सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥
सो॒मान॑म् । स्वर॑णम् । कृ॒णु॒हि । ब्र॒ह्म॒णः॒ । प॒ते॒ । क॒क्षीव॑न्तम् । यः । औ॒शि॒जः ॥
हे ब्रह्मणस्पते एतन्नामकदेव सोमानम् अभिषवस्य कर्तारं स्वरणं देवेषु प्रकाशनवन्तं कृणुहि कुरु । अत्र दृष्टान्तः । कक्षीवन्तम् एतन्नामकमृषिम् । इवशब्दोऽत्राध्याहर्तव्यः । कक्षीवान् यथा देवेषु प्रसिद्धस्तद्वदित्यर्थः । यः कक्षीवानृषिः औशिजः उशिजः पुत्रः। तमिवेति पूर्वत्र योजना। कक्षीवतोऽनुष्ठातृषु मुनिषु प्रसिद्धिस्तैत्तिरीयैराम्नायते - एतं वै पर आट्णारः कक्षीवाँ औशिजो वीतहव्यः श्रायसस्त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अचिन्वत ' ( तै. सं. ५. ६. ५. ३) इति । ऋगन्तरेऽपि ऋषित्वकथनेनानुष्ठातृत्वप्रसिद्धिः सूच्यते - अहं कक्षीवाँ ऋषिरस्मि विप्रः ' ( ऋ. सं. ४. २६. १ ) इति । तस्मात् अस्यानुष्ठातारं प्रति दृष्टान्तत्वं युक्तम् । सोऽयं मन्त्रो यास्केनैवं व्याख्यातः - सोमानं सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः । कक्षीवान् कक्ष्यावानौशिज उशिजः पुत्र उशिग्वष्टेः कान्तिकर्मणोऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्तं सोमानं सोतारं मा प्रकाशनवन्तं कुरु ब्रह्मणस्पते ' ( निरु. ६. १० ) इति । अस्मिन् मन्त्रे सोमानमिति पादेन कृणुहि ब्रह्मण इति पादेन सूचितं तात्पर्यं तैत्तिरीया आमनन्ति - सोमानं स्वरणमित्याह सोमपीथमेवाव रुन्धे । कृणुहि ब्रह्मणस्पत इत्याह ब्रह्मवर्चसमेवाव रुन्धे ' ( तै. सं. १. ५. ८. ४ ) इति ॥ सोमानम् । सुनोतीति । षुञ् अभिषवे । । ‘ अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वात् नित्त्वेऽपि नाद्युदात्तत्वं किंतु प्रत्ययस्वर एव । उञ्छादिषु (पा. सू. ६. १. १६० ) वा सोमञ्शब्दो द्रष्टव्यः बहुलग्रहणात् औणादिको वा मनिर्द्रष्टव्यः । स्वरणं प्रख्यातम् । स्वृ शब्दोपतापयोः । ‘ कृत्यल्युटो बहुलम् ' (पा. सू. ३. ३. ११३) इति कर्मणि ल्युट्। ' लिति' इति अकार उदात्तः । कृणुहि । ‘ कृवि हिंसाकरणयोश्च । इदितो नुम् धातोः' (पा. सू. ७. १. ५८ ) इति नुम् । लोटः सिपो हिः । शपि प्राप्ते ‘धिन्विकृण्व्योर च ' इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारः । तस्य ' अतो लोपः' इति लोपः । तस्य स्थानिवद्भावात् न पूर्वस्य लघूपधगुणः । हेर्ङित्त्वात् उकारस्य न गुणः । ‘ उतश्च प्रत्ययाच्छन्दोवावचनम् ( पा. सू. ६. ४. १०६. १ ) इति हेर्लुक् न ।' सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः ' इति वचनात् हेरेव प्रत्ययस्वरेणोदात्तत्वम् । पादादित्वात् न निघातः । ब्रह्मणः । ‘ षष्ठ्याः पतिपुत्र! ( पा. सू. ८. ३. ५३ ) इत्यादिना संहितायां विसर्जनीयस्य सकारः। सुबामन्त्रितपराङ्गवद्भावात् पदद्वयस्य