यु॒वो रजां॑सि सु॒यमा॑सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां॑सि॒ दीय॑त् । हि॒र॒ण्यया॑ वां प॒वय॑: प्रुषाय॒न्मध्व॒: पिब॑न्ता उ॒षस॑: सचेथे ॥
यु॒वः । रजां॑सि । सु॒ऽयमा॑सः । अश्वाः । रथः॑ । यत् । वा॒म् । परि॑ । अर्णां॑सि । दीय॑त् । हि॒र॒ण्यया॑ । वाम् । प॒वयः॑ । प्रु॒षा॒य॒न् । मध्वः॑ । पिब॑न्तौ । उ॒षसः॑ । स॒चे॒थे॒ इति॑ ॥
हे अश्विनौ युवोः युवयोः 'अश्वाः रथवोढारः 'रजांसि रञ्जकान् लोकान् 'सुयमासः शोभननियमनाः । लोकत्रयसंचारिण इत्यर्थः । कदेति आह । 'यत् यदा वां 'रथः अर्णांसि अरणीयान् अभिमतदेशान् 'परि दीयत् परिगच्छेत् परितो गच्छति वा । तदेत्यर्थः । दीयतिर्गतिकर्मा, ‘ दीयति तकति' (नि. २. १४. ६९ ) इति तत्कर्मसु पाठात् । किंच रथागमनकाले वां युवयोः पवयः वज्रा रथनेमयो वा 'हिरण्ययाः हिरण्मयाः प्रुषायन् प्रुष्णन्त्यभिमतम् । यद्वा। हिरण्ययानि पवयो मधुपात्राणि वां युवाभ्यामर्थाय । यस्मादेवं तस्मात् युवां 'मध्वः मधुनो मधुसदृशस्य सोमरसस्य ॥ कर्मणि षष्ठी ॥ सोमरसं पिबन्तौ आस्वादयन्तौ उषसः उषःसंबन्धिनि काले 'सचेथे यज्ञं संगच्छेथे । अत्र क्रमो न विवक्षितः । उषःकाले एवागत्य मधुरं सोमरसं पिबतमित्यर्थः ॥
“Aśvins, your horses are traversers of the (three) regions, when your chariot proceeds to (its desired) quarters; the golden fellies of your wheels grant (whatever is wished for); drinking the Soma, you participate in the morning (rite).”
LIGHTLY your coursers travel through the regions when round the sea of air your car is flying.
Your golden fellies scatter drops of moisture: drinking the sweetness ye attend the Mornings.
Your easily controlled horses (fly around) the airy realms, when your chariot flies around the floods.
Your golden wheel-rims spray (honey); drinking of the honey you
accompany the dawns.
Wenn durch die Luft die schöngelenkten Rosse und euer Wagen durch die Fluten hinfliegt, Dann triefen reichlich eure goldnen Schienen und süsses trinkend eint ihr euch den Morgen;
Eure lenksamen Rosse durcheilen die Räume, wenn euer Wagen um die Meerfluten fliegt. Es triefen eure goldnen Radschienen. Vom süßen Trank trinkend begleitet ihr die Usas´.
Ваши легко управляемые кони (пересекают) пространства
Когда ваша колесница летает кругом над потоками.
Золотые ваши ободья (колес) брызжут (медом).
Напиваясь меду, вы следуете за Ушас.
यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः । स्वसा॒ यद्वां॑ विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑ ॥
यु॒वम् । अत्य॑स्य । अव॑ । न॒क्ष॒थः॒ । यत् । विऽप॑त्मनः । नर्य॑स्य । प्रऽय॑ज्योः । स्वसा॑ । यत् । वा॒म् । वि॒श्व॒गू॒र्ती॒ इति॑ विश्वऽगूर्ती । भरा॑ति । वाजा॑य । ईट्टे॑ । म॒धु॒ऽपौ॒ । इ॒षे । च॒ ॥
हे अश्विनौ युवं युवां यत् अत्यस्य अतनशीलस्य सततसंचारिणः विपत्मनः विविधगमनस्य विचित्रगमनस्य वा नर्यस्य मनुष्याणां हितस्य प्रयज्योः प्रकर्षेण पूज्यस्य ॥ एतानि कर्मणि षष्ठ्यन्तानि ॥ उक्तरूपं रथम् अव अवस्तात् तदुदयात् पूर्वं नक्षथः व्याप्नुथो देवयजनं गन्तुम् । किंच यत् यदा हे विश्वगूर्ती सर्वस्तुत्यौ सर्वदा उद्गूर्णौ वा वां युवयोः स्वसा स्वसृस्थानीया स्वयंसारिणी वा उषाः भराति पोषते त्वदागमनाय प्रभातं करोति । यदा हे मधुपौ मधुरस्य सोमरसस्य पातारौ युवां यजमानः वाजाय बलाय गमनाय वा इषे प्रभूतान्नाय ईट्टे स्तौति । तदा रथं प्राप्नुथ इत्यर्थः ॥
“Direct downwards (the course) of your (car) swift moving, variously going, friendly to man, and to be especially venerated, when all adorable, your sister (dawn) prepares (for your approach), and (the instrumental tutor of the ceremony) worships you, drinkers of the Soma, for the sake (of obtaining) strength and food.”
