इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे । ता नो॑ मृळात ई॒दृशे॑ ॥
इन्द्रा॒वरु॑णयोः । अ॒हम् । स॒म्ऽराजोः॑ । अवः॑ । आ । वृ॒णे॒ । ता । नः॒ । मृ॒ळा॒तः॒ । ई॒दृशे॑ ॥
अहम् अनुष्ठाता सम्राजोः समीचीनराज्योपेतयोः सम्यग्दीप्यमानयोर्वा इन्द्रावरुणयोः देवयोः संबन्धि अवः रक्षणम् आ वृणे सर्वतः प्रार्थये । ता तौ देवौ ईदृशे एवंविधे अस्मदीयवरणे निमित्तभूते सति मृळातः अस्मान् सुखयतः ॥ इन्द्रशब्दो रन्प्रत्ययान्तः । वरुणशब्द उनन्प्रत्ययान्तः । उभौ नित्त्वादाद्युदात्तौ । समासे • देवताद्वन्द्वे च ' इति पूर्वपदस्य आनङादेशः । उभे युगपत् ' इत्यनुवृत्तौ ‘ देवताद्वन्द्वे च ' इति युगपत् उभयपदप्रकृतिस्वरत्वम् । सम्राजोः । ‘ राजृ दीप्तौ ।' सत्सूद्विष°' ( पा. सू. ३. २. ६१ ) इत्यादिना क्विप् । समो ‘ मोऽनुस्वारः' (पा. सू. ८. ३. २३) इत्यनुस्वारे प्राप्ते ‘ मो राजि समः क्वौ ' ( पा. सू. ८. ३. २५) इति मकारादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘ कर्तृकर्मणोः कृति ' ( पा. सू. २. ३. ६५ ) इति कर्तरि षष्ठी । अवः । अव रक्षणादिषु । भावेऽसुन् । नित्त्वादाद्युदात्तः । ता । । सुपां सुलुक् ' इत्यादिना द्विवचनस्य डादेशः । टिलोपे विभक्तेरुदात्तनिवृत्तिस्वरः। मृळातः । ‘ मृड सुखने '। प्रार्थनायां लिङ्र्थे लेट् । द्विवचनं तस् । ‘ लेटोऽडाटौ ' (पा. सू. ३. ४.९४) इति आडागमः। ‘तुदादिभ्यः शः। ङित्वात् लघूपधगुणाभावः । ईदृशे । ' त्यदादिषु दृशोऽनालोचने कञ् च ' ( पा. सू. ३. २. ६० ) इति इदंशब्दे उपपदे दृशेः कञ् । उपपदसमासे - इदंकिमोरीश्की ' ( पा. सू. ६. ३. ९० ) इति इदम ईश् । शित्त्वात् सर्वादेशः । कञः कित्त्वाद्गुणाभावः । ञित्त्वादुत्तरपदस्याद्युदात्तत्वम् । उपपदसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते ॥
“I seek the protection of the sovereign rulers (= possessed of extensive dominion or shining very brilliantly), Indra and Varuṇa; may they both favour us accordingly.”
I CRAVE help from the Imperial Lords, from Indra-Varuna; may they
Both favour one of us like me.
I choose the aid of Indra and Varuṇa, the sovereign kings.
They will be gracious to such as us.
Die Hülfe Indra-Varuna's, der höchsten Herrscher, fleh' ich an; Sie seien unsersgleichen hold.
Ich erbitte mir die Gunst der beiden Allherrscher Indra und Varuna; sie mögen unsereinem barmherzig sein.
У Индры-Варуны, двух вседержителей,
Я испрашиваю помощь.
Да будут они милосердны к таким, как мы!
गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः । ध॒र्तारा॑ चर्षणी॒नाम् ॥
गन्ता॑राः । हि । स्थः । अव॑से । हव॑म् । विप्र॑स्य । माव॑तः । ध॒र्तारा॑ च॒र्ष॒णी॒नाम् ॥
हे इन्द्रावरुणौ अवसे अवितुमनुष्ठातारं रक्षतुं मावतः मद्विधस्य विप्रस्य ब्राह्मणर्त्विजः हवम् आह्वानं गन्तारौ स्थः हि प्राप्तिशीलौ भवथः खलु । कीदृशौ । चर्षणीनां मनुष्याणां धर्तारौ योगक्षेमसंपादनेन धारयितारौ ॥ गन्तारा । गमेस्ताच्छील्ये तृन्। द्विवचनस्य • सुपां सुलुक् ' (पा. सू. ७. १. ३९ ) इत्यादिना आकारादेशः । ‘ ऋदृशोऽङि गुणः ' ( पा. सू. ७. ४. १६ )। ‘ अप्तृन् ' ( पा. सू. ६. ४. ११ ) इत्यादिना उपधादीर्घत्वम् । तृनो नित्त्वादाद्युदात्तत्वम् । स्थः । ‘अस भुवि ' । लङ्मध्यमपुरुषद्विवचनं थस् ।“ अदिप्रभृतिभ्यः शपः' इति शपो लुक् । ' हि च' इति निघातप्रतिषेधः । अवसे । अव रक्षणे '। ' तुमर्थे सेसेन्° ' ( पा. सू. ३. ४. ९) इति असेन् । नित्त्वादाद्युदात्तः । हवम् । ह्वेञो ‘ बहुलं छन्दसि' इत्यनैमित्तिके संप्रसारणे परपूर्वत्वे च ' ऋदोरप्' इति अप् । गुणावादेशौ । अपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव ॥ विप्रस्य । डुवप् बीजसंताने '। अस्य ‘ ‘ऋजेन्द्र ' इत्यादिना रन् निपातितः। नित्त्वादाद्युदात्तः । मावतः । वतुप्प्रकरणे युष्मदस्मद्यांतु छन्दसि सादृश्य उपसंख्यानम् ' (पा. सू. ५. २. ३९. १ ) वतुप् । प्रत्ययोत्तरपदयोः अस्मदो मपर्यन्तस्य मादेशः (पा. सू. ७. २. ९८ )। ‘ आ सर्वनाम्नः ' ( पा. सू. ६. ३. ९१ ) इति दकारस्य आकारः । सवर्णदीर्घः । मतुपः पित्त्वादनुदात्तत्वम् । प्रातिपदिकान्तोदात्तत्वे स एव शिष्यते । धर्तारा । ‘ धृञ् धारणे'।' ण्वुल्तृचौ ' ( पा. सू. ३. १. १३३ ) इति तृच् ।' एकाच उपदेशे' इति इट्प्रतिषेधः । गुणो रपरत्वम् । 'अप्तृन्' इत्यादिना उपधादीर्घः । ‘ सुपां सुलुक्' इति आकारः । तृचश्चित्त्वादन्तोदात्तत्वम् । चर्षणीनाम् । ‘ कृपेरादेश्च चः ' ( उ. सू. २. २६१ ) इति अनिप्रत्ययः; तत्संनियोगेन ककारस्य चकारः । प्रत्ययाद्युदात्तत्वं बाधित्वा छान्दसमन्तोदात्तत्वम् । अत एव ' नामन्यतरस्याम्' इति विभक्तेरुदात्तत्वम् । तत्र हि मतुपि यो ह्रस्वान्तः तत उत्तरस्य नाम उदात्तत्वमिति व्याख्यातम् ॥
“For you are ever ready, guardians of mankind, to grant protection on the appeal of a minister such as I am.”
Guardians of men, ye ever come with ready succour at the call
Of every singer such as I.
For you two are the ones who come for aid to the call of an inspired poet like me,
and are the upholders of the settled domains.
Denn ihr ja kommt zur Hülfe her auf eines Sängers Ruf wie ich; Die ihr der Menschen Schirmer seid.
Denn ihr pflegt zur Gunsterweisung auf den Ruf eines Redekundigen gleich mir zu kommen, ihr, die Regenten der Völker.
Ведь вы приходите на помощь
По зову вдохновенного, как я,
Вы, поддерживатели народов.
अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा॑वरुण रा॒य आ । ता वां॒ नेदि॑ष्ठमीमहे ॥
अ॒नु॒ऽका॒मम् । त॒र्प॒ये॒था॒म् । इन्द्रा॑वरुणा । रा॒यः । आ । ता । वा॒म् । नेदि॑ष्ठम् । ई॒म॒हे॒ ॥
इन्द्रावरुणा हे इन्द्रावरुणौ अनुकामम् अस्मदीयाभिलाषमनु रायः धनस्य प्रदानेन आ तर्पयेथां सर्वतोऽस्मांस्तृप्तान् कुरुतम् । वयं यदा यदा धनं कामयामहे तदा तदा प्रयच्छतमित्यर्थः । ता वां तादृशौ युवां नेदिष्ठम् अतिशयेन सामीप्यं यथा भवति तथा ईमहे याचामहे । कालविलम्बमन्तरेण धनं दातव्यमित्यर्थः । सप्तदशसु याञ्चाकर्मसु ‘ ईमहे ' (नि. ३. १९. १) इति पठितम् ॥ अनुकामम् । कामस्य पश्चादनुकामम् । अथवा कामे कामेऽनुकामम् । अनुः इह पश्चादथें अथवा वीप्सालक्षणे यथार्थे । योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं चेति चत्वारो हि यथार्था गृहीताः । ‘ अव्ययं विभक्ति ' ( पा. सू. २. १. ६ ) इत्यादिना अव्ययीभावसमासः । ‘ अव्ययीभावश्च ' ( पा. सू. १. १. ४१ ) इति अव्ययसंज्ञायाम् “ अव्ययादाप्सुपः ' ( पा. सू. २. ४. ८२ ) इति प्राप्तस्य लुकोऽपवादो नाव्ययीभावादतोऽम् त्वपञ्चम्याः' ( पा. सू. २. ४.८३) इति विभक्तेः अमादेशः । ‘ समासस्य ' इत्यन्तोदात्तत्वम् । तर्पयेथाम् । तृपेर्ण्यन्तात् लोटो ‘णिचश्च' ( पा. सू. १. ३. ७४ ) इत्यात्मनेपदम् । मध्यमद्विवचनम् आथाम् । टेः एत्वे ‘आमेतः' (पा. सू. ३. ४. ९० ) इति आमादेशः । शपि सति ‘अतो येयः' ( पा. सू. ७. २. ८०) इति आकारस्य इयादेशः ‘। आद्गुणो यलोपश्च । इन्द्रावरुणा । ‘ सुपां सुलुक् ' इति द्विवचनस्य आकारः । आमन्त्रिताद्युदात्तत्वम् । संहितायाम् आकारस्य ह्रस्वत्वम्। रायः । ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । ता । 'सुपां सुलुक् ' इति विभक्तेः आकारः । पदात्परत्वात् युवामित्यस्य वामादेशोऽनुदात्तः । नेदिष्ठम् । अतिशयेन अन्तिकम् । अतिशायने इष्ठन् । “ अन्तिकबाढयोर्नेदसाधौ ' ( पा. सू. ५. ३. ६३ ) इति नेदादेशः । ‘ यस्य' इति लोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । ईमहे ।“ ईङ् गतौ ' । ङित्त्वादात्मनेपदम् । ‘ बहुलं छन्दसि ' इति श्यनो लुक् । निघातः ॥
“Satisfy us with wealth, Indra and Varuṇa, according to our desires; we desire you ever near us.”
Sate you, according to your wish, O Indra-Varuna, with wealth:
Fain would we have you nearest us.
Satisfy (us) according to our desire from your wealth, o Indra and Varuṇa.
We beseech you two for closest (friendship).
Nach eurer Lust ergötzet euch an Gaben, Indra-Varuna, Euch wünschen wir ganz nah herbei.
Freut euch nach Herzenslust des Reichtums, Indra und Varuna; euch bitten wir um den nächsten.
Наслаждайтесь вволю,
О Индра-Варуна, чтобы (дать потом) богатство!
Об этом мы вас больше всего просим.
