for me myself by you yourselves.
Mich hat erfreut, o Maruts, euer Rühmen, das schöne Wort, das, Männer, ihr gesprochen, Dem Indra mir, dem kampfgeübten Helden, dem Freund die Freunde mir aus eignem Antrieb.
Begeistert hat mich dabei euer Lob, ihr Marut, die Erbauung, die ihr Herren mir bereitet habt, wert zu hören, mir dem Indra, dem Bullen, dem Freigebigen, dem Freund die Freunde in eigener Person meiner Person.
О Маруты, меня здесь вдохновила ваша хвала,
Молитва, достойная слушания, которую вы мне сотворили, о мужи,
Индре-быку, прекрасному бойцу, мне,
(Вашему) Другу, (вы – мои) друзья, мне самому – (молитва, сложенная) вами самими.
Индра:
ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने॑द्य॒: श्रव॒ एषो॒ दधा॑नाः । सं॒चक्ष्या॑ मरुतश्च॒न्द्रव॑र्णा॒ अच्छा॑न्त मे छ॒दया॑था च नू॒नम् ॥
ए॒व । इत् । ए॒ते । प्रति॑ । मा॒ । रोच॑मानाः । अने॑द्यः । श्रवः॑ । आ । इषः॑ । दधा॑नाः । स॒म्ऽचक्ष्य॑ । म॒रु॒तः॒ । च॒न्द्रऽव॑र्णाः । अच्छा॑न्त । मे॒ । छ॒दया॑थ । च॒ । नू॒नन्म् ॥
हे मरुतः एवेत् एवमेव एते यूयं मा मां प्रति रोचमानाः मद्विषये संप्रीयमाणा मां ख्यापयन्तो वा अनेद्यः अनन्तिकस्थं श्रवः कीर्तिम् इषः च दधानाः । आ इति चार्थे । यद्वा । अनेद्य इति प्रशस्यनाम । प्रशस्यं यशोऽस्मत्तो दधाना अस्माभिर्वा धारयमाणाः । चन्द्रवर्णाः ॥ चन्द्रमिति हिरण्यनाम । सुवर्णवर्णा यूयं मे मां संचक्ष्य सम्यक्प्रकाश्य नूनं निश्चयम् अच्छान्त यशोभिराच्छादितवन्तः छदयाथ आच्छादयथ च । मां प्रति सर्वदा रोचमाना मय्येव कीर्तिमन्नं च दधाना मत्कृतैः कर्मभिर्मामेव स्तुतेत्यर्थः ॥
“Maruts, verily, glorifying me, and enjoying boundless fame and food (through my favour), edo you, of golden colour, and invested with glory, cover me in requital verily, (with renown).”
Here, truly, they send forth their sheen to meet me, wearing their blameless glory and their vigour.
When I have seen you, Maruts, in gay splendour, ye have delighted me, so now delight me.
It is just so: Reflecting me here and receiving fame and refreshments as my irreproachable (warrior band),
you, who are to be seen all around with your shimmering colors, have pleased me, and you will please me now, o Maruts.
So wie ihr seid hier, mir entgegenstrahlend, mit hohem Ruhm und Kraft begabt, untadlig, Wenn ich euch seh', o Maruts, hellerglänzend, gefielt ihr mir, gefallet ihr mir jetzt auch.«
Diese, die mir also entgegenstrahlen, die untadelige Schar, die sich Ruhm und Speisegenüsse zulegen - ihr Marut, goldfarbig aussehend habt mit jetzt gefallen und sollt mir auch zukünftig gefallen.
Эти (Маруты,) так сверкающие мне навстречу,
Безупречная (толпа), добывающая себе славу и жертвенные подкрепления, –
О Маруты золотистого цвета, рассмотрев (вас, могу сказать:)
Вы мне понравились и будете нравиться впредь!
