न नू॒नमस्ति॒ नो श्वः कस्तद्वे॑द॒ यदद्भु॑तम् । अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥
न । नू॒नम् । अस्ति॑ । नो इति॑ । श्वः । कः । तत् । वे॒द॒ । यत् । अद्भु॑तम् । अ॒न्यस्य॑ । चि॒त्तम् । अ॒भि । स॒म्ऽच॒रेण्य॑म् । उ॒त । आऽधी॑तम् । वि । न॒श्य॒ति॒ ॥
परिदेवनप्रकारः प्रतिपाद्यते । इन्द्र आह । अद्यतनं यदस्ति तत् नूनम् अद्य न अस्ति । नूनमत्र विचिकित्सार्थे । अत्र अद्य इति यद्यपि नास्ति तथापि उत्तरवाक्ये श्वः इति दर्शनादत्र अद्येति गम्यते । तथा श्वः अपि नूनं नो। उशब्दः अवधारणे। श्वस्तनमपि नैव नास्ति । अद्य यथा अस्मदर्थनिरुप्तम् अस्मभ्यं नास्ति किल श्वः कथं लप्स्यते इति भावः। यदद्भुतम् अन्यस्मै निरुप्य अन्यस्मै दत्तमति यदस्ति वैपरीत्यं तत् कः वेद । यद्वा । यदद्भुतं भावि कार्यं यदस्ति तत्को वेद । अद्य श्वो वा लभ्यते इत्याशा न कार्येत्युक्तं भवति । तदेवाह । अभि संचरेण्यं सर्वतः संचारि अन्यस्य चित्तं मानसं जानतीति शेषः । उत अपि च आधीतम् आध्यातं चिन्तितमपि न दृश्यं किमु सकृत्स्मृतं वि नश्यति इति ॥
“(Indra speaks): It is not certain what today or what tomorrow will yield to us; who comprehends this mystery; verily, the mind of any other (being) is of an unsteady (nature), and even that which has been profoundly studied, is (in time) forgotten.”
NAUGHT is to-day, to-morrow naught. Who comprehends the mystery?
We must address ourselves unto another's thought, and lost is then the hope we formed.
[Indra:] Now is there nothing? And tomorrow nothing? Who
understands this (nothing), which is unmistakable (to me)?
The thought of another can be bewitched and what he expected is lost.
»Nicht heute gibt's noch morgen den, der die verborgne Zukunft kennt; Nach eines andern Willen muss man richten sich, die eigne Absicht fällt dahin.«
Jetzt ist nichts und morgen ist nichts. Wer kennt das Unerforschliche? Man muß sich nach dem Sinn eines anderen richten und die Absicht wird zunichte.
Ни сегодня нет, ни завтра.
Разве кто поймет то, что непостижимо?
Если следовать намерению другого,
То желанное исчезает.
Маруты:
किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ । तेभि॑: कल्पस्व साधु॒या मा न॑: स॒मर॑णे वधीः ॥
किम् । नः॒ । इ॒न्द्र॒ । जि॒घां॒स॒सि॒ । भ्रात॑रः । म॒रुतः॑ । तव॑ । तेभिः॑ । क॒ल्प॒स्व॒ । सा॒धु॒ऽया । मा । नः॒ । स॒म्ऽअर॑णे । व॒धीः॒ ॥
इदमगस्त्यवाक्यम् । हे इन्द्र नः अस्मान् अनपराधिनः किं जिघांससि हन्तुमिच्छसि । कथमवध्यत्वमिति अत आह । मरुतः तव भ्रातरः । त्वया भोगप्रदानेन भरणीया इत्यर्थः । अतो वयमवध्या इत्युक्तं भवति । मरुतामिन्द्रभ्रातृत्वम् एकस्मिन्नेवादितिगर्भे उत्पन्नत्वात् । सा चोत्पत्तिः पुराणेषु प्रसिद्धा । सन्तु भ्रातरस्ततश्च किमिति अत आह । तेभिः तैर्मरुद्भिः सह साधुया साधुत्वं कल्पस्व कल्पय हविर्भागं तैः सह युद्धं वा । नः अस्मान् समरणे संग्रामे मा वधीः मा हिंसीः । यद्वा । लुप्तो दृष्टान्तः । संग्रामे यथा विरोधिनं हंसि न तथास्मानिति ॥
“(Agstya): Why, Indra, do you purpose to slay us; the Maruts are your brothers; share with them (the offering) in peace; destroy us not in enmity.”
