स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः । स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजा॑: ॥
स॒हस्र॑म् । ते॒ । इ॒न्द्र॒ । ऊ॒तयः॑ । नः॒ । स॒हस्र॑म् । इषः॑ । ह॒रि॒ऽवः॒ । गू॒र्तऽत॑माः । स॒हस्र॑म् । रायः॑ । मा॒द॒यध्यै॑ । स॒ह॒स्रिणः॑ । उप॑ । नः॒ । य॒न्तु॒ । वाजाः॑ ॥
हे इन्द्र ते तव ऊतयः रक्षाप्रकाराः सहस्रम् । अपरिमिता इत्यर्थः । नः अस्मभ्यम् उप यन्तु इति सर्वत्र योज्यम् । तथा हे हरिवः । हरी इन्द्रस्याश्वौ । ताभ्यां तद्वन्निन्द्र गूर्ततमाः अत्यन्तं गूर्णानि इषः एषणीयाः अन्नानि सहस्रं बहूनि त्वदीयानि । तथा सहस्रं रायः अपरिमितानि धनानि मणिमुक्तादीनि मादयध्यै अस्मान् मादयितुं यानि सन्ति तानि अस्मान् उप यन्तु । तथा सहस्रिणः वाजाः गमनवन्तश्चतुष्पाद्रूपाः पशवोऽपि नः अस्मान् उप यन्तु समीपं प्राप्नुवन्तु ॥
“May your thousand benefits, Indra, come to us; may a thousand kinds of abundant food come to us, lord of horses; may a thousand (sorts of wealth) come to exhilarate us; may thousands of horses be ours.”
A THOUSAND are thy helps for us, O Indra: a thousand, Lord of Bays, thy choice refreshments.
Wealth of a thousand sorts hast thou to cheer us: may precious goods come nigh to us in thousands.
A thousand are your forms of help to us, o Indra, a thousand your most welcomed refreshments, o possessor of the fallow bays,
a thousand your riches, to exhilarate us. Let your thousandfold prizes come near to us.
Zu tausenden sind Indra deine Hülfen und sehr willkommnen Labungen, o Rossherr, Zu tausenden die Gaben uns zur Freude, und tausend Kräfte mögen in uns eingehn.
Du hast, o Indra, tausend Hilfen für uns, tausend sehr willkommene Labsale, du Falbenlenker. Tausend Reichtümer, tausendfältige Gewinne sollen uns zukommen, um uns zu erfreuen!
Тысяча поддержек у тебя для нас, о Индра,
Тысяча самых желанных услад, о повелитель буланых коней.
Тысяча богатств пусть будет (нам) на радость,
Тысячные награды пусть придут к нам!
आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः । अध॒ यदे॑षां नि॒युत॑: पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥
आ । नः॒ । अवः॑ऽभिः । म॒रुतः॑ । या॒न्तु॒ । अच्छ॑ । ज्येष्ठे॑भिः । वा॒ । बृ॒हत्ऽदि॑वैः । सु॒ऽमा॒याः । अध॑ । यत् । ए॒षा॒म् । नि॒ऽयुतः॑ । प॒र॒माः । स॒मु॒द्रस्य॑ । चि॒त् । ध॒नय॑न्त । पा॒रे ॥
ते मरुतः अवोभिः रक्षणैः सहिताः नः अस्मान अच्छ अभिमुख्येन आ यान्तु आगच्छन्तु । सुमायाः । मायेति प्रज्ञानाम । शोभनप्रज्ञा एव मरुतः ज्येष्ठेभिः बृहद्दिवैः वा ज्येष्ठैः प्रशस्यतमैः मणिमुक्तादिधनैश्च सहिता आ यान्तु । वाशब्दः समुच्चये। आगमने कथमेषां सामर्थ्यमिति अत आह । अध अथ एषां मरुतां यत् यस्मात् नियुतः एतन्नामकाः परमाः उत्कृष्टा अश्वाः समुद्रस्य चित् । चिच्छब्दोऽप्यर्थे । समुद्रस्यापि पारे परस्मिंस्तीरे धनयन्त धनधारणं वहनं कुर्वन्ति । तस्मात् रक्षणैर्धनैश्चायान्त्वित्यर्थः ॥
“May the Maruts come to our presence with benefaction; may they who are possessed of knowledge (come) with most excellent and brilliant (treasures), since their glorious horses, the Niyutas, gather wealth even on the farther shore of the sea.”