Рассказчик:
को न्वत्र॑ मरुतो मामहे व॒: प्र या॑तन॒ सखीँ॒रच्छा॑ सखायः । मन्मा॑नि चित्रा अपिवा॒तय॑न्त ए॒षां भू॑त॒ नवे॑दा म ऋ॒ताना॑म् ॥
कः । नु । अत्र॑ । म॒रु॒तः॒ । म॒म॒हे॒ । वः॒ । प्र । या॒त॒न॒ । सखी॒न् । अच्छ॑ । स॒खा॒यः॒ । मन्मा॑नि । चि॒त्राः॒ । अ॒पि॒ऽवा॒तय॑न्तः । ए॒षाम् । भू॒त॒ । नवे॑दाः । मे॒ । ऋ॒ताना॑म् ॥
हे मरुतः युष्मान् अत्र लोके को नु खलु मर्त्यः ममहे पूजयति । हे सखायः सर्वस्य सखिवत्प्रियकारिणः सन्तः सखीन् हविष्प्रदानेन सखिभूतान् यजमानान् अच्छ आभिमुख्येन प्राप्तुं प्र यातन गच्छत । हे चित्राः चायनीयाः यूयं मन्मानि मननीयानि धनानि अपिवातयन्तः संपूर्णं प्रापयन्तः भूत भवत । किंच मे मदीयानाम् एषाम् ऋतानाम् अवितथानां नवेदाः भूत ज्ञातारो भवत ॥
“(Agastya): What mortal, Maruts, worships you in this world; hasten, friends, to the presence of your friends; wonderful (divinities), be to them the means of acquiring riches, and be not uncognizant of my merits.”
Who here hath magnified you, O ye Maruts? speed forward, O ye lovers, to your lovers.
Ye Radiant Ones, assisting their devotions, of these my holy rites he ye regardful.
[Narrator:] Now who has given liberally to you here, Maruts? Journey forth to your companions here, o companions!
Knowing our thoughts intimately, o you shimmering ones, be aware of these, my truths.
Wer ist's, der euch, o Maruts, jetzt verherrlicht? o kommt doch her, ihr Freunde, zu den Freunden, O glänzende, belebend unsre Andacht und werdet Zeugen meiner frommen Werke.
Wer feiert euch wohl hier, o Marut? Fahret zu den Freunden, ihr Freunde! Wecket die Gedanken, ihr Prächtigen: Nehmet diese meine rechten Worte wahr!
Кто же вас возвеличил здесь, о Маруты?
Отправляйтесь к друзьям, о друзья!
Раздувая поэтические мысли, о блистательные,
Будьте внимательны к нашим праведным словам!
Рассказчик:
आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा । ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत् ॥
आ । यत् । दु॒व॒स्यात् । दु॒वसे॑ । न । का॒रुः । अ॒स्मान् । च॒क्रे । मा॒न्यस्य॑ । मे॒धा । ओ इति॑ । सु । व॒र्त्त॒ । म॒रु॒तः॒ । विप्र॑म् । अच्छ॑ । इ॒मा । ब्रह्मा॑णि । ज॒रि॒ता । वः॒ । अ॒र्च॒त् ॥
हे मरुतः दुवस्यात् युष्मत्परिचरणार्हात् स्तोत्रात् तेन स्तोत्रेण दुवसे परिचरणाय पर्याप्ता कारुः कर्त्री स्तुतिकुशला मान्यस्य माननीयस्य विदुषः मेधा बुद्धिः अस्मान् । न इति संप्रत्यर्थे । इदानींतनान् आ चक्रे आभिमुख्येन करोति प्राप्नोतीत्यर्थः । यद्वा । षष्ठीबहुवचने' इदं रूपम् । दुवस्यानां परिचरणार्हाणां दुवसे परिचरणायेत्यर्थः । अतो हे मरुतः यूयं विप्रं मेधाविनं यजमानं माम् अगस्त्यम् अच्छ आभिमुख्येन प्राप्तुं सु सुष्टु ओ वर्त्त । ओ इति निपातद्वयसमुदायरूपः एको निपातः । आङित्याभिमुख्येन। उकारोऽवधारणे । आवर्तध्वमेव । किमर्थमेवमिति उच्यते । इमा ब्रह्माणि इमानि परिवृढानि कर्माण्युद्दिश्य जरिता स्तोता वः युष्मान् अर्चत् अर्चति । यस्मादेवं तस्मादावर्तध्वमित्यर्थः । ।
“Since the experienced intellect of a venerable (sage), competent to bestow praise upon (you), who deserve praise, has been exerted for us; do you, Maruts, come to the presence of the devout (worshipper), who, glorifying (you), worships you with these holy rites.”
