म॒हश्चि॒त्त्वमि॑न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता । स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्त्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥
म॒हः । चि॒त् । त्वम् । इ॒न्द्र॒ । य॒तः । ए॒तान् । म॒हः । चि॒त् । अ॒सि॒ । त्यज॑सः । व॒रू॒ता । सः । नः॒ । वे॒धः॒ । म॒रुता॑म् । चि॒कि॒त्वान् । सु॒म्ना । व॒नुष्व॒ । तव॑ । हि । प्रेष्ठा॑ ॥
हे इन्द्र त्वं यतः कारणात् एतान् मरुतः महश्चित् महतोऽपि सामर्थ्यातिशयवत्त्वात् त्वं निरपेक्षेणापि स्नेहात् न त्यजसीति शेषः । अतः कारणात् महश्चिदसि । चित् इति पादपूरणः । महतोऽपि त्यजसः त्यागात् । यद्वा । एतत् क्रोधनाम । क्रोधाद्वा । वरूता वरिता रक्षिता असि भवसि । यद्वा । मरुतोऽपि त्यागात् वृष्ट्यादिविषयात् वारयितासि । यस्मादेवं तस्मात् हे मरुतां वेधः विधातः सः तादृशस्त्वं चिकित्वान् चेतनावान् अस्मदनुग्रहविषयज्ञानोपेतः सन् नः अस्मभ्यं सुम्ना सुखानि मरुदायत्तानि वृष्ट्यादिरूपाणि वनुष्व देहि । तानि सुन्नानि तव हि प्रेष्ठा तव खलु प्रियतमानि । हिशब्दः ‘अयमिन्द्रो मरुत्सखा ' (ऋ. सं. ८.७६. २ ) इत्यादिश्रुतिषु प्रसिद्धयर्थः ॥
“You, Indra, are mighty from the might of those of whom you are the protector against abandonment therefore, creator of the Maruts, favourably-minded towards us, grant us those blessings which are most dear to you.”
As, Indra, from great treason thou protectest, yea, from great treachery these who approach us,
So, marking well, Controller of the Maruts grant us their blessings, for they are thy dearest.
Indra, you are the one who goes (before) even the great one [=Marut flock] as it *drives; you are the defender even from great dereliction.
O ritual adept, as observant one win the favors of the Maruts for us, for they [=favors] are dearest to you.
Du Indra bist's, der grosses auch bewältigt, der auch die grosse Todeswaffe abwehrt, Nimm achtsam an, o du der Marutherrscher, nun unsre Lieder, sie sind dir die liebsten.
Du, Indra, wirst selbst diese herankommenden großen Marut bannen; du bist der, der auch große Feindschaft abwehrt. Du Meister der Marut, der sie kennt, gewinnt ihre Gunst, denn sie ist dir die liebste!
Ты, о Индра, (тот, кто отвращает) даже великое (зло), идущее к ним.
Ты тот, кто отвращает даже великую враждебность.
О наш устроитель (обряда), ты знаток Марутов,
Завоюй себе (их) расположение, ведь оно тебе дороже всего!
अयु॑ज्रन्त इन्द्र वि॒श्वकृ॑ष्टीर्विदा॒नासो॑ नि॒ष्षिधो॑ मर्त्य॒त्रा । म॒रुतां॑ पृत्सु॒तिर्हास॑माना॒ स्व॑र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ॥
अयु॑ज्रन् । ते । इ॒न्द्र॒ । वि॒श्वऽकृ॑ष्टीः । वि॒दा॒नासः॑ । निः॒ऽसिधः॑ । म॒र्त्य॒ऽत्रा । म॒रुता॑म् । पृ॒त्सु॒तिः । हास॑माना । स्वः॑ऽमीळ्हस्य । प्र॒ऽधन॑स्य । सा॒तौ ॥
पूर्वमन्त्रे मरुतामिन्द्रसाहाय्यमुक्तम् । अत्रेन्द्रस्य मरुत्साहाय्यमुच्यते । हे इन्द्र ते मरुतः अयुज्रन् युज्यन्ते त्वया सुक्ता भवन्तीत्यर्थः। कीदृशास्ते । विश्वकृष्टीः विश्वकृष्टयो राज्यत्वेन सर्वजनवन्तः किंच मर्त्यत्रा मर्त्येषु मर्त्यार्थं निष्षिधः निःशेषेणोदकस्य सेत्तॄन् मेघान् विदानासः जानानाः। किंच येषां मरुतां पृत्सुतिः सेना स्वर्मीळ्हस्य प्रधनस्य सुखसेक्तुः । प्रकृष्टधनवतो वृत्रादिसंग्रामस्य सातौ लाभे जये निमित्तभूते सति सेना हासमाना हासं कुर्वती हर्षयुक्ता भवति । यद्वा । सुखेन मिह्यते जलं यस्मिन् तादृशस्य प्रधनस्य प्रकृष्टोदकाख्यधनसाधनस्य संग्रामस्य सातौ ॥ मेघभेदनायेति यावत् । येषामीदृशी सेनास्ति ते मरुतोऽयुज्रन्निति संबन्धः ॥
“Rulers over all men, and impelling towards man the water-shedding clouds, they are united, Indra, (with you); the host of Maruts is delighted by (your) acquisition of heaven-bestowing wealth.”
