पू॒र्वीर॒हं श॒रद॑: शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः । मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥
पू॒र्वीः । अ॒हम् । श॒रदः॑ । श॒श्र॒मा॒णा । दो॒षाः । वस्तोः॑ । उ॒षसः॑ । ज॒रय॑न्तीः । मि॒नाति॑ । श्रिय॑म् । ज॒रि॒मा । त॒नूना॑म् । अपि॑ । ऊँ॒ इति॑ । नु । पत्नीः॑ । वृष॑णः । ज॒ग॒म्युः॒ ॥
हे अगस्त्य अहं लोपामुद्रा पूर्वीः शरदः पुरातनानसंख्यातान् संवत्सरान् दोषाः रात्रीः वस्तोः अहानि तथा देहं जरयन्तीः उष सः उषःकालांश्च ॥ सर्वत्र अत्यन्तकालसंयोगे' द्वितीया ॥ अद्यतनकालपर्यन्तं बहुसंवत्सरं कार्त्स्न्येन त्वच्छुश्रूषया शश्रमाणा श्रान्ताभूवम् । इदानीं तु जरि मा जरा तनूनाम् अङ्गानां श्रियं सौन्दर्यं मिनाति हिनस्ति । एवमपि नानुगृह्णासीत्यर्थः । अप्यू नु । अपिः संभावनायाम् । उ इत्यवधारणे । नु इति वितर्के । इदानीमपि किं संभावनीयम् । लोके हि पत्नीः स्त्रियः वृषणः सेक्तारः पुरुषाः जगम्युः गच्छेयुः संभोगं कुर्युः । अतो मां किमित्यवमन्यसे । इदानीमपि वा संभावयेत्यर्थः ॥
सा तमेव आह –
“(Lopāmudrā): Many years have I been serving you diligently, both day and night, and through mornings, bringing on old age; decay now impairs the beauty of my limbs; what, therefore, is now (to be done); let husbands approach their wives.”
पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः ।
मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥
[Lopāmudrā:] “For many autumns have I been laboring, evening and morning, through the aging dawns.
Old age diminishes the beauty of bodies. Bullish (men) should now come to their wives.”
»Viele Jahre und viele ermattende Tage hindurch, Abends und Morgens habe ich mich abgemüht; das Alter mindert die Schönheit der Leiber; mit ihren Frauen sollen sich die Männer gatten.
Viele Jahre habe ich mich spät und früh abgemüht, während die Morgen dem Alter näher bringen. Das Alter verändert die Schönheit der Leiber. Es sollten doch die Männchen zu ihren Frauen kommen!
Много осеней я изнуряла себя
Утром и вечером, много старящих зорь...
Старость уменьшает красоту тела.
Разве мужчины никогда не должны входить к (своим) женам?
ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ । ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
ये । चि॒त् । हि । पूर्वे॑ । ऋ॒त॒ऽसापः॑ । आस॑न् । सा॒कम् । दे॒वेभिः॑ । अव॑दन् । ऋ॒तानि॑ । ते । चि॒त् । अव॑ । अ॒सुः॒ । न॒हि । अन्त॑म् । आ॒पुः । सम् । ऊँ॒ इति॑ । नु । पत्नीः॑ । वृष॑ऽभिः । ज॒ग॒म्युः॒ ॥
हे पते अगस्त्य ये चिद्धि येऽपि तु पूर्वे पुरातनाः ऋतसापः सत्यस्य आपयितारो व्याप्नुवाना महर्षयः आसन ते देवेभिः देवैः साकं सह ऋतानि सत्यवाक्यानि अवदन् वदन्ति । ये महत्तपो यज्ञं वा अनुतिष्ठन्ति ये च देववाक्यानि देवस्मृतिरूपाणि वदन्ति ते चित् । चिदप्यर्थे । ते चित् अवासुः अवक्षिपन्ति रेतः ॥ स्यतिरुपसृष्टो विमोचने वर्तते ॥ ते नह्यन्तमापुः नहि ब्रह्मचर्यादेरन्तं प्राप्नुवन् । ब्रह्मचर्यमनिषिद्धर्तुकालगमनमपि कुर्वन्तीत्यर्थः । तथा पत्नीः पत्न्यश्च तपस्यमानाः वृषभिः भोगवर्षकैः पतिभिः सह समू नु जगम्युः । उ नु इति पूरणौ । संगच्छेरन् । अतस्त्वं कथं मां नानुभवसीत्यर्थः ॥
“The ancient sages, disseminators of truth, who, verily, conversed of tuths with the gods, begot (progeny), nor thereby violated (their vow of continence), therefore should wives be approached by their husbands.”
ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्त्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ ।
ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
[Lopāmudrā:] “For even those ancients, who served truth and at one with the gods spoke truths,
even they got out of harness, for they did not reach the end. Wives
should now unite with their bullish (husbands).”
᳓
Denn auch die, welche früher fromme Werke pflegten und zugleich mit den Göttern die heiligen Bräuche priesen, haben jetzt ausgespannt; denn nicht erreichten sie das Ziel; mit ihren Frauen sollen sich die Männer gatten.
Denn selbst die Altvorderen, die sich des Rechten befleißigten und mit den Göttern rechte Reden führten, auch sie haben aufgehört, denn sie fanden nicht das Ende. Es sollen doch die Frauen sich mit den Männchen vereinen!
Даже служители истины, которые были прежде
(И) вместе с богами высказывали истины,
Даже они прекратили, так как не достигли конца.
Разве жены никогда не должны сходиться с мужьями?
Агастья:
न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव । जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥
न । मृषा॑ । श्रा॒न्तम् । यत् । अव॑न्ति । दे॒वाः । विश्वाः॑ । इत् । स्पृधः॑ । अ॒भि । अ॒श्न॒वा॒व॒ । जया॑व । इत् । अत्र॑ । श॒तऽनी॑थम् । आ॒जिम् । यत् । स॒म्यञ्चा॑ । मि॒थु॒नौ । अ॒भि । अजा॑व ॥
भोः पत्नि त्वया मया न मृषा श्रान्तम् । व्यर्थं नैव खिन्नमावाभ्याम् । यत् यस्मात् देवाः अवन्ति रक्षन्ति तपोभिः प्रीता देवाः। विश्वाः सर्वाः स्पृधः अभ्यश्नवाव अभितो व्याप्नुयाव । अत्र अस्मिन् संसारे शतनीथम् अपरिमितभोगप्राप्तिसाधनम् आजिं प्राप्तिं परस्परं जयाव जयलक्षणं सुरतसंग्रामं वा जयाव। यत् यस्मात् सम्यञ्चा सम्यक् परस्परं गच्छन्तौ प्रजयन्तौ वा मिथुना मिथुनौ स्त्रीपुरुषरूपौ सन्तौ अभ्यजाव त्वं चाहमपि परस्परमभिजयावेत्येवं तयोक्तं संभोगं संभावयामास ॥
“(Agastya): Penance has not been practised in vain; since the gods protect us, we may indulge all our desires; in this world we may triumph in many conflicts, if we exert ourselves mutually together.”
न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव ।
जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥
[Agastya:] “Not in vain is the labor that the gods help. Let us two take on all contenders;
let us two win here the contest of a hundred stratagems, when as a united couple we will drive on.”
Weil die Götter den unterstützen, der sich redlich bemüht, so werden wir beide alle Gegner überwinden; wir werden dann gewinnen den hundert Listen darbietenden Wettkampf, wenn wir zu einem Paar vereinigt sie treiben.
Nicht vergeblich ist das Mühen, das die Götter begünstigen. Wir werden es mit allen Nebenbuhlerschaften aufnehmen. Wir wollen hier den Wettlauf mit seinen hundert Ränken gewinnen, wenn wir als vereintes Paar das Schiff steuern.
Не напрасно старание, которому содействуют боги.
Мы вдвоем выстоим в любых сражениях.
Мы победим здесь в состязании с сотней ловушек,
Если объединимся в пару, устремленную к одной цели.