May the most sapient Maruts, with protection, with best boons brought from lofty heaven, approach us,
Now when their team of the most noble horses speeds even on the sea's extremest limit.
Let the Maruts, masters of artifice, drive hither to us with their help, or with their preeminent, heaven-lofty (riches?),
even when they, while furthest away, are running their teams on the far shore of the sea—
Mit Hülfen mögen uns die Maruts nahen, mit himmlischen, vorzüglichsten, die weisen; Selbst dann, wenn ihre herrlichen Gespanne auch an des Meeres fernstem Ufer laufen.
Die Marut sollen mit ihren Hilfen zu uns kommen oder mit den höchsten, vom Himmel stammenden, die Verwandlungskünstler, auch wenn ihre entferntesten Gespanne noch am anderen Ufer des Meeres laufen.
Пусть придут к нам Маруты со (своими) поддержками,
В том числе с лучшими, происходящими с высокого неба, (они) с прекрасной силой превращений,
Даже если их дальние упряжки
Бегут еще по ту сторону океана!
मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः । गुहा॒ चर॑न्ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥
मि॒म्यक्ष॑ । येषु॑ । सुऽधि॑ता । घृ॒ताची॑ । हिर॑ण्यऽनिर्निक् । उप॑रा । न । ऋ॒ष्टिः । गुहा॑ । चर॑न्ती । मनु॑षः । न । योषा॑ । स॒भाऽव॑ती । वि॒द॒थ्या॑ऽइव । सम् । वाक् ॥
सुधिता सुष्ठु निहिता सुष्ठु हिता वा लोके घृताची घृतं क्षरणशीलमुदकमञ्चन्ती हिरण्यनिर्णिक् हितरमणीयरूपा । निर्णिगिति रूपनाम । एवंरूपा ऋष्टिः विद्युदाख्यायुधविशेषो वा उपरा न मेघमालेव येषु मरुत्सु सं मिम्यक्ष। म्यक्षतिर्गतिकर्मा। संगताभूत् । मेघपङ्क्तिविद्युतौ इमे अपि संगते इत्यर्थः । मेघपङ्क्तिर्विद्युच्चोभे दृष्टान्तेन विशेष्येते । गुहा निगूढा गुहायां वा अन्तरिक्षे चरन्ती। तत्र दृष्टान्तः । मनुषो न योषा मनुष्यस्य परिवृढादेर्महिषीवत् । सा यथा सुवेषा अन्तःपुरे एव मध्ये चरति तद्वत् । किं सर्वदैवमिति नेत्याह । सभावती । सभा जनसंघः। तद्वती। वर्षकाले आविर्भवन्तीत्यर्थः । तत्र दृष्टान्तः। विदथ्या वाक् इव । विदथो यज्ञ: । तदर्हतीति विदथ्यो प्रैषस्तोत्रादिरूपा वाक् । सा यथा यज्ञसभां प्राप्याविर्भवति तद्वत् । यद्वा । विदथ्या वेदनार्हा विवदमानयोर्वाक् । सा यथा सभावती तद्वत् । सैवंरूपा येषु मिम्यक्ष ते मरुतो देवयजनमागच्छन्त्वियर्थः ।
“In whom the water-shedding, golden-coloured lighting, is fitly deposited like a chaplet (of clouds) moving in the firmament like the (splendidly-attired) wife of a man (of rank), and distinguished in assemblies like a sacrificial hymn.”
Close to them clings one moving in seclusion, like a man's wife, like a spear carried rearward,
Well grasped, bright, decked with gold there is Vak also, like to a courtly, eloquent dame, among them.
(The Maruts), to whom (Rodasī) has been joined, positioned well, up close to them like their own spear—she ghee-rich, garbed in gold,
roving in secret, like a young woman going to men when she’s bound for the public hall [/provided with a public forum] like ceremonial speech.