The various doings of all mortal people by thee are ordered, in thy wisdom, Indra.
The host of Maruts goeth forth exulting to win the light-bestowing spoil of battle.
They have hitched themselves up, Indra—your (Maruts), who know as their own the tributes stemming from all communities among mortals. The battle-thrust of the Maruts is racing ahead in the winning of the prize-contest whose reward is the sun.
Du hast, o Indra, die erlangten Güter für alle Völker zugeführt den Menschen; Es eilt der Maruts kampfgeübte Heerschar um schönes Gut als Kampfpreis zu erbeuten.
Diese Marut haben angespannt, o Indra, da sie sich der allgemeinen Dankesansprüche an die Sterblichen bewußt sind: die Schlachtreihen der Marut, die um den Gewinn des ersten Siegerpreises, dessen Lohn das Sonnenlicht ist, wettläuft.
Эти (Маруты) запрягли (колесницы), о Индра, (они,) находящие
Вознаграждения от всех народов в мире смертных.
Войско Марутов приходит в возбуждение
Для захвата главной награды – завоевания солнца.
अम्य॒क्सा त॑ इन्द्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं॑ म॒रुतो॑ जुनन्ति । अ॒ग्निश्चि॒द्धि ष्मा॑त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां॑सि ॥
अम्य॑क् । सा । ते॒ । इ॒न्द्र॒ । ऋ॒ष्टिः । अ॒स्मे इति॑ । सने॑मि । अभ्व॑म् । म॒रुतः॑ । जु॒न॒न्ति॒ । अ॒ग्निः । चि॒त् । हि । स्म॒ । अ॒त॒से । शु॒शु॒क्वान् आपः॑ । न । द्वी॒पम् । दध॑ति । प्रयां॑सि ॥
हे इन्द्र ते तव सा प्रसिद्धा ऋष्टिः वज्राख्यायुधविशेषः अस्मे अस्मद्वृष्ट्यर्थम् अम्यक् प्राप्नोति मेघसमीपे । एवं च सति मरुतः अपि ।' सनेमि अह्राय' ' (नि. ३. २७. ४ ) इति षट् पुराणनामानि इत्युक्तत्वात् सनेमि इति पुराणनाम' । पुराणं चिरकालं संगृहीतम् अभ्वम् उदकं जुनन्ति क्षिपन्ति वर्षन्तीत्यर्थः । वृष्ट्या सस्यादिसमृद्धौ सत्याम् अग्निश्चिद्धि ष्म । हि स्म इति पूरणे । अग्निरपि अतसे संतते कर्मणि निमित्तभूते सति शुशुक्वान् दीप्यमानो वर्तते । पश्चात् 'प्रयांसि चरुपुरोडाशादिहवींषि दधति धारयन्ति ददति वा यजमानाः । किमिव । आपो न द्वीपम् । द्विपार्श्वस्थोदकवान्पर्वतादिद्वीपः । तं यथा आपो धारयन्ति तद्वत् । यद्वा । आयुधमेवोच्यते । वज्राख्यायुधविशेषोऽतसे काष्ठसमूहे शुशुक्वान् दीपयन्नग्निश्चित् । चिच्छब्दः उपमार्थे ' दधि चिदित्युपमार्थे ' ( निरु. १. ४ ) इति यास्केनोपमार्थस्योक्तत्वात् । काष्ठे ज्वलन्नग्निरिव तद्वद्दीप्तो वर्तते । एतदेव दीप्तत्वमपेक्ष्य सेत्युक्तम् । एवं च सति आपो द्वीपमिव वृष्ट्युदकानि प्रयांसि सस्याद्यन्नानि दधति धारयन्ति । एतत्सर्वं महानुभावस्येन्द्रस्य ऋष्टेः सामर्थ्यमितीन्द्रस्य स्तुतिः ॥
“Your weapon, Indra, is at hand for our (good); the Maruts send down the long-accusative ulated rain; Agni is blazing for the ceremony; the oblations encompass him as the waters (surround) an island.”