आमन्त्रितनिघातः । कक्षीवन्तम् । कक्षे भवा कक्ष्या अश्वोदरसंबन्धिनी रज्जुः । ‘ भवे छन्दसि ' ( पा. सू. ४. ४. ११० ) इति यप्रत्ययः । सो अस्यास्तीत्यर्थे ' आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत्° ' ( पा. सू. ८. २. १२) इति ऋषिविशेषनाम कक्षीवच्छब्दो निपातितः । ‘ छन्दसीरः ' इति वत्वम् । यप्रत्ययस्वरेण तदादेशो निपातित ईकार उदात्तः । मतुप्सुपौ पित्त्वादनुदात्तौ । औशिजः । ‘ वश कान्तौ । ' इजि ' ( उ. सू. २. २२८ ) इत्यनुवृत्तौ ‘वशेः किच्च ' ( उ. सू. २. २२९ ) इति इजिप्रत्ययः । तस्य कित्त्वात् ' ग्रहिज्या ' ( पा. सू. ६. १. १६ ) इत्यादिना संप्रसारणं, परपूर्वत्वे गुणाभावः। तस्यापत्यम्' (पा. सू. ४. १. ९२ ) इति ‘ प्राग्दीव्यतोऽण् ' ( पा. सू. ४. १. ८३ )। आदिवृद्धिः । प्रत्ययस्वरेणान्तोदात्तत्वम् ॥
“Brahmaṇaspati (=Agni, connected with prayer) make the offerer of the libation illustrious among the gods, like Kakṣīvat, the son of Uśij (and Dīrghatamas).”
O BRAHMANAPSATI, make him who presses Soma glorious,
Even Kaksivan Ausija.
Make famous the Soma-presser,
O lord of prayer,
Even as (thou did make famous) Kaksivant Auśija.
O Lord of the Sacred Formulation, make him a possessor of soma, a sounding [/sun-like] one,
(make him) a Kakṣīvant, who is (also) descended from fire-priests.
Mach, o Gebetsherr, glanzbegabt den, welcher dir den Soma bringt, Kakschivat, ihn der Uçidsch Sohn.
Mach, Brahmanaspati, den Somapressenden, Lautsingenden zu einem zweiten Kaksivat, der der Sohn der Usij.
Выжимателя сомы, громкозвучного,
О Брахманаспати, сделай
Какшивантом, что сын Ушидж.
यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । स न॑: सिषक्तु॒ यस्तु॒रः ॥
यः । रे॒वान् । यः । अ॒मी॒व॒ऽहा । व॒सु॒ऽवित् । पु॒ष्टि॒ऽवर्ध॑नः । सः । नः॒ । सि॒स॒क्तु॒ । यः । तु॒रः ॥
यः ब्रह्मणस्पतिः रेवान् धनवान् यः च अमीवहा रोगाणां हन्ता वसुवित् धनलब्धा पुष्टिवर्धनः पुष्टेर्वर्धयिता यः च तुरः त्वरोपेतः शीघ्रफलदः सः ब्रह्मणस्पतिः नः अस्मान् सिषक्तु सेवताम् । परिगृह्यानुगृह्णात्वित्यर्थः । अत्र सिषक्तुशब्दस्य सेवार्थत्वं यास्क आह - सिषक्तु सचत इति सेवमानस्य' (निरु. ३. २१) इति। प्रत्यायकौ शब्दाविति शेषः ॥ रेवान् । रयिरस्यास्तीति मतुप् । ‘ रयेर्मतौ बहुलम् ' ( पा. सू. ६. १. ३७. ६ ) इति यकारस्य संप्रसारणं परपूर्वत्वम् । छन्दसीरः ' इति वत्वम् । आद्गुणः। ननु वत्वस्य असिद्धत्वात् बहिरङ्गत्वाच्च प्रागेव गुणे कृते इवर्णाभावान्न वत्वम् । न च ' अन्तादिवच्च' ( पा. सू. ६. १. ८५) इति आदिवद्भावेन इवर्णसंपादनं, वर्णाश्रयविधौ तत्प्रतिषेधात् । अन्यथा खट्वाभिः इत्यत्र सवर्णदीर्घस्य अन्तवद्भावेन अकारत्वात् ‘ अतो भिस ऐस्' ( पा. सू. ७. १. ९ ) इति ऐसादेशः स्यात् । न च निरवकाशत्वेन वत्वस्य अनवकाशत्वम् । अग्निवान्वै दर्भस्तम्बः ' ( तै. ब्रा. २. २. १. ५ ), ‘ उप ब्रह्माणि हरिवः ' ( ऋ. सं. १०. १०४. ६ ) इत्यादौ अवकाशलाभात् । सत्यम् । अत्र गुणप्रवृत्तेः प्राक् इकारात्परो मतुप् । कदाचित् इवर्णात्परस्य मतुपः पश्चात् एकारादेशेन इवर्णाभावेऽपि भवति वत्वमिति ‘छन्दसीरः' इति सूत्रकृता विवक्षितम् । अमुनैवाभिप्रायेण • हरिवः' इत्यादिकमुदाहृत्यापि अन्ते वृत्तिकृता “ आरेवान्' (का. ८. २. १५) इत्यप्युदाहृतम् । “ ह्रस्वनुड्भ्याम्' इत्यत्र आरेशब्दात् मतुप इत्युदात्तत्वं वक्तव्यम्? ( पा. सू. ६. १. १७६. १ ) इत्यत्र आरेशब्दो रेशब्दस्याप्युपलक्षणम् । अत एव हि ' रेवाँ इन्द्र' इत्यादौ । मतुप उदात्तत्वं दृष्टम् । अथवा “ ह्रस्वनुड्भ्याम् ' इत्यत्रापि कदाचित् ह्रस्वात्परस्य मतुप उदात्तत्वमित्येव व्याख्येयम् । एवं च संप्रसारणपरपूर्वत्वयोः कृतयोर्गुणात् प्राक् ह्रस्वात्परो मतुप् इति रेवान् आरेवान् इत्यादौ सर्वत्रोदात्तत्वं सिध्यति । अयमेव सूत्रकृतोऽभिप्रायो वार्तिककृता व्याख्यात इति । अमीवहा । ' अम रोगे' इत्येतस्मात् वन्प्रत्ययेन अमीवशब्दो निपातितः । तं हन्तीति • बहुलं छन्दसि ' ( पा. सू. ३. २. ८८ ) इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । वसुवित् । वसु विन्दतीति वसुवित् । ‘ क्विप् च ' इति क्विप् । उत्तरपदप्रकृतिस्वरत्वम् । पुष्टिवर्धनः । वर्धयतेः नन्द्यादित्वात् ( पा. सू. ३. १. १३४ ) ल्युः । ‘ लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । पुष्टेर्वर्धन इति कर्मणि षष्ठ्या समासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सिषक्तु । ‘षच समवाये । लोटि ‘ बहुलं छन्दसि ' ( पा. सू. २. ४. ७६ ) इति शपः श्लुः । श्लौ ' इति द्वित्वे हलादिशेषे' बहुलं छन्दसि ' (पा. सू. ७. ४. ७८) इत्यभ्यासस्य अकारस्य इकारः । तुरः । ‘ तुर त्वरणे ' । ‘इगुपधज्ञाप्रीकिरः कः' । प्रत्ययस्वरः ॥
“May he who is opulent, the healer of disease, the acquirer of riches, the augmenter of nourishment, the prompt (bestower of rewards) be favourable to us.”
The rich, the healer of disease, who giveth wealth, increaseth store,
The prompt,--may he be with us still.
He who is rich, who smashes afflictions, while finding goods and increasing prosperity,
let him accompany us, he who is powerful.
Der reich ist, und der Leid verjagt, der Schätze schenkt und Nahrung mehrt, Der sei uns hold, der kräftige.