यु॒वाकु॒ हि शची॑नां यु॒वाकु॑ सुमती॒नाम् । भू॒याम॑ वाज॒दाव्ना॑म् ॥
यु॒वाकु॑ । हि । शची॑नाम् । यु॒वाकु॑ । सु॒ऽम॒ती॒नाम् । भू॒याम॑ । वा॒ज॒दाव्ना॑म् ॥
हि यस्मात् कारणात् शचीनाम् अस्मदीयकर्मणां संबन्धि सोमरूपं हविः युवाकु वसतीवर्येकधनात्मकैरुदकैः पयःसक्त्वादिद्रव्यान्तरैश्च मिश्रितम् । तथा सुमतीनां शोभनबुद्धियुक्तानामृत्विजां स्तोत्ररूपं वचनमपि युवाकु नानाविधैः स्तुत्यगुणैर्मिश्रितम्। तस्मात् कारणात् हे इन्द्रावरुणौ तथाविधं हविः स्वीकुर्वतोर्युवयोः प्रसादाद्वयं वाजदाव्नाम् अन्नप्रदानां पुरुषाणां मध्ये मुख्या भूयाम भवेम । ‘ अपः अप्नः' इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु शची शमी' (नि. २. १. २२) इति पठितम् ॥ युवाकु ।' यु मिश्रणे'। ‘कटिकुषिभ्यां काकुः ' (उ. सू. ३. ३५७ ) इत्यत्र बाहुलकात् यौतेरपि काकुः प्रत्ययः । कित्त्वेन गुणाभावात् उकारस्य उवङादेशः । प्रत्ययस्वरेण मध्योदात्तत्वम् । शचीशब्दः केषांचिन्मते शार्ङ्गरवादिः । ङीनन्तो ( पा. सू. ४. १. ७३ ) नित्त्वादाद्युदात्तः इति ‘उभे वनस्पत्यादिषु युगपत् ' इत्यत्र वृत्तिकृतोक्तम् ( का. ६. २. १४० )। सुमतीनाम् । विद्याम सुमतीनाम् ' (ऋ. सं. १. ४. ३) इत्यत्रोक्तम् । भूयाम । प्रार्थनायां लिङ् । उत्तमबहुवचने ‘ नित्यं । ३त ‘ वस्तुतस्तु ' आतो तिः' (पा. सू. ७. २. ८१ ) इत्यनेनैव इयादेशो भवति ॥ डितः' इति सकारलोपः । ‘ यासुट् परस्मैपदेषूदात्तो ङिच्च' (पा. सू. ३. ४. १०३ ) इति उदात्तो यासुडागमः । लिङः सलोपोऽनन्त्यस्य ' ( पा. सू. ७. २. ७९ ) इति सकारलोपः । ‘ बहुलं छन्दसि ' इति शपो लुक् । सति शिष्टत्वात् यासुडुदात्त एव शिष्यते । वाजदाव्नाम् । वाजं ददतीति वाजदावानः । ‘ आतो मनिन् ' ( पा. सू. ३. २. ७४ ) इत्यादिना वनिप् । तस्य पित्त्वात् धातुस्वर एव शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । आमि • अल्लोपोऽनः ' ( पा. सू. ६. ४. १३४ ) इति अकारलोपः । तस्य ' अचः परस्मिन् ' (पा. सू. १. १. ५७) इति स्थानिवद्भावात् ' लोपो व्योर्वलि' (पा. सू. ६. १. ६६ ) इति वकारलोपो न भवति ॥
“The mingled (libations; yuvāku = mixture of curds and ghee; śacīnām, mixture of butter milk, water and meal) of our pious rites, the mingled yuvāku sumatīnām = (laudations) of our right-minded (= sumatīnām, priests, are prepared); may we be (included) among the givers of food.”
May we be sharers of the powers, sharers of the benevolence
Of you who give strength bounteously.
For we would like to be (part) of the powers of you two,
of your favors that grant victory prizes.
Lasst uns, o die ihr Güter schenkt, Theil haben uns an eurer Kraft, Theil haben uns an eurer Huld.
Denn wir möchten eure Künste, euer der Lohngebenden, Gnaden, teilhaft werden.
К вашим силам,
К вашим милостям
Мы хотели бы приобщаться – ведь вы дарите награды!
