त्वं राजे॑न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् । त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ॥
त्वम् । राजा॑ । इ॒न्द्र॒ । ये । च॒ । दे॒वाः । रक्ष॑ । नॄन् । पा॒हि । अ॒सु॒र॒ । त्वम् । अ॒स्मान् । त्वम् । सत्ऽप॑तिः । म॒घऽवा॑ । नः॒ । तरु॑त्रः । त्वम् । स॒त्यः । वस॑वानः । स॒हः॒ऽदाः ॥
हे इन्द्र त्वं राजा अधिपतिः सर्वस्य जगतः । किंच ये देवाः मरुदादयः सन्ति तेषामपि विशेषेण । अतो हे असुर शत्रूणां निरसितः त्वं नॄन् अस्मान् कर्मनेतॄन् यजमानान् रक्ष पालय। विशेषतोऽस्मानपि रक्ष । त्वं च सत्पतिः सतां सतः कर्मफलस्य वा पाता मघवा धनवान् नः अस्माकं तरुत्रः तारयिता पापात् किंच त्वं सत्यः अबाध्यः सत्यफलो वा वसवानः स्वतेजसा सर्वं छादयन् वसूनि वा कुर्वन् स्तोतृभ्यः सहोदाः सहसो बलस्य दाता भवेति शेषः ॥
“You, Indra, are king; they who are gods (are subject) to you; therefore, scatterer (of foes), do you protect and cherish us men; you are the protector of the good, the possessor of wealth, the extricator of us (from sin); you are true, the invester (of all with your lustre) the giver of strength.”
THOU art the King of all the Gods, O Indra: protect the men, O Asura, preserve us.
Thou Lord of Heroes, Maghavan, our saver, art faithful, very rich, the victory-giver.
You are king, Indra: guard those who are gods and the superior men; protect us, lordly one.
You, as lord of settlements, are our surpassing benefactor, you the real possessor of goods and giver of victorious power.
Ein König du, o Indra, und ihr Götter beschützt die Männer, schirme uns, o Ew'ger, Du starker Fürst, du uns ein mächt'ger Retter, du wahrhaft reich, und du ein Siegverleiher.
Du, Indra, bist der König über alle Götter. Schütze unseren Herren, behüte du uns, o Asura! Du bist der wahre Gebieter, unser freigebiger Nothelfer; du bist der wahre Gebieter, unser freigebiger Nothelfer, du bist der wahre Reiche, der die Übermacht verleiht.
Ты, о Индра, царь (людей) и (тех,) которые боги.
Охраняй мужей! Защити ты нас, о Асура!
Ты господин сущего, щедрый, (ты) наш спаситель.
Ты истинный обладатель добра, дающий силу превосходства.
दनो॒ विश॑ इन्द्र मृ॒ध्रवा॑चः स॒प्त यत्पुर॒: शर्म॒ शार॑दी॒र्दर्त् । ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रन्धीः ॥
दनः॑ । विशः॑ । इ॒न्द्र॒ । मृ॒ध्रऽवा॑चः । स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् । ऋ॒णोः । अ॒पः । अ॒न॒व॒द्य॒ । अर्णाः॑ । यूने॑ । वृ॒त्रम् । पु॒रु॒ऽकुत्सा॑य । र॒न्धीः॒ ॥