Er, der Reiche, der Krankheitsvertreiber, der Schätzefinder, der Wohlstandmehrer soll mit uns sein, der Überlegene.
(Тот,) кто богат, кто изгоняет болезни,
Находит добро, умножает процветание,
Пусть будет он с нами, (тот,) кто силен!
मा न॒: शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते ॥
मा । नः॒ । शंसः॑ । अर॑रुषः । धू॒र्तिः । प्रण॑क् । मर्त्य॑स्य । रक्ष॑ । नः॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥
अररुषः मर्त्यस्य उपद्रवं कर्तुमस्मत्समीपं प्राप्तस्य शत्रुरूपस्य मनुष्यस्य धूर्तिः हिंसकः शंसः शंसनम् । अधिक्षेप इत्यर्थः । तादृशो वाग्विशेषः नः अस्मान् मा णक् मा संपृणक्तु । शत्रुणा प्रयुक्तोऽधिक्षेपः कदाचिदस्मान्मा प्राप्नोत्वित्यर्थः । तदर्थं हे ब्रह्मणस्पते नः अस्मान् रक्ष पालय ॥ मा । निपातः । शंसनं शंसः । भावे घञ् । ञित्त्वादाद्युदात्तः । अररुषः । ‘ अर्तेररुः ' ( उ. सू. ४. ५१९ ) इति अन्तर्भावितण्यर्थात् ‘ ऋ गतौ ' इत्यस्मात् अरुस् । गुणो रपरत्वम् । प्रत्ययस्वरे प्राप्ते वृषादित्वादाद्युदात्तः । धूर्तिः । धुर्वी हिंसार्थः। ‘क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् । • तितुत्रतथसिसुसरकसेषु च ' ( पा. सू. ७. २. ९ ) इति इट्प्रतिषेधः । उपधायां च ' ( पा. सू. ८. २. ७८ ) इति उपधादीर्घत्वम् । वलि लोपं बाधित्वा ऊठि प्राप्ते ( पा. सू. ६. ४, १९ ) ‘ राल्लोपः ' ( पा. सू. ६. ४. २१ ) इति वकारलोपः। प्रणक्। ‘ पृची संपर्के । लङस्तिप् । इतश्च ' इति इकारलोपः । हल्ङ्यादिलोपः । कुत्वम् । ‘रुधादिभ्यः श्नम्। तस्य ‘ व्यत्ययो बहुलम् ' ( पा. सू. ३. १. ८५ ) इति अडागमः । यणादेशः । अकारस्य आगमानुदात्तत्वं बाधित्वा व्यत्ययेनोदात्तत्वम् । ‘ चादिलोपे विभाषा ' ( पा. सू. ८, १. ६३ ) इति निघाताभावः । मर्त्यस्य । मृङ् प्राणत्यागे । ‘ असिहसिमृ° ' ( उ. सू. ३. ३६६ ) इत्यादिना औणादिकः तन्प्रत्ययः । मर्तेषु भव इत्यर्थे ' भवे छन्दसि ' ( पा. सू. ४. ४. १ १० ) इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । रक्ष। ‘ रक्ष पालने ' । शपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । पादादित्वात् न निघातः । रक्षा णः । ‘ द्व्यचोऽतस्तिङः ' (पा. सू. ६. ३. १३५) इति दीर्घः ।' उपसर्गाद्बहुलम् ' ( पा. सू. ८. ४. २८) इति बहुलग्रहणात् अनुपसर्गादपि नसो णत्वम् । ब्रह्मणस्पते । षष्याःिङ पतिपुत्र' (पा. सू. ८.३. ५३ ) इति संहितायां विसर्गस्य सकारः। सुबामन्त्रिते पराङ्गवद्भावात् पदद्वयस्य आमन्त्रितनिघातः ॥
“Protect us, Brahmaṇaspati, so that no calumnious censure of a melevolent man may reach us.”