Bei denen glänzt der schöngeführte Löffel gleichwie der Griff des goldgeschmückten Schwertes, Der Buhle gleich, die heimlich kommt zum Manne, und gleich dem Wort in festlicher Versammlung,
An die sich angeschlossen hat wohlaufgenommen die in Schmalz wandelnde Rodasi, in Gold gekleidet wie der hintere Teil des Speers, heimlich mitkommend wie eines Menschen Weib, von einem Zuhörerkreis umgeben wie die gelehrte Rede.
(Маруты,) к которым примкнула (Родаси), хорошо помещенная, (вся) в расплавленном масле,
В золотом наряде, словно близкое копье,
Словно жена человека, тайно идущая (с другим)...
Словно обращенная к собранию священная речь, (она) со(единяет всех).
परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः । न रो॑द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥
परा॑ । शु॒भ्राः । अ॒यासः॑ । य॒व्या । सा॒धा॒र॒ण्याऽइ॑व । म॒रुतो॑ । मि॒मि॒क्षुः॒ । न । रो॒द॒सी इति॑ । अप॑ । नु॒द॒न्त॒ । घो॒राः । जु॒षन्त॑ । वृध॑म् । स॒ख्याय॑ । दे॒वाः ॥
शुभ्राः शोभनालंकाराः अयासः अभिगन्तारः मरुतः यव्या मिश्रणशीलया विद्युता परा मिमिक्षुः । प्रकर्षेण सिञ्चन्त्युदकसंस्त्यायम् । साधारण्येव । यथा लोके साधारण्या स्त्रिया संगता युवानो रेतो मुञ्चन्ति तद्वत् । एवं कुर्वन्तः घोराः अतिवृष्टिप्रदानेन भयंकरास्ते रोदसी द्यावापृथिव्यौ न अप नुदन्त । अपनोदनं वर्षणरूपं तिरस्कारं न कुर्वन्ति । द्यावापृथिवीवचनो रोदसीशब्दः
सर्वत्राद्युदात्तः । अत्र तु व्यत्ययेनान्तोदात्तत्वमिति द्रष्टव्यम् । यद्वा । रोदसा शब्देन रोदनस्वभावो रुद्रः । तस्य स्त्री रोदसीति केचिदाहुः । अपरे तु मरुतां स्त्रियो रोदसीति नामधेयमित्याहुः । अयमेव पक्षो युक्त उत्तरत्रैवं व्यवहारात् । तत्पक्षे रोदसी रोदस्याम् ॥ ङीषन्तात् सप्तम्या ईंकारो लुक् वा । ‘ईदूतौ च सप्तम्यर्थे ' इति प्रगृह्यसंज्ञा । तस्यां प्रियं धनं मुञ्चन्ति। किंतु देवाः मोदयितारो मादयितारो बा मरुतः सख्याय वृधं वृद्धिं जुषन्त सेवन्ते । द्यावापृथिवीपक्षे सख्याय जगतां सखिभावाय तयोर्वृद्धिं कुर्वन्तीत्यर्थः ॥
“The radiant, ever-moving Maruts, have mingled with (their) associate, (lightning), like (youths) with common women; the formidable divinities do not overwhelm heaven and earth (with rain), but promote their prosperity through (friendly) regard.”
Far off the brilliant, never-weary Maruts cling to the young Maid as a joint possession.
The fierce Gods drave not Rodasi before them, but wished for her to grow their friend and fellow.
Away (went) the resplendent, irrepressible Maruts in their flood; they joined (with her) in common, as if with a common (whore).
The fearsome ones did not push Rodasī away as they did push the two world-halves apart. The gods took pleasure in strengthening (her/
them), for companionship.
Das fernste auch besprengten sie, die lichten behenden Maruts wie mit gleichem Strome; Gemeinsam mögen sie den Krafttrunk nehmen, die Schreckensgötter nicht die Braut verscheuchen.
Die schmucken, unverzagten Marut zogen mit der Unparteilichen wie mit einer gemeinsamen Frau davon. Die Grausigen stießen die Rodasi nicht ab, die Götter ließen sich die Starke zur Gesellschaft gerne gefallen.