That spear of thine sat firm for us, O Indra: the Maruts set their whole dread power in motion.
E'en Agni shines resplendent in the brush-wood: the viands hold him as floods hold an island.
This spear of yours has been fixed among us, Indra; the Maruts speed the formless (cloud) mass, with all its gear.
For even a fire blazing in the brushwood can produce pleasurable
offerings, as waters do an island.
Bei uns erglänzte, Indra, dies dein Schlachtschwert, das öde Dunkel scheuchen fort die Maruts; Auch Agni selbst erstrahlend in den Hölzern umfasst die Tränke wie das Meer die Inseln.
An uns hat sich deine Hoheit, Indra, angeschlossen. Die Marut setzen ihre gewaltige Erscheinung vollständig in Bewegung, denn wie Feuer, das im Gestrüpp glüht, bereiten sie ein Gastmahl wie die Gewässer eine Insel.
Твой подвиг (?), о Индра, блистает (?) для нас.
Маруты спешат полностью принять грозный облик.
Ведь огонь, даже когда он пылает в кустарнике,
Создает жертвенные услады, как воды – остров.
त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् । स्तुत॑श्च॒ यास्ते॑ च॒कन॑न्त वा॒योः स्तनं॒ न मध्व॑: पीपयन्त॒ वाजै॑: ॥
त्वम् । तु । नः॒ । इ॒न्द्र॒ । तम् । र॒यिम् । दाः॒ । ओजि॑ष्ठया । दक्षि॑णयाऽइव । रा॒तिम् । स्तुतः॑ । च॒ । याः । ते॒ । च॒कन॑न्त । वा॒योः । स्तन॑म् । न । मध्वः॑ । पी॒प॒य॒न्त॒ । वाजैः॑ ॥
हे इन्द्र त्वं तु । तुः अवधारणे । त्वमेव तं रयिं त्वद्दानयोग्यं गवादिधनं दाः देहि । यस्मादितरेभ्योऽपि त्वमेव बहुप्रदः अतोऽतिमहद्धनं देहीत्यर्थः । वयं तु ओजिष्ठया ओजस्वितमया परिक्रमणार्हया दक्षिणया समृद्धिसाधनया गवादिलक्षणया ऋत्विजम् इव रातिं दातारं त्वां प्रीणयाम इति शेषः । यद्वा । दक्षिणाशब्दो देयद्रव्यसामान्यवचनः । रातिशब्दो बन्धुवचनः । हिरण्यादिसारवद्द्रव्यप्रदानेन बन्धुं यथा वशीकुर्वन्ति तद्वत् त्वां वशीकुर्म इत्यर्थः। किंच वायोः धौतयुवक्षेपिष्ठस्य शीघ्रवरप्रदस्य ते ॥ कर्मणि षष्ठी । वायुं त्वां स्तुतः येऽस्मदीयाः स्तोतारः चकनन्त कामयन्ते अस्तवन् । याः स्तुतयः त्वामेव अकामयन्तेति वा योजना ॥ कनतेर्ण्यन्तात् लुङि चङि रूपम् । ‘चङ्यन्यतरस्याम् ' इति चङः पूर्वमक्षरमुदात्तम् ॥ त्वां होत्रादयः वाजैः हविर्लक्षणैरन्नैः पीपयन्त आप्याययन्ति । तत्र दृष्टान्तः । मध्वः मधुरस्य स्तन्यस्य लाभाय वाजैः सारवद्भिरन्नविशेषैः स्तनं न । तं यथा आप्याययन्ति तद्वद्वयं त्वां बहुकृतप्रदानाय स्तुत्या हविषा आप्याययामः । एवं तु दातव्यत्वेन प्रसिद्धं धनं सर्वदा देहीत्यर्थः । ।
“Do you, Indra, quickly grant us that wealth (which you possess, for we gratify) the donor with a most worthy present; we, your praisers, offer to you, the ready giver of boons, the laudations that would propitiate you; (and the priests) nourish you with sacrificial food, as they cherish the bosom (of a feminine le for the sakeof replenishing it) with sweet (milk).”
Vouchsafe us now that opulence, O Indra, as guerdon won by mightiest donation.
May hymns that please thee cause the breast of Vayu to swell as with the mead's refreshing sweetness.