हे इन्द्र त्वं वृत्रसंबन्ध्यसुराणां पुरभेदनसमये मृधवाचः मर्षणवचनाः विशः तदीयाः प्रजाः शर्म सुखं यथा भवति तथा दनः अदमयः ॥ दमेरिदं रूपम् । यद्वा । वर्णव्यत्ययः ॥ नदः । अनदः अशब्दयः असुरप्रजाः । अतिभयंकरशब्दमकरोः। कदेति आह। यत् यदा शारदीः प्रत्यग्राः। यद्वा । एतत्संवत्सरलक्षकः । संवत्सरपर्यन्तं दृढीकृता अपि । सप्त पुरः एतत्संख्याकाः पुरीः दर्त् अदारयः ॥ पुरुषव्यत्ययः । दृणातेर्लङि छान्दसो विकरणस्य लुक् ।' रात्सस्य' (पा. सू. ८. २. २४ ) इति नियमात् तलोपाभावः ॥ तथा कृत्वा हे अनवद्य कातरत्वानिन्दावन् हे इन्द्र अर्णाः अरणशीलाः अपः तदीयदुर्गस्थानानि उदकाश्रयाणि तटाकादीन् ऋणोः । अगमयः प्रावर्तयः । भग्नान्यकरोः । एवमुपद्रुत्य पुरुकुत्साय एतन्नाम्ने राज्ञे यूने नित्यतरुणाय तदर्थं वृत्रम् एतन्नामकमसुरं रन्धीः असाधयः अहनः । अयमैतिहासिकपक्षः । निरुक्तरूढ्या तु हे इन्द्र मृध्रवाचो विशो मर्षणध्वनियुक्ता वृष्टिरूपाः प्रजा दनः अदमयः । अशब्दयो वा । अवर्षय इत्यर्थः । कदा । यद्यदा सप्त पुरः शारदीर्दर्त् सर्पणस्वभावान् प्रत्यग्रान् वृष्ट्या जगत्पूरकान् मेघानदारयः तदेत्यर्थः । तथा कृत्वा हे अनवद्य अर्णा अरणस्वभावा अपः ऋणोः अगमयः प्रावर्तयः कुल्यादिरूपेण । अनन्तरं यूने पुरुकुत्साय वृत्रं मुख्यं मेघं रन्धीः असाधयः अहनः । अयमर्थः ‘त्वं ह त्यदिन्द्र सप्त युध्यन् । (ऋ. सं. १. ६३. ७) इत्यादिमन्त्रान्तरेषु प्रसिद्धः । यास्कस्त्वेवं व्याख्यात्- दनो दानमनसो नो मनुष्यानिन्द्र मृदुवाचः कुरु ' ( निरु. ६. ३१ ) इति ॥
“You have humbled the people, suing for pardon when you have destroyed their seven new cities; you the irrproachable have dispersed the flowing waters; you have destroyed Vṛtra for the sake of the youthful Purukutsa.”
Indra, thou humbledst tribes that spake with insult by breaking down seven autumn forts, their refuge.
Thou stirredst, Blameless! billowy floods, and gavest his foe a prey to youthful Purukutsa.
You subdued the clans whose speech was scornful, Indra, when you split the seven autumnal strongholds, their shelter.
You set the flooding waters in motion, faultless one. You made Vr̥tra subject to the youth Purukutsa.
Du, Indra, straftest da die Schmäherstämme, als ihre Wehr du brachst, die sieben Burgen; Den Wasserstrom entliessest du, o reiner, gabst hin den Feind dem jungen Purukutsa.
Du, Indra, bezwangst die mitredenden Stämme, als er ihre Zuflucht, die sieben herbstlichen Burgen brach. Du Makelloser setztest die flutenden Gewässer in Bewegung; du unterwarfst dem jugendlichen Purukutsa den Vritra.
Ты подавил, о Индра, злоречивые племена,
Когда разбил семь осенних крепостей, (их) убежище.
Ты пустил течь воды потоками, о безупречный.
Ты отдал Вритру во власть юному Пурукутсе.
अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभि॑: पुरुहूत नू॒नम् । रक्षो॑ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां॑सि॒ वस्तो॑: ॥
अज॑ । वृतः॑ । इ॒न्द्र॒ । शूर॑ऽपत्नीः । द्याम् । च॒ । येभिः॑ । पु॒रु॒ऽहू॒त॒ । नू॒नम् । रक्षः॑ । अ॒ग्निम् । अ॒शुष॑म् । तूर्व॑याणम् । सिं॒हः । न । दमे॑ । अपां॑सि । वस्तोः॑ ॥
हे इन्द्र शूरपत्नीः शूरैः रक्षोभिः पालिताः वृतः । वर्तन्ते आस्विति वृतोऽसुरपुरीः । यद्वा । शूरा यजमानाः । तैः पालिताः वृतो वेदिभूमीः । अज गच्छ जेतुम् । तथा कृत्वा द्यां च नूनम् अवश्यम् अज । किं त्वमेक एव न । हे पुरुहूत बहुभिर्बहुधा वा आहूतेन्द्र येभिः मरुदादिभिरनुगतोऽसि तैः सहितः सन् । तथा कृत्वा अशुषम् आशोषयितारमशान्तं वा तूर्वयाणं तूर्णगमनम् अग्निं वैद्युतं होमाधारं वा अग्निं रक्षो रक्षस्वैव । किमर्थं रक्षणमिति उच्यते । दमे गृहे अपांसि कर्माणि कुर्वन् वस्तोः वस्तुम् । यद्वा । वासयितुं स्थापयितुम् । कारयितुमित्यर्थः । यज्ञद्विट्सु हतेष्वग्नौ सुस्थिरे सति यागाद्यनुष्ठानपरः स्थास्यामीत्यर्थः । रक्षणे दृष्टान्तः । सिंहः इव । स यथा स्वाश्रयभूतं वनं गजाद्युपद्रवपरिहारेण रक्षति तद्वत् । असुरपुरभङ्गगमने वा दृष्टान्तः । सिंहो यथा निर्भयो विरोधिमृगान् हन्तुं धावति तद्वत् ॥
“Go the cities inhabited by the rākṣasas, and thence to heaven (attended), receiver of many sacrifices by those who (attend you). Defend, like a lion, the untamed, quick-moving Agni, that he may abide in his dwelling, fulfilling his functions.”
With whom thou drivest troops whose lords are heroes, and bringest daylight now, much worshipped Indra,
With them guard lion-like wasting active Agni to dwell in our tilled fields and in our homestead.
Drive the troops whose lord is a champion [=you], Indra, and (those [=Maruts?]) with whom now (you gain?) heaven, much invoked one.
Guard insatiable Agni going in triumph; like a lion, (guard) his labors in the house at dawn.
Treib', Indra, an der Götterfrauen Scharen, den Himmel, Herr, mit den vereinten Helden, Bewahr das Feuer, das verzehrt und vordringt, dem Löwen gleich im Haus des Morgens Werke.
Führe die Heere zum Kampf, die in dir, Indra, einen tapferen Gebieter haben, und den Himmel, mit denen du jetzt, du Vielgerufener, verbündet bist. Hab acht auf Agni, auf Asusa, auf Turvayana! Wie ein Löwe soll Agni, wie des Morgens im Hause, seine Werke verrichten.
О Индра, гони (в наступление) войска, для которых (ты) – герой-повелитель,
И (тех,) с кем ты, о многопризываемый, сейчас (завоюешь) небо!
Охраняй Агни, Ашушу, Турваяну!
(Страшный,) как лев, (охраняй) обряды, (совершающиеся) в доме поутру!
शेष॒न्नु त इ॑न्द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी॑रवस्य म॒ह्ना । सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी॑ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ॥
शेष॑न् । नु । ते । इ॒न्द्र॒ । सस्मि॑न् । योनौ॑ । प्रऽश॑स्तये । पवी॑रवस्य । म॒ह्ना । सृ॒जत् । अर्णां॑सि । अव॑ । यत् । यु॒धा । गाः । तिष्ठ॑त् । हरी॒ इति॑ । धृ॒ष॒ता । मृ॒ष्ट॒ । वाजा॑न् ॥
हे इन्द्र ते शत्रवः सस्मिन् सर्वस्मिन् समाने वा योनौ स्वकीये स्थाने अन्तरिक्षे वा । योनिरन्तरिक्षम्। नु क्षिप्रं शेषन् शेरताम् ॥ शीङो लेटि अडागमः। व्यत्ययेन परस्मैपदम्। सिब्बहुलम् इति सिप् । किमर्थम्। प्रशस्तये प्रशंसनाय त्वत्स्तुतये। त्वन्महिमज्ञापनाय' इत्यर्थः। किं सेवनादिसाधनेनेत्याह । पवीरवस्य कुलिशस्य कुलिशशब्दस्य वा मह्ना महिम्ना । त्वद्वज्रप्रहारेण हता मेघाः शत्रवो वा तत्रैव शेरते निपातेन पलायन्ते इत्यर्थः । किंच यत् यदा युधा प्रहरणसाधनेनायुधेन युद्धेन वा गाः गच्छसि तदा अर्णांसि उदकानि अव सृजत् अवासृजः । अवाङ्मुखम् अपातयः ॥ पुरुषव्यत्ययः ॥ तदर्थं हरी अश्वौ तिष्ठत् अध्यतिष्ठः ॥ अत्रापि पुरुषव्यत्ययः । यद्वा । यदा हरी अधितिष्ठसि तदावासृजः । अथैवं कृत्वा वाजान् अन्नानि सस्यादिलक्षणानि धृषता धर्षकेण सामर्थ्येन मृष्ट शोधय प्रवर्धयेत्यर्थः ॥
“Let (your foes, Indra), humbled by the might of your thunderbolt rest in their own station, for your glory; when you move, (armed) with your weapons, you send down the waters; arresting your horses, increase, by your power, (the abundance of) food.”