Блистательные неутомимые Маруты (уйдя прочь) вместе с юной (Родаси),
Соединялись (с ней) как с общей (женой).
Они, грозные, не оттолкнули Родаси.
Богам понравилось усиление (их толпы) – для дружбы.
जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणा॑: । आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥
जोष॑त् । यत् । ई॒म् । अ॒सु॒र्या॑ । स॒चध्यै॑ । विसि॑तऽस्तुका । रो॒द॒सी । नृ॒ऽमनाः॑ । आ । सू॒र्याऽइ॑व । वि॒ध॒तः । रथ॑म् । गा॒त् । त्वे॒षऽप्र॑तीका । नभ॑सः । न । इ॒त्या ॥
रोदसी मरुत्पत्नी विद्युत् वा एतन्नामिकेयमपि ईम् एनं मरुत्संघं जोषत् सेवते ॥ जुषेर्लेटि अडागमः ॥ किमर्थम् । सचध्यै संगमनार्थम् । कीदृशी सा । असुर्या । असुराः क्षेप्तारो मरुतः । तेषां स्वभूता विषितस्तुका विशिष्टकेशसंघा विप्रकीर्णकेशसंघा वा संभोगवशेन तथा नृमणाः नृषु नेतृषु मरुत्सु मननवती मनुष्येषु वा वृष्टिप्रदानमनोयुक्ता त्वेषप्रतीका दीप्तोपक्रमा दीप्तावयवा । ईदृशी देवी विधतः परिचरतो मरुत्संघस्य रथम् आ गात् आगच्छति व्याप्नोति । यागदेशं गन्तुं रथमारुह्य वा यज्ञमागच्छति । केव । विधतः सूर्यस्य रथं त्वेषप्रतीका सूर्येव सूर्यपत्नीव । यद्वा । सूर्यस्य दुहिता अश्विनोः रथमिव सा यथा आरोहति तद्वत् आगमने दृष्टान्तः। नभसः इत्या न । अन्तरिक्षादित्ययोः साधारणोऽयं नभःशब्दः ‘नभ इति षट् साधारणानि ' ( नि. १. ४. ६ ) इत्युक्तत्वात् । अत्र आदित्यवचनः । तस्य गतिरिव । सा यथा शीघ्रा तद्वत् ॥ ॥ ४ ॥
“Rodasī, the associate of the scatterers (of the clouds), with dishevelled tresses, and mind devoted to her lords, woos them to associate (with her); radiant in form, she has ascended the car of the restless (Maruts) as Sūrya (ascended the car of the Aśvins), and comes hither (with the celerity) of the sun.”
When chose immortal Rodasi to follow--she with loose tresses and heroic spirit--
She climbed her servant's chariot, she like Surya with cloud-like motion and refulgent aspect.
If it please her ladyship to accompany them—Rodasī with unloosened braid had her mind set on the men—
like Sūryā she mounts the chariot of the one who does honor, she whose face is turbulent like the approach of a cloud.
Wenn sie nun will die himmlische begleiten, gelösten Haars die männerholde Jungfrau, Dann komme wie die Sonne sie erglänzend, wie aus der Wolke zu des Treuen Wagen.
Als es der Asurischen gefiel, sie zu begleiten, der mannhaftgesinnten Rodasi mit aufgelösten Zöpfen, so bestieg sie wie Surya den Wagen des Verehrers, von funkelndem Aussehen wie das Nahen der Wetterwolke.
Когда асуровой Родаси понравилось их сопровождать,
С распущенными волосами, мужественная мыслью,
Как Сурья, она взошла на колесницу почитателя,
С видом страшным, как приближение грозовой тучи.
आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम् । अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥
आ । अ॒स्था॒प॒य॒न्त॒ । यु॒व॒तिम् । युवा॑नः । शु॒भे । निऽमि॑श्लाम् । वि॒दथे॑षु । प॒ज्राम् । अ॒र्कः । यत् । वः॒ । म॒रु॒तः॒ । ह॒विष्मा॑न् । गाय॑त् । गा॒थम् । सु॒तऽसो॑मः । दु॒व॒स्यन् ॥
युवानः मिश्रयन्तो नित्यतरुणा वा मरुतः युवतिं मिश्रयन्तीं नित्यतरुणीं वा विद्युद्रूपां रोदस्यां स्त्रियम् आस्थापयन्त आस्थापयन्ति । देवतात्वेन रथे धारयन्ति । कीदृशीं ताम् । निमिश्लां नियमेन मिश्रयन्तीं पज्राम् । पज्रो बलम् । तद्वतीम् । शुभे । शोभते दीप्यते इति शुबुदकम् । वृष्ट्युदकार्थम् । शुभे रथ इति वा योज्यम् । किंनिमित्तम् । विदथेषु यागेषु निमित्तभूतेषु । कदा । यत् यदा हे मरुतः वः युष्मान् अर्कः ॥ मत्वर्थों लुप्यते ॥ अर्चनसाधनमन्त्रोपेतः स्तोता वा हविष्मान् प्रदेयाज्यादिहविर्युक्तः सुतसोमः होमाय अभिषुतसोमोऽयं यजमानः दुवस्यन् परिचरन् गाथं गातव्यं स्तोत्रं गायत् गायति । तदेत्यर्थः ॥
“The youthful (Maruts) have plural ced the young (lightning) in (their) brilliant (car), commingling (with them), and vigorous (in yielding rain) on sacrifices (being solemnized); when, Maruts, your worshipper, presenting oblations, pouring out the Soma, and offering adoration, chants the sacred song.”
Upon their car the young men set the Maiden wedded to glory, mighty in assemblies,
When your song, Maruts, rose, and, with oblation, the Soma-pourer sang his hymn in worship.
The youths caused the young woman to mount for beauty, she steadfast and commingling (with them) at the ceremonies.
When the chant is accompanied by oblations for you, o Maruts, and the one who has pressed soma, seeking friendship, sings the song,
᳓
Zum Schmucke führten sie die holde Jungfrau, die bei den Festen stark ist, sie, die jungen; Dass opferreich der Sänger euch, o Maruts, Gesang anstimme, Somasaft euch spendend.
Die Jünglinge ließen die junge Frau auf den Wagen steigen, die dem Prunk zugetane, in weisen Reden feste, wenn für euch, Marut, der von Spenden begleitete Lobpreis bestimmt ist und der Somabereiter eifrig den Gesang bestimmt.
Юноши устроили (на колеснице) юную жену,
Преданную красоте, твердую во время обрядов,
Когда (был готов) гимн с жертвенным возлиянием для вас, о Маруты,
(И) выжиматель сомы, служа (вам), пропел песню.
प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ । सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥
प्र । तम् । वि॒व॒क्मि॒ । वक्म्यः॑ । यः । ए॒षा॒म् । म॒रुता॑म् । म॒हि॒मा । स॒त्यः । अस्ति॑ । सचा॑ । यत् । ई॒म् । वृष॑ऽमनाः । अ॒ह॒म्ऽयुः । स्थि॒रा । चि॒त् । जनीः॑ । वह॑ते । सु॒ऽभा॒गाः ॥
एषां मरुतां यः महिमा महत्त्वातिशयः वक्म्यः सर्वैः स्तुत्यः सत्यः अबाध्योऽमोघः अस्ति तं प्र विवक्मि प्रवच्मि वर्णयामि । कथमेषां महिमा प्राप्त इति उच्यते । यत् यस्मात् ईम् एतेषां संबन्धिनी रोदसी वृषमणाः वृष्ट्यादिवर्षणमनस्का अहंयुः अहंकारवती । जगदुपकारकर्त्री न कदाचिदस्तीत्यहंकारः । स्थिरा चित् । चिदिति पूजायाम् । अत्यन्तमविनश्वरा ईदृशी देवी सुभागाः शोभनभाग्योपेताः जनीः जननशीला: प्रजाः वृष्ट्युत्पत्तीर्वा वहते धारयति । वृष्टौ सत्यां सर्वे प्राणिन उत्पद्यन्ते । यस्मादेवं तस्मात् महिमास्ति । तं महिमानं स्तौमीत्यर्थः ॥
“I celebrate that greatness of the Maruts, which is true, and worthy of celebration, inasmuch as their high-minded,haughty, and ever-enduring (bride), supports a flourishing progeny.”