The Maruts are thy brothers. Why, O Indra, wouldst thou take our lives?
Agree with them in friendly wise, and do not slay us in the fight.
[Agastya:] Are you going to strike us down, Indra? The Maruts are your brothers.
Make a proper arrangement with them. Do not strike us down in your confrontation (with them).
»Warum willst, Indra, tödten du uns Maruts, die dir Brüder sind? Mit solchen musst du freundlich sein; nicht schlage du im Kampfe uns.
Warum willst du, Indra, uns umbringen? Die Marut sind deine Brüder. Mit denen vertrag dich gut! Bring uns nicht im Streit um.
Зачем ты, Индра, хочешь нас погубить?
Маруты – твои братья.
Обращайся с ними хорошо!
Не убивай нас в столкновении!
Маруты:
किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे । वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ॥
किम् । न॒ । भ्रा॒तः॒ । अ॒ग॒स्त्य॒ । सखा॑ । सन् । अति॑ । म॒न्य॒से॒ । वि॒द्म । हि । ते॒ । यथा॑ । मनः॑ । अ॒स्मभ्य॑म् । इत् । न । दि॒त्स॒सि॒ ॥
इदमिन्द्रवाक्यम् । हे भ्रातः हे अगस्त्य । हविष्प्रदानवरप्रदानाभ्यां परस्परोपकारत्वात् भ्रातृत्वम् । तादृशस्त्वं सखा सन् अस्मद्धितकार्यपि सन् नः अस्मान् किम् अति मन्यसे । कस्मादपराधादतिक्रम्य मनुषे । अपलपसि । नायमपलापः किंतु तथ्यमेवेति चेत् उच्यते । गन्तव्यं ते तव मनः मानसं यथा यथावस्तु विद्म जानीमः । कथं जानीथेति उच्यते । अस्मभ्यमिन्न दित्ससि । अस्मदर्थं निरुप्तमस्मभ्यं दातुं नेच्छस्येव । इत् एवार्थे ।
“(Indra): Wherefore, brother Agastya, do you, who are my friend, treat me with regard; verily, we know what is in your mind; you do not intend to give us anything.”
Agastya, brother, why dost thou neglect us, thou who art our friend?
We know the nature of thy mind. Verity thou wilt give us naught.
[Indra:] If you are our companion, brother Agastya, why do you
overlook us?
For we understand what your thinking is: it is only to us that you do not wish to give.
Warum, Agastja, Bruder du, versäumst du uns, obwol uns freund? Denn wir erkennen deinen Sinn, dass du uns heut nicht spenden willst.«
Warum achtest du uns gering, Bruder Agastya, der du doch unser Freund bist? Wir wissen ja, wie dein Sinn ist. Du willst uns nichts geben.
Почему же, о брат Агастья,
Будучи другом, ты мало уважаешь нас?
Ведь мы знаем, какова твоя мысль:
Нам ты ничего не хочешь дать!
Агастья:
अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः । तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥
अर॑म् । कृ॒ण्व॒न्तु॒ । वेदि॑म् । सम् । अ॒ग्निम् । इ॒न्ध॒ता॒म् । पु॒रः । तत्र॑ । अ॒मृत॑स्य । चेत॑नम् । य॒ज्ञम् । ते॒ । त॒न॒वा॒व॒है॒ ॥
इदमिन्द्रवाक्यम् । अपरे अगस्त्यवाक्यमाहुः । हे ऋत्विजो यूयं अगस्त्योऽङ्गीकृतवान् तस्मात् वेदिम् अरं कृण्वन्तु । संमार्जनपर्युक्षणादिना परिचरन्तु । तथा पुरः पुरस्तात् अग्निम् आहवनीयादिकं सम् इन्धताम् इध्मप्रक्षेपेण प्रज्वालयन्तु । तत्र अग्नौ अमृतस्य अमरणलक्षणस्य वेदत्वस्य चेतन प्रज्ञापकं यज्ञं हे अगस्त्य ते त्वदीयं त्वं चाहं च तनवावहै । अगस्त्यवाक्यपक्षे शिष्टमविशिष्टम् । तत्र वेद्याममृतस्य तत्साधनस्य हविषो वा चेतनं प्रज्ञापनमासादनं कुरुत । आवां पत्नीयजमानौ अध्वर्युयजमानौ वा हे इन्द्र ते त्वदर्थं यज्ञं तनवावहै ॥
“(Agastya): Let the priests decorate the altar; let them kindle the fire to the east; and then let us both consummate the sacrifice, the inspirerof immortal (wisdom).”