They through the greatness of thy spear, O Indra, shall, to thy praise, rest in this earthly station.
To loose the floods, to seek, for kine, the battle, his Bays he mounted boldly seized the booty.
They [=enemies] will lie now in the same womb, Indra, for the
glorification of your metal-edged weapon in its greatness.
When by battle he sent the floods, the cows surging downward, he
mounted his two fallow bays; boldly he swiped the battle-prizes.
Die Feinde lass im Schooss der Erde liegen, zum Ruhm, o Indra, durch die Macht des Blitzes; Lass Fluten strömen, wenn zum Kampf du eilest, besteig' die Rosse, kühn gewinne Beute.
Die sollen nun im gleichen Schoße liegen, o Indra, zu hohen Ehren der Pavirakeule." Als er durch Kampf die Gewässer, die Kühe befreite, da bestieg er das Falbenpaar und strich mutig die Siegesgewinne ein.
Пусть же полягут сейчас в общем лоне эти (враги), Индра,
Во славу дубины грома, благодаря (ее) величию!
Когда ценою битвы он выпустил потоки, коров,
Он сел на двоих буланых коней (и) дерзко захватил награды.
वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ । प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥
वह॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । स्यू॒म॒न्यू इति॑ । ऋ॒ज्रा । वात॑स्य । अस्वा॑ । प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ । अ॒भि । स्पृधः॑ । या॒सि॒ष॒त् । वज्र॑ऽबाहुः ॥
हे इन्द्र कुत्सम् एतन्नामानमृषिं प्राप्तं स्यूमन्यू । ‘स्यूमकम्' (नि. ३. ६. ५) इति सुख- नाम । तदिच्छन्तौ सततगामिनौ वा ऋज्रा ऋजुगामिनौ वातस्य वायोः समानवेगौ अश्वा तदीयावश्वौ वह प्रस्थापय । यस्मिन् हविषि निमित्तभूते सति कुत्सं चाकन कामयसे तर्पयसे वा हविरादिकम् । तदर्थं सूरः प्रेरकः सूर्यः चक्रं स्वमण्डलं स्वरथचक्रं वा अभीके आसन्ने देशे बृहतात् ऊर्ध्वं गमयतु प्रकाशयतु । अथ परोक्षेणाह। वज्रबाहुः अयमिन्द्रः स्पृधः संग्रामं कुर्वतः शत्रून् अभि यासिषत् अभियातु ॥ ॥ १६ ॥
“Bear, Indra, with your obedient horses, as swift as the wind, (the sage) Kutsa, to that ceremony (to which) you desire (to convey him); let the sun bring near the wheel of his chariot, and let the thunder-armed advance against his opponents.”
Indra, bear Kutsa, him in whom thou joyest: the dark-red horses of the Wind are docile.
Let the Sun roll his chariot wheel anear us, and let the Thunderer go to meet the foemen.
Convey Kutsa, Indra, in whom you take pleasure. Eager for the halter are the two silvery horses of the Wind.