इन्द्र॑: सहस्र॒दाव्नां॒ वरु॑ण॒: शंस्या॑नाम् । क्रतु॑र्भवत्यु॒क्थ्य॑: ॥
इन्द्रः॑ । स॒ह॒स्र॒ऽदाव्ना॑म् । वरु॑णः । शंस्या॑नाम् । क्रतुः॑ । भ॒व॒ति॒ । उ॒क्थ्यः॑ ॥
अयम् इन्द्रः सहस्रदाव्नां सहस्रसंख्याकधनप्रदानां मध्ये क्रतुः धनदानस्य कर्ता भवति प्रभूतं ददातीत्यर्थः । तथा वरुणः शंस्यानां स्तुत्यानां मध्ये उक्थ्यः स्तुत्यो भवति अतिशयेन स्तुत्य इत्यर्थः ॥ वरुणः । उनन्प्रत्ययो नित्त्वादाद्युदात्तः । शंस्यानाम् । ‘ शंसु स्ततौ ' । ऋहलोर्ण्यत्' । ‘तित्वरितम्' इति प्राप्ते ‘ईडवन्दवृशंसदुहां ण्यतः ' ( पा. सू. ६. १. २१४ ) इत्याद्युदात्तः । क्रतुः । ‘ कृञः कतुः' (उ. सू. १. ७७) इति कतुः । कित्वा् द्गुणाभावे यणादेशः । प्रत्ययस्वरेणाद्युदात्तः । उक्थ्यः । उक्थं शस्त्रम् । तेन स्तुत्यत्वेन तत्र भव उक्थ्यः । ‘ भवे छन्दसि' (पा. सू. ४. ४. ११० ) इति यत् । ‘ यस्य° ' इति लोपः । अत्र ‘ तित्स्वरितम्' इत्येतद्बाधित्वा ‘ तीर्थ्याय कूप्याय' इत्यादिवत् द्व्यचत्वात् “ यतोऽनावः' इति प्राप्तमाद्युदात्तत्वं सर्वे विधयश्छन्दसि विकल्प्यन्ते' ( परिभा. ३५) इति न क्रियते । ननु ' यस्य' इति लोपात् प्रागेव तित्स्वरितत्वमस्तु । न हि तदा ‘ यतोऽनावः' इत्येतदस्ति, द्व्यच्त्वाभावात् । अत एव हि ‘ ऊर्म्याय च सूर्म्याय च ' इत्यादौ स्वरितत्वं दृश्यते । न च परत्वान्नित्यत्वाच्च ‘ यस्य ' इति लोपेन प्रथमतो भाव्यमिति वाच्यम् । प्रकृतिप्रत्ययाश्रयात् बहिरङ्गात् “ यस्य° ' इति लोपात् प्रत्ययमात्राश्रयतया अन्तरङ्गत्वेन ‘ तित्स्वरितम्' इत्येतस्य प्राबल्यात् । अतः ‘ ऊर्म्याय ' इत्यादिवत् “ उक्थ्यः' इत्यत्रापि लक्षणत एव स्वरितत्वं भविष्यतीति किं छान्दस्येन । यत्र हि लोपमन्तरेणैव द्व्यच्त्वं तत्र ‘ यतोऽनावः' इत्येतद्भवति । यथा चेयं येयमिति । लोपनिबन्धनद्व्यच्त्वप्रदेशेषु तु स्वरितेनैव भवितव्यमिति । एवं तर्हि ‘ तीर्थ्याय कूप्याय ' इत्यादौ यत् आद्युदात्तत्वं तदेव च्छान्दसमस्तु । अथात्र तु वार्णादाङ्गं बलीयः' ( परिभा. ५५) इत्यन्तरङ्गत्वेऽपि स्वरितत्वं बाधित्वा लोप एव भविष्यति । तर्हि ‘उक्थ्यः, ऊर्म्याय सूर्म्याय ' इत्यादौ च च्छान्दस्यमस्तु । सर्वथैकत्र च्छान्दस्यान्न मुच्यते ॥ ॥ ३२ ॥
“Indra is a giver among the givers of thousands;Varuṇa is to be praised among those who are deserving of laudation.”
Indra and Varuna, among givers of thousands, meet for praise,
Are Powers who merit highest laud.
Indra is (master?) of (favors) that grant thousands, Varuṇa of (riches) worth proclaiming.
Their resolve becomes worthy of hymns.
Denn Indra ist gepries'ne Kraft der Schar, die tausend Gaben weiht, Der rühmenswerthen Varuna.
Indra, Varuna sind der preisliche Rat der rühmlichen Tausendschenker.
Индра из (богов), дающих тысячу,
Варуна из (богов,) достойных прославления,
Воплощают силу духа, которая должна быть воспета.
तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि । स्यादु॒त प्र॒रेच॑नम् ॥
तयोः॑ । इत् । अव॑सा । व॒यम् । स॒नेम॑ । नि । च॒ । धी॒म॒हि॒ । स्यात् । उ॒त । प्र॒ऽरेच॑नम् ॥
तयोरित् पूर्वोक्तयोरिन्द्रावरुणयोरेव अवसा रक्षणेन वयम् अनुष्ठातारः सनेम संभजेम धनमिति शेषः । नि धीमहि च । प्राप्ते धने यावदपेक्षितं तावद्भुक्त्वा ततोऽवशिष्टं धनं क्वचिन्निधिरूपेण स्थापयामश्च । उत अपि च प्ररेचनं भुक्तान्निहिताच्च प्रकर्षेणाधिकं धनं स्यात् संपद्यताम् ॥ अवसा । असुन् । नित्त्वादाद्युदात्तः । वयम् । ‘ यूयं हि ष्ठा ' ( ऋ. सं. १, १५. २ ) इत्यत्र यदुक्तं तदत्र द्रष्टव्यम् । सनेम । आशिषि लिङ् । तस्य मस् । ‘ नित्यं ङितः' इति सकारलोपः। ‘ किदाशिपि ' ( पा. सू. ३. ४. १०४ ) इति यासुट् । छन्दस्युभयथा' इति सार्वधातुकत्वमप्यस्तीति ‘ लिङः सलोपोऽनन्त्यस्य ' ( पा. सू. ७. २. ७९ ) इति सकारलोपः। अतो येयः ' (पा. सू. ७. २. ८०) इति इयादेशः। ‘लोपो व्योर्वलि' (पा. सू. ६. १.६६) इति यलोपः । ‘लिङ्याशिष्यङ्' (पा. सू. ३ १.८६) इति अङ्। ‘आद्गुणः' । पादादित्वात् न निघातः। धीमहि ।' दुधाञ् धारणपोषणयोः । आशिषि लिङो महिङ्। तस्य छन्दस्युभयथा' इति सार्वधातुकार्धधातुकसंज्ञे । तत्र सार्वधातुकत्वेन ‘लिङः सलोपोऽनन्त्यस्य ' इति सकारलोपः । ‘ सार्वधातुकमपित्' इति ङित्त्वं शप् च । ‘ बहुलं छन्दसि ' इति जुहोत्यादेरपि शपो लुक् । आर्धधातुकत्वात् ‘ आतो लोप इटि च' (पा. सू. ६. ४. ६४ ) इति आकारलोपः । निघातः । सनेम इत्यपेक्षया द्वितीयत्वादत्र ‘ चवायोगे प्रथमा ' इति न निषेधः । स्यात् । अस्तेः प्रार्थनायां लिङ्। तिप् । ‘ इतश्च' (पा. सू. ३. ४. १०० ) इति इकारलोपः। ‘यासुट् परस्मैपदेषूदात्तो ङिच्च' (पा. सू. ३. ४. १०३ ) इति यासुङ्ङित्त्वे ।' अदिप्रभृतिभ्यः शपः' इति शपो लुक् । असोरल्लोपः' इति अकारलोपः । पादादित्वात् अनिघातः । उत। एवमादीनामन्तः' इत्यन्तोदात्तः । प्ररेचनम् । ‘ रिचिर् विरेचने '। भावे ल्युट् । योरनादेशः । लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम्। प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“Through their protection, we enjoy (riches) and heap them up, and still there is abundance.”
Through their protection may we gain great store of wealth, and heap it up
Enough and still to spare, be ours.
With the aid of just those two might we win and secure (the winnings). And might there be a surplus.
Durch ihre Gunst empfangen wir die Schätze und verwahren sie; Es bleib uns noch ein Ueberschuss.
Mit Vergunst beider wollen wir verdienen und zurücklegen und es möge ein Überschuß bleiben.
Это с их помощью
Мы хотим добыть и отложить,
(И) пусть будет еще остаток!
इन्द्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से । अ॒स्मान्त्सु जि॒ग्युष॑स्कृतम् ॥
इन्द्रा॑वरुणा । वा॒म् । अ॒हम् । हु॒वे । चि॒त्राय॑ । राध॑से । अ॒स्मान् । सु । जि॒ग्युषः॑ । कृ॒त॒म् ॥