Let them prepare the altar, let them kindle fire in front: we two
Here will spread sacrifice for thee, that the Immortal may observe.
[Agastya:] Let them ready the altar. Let them kindle the fire in front (of it).
The appearance of the immortal (soma will be) there. We two shall
extend the sacrifice for you.
Den Altar mögen schmücken sie, entzünden Feuer auch zuvor, Dann schaffen beide wir den Glanz des Gottes und das Opfer dir.
Sie sollen die Vedi zurechtmachen, sie sollen zuvörderst das Feuer entzünden. Darin wollen wir beide dir, dem Unsterblichen, ein denkwürdiges Opfer vollziehen.
Пусть они украсят алтарь!
Пусть они зажгут перед (ним) огонь!
Тут мы оба хотим приготовить
Замечательную жертву тебе, бессмертному!
Агастья:
त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठ॑: । इन्द्र॒ त्वं म॒रुद्भि॒: सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥
त्वम् । ई॒शि॒षे॒ । व॒सु॒ऽप॒ते॒ । वसू॑नाम् । त्वम् । मि॒त्राणा॑म् । मि॒त्र॒ऽप॒ते॒ । धेष्ठः॑ । इन्द्र॑ । त्वम् । म॒रुत्ऽभिः॑ । सम् । व॒द॒स्व॒ । अध॑ । प्र । अ॒शा॒न॒ । ऋ॒तु॒ऽथा । ह॒वींषि॑ ॥
इदमगस्त्यवाक्यम् । हे वसूनां वसुपते अतिप्रभूतानां पुरोडाशाज्यादिधनानां स्वामिन् हे इन्द्र त्वमीशिषे ईश्वरो भवसि सर्वस्य। वृत्त्यवृत्तिभ्यां बहुत्वं नित्यं संबन्धश्च प्रतिपद्यते । यद्वा । हे वसुपते वसूनामीशिषे इति योजना । द्वितीयो वसुशब्दोऽनुवादो वा । तथा हे मित्राणां मित्रपते अस्मदादिमित्रस्य नित्यं पालकेन्द्र त्वं धेष्ठः सर्वस्यातिशयेन धारकोऽसि । हे इन्द्र त्वम् उक्तमहिमस्त्वं मरुद्भिः सं वदस्व तैः साकं सम्यक्कृतमिति वदस्व । अध अपि च त्वम् ऋतुथा ऋतावृतौ । उपलक्षणमेतत्कालस्य । तत्तद्योगकाले हवींषि आज्यचर्वादीनि प्राशान प्रकर्षेण भुङ्क्ष्व ॥ ॥ १० ॥
“(Agastya); You, Vasupati, are the lord of riches; you, Mitrapati, are the firm stay (of us), your friends; declare, Indra, along with the Maruts, (your approval of our acts), and partake of the oblation offered in due season.”
Thou, Lord of Wealth, art Master of all treasures, thou, Lord of friends, art thy friends' best supporter.
O Indra, speak thou kindly with the Maruts, and taste oblations in their proper season.
You are the master of good things, o lord of goods. You are the foremost institutor of alliances, o lord of alliances.
O Indra, come to an agreement with the Maruts, and then eat the
oblations in the proper ritual order.
Du Herr des Guts gebietest über Güter, du Freundeherr beschenkst die Freunde reichlichst; O Indra, sprich du freundlich mit den Maruts, und nach dem Brauch geniess die Opfertränke.
Du Schätzeherr gebeutst über die Schätze; du bist der, der am meisten Freundschaft schließt, o Herr der Freundschaft. Indra, verständige dich mit den Marut und iß zu rechter Zeit die Opferspeisen!"
О господин благ, ты распоряжаешься благами!
О господин дружеских договоров, ты лучше всех заключаешь дружеские договоры!
О Индра, сговорись ты с Марутами
И вкушай жертвенные блюда в урочное время!