Then tear off the wheel of the Sun at the moment of encounter. Mace in hand, he will charge the opponents.
Der dir gefällt, den Kutsa fahr, o Indra; am Zügel ziehn des Windes rothe Rosse; Das Rad der Sonne treibe vor zum Schauen, den Blitz im Arme geh dem Feind entgegen.
Fahre den Kutsa, an dem du Wohlgefallen gefunden hast, o Indra, und lenke die Schimmelrosse des Vata, die dem Zügel gehorchen! Reiß das Rad der Sonne dicht heranfahrend ab!" So trat er mit der Keule im Arm den Feinden entgegen.
Вези Кутсу, о Индра, которого ты любишь,
(Правя) послушными поводьям рыжими конями Ваты!
Сорви в решающий момент колесо солнца!
Пусть выступит против соперников (Индра) с ваджрой в руке!
ज॒घ॒न्वाँ इ॑न्द्र मि॒त्रेरू॑ञ्चो॒दप्र॑वृद्धो हरिवो॒ अदा॑शून् । प्र ये पश्य॑न्नर्य॒मणं॒ सचा॒योस्त्वया॑ शू॒र्ता वह॑माना॒ अप॑त्यम् ॥
ज॒घ॒न्वान् । इ॒न्द्र॒ । मि॒त्रेरू॑न् । चो॒दऽप्र॑वृद्धः । ह॒रि॒ऽवः॒ । अदा॑शून् । प्र । ये । पश्य॑न् । अ॒र्य॒मण॑म् । सचा॑ । आ॒योः । त्वया॑ । शू॒र्ताः । वह॑मानाः । अप॑त्यम् ॥
हे इन्द्र हरिवः हरिभ्यां तद्वन् त्वं चोदप्रवृद्धः चोदनैः स्तोत्रैः प्रवृद्धः सन् अदाशून् अदातॄन् मित्रेरून् मित्राणां यजमानानाम् ईरयितॄन् बाधकान् तद्वैरिणां मित्रत्वं गच्छतो वा जघन्वान् हतवानसि। किंच ये अर्यमणं दातारं त्वां प्र पश्यन् पश्यन्ति ते नराः आयोः मनुष्यस्याध्वर्य्वादेः हविर्लक्षणान्नस्य वा सचा सह शूर्ताः क्षिप्रा हविष्प्रदानेन त्वया अपत्यं कुलस्यापातयितारं पुत्रं वहमानाः ये सन्ति ते प्र पश्यन् । यद्वा । ये अर्यमणं त्वां पश्यन्ति ते एवं भवन्ति । यद्वा । ये नरा अर्यमणं यं कंचिद्दातारं पश्यन् पश्यन्तस्त्वामयजन्त आयोर्मनुष्यस्य सचा सहायभूतास्त्वया शूर्ताः क्षिप्ता वर्जिता अपत्यं पुत्रं वहमाना ये सन्ति तान् जघन्वान् भवेत्यर्थः ॥
“Indra, lord of steeds, invigorated by our animating praise, you have slain those who make you no offerings and disturb your worshippers; but they who look upon you as (their) protector, and are associated for (the presentation of sacrificial) food, obtain from the posterity.”
Thou Indra, Lord of Bays, made strong by impulse, hast slain the vexers of thy friends, who give not.
They who beheld the Friend beside the living were cast aside by thee as they rode onward.
Once you had smashed those who rout their allies, and had smashed the impious when you were strengthened by the stimulant, o Indra of the fallow bays,
those who saw before them Aryaman in company with these two [=Mitra and Varuṇa], they were shattered by you, taking their progeny along.
Vom Trank gestärkt erschlugst du die verschwornen, die gottvergessnen, Indra, Herr der Rosse; Die vor sich sahn den Freund des hülfsbegier'gen, die schlugst du, als mit ihrem Volk sie zogen.