Let not the foeman's curse, let not a mortal's onslaught fall on us
Preserve us, Brahmanaspati.
Let not the (male)diction, the malice of the grudging mortal reach us. Guard us, Lord of the Sacred Formulation.
Nicht treffe uns des Bösen Fluch, noch Frevelthat des Sterblichen, Behüt uns, o Gebetesherr.
Nicht sollen uns das harte Wort eines Geizigen, noch die Tücke eines Sterblichen treffen. Schütz uns davor, Brahmanaspati!
Да не постигнет нас
Проклятие скупого, коварство смертного!
Защити нас (от этого), о Брахманаспати!
स घा॑ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पति॑: । सोमो॑ हि॒नोति॒ मर्त्य॑म् ॥
सः । घ॒ । वी॒रः । न । रि॒ष्य॒ति॒ । यम् । इन्द्रः॑ । ब्रह्म॑णः । पतिः॑ । सोमः॑ । हि॒नोति॑ । मर्त्य॑म् ॥
इन्द्रः देवः यं मर्त्यं यक्ष्यमाणं हिनोति प्राप्नोति वर्धयति वा । तथा ब्रह्मणस्पतिः देवो हिनोति । तथा सोमः हिनोति । सः घ स एव यजमानः वीरः वीर्ययुक्तः सन् न रिष्यति न विनश्यति ॥ घ । चादिरनुदात्तः । संहितायाम् ' ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ' इति दीर्घः । ब्रह्मणस्पतिः । उक्तम् । हिनोति । ' हि गतौ वृद्धौ च । स्वादिभ्यः श्नुः'। तिपः पित्त्वात् श्नुप्रत्ययस्वर एव शिष्यते ॥
“The liberal man, whom Indra, Brahmaṇaspati, and Soma protect, never perishes.”
Ne'er is the mortal hero harmed whom Indra, Brahmanaspati,
And Soma graciously inspire.
That hero is certainly not harmed whom Indra, whom the Lord of the Sacred Formulation,
whom Soma urges on—(though he is) mortal.
Der Sterbliche wird nicht verletzt, der Mann, den der Gebetesherr, Den Indra und den Soma liebt.
Der Mann kommt wahrlich nicht zu Schaden, welchen Sterblichen Indra, Brahmanaspati, Soma aneifern.
Тот муж не гибнет,
Кого Индра, Брахманаспати,
Сома поощряют – (его,) смертного.
त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य॑म् । दक्षि॑णा पा॒त्वंह॑सः ॥
त्वम् । तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सोमः॑ । इन्द्रः॑ । च॒ । मर्त्य॑म् । दक्षि॑णा । पा॒तु॒ । अंह॑सः ॥
हे ब्रह्मणस्पते त्वं तं मर्त्यम् अनुष्ठातारं मनुष्यम् अंहसः पापात् पाहीति शेषः । तथा सोमः पातु इन्द्रश्च पातु दक्षिणाख्या देवता च पातु ॥ दक्षिणा । दक्ष वृद्धौ' । ‘द्रुदक्षिभ्यामिनन् (उ. सू. २. २०८ )। नित्त्वादाद्युदात्तः । अंहसः । ‘नब्विषयस्य' इत्यादिनाद्युदात्तः । ॥ ३४ ॥
“Do you, Brahmaṇaspati, and do you, Soma, Indra and Dakṣiṇā (= present person nified as a feminine le divinity), protect that man from sin.”
Do, thou, O Brahmanaspati, and Indra, Soma, Daksina,
Preserve that mortal from distress.
O Lord of the Sacred Formulation, (protect) him; let Soma and Indra (protect) the mortal:
Let the Priestly Gift protect (him) from difficult straits.
Den Mann, o du Gebetesherr, und Soma, Indra schützt vor Noth, Und Dakschina beschütze ihn.
Du Brahmanaspati, Soma und Indra und die Daksina sollen den Sterblichen vor Not schützen.
Ты, о Брахманаспати,
Сома и Индра, Дакшина,
Спасите этого смертного от беды!