I will declare the greatness of these Maruts, their real greatness, worthy to be lauded,
How, with them, she though firm, strong-minded, haughty, travels to women happy in their fortune.
I proclaim what of theirs is worthy of proclamation, that the greatness of the Maruts is truly present,
when in company with them, her mind set on the bulls, she, self-reliant and firm, brings with her the well-portioned Wives (of the Gods).
Ich preise den, der Preis verdient, und welcher der wahrhaft grosse Herr ist dieser Maruts, Wenn auch die stolze, die den Helden hold ist, die starke, selbst die Götterfrauen herfährt.
Ich tue kund, was dieser Marut kündenswerte wahre Größe ist, daß die männlichgesinnte, selbstbewußte Rodasi, die so feste andere begünstigte Frauen auf der Fahrt mitnimmt.
Я провозглашаю то, что есть истинное величие
Этих Марутов (и) достойно провозглашения:
Что (Родаси,) мужественная мыслью, гордая,
Стойкая, увозит с (собой других) благословенных жен.
पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् । उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥
पान्ति॑ । मि॒त्रावरु॑णौ । अ॒व॒द्यात् । चय॑ते । ई॒म् । अ॒र्य॒मो इति॑ । अप्र॑ऽशस्तान् । उ॒त । च्य॒व॒न्ते॒ । अच्यु॑ता । ध्रु॒वाणि॑ । व॒वृ॒धे । ई॒म् । म॒रु॒तः॒ । दाति॑ऽवारः ॥
हे मरुतः युष्मत्संबन्धिनो देवाः मित्रावरुणौ अहोरात्र्यभिमानिदेवौ अर्यमो । अर्यमा उ इति निपातसमुदायात्मकम् एकं पदम्। उ शब्दोऽपिशब्दार्थे । अर्यमापि । एते त्रयोऽपि ईम् अमुं लोकं यज्ञं वा अवद्यात् गर्ह्यात् अयथानुष्ठानात् जगत्पक्षे व्यवहारप्रतिबन्धरूपात् पान्ति रक्षन्ति । तथा एतेषाम् अप्रशस्तान् क्षीणानपि पदार्थान् चयते चातयन्ति नाशयन्ति । उत अपि च एतैः प्रेरितानि अच्युता अच्युतान्यस्रावीणि अत एव ध्रुवाणि अविचलानि मेघस्थोदकानि च्यवन्ते च्यावयन्ति वा एते । अहोरात्रे वै मित्रावरुणावहोरात्राभ्यां खलु वै पर्जन्यो वर्षति ' इति श्रुतेः । यद्वा । अच्युतानि ध्रुवाणि धनानि च्यवन्ते । कदेति उच्यते । हे मरुतः युष्मदीयः ईम् अयं कालः दातिवारः प्रदेयजलः खण्डितमेघो वा यदा ववृधे वर्धते । तदा मित्रादयो देवा युष्मदनुकूलव्यापारेण जगत् रक्षन्तीत्यर्थः । यद्वा । दातिवारो दत्तवरणीयहविर्लक्षणधनो यजमानः हे मरुतः ईम् एनान्युष्मान्ववृधे वर्धयति यदा तदेत्यर्थः ॥
“Mitra and Varuṇa, and Aryaman, defend (this) sacrifice from (all that is) reprehensible, and destroy (all that are) unworthy. They cause the yet unfallen and showering (rains) to descend, when, Maruts, the water-yielding (season) gives increase to this (world).”
Mitra and Varuna they guard from censure: Aryaman too, discovers worthless sinners Firm things are overthrown that ne'er were shaken: he prospers, Maruts, who gives choice oblations.
Mitra and Varuṇa (and Aryaman) protect from the unspeakable (fault); Aryaman makes the unlaudable (men) atone.
And the unstirrable fixed things stir, (when) your wish-granting (flock) has grown strong, o Maruts.