Nachdem du Falbenlenker Indra von Coda gestärkt die nichtopfernden Mitreru erschlagen hast, die Gönner des Ayu dabei vor sich sahen, von dir zersprengt, als sie ihre Nachkommenschaft mit sich führten -
После того как ты убил Митреру, о Индра, не почитающих (богов),
Подкрепленный Чодой (?), о обладатель буланых коней,
(Твои враги,) которые увидели перед (собой) Арьямана вместе с Аю,
Разбитые тобой, когда они везли (свое) потомство...
रप॑त्क॒विरि॑न्द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः । कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥
रप॑त् । क॒विः । इ॒न्द्र॒ । अ॒र्कऽसा॑तौ । क्षाम् । दा॒साय॑ । उ॒प॒ऽबर्ह॑णीम् । क॒रिति॑ कः । कर॑त् । ति॒स्रः । म॒घऽवा॑ । दानु॑ऽचित्राः । नि । दु॒र्यो॒णे । कुय॑वाचम् । मृ॒धि । श्रे॒त् ॥
हे इन्द्र त्वां कविः क्रान्तदर्शी अनूचानो वा होता अर्कसातौ अर्चनीयस्यान्नस्य लाभे निमित्तभूते सति रपत् स्तौति । यद्वा । एतन्नामर्षी रपत् अस्तौत् अन्नार्थम् । तस्यातिप्रभूतमन्नं प्रादाः इत्यर्थः । तथा च दासाय प्राण्युपक्षपयित्रेऽसुराय क्षां भूमिम् उपबर्हणीं शय्यां कः अकरोः । हत्वा भूमावपातय इत्यर्थः । करोतेर्लुङि ‘मन्त्रे घस' इति च्लेर्लुक् ॥ अथ परोक्षकृतः । मघवा धनवान् अयमिन्द्रः तिस्रः भूमीः । दार्शिकपाशुकसौमिकरूपा भूमीः क्षित्यन्तरिक्षद्युरूपा वा भूमीः दानुचित्राः दानेन देयैर्धनैर्वा चायनीयाः करत् करोति । यद्वा । तिस्रः अयोरजतहिरण्यमयाः पुरीर्दानुचित्राः खण्डनेन चित्रा अकरोत् । तथा दुर्योणे दुष्टयोनौ स्थाने एतन्नामकस्य राज्ञः प्रीत्यर्थं वा कुयवाचं कुत्सितं शब्दायन्तमेतन्नामानमसुरं मृधि संग्रामे नि श्रेत् हिंसितवान् ॥
“The sage praises you, Indra, for the grant of desirable (food), since you have made the earth the bed of the asura; Maghavan has made the three (regions) marvellous by his gifts, and has destroyed for (the prince) Duryoṇi (the asura), Kuyavāca, in combat.”
Indra, the bard sang forth in inspiration: thou madest earth a covering for the Dasa.
Maghavan made the three that gleam with moisture, and to his home brought Kuyavac to slay him.
The sage poet [=Uśanā Kāvya?] murmured, o Indra, at the winning of the chants [/(sun’s) rays]: “He has made the earth a pillow for
the Dāsa.
The bounteous one will make the three (worlds?) bright with drops; he has embedded in a woeful womb the one who speaks evil in scorn.”
Dies rühm der Sänger bei dem Fest, o Indra: dem Feinde gabst die Erde du zur Decke, Drei Thau-getränkte warf der Held ihm über, stiess in die Gruft hinab im Kampf den Schmäher.
Es raunte, o Indra, der Kavi im Kampf um die Sonne zu: "Mach die Erde für den Dasa zum Kissen! Der Gabenreiche mache die drei Flüsse gabenglänzend; er bringe den Kuyavac in ein bößes Nest, in Mißachtung."
Стал нашептывать поэт, о Индра, во время (битвы) за захват солнца:
Ты сделал землю подушкой для Дасы!
Щедрый сделал три (реки) сверкающими от воды!
Он низверг Куявача в дурное лоно, в пренебрежение.