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒निं मे॒धाम॑यासिषम् ॥
सद॑सः । पति॑म् । अद्भु॑तम् । प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् । स॒निम् । मे॒धाम् । अ॒या॒सि॒ष॒म् ॥
मेधां लब्धुं सदसस्पतिम् एतन्नामकं देवम् अयासिषं प्राप्तवानस्मि । कीदृशम् । अद्भुतम् आश्चर्यकरं इन्द्रस्य प्रियं सोमपाने सहचारित्वात् 'काम्यं कमनीयं सनिं धनस्य दातारम् ॥ सदसः । षद्लृ विशरणादौ । सर्वधातुभ्योऽसुन्' । नित्त्वादाद्युदात्तः। पतिम् । पातेर्डतिः (उ. सू. ४. ४९७ )। टिलोपः । प्रत्ययस्वरः । प्रियम् । ‘इगुपधज्ञाप्रीकिरः कः'। इयङादेशः । प्रत्ययस्वरः । काम्यम्। कामयतेः ‘अचो यत्'। ‘ णेरनिटि ' इति णिलोपः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । सनिम् । ‘ षणु दाने '। ‘ धात्वादेः षः सः'। ‘ अच इः ' ( उ. सू. ४. ५७८ ) इत्यनुवृत्तौ खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च ' ( उ. सू. ४. ५७९ ) इति इप्रत्ययः । प्रत्ययस्वरः । अयासिषम् । ‘ या प्रापणे । लुङ् । मिपोऽमादेशः । ‘ यमरमनमातां सक् च ' ( पा. सू. ७. २. ७३ ) इति सिच इडागमः; धातोः सगागमः । निघातः ॥
“I solicit understanding from Sadasaspati (= Agni, protector of the assembly), the wonderful, the friend of Indra, the desirable, the bountiful.”
To the Assembly's wondrous Lord, to Indra's lovely Friend who gives
Wisdom, have I drawn near in prayer.
The Lord of the Seat, infallible, dear and desirable to Indra,
I have besought for wisdom as our gain.
Den wunderbaren Wohnungsherrn, des Indra wünschenswerthen Freund, Hab' ich um Weisheit angefleht.
Den unsichtbaren Schutzgeist des Hauses, den geliebten Freund Indra´s, habe ich um Verdienst und Eingebung angegangen,
К Господину сиденья удивительному,
К милому (другу) Индры, достойному любви,
Я обратился ради достижения мудрости.
यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न । स धी॒नां योग॑मिन्वति ॥
यस्मा॑त् । ऋ॒ते । न । सिध्य॑ति । य॒ज्ञः । वि॒पः॒ऽचितः॑ । च॒न । सः । धी॒नाम् । योग॑म् । इ॒न्व॒ति॒ ॥
यज्ञः अयमनुष्ठातव्यः विपश्चितश्चन विदुषोऽपि यजमानस्य यस्मात् सदसस्पतिदेवात् ऋते न सिध्यति सः अयं सदसस्पतिर्देवः धीनां मनोऽनुष्ठानविषयाणामस्मद्बुद्धीनामनुष्ठेयकर्मणां वा योगं संबन्धम् इन्वति व्याप्नोति । यजमानमनुगृह्य तदीयं यज्ञं निष्पादयतीत्यर्थः ॥ यस्मात् । ‘ अन्यारात्° ' ( पा. सू. २. ३. २९ ) इत्यादिना ऋतेयोगात् पञ्चमी ।' सावेकाचः' इति विभक्तेरुदात्तत्वे प्राप्ते ' न गोश्वन्साववर्ण° ' इति प्रतिषेधः । सिध्यति । ‘षिधु संराद्धौ ' । श्यनो नित्त्वादाद्युदात्तत्वम् ।' यद्वृतान्नित्यम् ' इति निघातप्रतिषेधः । धीनाम् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । योगम् ।' युजिर् योगे'। घञो जित्त्वादाद्युदात्तत्वम् । इन्वति । ' इवि व्याप्तौ । शप् । ‘इदितो नुम् धातोः' इति नुम् । निघातः ॥
“Without whose aid the sacrifice even of the wise is not perfected; he pervades the association of our thoughts (or, the object of our pious acts; dhī = buddhi, understanding or karma).”
