चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः । मरु॑तो॒ अहि॑भानवः ॥
चि॒त्रः । वः॒ । अ॒स्तु॒ । यामः॑ । चि॒त्रः । ऊ॒ती । सु॒ऽदा॒न॒वः॒ । मरु॑तः । अहि॑ऽभानवः ॥
हे मरुतः वः युष्माकं यामः अस्मद्यज्ञागमः चित्रः चायनीयः पूज्यः आश्चर्यभूतो वा अस्तु भवतु । न केवलमागमनमेव चित्रं किंतु हे सुदानवः शोभनदानाः हे अहिभानवः अहीयमानप्रकाशाः युष्माकं संबन्धी चित्रः स आगमः ऊती ऊत्यै रक्षणाय इष्टतर्पणाय वा युक्तश्च भवतु । तदागमनं शीघ्रमस्तु अभिमतप्रदं चास्त्वित्यर्थः ॥
“Maruts, of inseparable splendour, may your coming be marvellous, liberal benefactors, for our protection.”
WONDERFUL let your coming be, wondrous with help, ye Bounteous Ones,
Maruts, who gleam as serpents gleam.
Bright be your course, bright with your help, o Maruts rich in drops, who gleam like snakes.
Es möge reich sein eure Fahrt, an Hülfen reich, o spendende, Die, Maruts, ihr wie Schlangen glänzt!
Wunderbar muß eure Ausfahrt sein, wunderbar durch die Hilfe, ihr gabenschönen, wie Schlangen glänzenden Marut.
Ярким да будет ваш выезд,
Ярким благодаря помощи, о щедродающие
Маруты, сверкающие как змеи!
आ॒रे सा व॑: सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑: । आ॒रे अश्मा॒ यमस्य॑थ ॥
आ॒रे । सा । वः॒ । सु॒ऽदा॒न॒वः॒ । मरु॑तः । ऋ॒ञ्ज॒ती । शरुः॑ । आ॒रे । अश्मा॑ । यम् । अस्य॑थ ॥
हे सुदानवः शोभनदानाः मरुतः वः युष्माकं संबन्धिनी ऋञ्जती प्रसाधयन्ती स्वतेजसा स्वात्मानमलंकुर्वती प्रसिद्धिं प्राप्नुवाना वा सा प्रसिद्धा शरुः हिंसका ऋष्टिः आरे दूरे भवतु । तथा यम् अस्यथ क्षिपथ सः अश्मा व्यापकः आयुधविशेषः आरे। दूरनामैतत् । दूरे भवतु मां न प्राप्नोतु । यद्वा । आरेशब्दः आराच्छब्दपर्यायः । स च दूरे समीपे च वर्तते । अत्र समीपवचनः । यम् अस्मत्तोऽन्यम् अस्यथ तं वैरिणमस्माकमुपलोपमः कठिन आयुधविशेषः आरे समीपं प्राप्नोतु ॥
“Maruts, liberal benefactors, may your bright destructive (shaft) be far from us; may the stone which you hurl be far from us.”
Far be from us, O Maruts, ye free givers, your impetuous shaft;
Far from us be the stone ye hurl.
In the distance be your straight-aiming arrow, you Maruts rich in drops, in the distance the stone that you hurl.
Fern sei von uns, o spendende, o Maruts, eur gezielter Pfeil, Und fern der Stein, mit dem ihr werft.
Fern sei dieses euer vorauseilendes Geschoß, ihr gabenschönen Marut, fern der Stein, den ihr schleudert!
Далеко (пусть летит), о щедродающие
Маруты, эта ваша разящая стрела,
Далеко – камень, что вы швыряете!
तृ॒ण॒स्क॒न्दस्य॒ नु विश॒: परि॑ वृङ्क्त सुदानवः । ऊ॒र्ध्वान्न॑: कर्त जी॒वसे॑ ॥
तृ॒ण॒ऽस्क॒न्दस्य॑ । नु । विशः॑ । परि॑ । वृ॒ङ्क्त॒ । सु॒ऽदा॒न॒वः॒ । ऊ॒र्ध्वान् । नः॒ । क॒र्त॒ । जी॒वसे॑ ॥
हे मरुतः सुदानवः शोभनदानाः यूयं तृणस्कन्दस्य तृणवत् चलनस्वभावस्य शुष्यमाणस्य वा मम विशः पुत्रभृत्यादिरूपाः प्रजाः नु क्षिप्रं परि वृङ्क्त परिवर्जयत बाधापरिहारेण रक्षत । यद्वा । उक्तलक्षणकालस्यासुरविशेषस्य वा प्रजाः परिवर्जयत । किंच नः अस्मान् ऊर्ध्वान् कर्त कुरुत जीवसे चिरजीवनाय ॥ ॥ १२ ॥
“Maruts, liberal benefactors, protect my people, (although I be) as insignificant as grass; lift us up, that we may live.”
O Bounteous Givers, touch ye not, O Maruts, Trnskanda's folk;
Lift ye us up that we may live.
Avoid the clans of Tr̥ṇaskanda (“Grasshopper”), you rich in drops. Set us upright, to live.
Des Trinaskanda Leute nun verschonet, reichlich spendende, Und richtet uns zum Leben auf.
Verschonet doch den Clan des Trinaskanda, ihr Gabenschönen! Richtet uns zum Leben auf!
А людей из рода Тринасканды
Пощадите, о щедродающие!
Сделайте, чтобы мы жили распрямившись!