सना॒ ता त॑ इन्द्र॒ नव्या॒ आगु॒: सहो॒ नभोऽवि॑रणाय पू॒र्वीः । भि॒नत्पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥
सना॑ । ता । ते॒ । इ॒न्द्र॒ । नव्याः॑ । आ । अ॒गुः॒ । सहः॑ । नभः॑ । अवि॑ऽरणाय । पू॒र्वीः । भि॒नत् । पुरः॑ । न । भिदः॑ । अदे॑वीः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥
हे इन्द्र ते तव संबन्धीनि सना सदातनानि नित्यानि तानि शौर्याणि नव्याः नवतराः इदानींतना ऋषयः आगुः आगच्छन्ति स्तुतिव्याजेन प्राप्नुवन्तीत्यर्थः । कानि तानीति उच्यते । पूर्वीः बह्वीः नभः हिंसाः ॥ नभेर्हिंसार्थात् क्विप् । तदन्तस्येदं रूपम् ॥ ता हिंसाः अविरणाय अविगतरणाय संग्रामनाशनाय सहः अभ्यभवः । तदर्थं भिदः भेत्तॄर्घातिकाः अदेवीः आसुरीः पुरो न पुरीरपि भिनत् विदारितवानसि । पुरुषव्यत्ययः । नशब्दश्चार्थे ॥ तथा अदेवस्य अस्तुत्यस्य पीयोः हिंसकस्यासुरस्य वधः वज्रं ननमः अनमयः अनुकूलमकरोः ॥ यद्वा । हे इन्द्र सना नित्यं तत्तकाले ते तव संबन्धिन्यः ता तानि । लिङ्गव्यत्ययः । ताः पूर्वीः पुरातन्य आपो नव्या नूत्नाः स्तुत्याः सत्यः आगुः आगच्छन्ति । किमर्थम् । अविरणाय अविरमणाय प्राणिनामविनाशाय । तदर्थं नभो हिंसकान् बन्धकान् वा मेघान् सहः मर्षणमकरोः । किंच अदेवीः पुरः अवर्षणेनादेवनशीलानुदकपुटबन्धनान् भिनत् भिन्नानकरोः । तथा अदेवस्य अदेवनशीलस्य पीयोः प्रतिकूलस्य वृत्रस्य वधर्वज्रं ननमः अनमयः ॥
“The sages have celebrated your everlasting (as well as your) recent (exploits, in achieving which) you have endured many injuries in putting an end to war; verily, you have demolished hostile and undivine cities; you have bowed down the thunderbolt of the undivine asura.”
These thine old deeds new bards have sung, O Indra. Thou conqueredst, boundest many tribes for ever.
Like castles thou hast crushed the godless races, and bowed the godless scorner's deadly weapon.
These are your old (deeds), Indra; new ones have come: you
overpowered and exploded the many (strongholds) for the lack of joy [/end of battle] (of the godless).
You split the godless (clans) into pieces, like strongholds; you bowed the weapon of the godless reviler.
Dies alte, Indra, und dies neue rühmt man: viel Frevler schlugst du, dass sie nimmer aufstehn, Zerbrachst wie Burgen die verruchten Rotten, des bösen Schmähers Keule warfst du nieder.
Dies sind deine alten Taten, Indra. Neue Wolken sind gekommen. Überwinde die vielen Wolken, daß die Unfreude aufhöre. Brich die gottlosen Einbrüche wie ihre Burgen; wende die Waffe des gottlosen Widersachers ab!
Это, о Индра, твои древние (деяния). Новые пришли (поколения).
Одолей многие враждебные силы, чтобы не было недовольства!
Расколи, словно крепости, безбожные расщелины!
Согни смертельное оружие хулящего безбожника!