He without whom no sacrifice, e'en of the wise man, prospers; he
Stirs up the series of thoughts.
Without whom the sacrifice even of one attentive to poetic inspiration does not succeed,
he drives the team of insightful thoughts.
Er, ohne den das Opfer selbst des weisen Mannes nicht gelingt, Er fördre der Gebete Lauf.[16]
Ohne den die Anbetung selbst des Redekundigen nicht gelingt; er fördert die Anspannung des Gedanken.
Без кого не ладится
Жертвоприношение даже у вдохновенного,
Тот погоняет упряжку мыслей.
आदृ॑ध्नोति ह॒विष्कृ॑तिं॒ प्राञ्चं॑ कृणोत्यध्व॒रम् । होत्रा॑ दे॒वेषु॑ गच्छति ॥
आत् । ऋ॒ध्नो॒ति॒ । ह॒विःऽकृ॑तिम् । प्राञ्च॑म् । कृ॒णो॒ति॒ । अ॒ध्व॒रम् । होत्रा॑ । दे॒वेषु॑ । ग॒च्छ॒ति॒ ॥
आत् अनन्तरमेव हविष्कृतिं हविःसंपादनयुक्तं यजमानम् ऋध्नोति सदसस्पतिर्देवो वर्धयति । हविर्दानानन्तरमेव फलं प्रयच्छतीत्यर्थः । तथाविधफलसिद्धये अध्वरं यजमानेनानुष्ठीयमानं यज्ञं प्राञ्चं प्रकर्षेण गच्छन्तमविघ्नेन परिसमाप्तियुक्तं कृणोति करोति । होत्रा हूयमाना देवता तुष्टा सती यजमानं प्रख्यापयितुं देवेषु गच्छति । यद्वा । होत्रा अस्मदीयस्तुतिरूपा वाक् देवान् परितोषयितुं देवेषु गच्छति । श्लोकः धारा ' इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ' होत्रा गीः ' (नि. १. ११. ३५) इति पठितम् ॥ हविष्कृतिम् । हविषः कृतिः संपादनं यस्य यजमानस्य सोऽयं हविष्कृतिः । ‘ बहुव्रीहौ प्रकृत्या ' इति पूर्वपदप्रकृतिस्वरत्वम् । प्राञ्चम् । “ अनिगन्तोऽञ्चतौ वप्रत्यये ' (पा. सू. ६. २. ५२ ) इति गतेः प्रकृतिस्वरत्वम् । पश्चात् एकादेशस्वरः । अध्वरम् । न विद्यते ध्वरो हिंसा यस्मिन् ।' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । हूयतेऽस्यामिति होत्रा देवता । ‘हुयामाश्रुभसिभ्यस्त्रन्' (उ. सू. ४. ६०७ ) इति त्रन् । नित्त्वादाद्युदात्तः ॥
“He rewrds the presenter of the oblation; he brings the sacrifice to its conclusion; (through him) our invocation reaches the gods.”
He makes the oblation prosper, he promotes the course of sacrifice:
Our voice of praise goes to the Gods.
Then he brings to success the preparation of the oblation; he advances the ceremony;
he goes with the libation to the gods.
Dann segnet er das Opferwerk und lässt die Feier vorwärts gehn, Hin zu den Göttern dringt der Ruf.
Und er macht das Opferwerk erfolgreich, er bringt die heilige Handlung vorwärts; die Opfergabe gelangt durch ihn zu den Göttern.
Он также приводит к успеху жертвенное возлияние
Продвигает вперед обряд –
(И) возлияние идет к богам.