You, Indra—give us wealth, like a present in the form of a most
formidable priestly gift cow.
And the praises that will be enjoyable to you and to Vāyu will swell with victory-prizes, as (priestly gift cows) swell their breast of honey.
Du mögst uns, Indra, diesen Reichthum schenken, Geschenk wie durch die nahrungsreichste Milchkuh; Von Nahrung strotzen, wie von Milch die Brüste, des Sturmes Lieder, welche dir gefallen.
Gib uns doch, Indra, diesen Reichtum so groß wie eine Schenkung durch gewaltigsten Opferlohn! Die Preislieder auf Vayu, die auch dir gefallen sollen, mögen von Siegstrophäen schwellen, wie die Brust von süßer Milch.
Дай же нам, Индра, это богатство ( – такое большое),
Словно это подарок, (полученный) в виде мощнейшего вознаграждения за жертву.
А хвалы, что нравятся тебе (и) Ваю,
Пусть набухнут от наград, как грудь – от сладкого (молока)!
त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तार॒: कस्य॑ चिदृता॒योः । ते षु णो॑ म॒रुतो॑ मृळयन्तु॒ ये स्मा॑ पु॒रा गा॑तू॒यन्ती॑व दे॒वाः ॥
त्वे इति॑ । रायः॑ । इ॒न्द्र॒ । तो॒शऽत॑माः । प्र॒ऽने॒तारः॑ । कस्य॑ । चि॒त् । ऋ॒त॒ऽयोः । ते । सु । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । ये । स्म॒ । पु॒रा । गा॒तु॒यन्ति॑ऽइव । दे॒वाः ॥
हे इन्द्र त्वे तव रायः धनविशेषाः तोशतमाः अतिशयेन प्रीणयितारः ॥ तुष्यतेस्तोषः । छान्दसं शत्वम् ॥ यद्वा । ते रायो रातयो बन्धवो बन्धुभूताः सखिभूता मरुतः तोशतमाः । तोशतिर्वधकर्मा, नितोशयति निबर्हयति' ( नि. २. १९. २९) इति तन्नामसु पाठात् । तोशतमा हिंसितृतमा अवर्षकाणां मेघानाम् । कस्य चिदृतायोः । ऋतमिति यज्ञनाम। कस्यापि यज्ञेच्छोर्यजमानस्य प्रणेतारः प्रकर्षेण निर्वोढारः। ते मरुतः नः अस्मान् सुष्टु मृळयन्तु । के ते। ये स्म ये खलु देवाः द्योतनशीला मरुतः पुरा पूर्वं गातुयन्तीव यज्ञगमनमिच्छन्तीव ते आगत्य मृळयन्तु ॥ ॥ ८ ॥
“Your riches, Indra, are most delighting; the exciters of any one desirous to sacrifice; may those Maruts be propitious to us; the divine beings who were anxious to go first to the ceremony.”
With thee, O Indra, are most bounteous riches that further every one who lives uprightly.
Now may these Maruts show us loving-kindness, Gods who of old were ever prompt to help us.
In you, Indra, are most overflowing riches, the leaders of whoever seeks the truth.
Let the Maruts have mercy upon us, the gods who up till now have
provided the way, as it were.
Bei dir, o Indra, sind die reichsten Gaben, die, welche jeden frommgesinnten fördern, Uns mögen hold sich zeigen diese Maruts, die Götter, die auch sonst uns Wohlfahrt schenken.
Bei dir, Indra, sind die freigebigsten Reichtümer, die jeden Rechtwandelnden vorwärts bringen. Diese Marut sollen uns fein verzeihen, die Götter, die schon früher gleichsam den Weg wiesen.
У тебя, о Индра, самые тучные богатства,
Продвигающие вперед любого благочестивого (человека).
Пусть же сжалятся над нами эти Маруты,
Боги, еще раньше стремившиеся найти выход!