त्वं धुनि॑रिन्द्र॒ धुनि॑मतीॠ॒णोर॒पः सी॒रा न स्रव॑न्तीः । प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥
त्वम् । धुनिः॑ । इ॒न्द्र॒ । धुनि॑ऽमतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव॑न्तीः । प्र । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । पर्षि॑ । पा॒रय॑ । तु॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥
हे इन्द्र त्वं धुनिः कम्पयिता शत्रूणामसि । अतः धुनिमतीः कम्पनोपेततरङ्गवतीः । अथवा । धुनिर्नाम जलप्रतिरोधकारी असुरः । स एव प्रतिबन्धकतया यासां तादृशीः । अपः ऋणोः अगमयः भूमावपातयः । तत्र दृष्टान्तः । स्रवन्तीः प्रवहन्तीः सीरा न । नदीनामैतत् । सरणवतीर्नदीरिव । तद्वत्संतती इत्यर्थः। एवं कृत्वा हे शूर यत् यदा समुद्रम् अति पर्षि अतिक्रम्य पूरयस्युदकं तदानीं तुर्वशं यदुम् उभावपि राजर्षी स्वस्ति अविनाशं पारय अपालयः संपूर्णजलवर्षणेन । तथा च मन्त्रान्तरं-’त्वमपो यदवे तुर्वशायारमयः' (ऋ. सं. ५. ३१. ८) इति ॥
“You, Indra, are the terrifier (of your foes); you have made the trembling waters overspread (the earth) like flowing rivers; but, hero, when you fill the ocean you have protected in their well-being Turvaśa and Yadu.”
A Stormer thou hast made the stormy waters flow down, O Indra, like the running rivers.
When o'er the flood thou broughtest them, O Hero, thou keptest Turvasa and Yadu safely.
You, the tumultuous one, Indra, set the tumultuous waters in motion, flowing like streams.
When you will cross the sea, o champion, make Turvaśa and Yadu
cross to well-being.
Du liessest brausend brausende Gewässer, o Indra, rinnen wie des Stromes Fluten, Wie du zum Meer, o Held, hindurch sie leitest, so führ zum Heile Turvaça und Jadu.
Du, Indra, der Tosende, setztest die tosenden Gewässer in Bewegung, die Strömen, wie die Flüsse gewöhnt sind. Wenn du über das Meer fahren kannst, o Held, so fahre den Turvasa und Yadu heil hinüber!
Ты, возмутитель, о Индра, возмущенные
Воды выпустил течь, словно мчащиеся реки.
Если ты пересекаешь океан, о герой,
Переправь благополучно Турвашу и Яду!
त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता । स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । वि॒श्वध॑ । स्याः॒ । अ॒वृ॒कऽत॑मः । न॒रान् । नृ॒ऽपा॒ता । सः । नः॒ । विश्वा॑साम् । स्पृ॒धाम् । स॒हः॒ऽदाः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
हे इन्द्र त्वमस्माकं विश्वध विश्वस्मिन्नपि काले विश्वप्रकारैर्वा अवृकतमः । यद्वा । दातृतम इत्यर्थः । स्याः भव । तथा नरां नृपाता अस्मदीयानां पुत्रभृत्यादिरूपाणां बहूनां मनुष्याणां सर्वदा रक्षको भव । अपरो नृशब्दोऽनुवादः । किंच सः त्वं विश्वासां स्पृधां सर्वासां स्पर्धानिमित्तानाम् अस्मत्सेनानां सहोदाः तासामर्थाय बलस्य दाता भव । विद्यामेति गतम् ॥ ॥ १७ ॥
“Be you, Indra, at all times our especial defender; the preserver of our people, the bestower of strength upon all these our emulous (followers); that we may obtain food, strength, and long life.”
Indra, mayst thou be ours in all occasions, protector of the men, most gentle-hearted,
Giving us victory over all our rivals. May we find strengthening food in full abundance.
You, Indra, should be at all times our man-protector of men, who best keeps the wolf away
and giver of victorious power over all our contenders. – May we know refreshment and a community having lively waters.
Sei, Indra, unser du zu allen Zeiten, du als der Männer treuester Beschirmer, Du Sieg verleihend über alle Feinde. Gebt Labung uns und wasserreiche Fluren.
Du, Indra, sollst uns allezeit der am meisten vor Räubern sichernde Schirmer der Männer sein. Du gibst uns die Übermacht über alle Gegner. - Wir möchten einen gastfreien Opferbündler kennen lernen, der rasch schenkt.
Ты, о Индра, всегда пусть будешь нашим
Самым надежным защитником мужей!
(Да будет) он (тем, кто) дает нам силу превосходства над любыми врагами!
Мы хотим найти щедрую общину, легко дарящую!