To this hath Manya's wisdom brought us, so as to aid, as aids the poet him who worships.
Bring hither quick! On to the sage, ye Maruts! These prayers for you the singer hath recited.
[Indra:] Since the praise poet will here offer friendship (to you) as if to his friend, (and since) the wisdom of the son of Māna [=Agastya]
has brought us here,
turn here to the inspired poet, o Maruts. The singer chants these
formulations for you.
Wenn wie zur Spende euch der Dichter herlockt, und der Gesang des weisen uns herbeizog, So wendet bald euch, Maruts, her zum Beter, für euch ja sang der Sänger diese Sprüche.
Da wie die Zuneigung zu einem Günstling der Dichter, die Sehergabe des Manya uns hergeführt hat, so kehret, o Marut, fein bei dem Redekundigen ein! Diese erbaulichen Worte soll der Dichter für euch anstimmen.
Раз мудрость Маньи привела нас (сюда),
Подобно тому, как певец из стремления к подаркам (тянется) к дарителю,
Повернитесь как следует, Маруты, к поэту!
Эти молитвы певец исполняет для вас.
Рассказчик:
ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः । आ । इ॒षा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
हे मरुतः एषः स्तोमः इदानींक्रियमाणप्रकारं स्तोत्रं वः युष्मदर्थं युष्मत्प्रीणनाय भवत्वित्यर्थः । तथा इयं गीः स्तुतिरूपा वागपि वो युष्मदर्थाय । यस्मात् एवं तस्मात् मान्दार्यस्य स्तुतिविशेषैर्मन्दयितुः स्तुतिभिर्मदस्य प्रेरयितुर्वा मान्यस्य वरप्रदानादिना माननीयस्य कारोः स्तोतुः इषा इच्छया आ यासीष्ट आगच्छत । किमर्थम् । तन्वे शरीराय तत्पोषायेत्यर्थः। वयां वयमपि इषम् अन्नं वृजनं बलं जीरदानुं जयशीलदानम् एतत्सर्वं विद्याम । युष्मास्वागतेषु यज्ञसंपूर्त्येष्ट्यादिद्वारा लभेमहि ॥ ॥ २६ ॥
“This praise, Maruts, is for you; this hymn is for you, (the work) of a venerable author, capable of conferring delight (by his laudations). May the praise reach you, for (the good of your) person ns, so that we may (thence) obtain food, strength, and long life.”
May this your praise, may this your song, O Maruts, sung by the poet, Mana's son, Mandarya,
Bring offspring for ourselves with food to feed us. May we find strengthening food in full abundance!
[Narrator:] This is your praise song, Maruts—this song of the praise poet Māndārya, son of Māna.
With his refreshing offering he would beg *reconciliation (with you) for himself. – May we know refreshment and a community having lively waters.
Euch, Maruts, gilt dies Lied des Manasohnes, das Lob des Dichters von dem Stamm Mandāra's, Mit Labung kommt herbei zu eigner Stärkung gebt Labung uns und wasserreiche Fluren.
Dies Preislied, diese Lobrede des Dichters Mandarya, des Maniden, ist für euch, Marut. Er möchte durch Nahrungsfülle für seine Person zu Nachwuchs gelangen. - Wir möchten einen gastfreien Opferbündler kennen lernen, der rasch schenkt.
Вот восхваление для вас, о Маруты, вот песня
Певца Мандарьи Маньи.
Вместе с жертвенным подкреплением пусть принесет она нам потомство!
Мы хотим найти щедрую общину, легко дарящую!