न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुत॒: कुत॑श्चित् । लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥
न॒दस्य॑ । मा॒ । रु॒ध॒तः । कामः॑ । आ । अ॒ग॒न् । इ॒तः । आऽजा॑तः । अ॒मुतः॑ । कुतः॑ । चि॒त् । लोपा॑मुद्रा । वृष॑णम् । निः । रि॒णा॒ति॒ । धीर॑म् । अधी॑रा । ध॒य॒ति॒ । श्व॒सन्त॑म् ॥
हे जाये नदस्य नदनस्य जपशब्दयितुर्जपाध्ययनकर्तुः रुधतः रेतोनिरोद्धुर्ब्रह्मचर्यमास्थितस्य॥ उभे कर्मणि षष्ठ्यौ। उक्तलक्षणं मां कामः आगन् आगमत् । ‘नदनस्य मा रुधतः काम आगमत्' (निरु. ५.२), इति निरुक्तम् । कस्य हेतोरिति उच्यते। इतः त्वत्संगमनिमित्तात् तथा अमुतः वसन्तादिकालात् कुतश्चित् कारणात् आजातः सर्वतः उत्पन्नः। यद्वा । इत एतल्लोकजनितादमुतो लोकान्तरजनिताद्वा कुतश्चिन्निमित्तात् कामात् । कथमिति उच्यते । इयं लोपामुद्रा वृषणं रेतसः प्रवर्तकं मां नी रिणाति नितरां गच्छतु । किंच धीरं धीमन्तं नियमादविचालिनं श्वसन्तं महाप्राणं महाबलम् अधीरा कातरैषा योषित् धयति उपभुङ्क्ताम् ॥
“Desire, either from this cause or from that, has come upon me whilst engaged in prayer and suppressing (passion); let Lopāmudrā approach her husband; the unsteady feminine le beguiles the firm and resolute man.”
न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुतः॒ कुत॑श्चित् ।
लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥
[Agastya:] “The lust of a mounting bull [/waxing reed = penis] has come to me, lust arisen from here, from there, from everywhere.
Lopāmudrā makes the bullish one flow out; the steadfast man does the flighty woman suck while he is snorting.”
Nach dem Stiere [dem Manne], der mich verschmäht, hat mich Begierde ergriffen, die von hier entspringt, von dort, von allen Seiten.« Lopamudra zieht den Gatten an sich; den seufzenden weisen saugt die unweise aus.
Mich hat die Lust nach dem zurückhaltenden Stier angewandelt, die irgendwoher, von da oder dort mich ankam. Lopamudra zieht den Stier aus, die Törin saugt den keuchenden Weisen aus.
На меня нашло желание быка вздымающегося,
Возникшее отсюда, оттуда, неизвестно откуда.
Лопамудра заставляет струиться быка.
Неразумная сосет разумного, пыхтящего.
Ученик Агастьи:
इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे । यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्य॑: ॥
इ॒मम् । नु । सोम॑म् । अन्ति॑तः । हृ॒त्ऽसु । पी॒तम् । उप॑ । ब्रु॒वे॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒तु॒ । पु॒लु॒ऽकामः॑ । हि । मर्त्यः॑ ॥
अन्तितः समीपे वर्तमानं पीतं पीयमानं हृत्सु हृदयप्रदेशेषु स्थितं इमं सोमं सीं सर्वतः नु क्षिप्रं उपब्रुवे उपेत्य मनसा प्राप्य प्रार्थयते । किं ब्रवीति उच्यते । यत् आगः गुर्वोः कामप्रलापश्रवणविषयं पापं चकृम कृतवन्तो वयं तत् तस्मादागसः स सोमः सु सम्यक् मृळ्तु सुखयतु पापजनितदुःखं मा करोत्वित्यर्थः । महत्पापमनुभुज्यमानं प्रार्थनया कथं लुप्यते इति अत आह । हि यस्मात् मर्त्यः मनुष्यः पुलुकामः बहुकामनावान् । अल्पेनैव कर्मणा बहुकामानाकलयति । यस्मादेवं तस्मात् परिहरेत्यर्थः। यद्वा । अयमपवर्जनीयतया प्राप्यत इवेत्याह । पुरुकामो हि खलु मर्त्यः कामहतः सन् कामेन निरुद्ध एव वर्तते । अतस्तयोरुसेकोऽयुक्तः। तच्छब्दश्रवणदोषोऽपि प्रामादिकः अस्माकं प्राप्तेन सोमेन परिहर्तव्य इत्यर्थः। यद्वा । अयं मन्त्रश्चन्द्रपरो व्याख्येयो मनसोऽभिमानित्वाच्च तस्य पापस्यापि मनस्येव संभावितत्वात् । अस्मिन् पक्षे हृत्सु पीतं हृदयस्थितमित्यर्थः । शिष्टं स्पष्टम् ॥
“(Pupil): I beseech the Soma, which has been drunk in my heart, that it may fully expiate the sin we have committed; man is subject to many desires.”
इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे ।
यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ॥
[Student or Agastya:] “This soma within my heart, just drunk, do I adjure:
Whatever offense we have committed, let him forgive that, for of many desires is mortal man.”
Diesen Soma, den ins Innere geschlürften, rufe ich aus der Nähe an; was immer wir für Sünde gethan, die vergebe er; denn viel begehrend ist der Mensch.
An diesem Soma in meinem Herzen, den ich getrunken habe, richte ich unmittelbar das Wort: Wenn wir eine Sünde getan haben, dann soll er fein diese verzeihen. Vielbegehrlich ist nun einmal der Sterbliche.
К этому соме, выпитому в сердце (моем),
Я обращаюсь изблизи:
Если мы совершили какой грех, да простит он его великодушно-
Ведь смертный обилен страстями!
अ॒गस्त्य॒: खन॑मानः ख॒नित्रै॑: प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः । उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥
अ॒गस्त्यः॑ । खन॑मानः । ख॒नित्रैः॑ । प्र॒ऽजाम् । अप॑त्यम् । बल॑म् । इ॒च्छमा॑नः । उ॒भौ । वर्णौ॑ । ऋषिः॑ । उ॒ग्रः । पु॒पो॒ष॒ । स॒त्याः । दे॒वेषु । आ॒ऽशिषः॑ । ज॒गा॒म॒ ॥
अगस्त्यः । खनमानः । खनित्रैः । प्रऽजाम् । अपत्यम् । बलम् । इच्छमानः ।
अयम् अगस्त्यः मद्गुरुः खनित्रैः फलस्योत्पादनसाधनैर्यज्ञस्तोत्रादिभिः खनमानः फलमभिमतमुत्पादयन् प्रजां प्रकर्षेण पुनःपुनर्जायमानम् अपत्यं कुलस्यापतनसाधनं पुत्रादिकं बलं च इच्छमानः सन् । यद्वा । प्रजां भृत्यादिरूपां च इच्छन् । ऋषिः अतीन्द्रियद्रष्टा महानुभावः उग्रः उद्गूर्णः संसारे संचरन्नप्यपापः सन् उभौ वर्णौ वर्णनीयावाकारौ कामं च तपश्च पुपोष। सत्याः आशिषः देवेषु देवेभ्यः जगाम प्राप्तवान् । यतोऽयं महानुभावस्तस्मादस्मान् पातीत्यर्थः ॥ ॥ २२ ॥ ॥ २३ । ।
“Agastya, a venerable sage, working with (fit) implements, desiring progeny, offspring, and strength, practised both classes (of obligations), and received true benedictions from the gods.”
अ॒गस्त्यः॒ खन॑मानः ख॒नित्रैः॑ प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः ।
उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥
Agastya, digging with spades, seeking offspring, descendants, power— with regard to both “colors” [=offspring and ascetic power] the mighty seer throve. He arrived at his hopes, which came true among the gods.
Agastja, grabend mit den Schaufeln (?), Nachkommenschaft und Kraft begehrend, hat beides erlangt; der mächtige Dichter, er erlangte Erfüllung seiner Wünsche bei den Göttern.
Agastya, der mit Schaufeln grub, da er Kinder, Nachkommenschaft und Kraft begehrte, hat beiderlei Art gepflegt, der gewaltige Rishi. Bei den Göttern fand er Erfüllung für seine Wünsche.
Агастья, копавший заступами (коренья),
Возжелавший продолжения рода, потомства, силы,
Привел к процветанию обе варны, (этот) грозный риши.
(Когда) исполнились (его) желания, он отправился к богам.