प्रति॒ प्र या॑हीन्द्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व । अध॒ यदे॑षां पृथुबु॒ध्नास॒ एता॑स्ती॒र्थे नार्यः पौंस्या॑नि त॒स्थुः ॥
प्रति॑ । प्र । या॒हि॒ । इ॒न्द्र॒ । मी॒ळ्हुषः॑ । नॄन् । म॒हः । पार्थि॑वे । सद॑ने । य॒त॒स्व॒ । अध॑ । यत् । ए॒षा॒म् । पृ॒थु॒ऽबु॒ध्नासः॑ । एताः॑ । ती॒र्थे । न । अ॒र्यः । पौंस्या॑नि । त॒स्थुः ॥
हे इन्द्र त्वं मीळ्हुषः उदकसेक्तॄन् नॄन् जगन्नेतॄन् नराकारान् वा महः महतः मेघान् प्रति प्र याहि अभिगच्छ । मेघानां वृत्ररूपेण नराकारत्वं युक्तम् । गत्वा च पार्थिवे सदने । पृथिवीत्यन्तरिक्षनाम । तत्संबन्धिनि स्थाने यतस्व प्रयत्नं कुरु । तैः सह युध्यस्वेत्यर्थः । यद्वा । हविष्प्रदातॄन् कर्मनिर्वाहकान् महतो यजमानान् प्रति गच्छ। गत्वा च पार्थिवे सदने देवयजने यतस्व । यत्नं कुरु हविर्भोजनाय । अध अपि यत् यदा एषां त्वत्साहाय्यकारिणां मरुतां संबन्धिनः पृथुबुध्नासः विस्तीर्णमूलाः एताः पृषद्वर्णा गन्तारो वा अश्वाः अर्यः अरेः शत्रोः पौंस्यानि तीर्थे न युद्धमार्गं इव तस्थुः तिष्ठन्ति मेघानाक्रमन्ते । यद्वा । एषां मरुतां पृथुबुध्नासो बृहन्मूला एताः कृष्णवर्णा मेघास्तिष्ठन्ति । तत्र दृष्टान्तः । अर्यः अरणीयस्य स्वामिनः पौंस्यानि बलानि तीर्थं न राजवीथ्यां यथा तिष्ठन्ति तद्वत् ॥
“Go, Indra, to the mighty rain-shedding leaders (of the clouds), and exert yourself in (thine) aerial dwelling; for their broad-footed steeds stand (firm), like the manly energies of an enemy in the field of battle.”
Bring forth the Men who rain down boons, O Indra: exert thee in the great terrestrial region;
For their broad-chested speckled deer are standing like a King's armies on the field of battle.
Drive forth toward the men who grant rewards [=Maruts], Indra. Take your place on the earthly seat of the great one [=Marut flock],
now when their wide-striding antelopes have come to a standstill, like the manly forces of a stranger at a ford.
Den gnäd'gen Männern schliess dich an, o Indra, und dringe kräftig hin zum Sitz der Erde, Da, wo der Maruts breitbehufte Schecken wie an der Furt des Kriegers Scharen stehen.
Komm, Indra, den gnädigen Herren entgegen, vergleiche dich mit den Großen am irdischen Wohnsitz, nun da ihre breitspurigen Antilopen Halt gemacht haben wie die Streitkräfte eines Machthabers an einer Flußtränke!
Индра, иди вперед, навстречу щедрым мужам.
Мощно займи свое место на земном сидении,
Сейчас, когда их широкодонные
Антилопы остановились, словно боевые отряды врага у (речного) брода!
प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ शृण्व आय॒तामु॑प॒ब्दिः । ये मर्त्यं॑ पृतना॒यन्त॒मूमै॑ॠणा॒वानं॒ न प॒तय॑न्त॒ सर्गै॑: ॥
प्रति॑ । घो॒राणा॑म् । एता॑नाम् । अ॒यासा॑म् । म॒रुता॑म् । शृ॒ण्वे॒ । आ॒ऽय॒ताम् । उ॒प॒ब्दिः । ये । मर्त्य॑म् । पृ॒त॒ना॒ऽयन्त॑म् । ऊमैः॑ । ऋ॒ण॒ऽवान॑म् । न । प॒तय॑न्त । सर्गैः॑ ॥
हे इन्द्र ते संबन्धिनां घोराणां भयानकानां शब्दाभिमानानां वा एतानाम् एतवर्णानाम् अयासाम् अयमानानां गमनशीलानां मरुताम् आयताम् आगन्तॄणां मरुताम् उपब्दिः उप गुर्वादिसमीपे गम्यते ज्ञायते उपपद्यते इति वा उपब्दिर्वाक्। शृण्वे श्रूयते ॥ कर्मणि कर्तृप्रत्ययः । ते एव विशिष्यन्ते। ये मरुतः मर्त्यं मरणधर्माणम् ऊमैः स्वरक्षणैरुदकनिगमनसाधनैर्वा पृतनायन्तं पृतनामात्मन इच्छन्तं वैरिणं मेघं वा सर्गैः सृष्टैः स्वकीयप्रहारविशेषैः पतयन्त पातयन्ति तेषामेव ध्वनिः श्रूयते इत्यर्थः । पातने दृष्टान्तः । सर्गैः ऋणवानं न ॥ ‘छन्दसीवनिपौ° ' इति वनिप् ॥ ऋणवन्तम् अधम वैरिणमिव। तं यथा पीडयित्वा तदीयं धनमपहरन्ति तद्वत् । एवंमहानुभावा मरुतस्तवानुगा इतीन्द्रस्य स्तुतिः ॥
“The noise of the formidable, dark-coloured, swift-moving and advancing Maruts, is everywhere echoed; (the noise) of them who strike down their mortal (foes) gathering in a host against them, by their self-defending blows, as (they strike down) a contemptible enemy.”