इन्द्रावरुणा हे इन्द्रावरुणौ वां युवामुभौ अहं हुवे आह्वयामि । किमर्थम् । चित्राय मणिमुक्तादिरूपेण विविधाय राधसे धनाय! तत आहूतौ युवाम् अस्मान् अनुष्ठातॄन् सु जिग्युषः शत्रुविषये सुष्ठु जययुक्तान् कृतं कुरुतम् ॥ इन्द्रावरुणा। ‘सुपां सुलुक्' इत्यादिना संबोधनस्य आकारः । देवताद्वन्द्वे च ' इति पूर्वपदस्य आनङ् । आमन्त्रिताद्युदात्तत्वम्। संहितायां छान्दसं ह्रस्वत्वम् । हुवे । ह्वयतेः लडुत्तमैकवचनम् इट् । शपः ' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति लुक् । ‘ ह्वः' इत्यनुवृत्तौ ‘ बहुलं छन्दसि ' इति संप्रसारणं परपूर्वत्वम् । अचि श्नुधातु° ' ( पा. सू. ६. ४. ७७ ) इत्यादिना उवङ् । न च “ हुश्नुवोः° ' ( पा. सू. ६. ४. ८७ ) इत्यादिना यणादेशः । जुहोतेरेव हि प्रतिपदोक्तस्य तत्, न पुनरस्य लाक्षणिकत्वात् । इटः प्रत्ययस्वरेणोदात्तत्वम् । पादादित्वात्। न निघातः । राधसे । असुन् । नित्त्वादाद्युदात्तत्वम् । अस्मान् । शसि ‘ द्वितीयायां च ' (पा. सू. ७. २. ८७ ) इति आत्वम् । ‘ शसो न ' ( पा. सू. ७. १. २९ ) इति नत्वम् । जिग्युषः । ‘ जि जये '। लिटः ‘क्वसुश्च' (पा. सू. ३, २. १०७) इति क्वसुः । द्विर्भावः । ‘सन्लिटोर्जेः ' ( पा. सू. ७. ३. ५७ ) इति द्वितीयस्य कुत्वम् । क्वसोः कित्त्वाद्गुणाभावः । क्रादिनियमात् प्राप्तस्य इटः ‘वस्वेकाजाद्धसाम्' इति नियमेन निवृत्तिः । द्वितीयाबहुवचनं शस् । भसंज्ञायां ' वसोः संप्रसारणम्' इति संप्रसारणम् । परपूर्वत्वम् । ‘ एरनेकाचः' इति यणादेशः । ‘ शासिवसिघसीनां च ' इति षत्वम् । प्रत्ययस्वरेण उकार उदात्तः । कृतम् । ‘डुकृञ् करणे ' । लोण्मध्यमद्विवचनस्य लङ्वद्भावात् तमादेशः । शपः ‘बहुलं छन्दसि ' इति लुक् । ' तिङ्ङतिङः' इति निघातः ॥ . १९
“I invoke you both, Indra and Varuṇa, quickly bestow happiness upon us, for our minds are devoted to you both.”
O Indra-Varuna, on you for wealth in many a form I call:
Still keep ye us victorious.
Indra and Varuṇa, I invoke you two for brilliant bounty.
Make us victors.
Euch ruf' ich, Indra-Varuna zu mannichfacher Gabe an, O lasset stets uns siegreich sein.
Indra und Varuna, ich rufe euch an um eine ansehnliche Ehrengabe; machet uns fein zu Siegern!
О Индра-Варуна, вас двоих я
Призываю для замечательного дарения.
Сделайте нас прекрасно победившими!
इन्द्रा॑वरुण॒ नू नु वां॒ सिषा॑सन्तीषु धी॒ष्वा । अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ॥
इन्द्रा॑वरुणा । नु । नु । वा॒म् । सिसा॑सन्तीषु । धी॒षु । आ । अ॒स्मभ्य॑म् । शर्म॑ । य॒च्छ॒त॒म् ॥
इन्द्रावरुणा हे इन्द्रावरुणौ धीषु अस्मदीयबुद्धिषु वां युवां सिषासन्तीषु सनितुं संभक्तुं सम्यक् सेवितुमिच्छन्तीषु तदानीम् आ समन्तात् अस्मभ्यं शर्म सुखं नू नु अतिशयेन क्षिप्रं यच्छतं दत्तम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसु नु मक्षु ' (नि. २. १५. १ ) इति पठितम् । तस्य द्विरावृत्तिबलादतिशयो लभ्यते ॥ इन्द्रावरुणा । उक्तम्। नू नु। ‘ ऋचि तुनुघमक्षुतङ्कुत्रौरुष्याणाम्' इति पूर्वस्य दीर्घत्वम् । सिषासन्तीषु । ' वन षण संभक्तौ ।' धात्वादेः षः सः'। इच्छायां सन् । द्विर्भावो हलादिशेषः । ‘ सन्यतः' इति इत्वम्। आदेशप्रत्यययोः' (पा. सू. ८.३.५९) इति षत्वम् । सनीवन्त°? ( पा. सू. ७. २. ४९ ) इत्यादिना विकल्पात् इडभावः । ‘ जनसखन सञ्झलोः ' ( पा. सू. ६. ४. ४२ ) इति नकारस्य आकारः । उपरि लटः शतृ । कर्तरि शप् । उगितश्च ' ( पा. सू. ४. १ . ६) इति ङीप् । शप्श्यनोर्नित्यम् ' ( पा. सू. ७. १.८१ ) इति नुम् । ङीपः शपश्च पित्त्वात् शतुश्च लसार्वधातुकत्वेनानुदात्तत्वम् । सनो नित्त्वादाद्युदात्तत्वम् । तदेव शिष्यते । धीषु । ‘ सावेकाचः° इति विभक्तेरुदात्तत्वम् । अस्मभ्यम् । अस्मभ्यमप्रतिष्कुतः ' ( ऋ. सं. १, ७, ६ ) इत्यत्रोक्तम् । यच्छतम् । दाण् दाने ' । शपि ‘ पाघ्रा ' इत्यादिना यच्छादेशः ॥
“Indra and Varuṇa, quickly bestow happiness upon us, for our minds are devoted to you both.”