Vor Sünde schützen Varuna und Mitra, und Arjaman bestraft die tadelnswerthen; Es wankt das feste auch, das unbewegte; gestärkt ist der, der gerne gibt, o Maruts.
Es schützen Mitra und Varuna vor Makel, während Aryaman die Unlöblichen büßen läßt. Mag auch das Unerschütterliche, das Feste wanken, der Wunschgewährer gedieh doch, ihr Marut.
Митра, Варуна (и Арьяман) защищают (добродетельных) от порицания,
Арьяман же наказует недостойных.
И несотрясаемые твердыни сотрясаются (из-за Марутов).
Тот, кто дает лучший дар, только крепнет.
न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः । ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥
न॒हि । नु । वः॒ । म॒रु॒तः॒ । अन्ति॑ । अ॒स्मे इति॑ । आ॒रात्ता॑त् । चि॒त् । शव॑सः । अन्त॑म् । आ॒पुः । ते । धृ॒ष्णुना॑ शव॑सा । शू॒शु॒ऽवांसः॑ । अर्णः॑ । न । द्वेषः॑ । धृ॒ष॒ता । परि॑ । स्थुः॒ ॥
हे मरुतः वः शवसः युष्माकं संबन्धिनो बलस्य अन्तम् अवसानम् अन्ति अन्तिके आरात्ताच्चित् दूरादपि । यद्वा । चिदिति कुत्सायाम् । अत्यन्तदूरात् । अस्मे अस्मासु मध्ये एकेऽपि नु क्षिप्रं नहि आपुः नैव खलु प्राप्नुवन्ति । संनिधावसंनिधौ च न प्राप्नुवन्तीत्यर्थः । अथ परोक्षे प्राप्तबलत्वमाह। ते खलु मरुतः धृष्णुना धर्षकेण शवसा बलेन शूशुवांसः वर्धमानाः अत एव धृषता पराभिभावकेन सामर्थ्येन द्वेषः द्वेष्टृन् परि ष्ठुः परिभवन्ति वशीकुर्वन्ति । तत्र दृष्टान्तः । अर्णो न उदकमिव । यथोदकं स्वविरोधि रजआदिकमभिभवति तद्वत् । यस्मादेवं तस्मात् शवसोऽन्तं नापुः ॥
“None of us, Maruts, have attained, either nearly or remotely, the limit of your strength; those (Maruts), increasing in energy and vigour, overwhelm their enemies like an ocean.”
None of us, Maruts, near or at a distance, hath ever reached the limit of your vigour.
They in courageous might still waxing boldly have compassed round their foemen like an ocean.
For they have not reached the limit of your swelling strength, o Maruts, nearby to us nor even in the distance.
These (Maruts), swollen with bold swelling strength, have boldly
hemmed in hatred like a flood.
Denn nie erreichen, nahe nicht, noch ferne, o Maruts, andre eurer Stärke Ende; Mit kühner Kraft umgebt ihr nun gekräftigt gleich wie ein Meer mit keckem Muth die Feinde.
Denn niemals hat man das Ende eurer Macht, ihr Marut, weder nah noch fern von uns erreicht. Durch ihre kühne Kraft überlegen, wehren sie kühnlich der Anfeindungen wie einer Wasserflut.
Никогда, о Маруты, ни вблизи, ни издалека
Не достигали у нас предела вашей силы.