नरा॒शंसं॑ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमम् । दि॒वो न सद्म॑मखसम् ॥
नरा॒शंस॑म् । सु॒धृष्ट॑मम् । अप॑श्यम् । स॒प्रथः॑ऽतमम् । दि॒वः । न । सद्म॑ऽमखसम् ॥
नराशंसम् एतन्नामकं देवविशेषम् । यद्वा। अवयवार्थव्युत्पत्त्या सदसस्पतिदेवतापरोऽयं शब्दः । व्युत्पत्तिं च यास्को दर्शयति -- नराशंसो यज्ञ इति कात्थक्यो नरा अस्मिन्नासीनाः शंसन्त्यग्निरिति शाकपूणिर्नरैः प्रशस्यो भवति ' ( निरु. ८. ६) इति । अत्र अग्निवत् सदसस्पतेरपि नरैः शस्यमानत्वात् नराशंसत्वम् । एतमेवाभिप्रायं हृदि निधाय ब्राह्मणमेवमाम्नायते- ‘ प्रजा वै नरो वाक् शंसः' (ऐ. ब्रा. ६. २७) इति । अतो मनुष्यैः शस्यमानो यः सदसस्पतिर्यो वा नराशंसनामको देवः तम् अपश्यम् शास्त्रदृष्ट्या दृष्टवानस्मि । कीदृशम् । सुधृष्टमम् अत्याधिक्येन धार्ष्ट्ययुक्तं सप्रथस्तमम् अतिशयेन प्रख्यातं सद्ममखसं प्राप्ततेजस्कम् । तत्र दृष्टान्तः । दिवो न द्युलोकानिव। आदित्यचन्द्रादिभिरधिष्ठिता द्युलोकविशेषा यथा तेजस्विनः तद्वदयं नराशंसस्तेजस्वीत्यर्थः ॥ सुधृष्टमम् । शोभनं धृष्णोतीति सुधृक् । क्विप् च ' इति क्विप् । आतिशायनिकस्तमप् । षकारस्य जश्त्वाभावश्छान्दसः । कृदुत्तरपदप्रकृतिस्वरत्वेन ऋकार उदात्तः । अपश्यम्। ‘ पाघ्राध्मा' इत्यादिना पश्यादेशः । ‘ लुङ्लङ्लृङ्क्ष्वडुदात्तः ' इति अट उदात्तत्वम् । पादादित्वात् न निघातः । सप्रथस्तमम् । ‘ प्रथ प्रख्याने ' । प्रथनं प्रथः । ‘ सर्वधातुभ्योऽसुन्। नित्त्वादादाद्युदात्तत्वम् । सह प्रथसा वर्तते इति तेन सहेति तुल्ययोगे ' ( पा. सू. २. २.२८) इति बहुव्रीहिसमासः । 'वोपसर्जनस्य' ( पा. सू. ६. ३. ८३ ) इति सादेशः । पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ' परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । दिवः । ‘ ऊडिदम्° ' इत्यादिना विभक्तेरुदात्तत्वम् । सद्ममखसम् । सीदतीति सद्म । षद्लृ विशरणादौ । ‘ अन्येभ्योऽपि दृश्यन्ते ' ( पा. सू. ३. २. ७५ ) इति मनिन् । नित्त्वादाद्युदात्तः । सद्म महो यस्येति बहुव्रीहौ हकारस्य व्यत्ययेन खकारः ॥ ॥ ३५ ॥
“I have beheld Nārāśaṃsa (i.e. Agni or the person nified yajña or sacrifice at which men praise the gods), the most resolute, the most renowned, and radiant as the heavens.”
I have seen Narasamsa, him most resolute, most widely famed,
As 'twere the Household Priest of heaven.
“Praise of men” [/Narāśaṃsa], the boldest, most extensive one did I see— like one besieging the seat of heaven.
Den umfangsreichsten Männerpreis, den kühnsten Agni schaute ich, Der gleichsam stürmt des Himmels Sitz.
Den Narasamsa, den mutigsten, weitbekanntesten, erschaute ich, der einen Wohnsitz beschert gleich dem Himmel.
Нарашансу, самого мужественного,
Я увидел, самого широкого,
Щедро дарующего сиденье, как у неба.