O Indra-Varuna, through our songs that seek to win you to ourselves,
Give us at once your sheltering help.
Indra and Varuṇa, just now, while our poetic insights are striving to win you two,
extend shelter to us.
Nun, nun verleiht uns euren Schutz bei den Gebeten, die nach euch Verlangen, Indra-Varuna.
Indra und Varuna! Da die Gedichte euch recht bald zu gewinnen suchen, so gewähret uns euren Schirm!
О Индра-Варуна, в тот самый миг,
Когда молитвы стремятся покорить вас,
Даруйте нам защиту.
प्र वा॑मश्नोतु सुष्टु॒तिरिन्द्रा॑वरुण॒ यां हु॒वे । यामृ॒धाथे॑ स॒धस्तु॑तिम् ॥
प्र । वा॒म् । अ॒श्नो॒तु॒ । सुऽस्तु॒तिः । इन्द्रा॑वरुणा । याम् । हु॒वे । याम् । ऋ॒धाथे॑ इति॑ । स॒धऽस्तु॑तिम् ॥
इन्द्रावरुणा हे इन्द्रावरुणौ याम् अस्मत्कर्तृकां शोभनस्तुतिं प्रति हुवे युवामुभौ आह्वयामि ॥ किंच सधस्तुतिं युवयोरुभयोः साहित्येन क्रियमाणायाः स्तवक्रियायाः यां सुष्टुतिं प्रतिलभ्य ऋधाथे युवां वर्धाथे तादृशी सुष्टुतिः शोभनस्तुतिहेतुभूत ऋक्समूहः वामश्नोतु युवा व्याप्नोतु ॥ अश्नोतु ॥ ‘ अशू व्याप्तौ'। लोटो व्यत्ययेन तिप् । स्वादिभ्यः श्नुः' । सुष्टुतिः। न विन्धे अस्य सुष्टुतिम्' ( ऋ. सं. १. ७. ७) इत्यत्रोक्तम् । इन्द्रावरुणा हुवे । उक्ते । अत्र तु यद्वृत्तयोगान्न निघातः । ऋधाथे । ‘ ऋधु वृद्धौ' । लट् । व्यत्ययेनात्मनेपदम् । मध्यमद्विवचने श्नोः ‘बहुलं छन्दसि' इति लुक् । प्रत्ययस्वरेण आकार उदात्तः । यच्छब्दयोगात् न निघातः । सधस्तुतिम् । सह स्तुतिर्यस्यां सुष्टुतौ सा सधस्तुतिः । अत्र सुष्टुतिरित्यन्यपदार्थे स्तुतिशब्दस्य स्तूयतेऽनयेति करणसाधनत्वेन ऋक्परत्वे अयं स्तुतिशब्दो भावसाधनतया स्तवनक्रियापरः । तस्मिन् भावसाधनत्वेन क्रियापरे अयं करणसाधनतया ऋक्पर इति समस्यमानपदार्थादन्यः । सहेत्यत्र हकारस्य व्यत्ययेन धकारः । सहशब्दः एवमादित्वादन्तोदात्तः । बहुव्रीहित्वेन पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ३३ ॥ ॥ ४ ॥
“May the earnest priase which I offer to Indra and Varuṇa reach you both--that conjoint praise which you (accepting), dignify.”
O Indra-Varuna, to you may fair praise which I offer come,
Joint eulogy which ye dignify.
Let that lovely praise reach you two, Indra and Varuṇa, which I invoke, which you bring to fulfillment as your joint praise.
Das Loblied, das ich singe nun, erreich' euch, Indra-Varuna, Das Chorlied, dem Gedeihn ihr schenkt.
Euch soll das Loblied erreichen, Indra und Varuna, das ich hinausrufe, der gemeinsame Lobpreis, den ihr erfolgreich machen sollet.
Пусть достигнет вас прекрасное восхваление,
О Индра-Варуна, с которым я взываю,
Общее восхваление, которое вы сделаете успешным!