Heard is the roar of the advancing Maruts, terrific, glittering, and swiftly moving,
Who with their rush o'erthrow as 'twere a sinner the mortal who would fight with those who love him
The trampling of the antelopes of the fearsome, irrepressible Maruts is heard opposite as they come here,
those who fly with their helpers in swarms to the mortal who seeks
battles, as if to a debtor.
Man hört den Lärm der wilden, muntern Schecken, der Marutscharen wenn zum Trunk sie kommen, Die im Verein den feindgesinnten Menschen wie einen schuld'gen mit den Speeren fällen.
Das Getrappel der Antilopen der herankommenden grausigen unverzagten Marut hallt wieder, die den angriffslustigen Sterblichen mit ihren hilfreichen Schwärmern wie einen Schuldner überfallen.
Отдается топот грозных неутомимых
Антилоп приближающихся Марутов,
Которые налетают на воюющего смертного
Со своими спасительными отрядами, как (бросаются) на должника.
त्वं माने॑भ्य इन्द्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भि॑: शु॒रुधो॒ गोअ॑ग्राः । स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
त्वम् । माने॑भ्यः । इ॒न्द्र॒ । वि॒श्वऽज॑न्या । रद॑ । म॒रुत्ऽभिः॑ । शु॒रुधः॑ । गोऽअ॑ग्राः । स्तवा॑नेभिः । स्त॒व॒से॒ । दे॒व॒ । दे॒वैः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
हे इन्द्र त्वं मानेभ्यः मानार्थम् । चित्तेनेत्यर्थः ॥ तादर्थ्ये चतुर्थी । विश्वजन्या विश्वजन्यः । सोः आंकारः ॥ विश्वे प्राणिनः उत्पादनीया यस्य तादृशस्त्वं सर्वजनहितशक्त्या वा मरुद्भिः सह शुरुधः शोकस्य रोधयित्रीः शोषिका: गोअग्राः गर्जितमुदकं वा अग्रे पुरतो यासां ता मेघपङ्क्तीः रद विलिख विदारय । हे देव द्योतमान त्वं स्तवानेभिः स्तूयमानैः देवैः अन्यैर्मरुदादिभिर्ऋत्विग्भिर्वा स्तवसे स्तूयसे । उभयत्र कर्मणि कर्तृप्रत्ययः ॥ विद्यामेत्ययं व्याख्यातः । ॥ ९ ॥
“Associated with the Maruts, do you, Indra, for your own honour and the good of all, pierce the exhilarating receptacles of the waters, for you, Indra, are glorified by the lauded divinities; may we obtain for you food, strength, and long life.”
Give to the Manas, Indra with Maruts, gifts universal, gifts of cattle foremost.
Thou, God, art praised with Gods who must be lauded. May we find strengthening food in full abundance.
You, Indra, along with the Maruts—for the Mānas dig out proliferating riches, tipped with cows, destined for all men.
You will be praised, o god, by the gods [=Maruts] (also) being praised. – May we know refreshment and a community having lively waters.
Den Sängern spende du für alle Menschen milchreiche Gaben, Indra mit den Maruts; Man rühmt dich Gott mit den gerühmten Göttern. Gebt Labung uns und wasserreiche Fluren.
Laß du, Indra, mit den Marut den Manas für alle Personen ausreichende Gewinne mit den Kühen an der Spitze zukommen! Mit den gepriesenen Göttern sollst du, Gott, gepriesen werden. - Wir möchten einen gastfreien Opferbündler kennen lernen, der rasch schenkt.
Ты, о Индра, вместе с Марутами добудь
Для потомков Маны достаточные для всех людей дары с коровами во главе!
Тебя должны прославлять, о бог, вместе с прославляемыми богами!
Мы хотим найти щедрую общину, легко дарящую!