Набухая от силы, полной решимости,
Они решительно преграждают путь враждебности, словно потоку
व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये । व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥
व॒यम् । अ॒द्य । इन्द्र॑स्य । प्रेष्ठाः॑ । व॒यम् । श्वः । वो॒चे॒म॒हि॒ । स॒ऽम॒र्ये । व॒यम् । पु॒रा । महि॑ । च॒ । नः॒ । अनु॑ । द्यून् । तत् । नः॒ । ऋ॒भु॒क्षाः । न॒राम् । अनु॑ । स्या॒त् ॥
अद्य अस्मिन् दिने वयं यष्टारः इन्द्रस्य देवस्य प्रेष्ठाः प्रियतमा भवेम । यद्वा । प्रियतमा वयम् इन्द्रस्य महत्वं वोचेमहि स्तोतुं समर्था भूयास्म । किंच वयं श्वः परस्मिन्नपि दिने समर्ये । सह मर्याः मर्त्याः ऋत्विजो यस्मिन् स समर्यो यज्ञः तस्मिन् । संग्रामे वा । इन्द्रस्य महत्त्वं वोचेमहि । किंच वयं पुरा पूर्वस्मिन्नतीतेऽपि काले महि महद्बलं नः अस्मदर्थं वोचेमहि । तथा द्यून् दिवसान अनु प्रतिदिवसमित्यर्थः । अतीते आगामिनि च दिवसे सर्वदा वोचेमहि । तत् तस्मात् ऋभुक्षाः । महन्नामैतत् । ‘ऋभुक्षाः उक्षा' (नि. ३. ३. १०) इति तन्नामसु पाठात् । महानिन्द्रः नरां मनुष्याणां मध्ये नः अस्मान् अनु स्यात् अनु भवतु अनुकूलमभिमतप्रदो वा भवतु ॥
“Let us, who are beloved of Indra, glorify him today; let us glorify him tomorrow, at the sacred rite; let us glorify him for our great (good), in future days as of old, so that Ṛbhukṣin may ever be favourable to us amongst men.”
May we this day be dearest friends of Indra, and let us call on him in fight to-morrow.
So were we erst. New might attend us daily! So be with us! Rbhuksan of the Heroes!
Might we today, might we tomorrow call ourselves dearest to Indra in the competition,
(as) we (did) before, and let this be a great thing for us through the
days: let the R̥bhu-ruling (flock) consisting of (these) superior men
[=Maruts] stay by us.
Wir seien heut des Indra auserlesne, wir wollen morgen ihn zum Kampfe rufen, Von ihm geliebt zuvor und fort und fort auch; drum steh uns bei der Ribhuherr der Männer.
Wir wollen heut, wir morgen in dem Streite des Indra liebste Freunde heißen. Wir waren es früher. Und Großes soll uns Tag für Tag werden: Das möge das Oberhaupt der Männer uns gestatten.
Мы сегодня, мы завтра хотим именоваться
В состязании самыми любимыми у Индры.
Мы (были ими) некогда. И (пусть) день за днем нам (будет что-то) великое!
Пусть Рибхукшан, (господин) мужей, в этом будет с нами!
ए॒ष व॒: स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः । एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः । आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
एषइत्येकादशीव्याख्याता ॥ ११ ॥यज्ञायज्ञेतिदशर्चञ्चतुर्थंसूक्तंआगस्त्यम्मारुतं अन्त्यास्तिस्रस्त्रिष्टुभः शिष्टाःसप्त त्रिष्टुवन्तपरिभाषया- जगत्यः यज्ञायज्ञादशत्रिष्टुवन्तमित्यनुक्रान्तं विशेषविनियोगोलैङ्गिकः ।
“This praise, Maruts, is for you, this hymn is for you, (the work) of a venerable author, capable of conferring delight (by his laudations); may the praise reach you for (the good of your) person ns, so that we may thence obtain food, strength, and long life.”
May this your laud, may this your song, O Maruts, sung by the poet, Mana's
son, Mandarya,
Bring offspring for ourselves with. food to feed us. May we find strengthening food in full abundance.
Here is a praise for you, Maruts, here a hymn from Māndārya, the respectful bard.
With refreshment he would beg propitiation for himself. – May we
know refreshment and a community having lively waters.
Euch, Maruts, gilt dies Lied des Manasohnes, das Lob des Dichters von dem Stamm Mandāra's, Mit Labung kommt herbei zu eigner Stärkung gebt Labung uns und wasserreiche Fluren.
Dies Preislied, diese Lobrede des Dichters Mandarya, des Maniden, ist für euch, Marut. Er möchte durch Nahrungsfülle für seine Person zu Nachwuchs gelangen. - Wir möchten einen gastfreien Opferbündler kennen lernen, der rasch schenkt.
Вот восхваление для вас, о Маруты, вот песня
Певца Мандарьи Маньи.
Вместе с жертвенным подкреплением пусть принесет она нам потомство!
Мы хотим найти щедрую общину, легко дарящую!