Ye as ye travel overtake the Courser who flies apart, the Friend of man, most holy.
The prayer is that the Sister may convey you, all praised, meath-drinkers! to support and strengthen.
You descend to the movement of the steed of wide flight [=ritual fire], the one belonging to men, foremost at the sacrifice,
when your sister [=Dawn] will bring you, o you welcomed by all,
and (the singer) solemnly invokes you for victory’s prize and for
refreshment, o honey-drinkers.
Wenn ihr das schnelle Ross der Sonne einholt, das weithin fliegt und allen Menschen Heil bringt, Wenn, allwillkommne, euch die Schwester pflegend, Speis' und Trank euch Honigtrinker ladet.
Ihr erreicht die Schnelligkeit des Renners des wie der Vogel fliegenden, mannhaften, opfersamen, wenn euch, ihr Allgelobten, die Schwester bringen wird und der Sänger euch, Süßtrinker, um Gewinn und Speisung anruft.
Вы догоняете коня (солнца),
Стремительно летящего (?), мужественного, заслуживающего жертвы,
Когда приведет вас сестра, о воспеваемые всеми,
{И жертвователь) призовет ради награды и подкрепления, о вы пьющие мед.
यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः । अ॒न्तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥
यु॒वम् । पयः॑ । उ॒स्रिया॑याम् । अ॒ध॒त्त॒म् । प॒क्वम् । आ॒माया॑म् । अव॑ । पूर्व्य॑म् । गोः । अ॒न्तः । यत् । व॒निनः॑ । वा॒म् । ऋ॒त॒प्सू॒ इत्यृ॑तऽप्सू । ह्वा॒रः । न । शुचिः॑ । यज॑ते । ह॒विष्मा॑न् ॥
हे अश्विनौ युवं युवाम् उस्रियायाम् । गोनामैतत् । भोगोत्स्राविण्यां गवि पयः अधत्तम् अधारयतं स्थापितवन्तौ । तथा आमायाम् अपक्वायां पक्वं परिपक्वं भोगयोग्यं गोसंबन्धि दुग्धं पूर्व्यं पूर्वभवं तत्रैवोत्पन्नम् अव अवस्तादधारयतम् । गवि क्षीरमुत्पाद्य पुनर्भोगाय पृथक्कृतवन्तावित्यर्थः ।
"यत् यस्मात् हे ऋतप्सू सत्यस्वरूपौ यज्ञियहविर्भक्षयितारौ वा हे अश्विनौ वां वनिनः उदकवतः उद्कोपलक्षितहविष्मतो यज्ञस्य अन्तः मध्ये हविष्मान् प्रदेयहविषा तद्वान् शुचिः शुद्धो यजमानः यजते पूजयति युवां तस्मादेवमकुरुतम् । यद्वा । यदैवं यजमानः करोति तदेत्यर्थः । तत्र दृष्टान्तः । वनिनः वनसंबन्धिवृक्षसमूहस्य अन्तः मध्ये ह्वारो न चोर इव । स यथा जागरूको वर्तते तथा यजमानोऽपीत्यर्थः ॥
“Youhave restored milk to the cow; you have (brought) down the prior mature (secretion) into the unripe (or barren udder) of the cow; the devout offerer of the oblation worships you, whose forms are truth, (as vigilant in the midst of the ceremony), as a thief (in the midst) of a thicket.”
Ye have deposited, matured within her, in the raw cow the first milk of the milch-cow,
Which the bright offerer, shining like a serpent mid trees, presents to you whose form is perfect.
You set milk in the ruddy (cow)—the cooked in the raw—(set) down the cow’s primordial (substance),
which (milk) is (now) going within the wooden (cups) for you, as a
blazing twisting (snake [=fire]) goes among the trees, o you whose
breath is truth. The one with the oblation is performing sacrifice.
Ihr habt die erste Milch der Kuh als gare hineingesetzt in diese rohe Milchkuh; Die Milch, die Agni euch, als bunte Schlange, durch Tränke weiht, o schöner, bei den Spendern.
Ihr legtet die Milch in die Kuh, die gekochte in die rohe, den uralten Schatz der Kuh, die euch, ihr Verkörperer der Wahrheit, im Holzgefäß rein wie der Sonnenvogel, der Opferspender darbringt.
Вы вложили молоко в корову,
Вареное – в сырую, древнее (богатство) коровы,
Которое вам, о два воплощения закона (?), в деревянном сосуде
Подносит жертвователь, (и оно -) словно сверкающая птица (солнца).
यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ऽपो न क्षोदो॑ऽवृणीतमे॒षे । तद्वां॑ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये॑व च॒क्रा प्रति॑ यन्ति॒ मध्व॑: ॥
यु॒वम् । ह॒ । घ॒र्मम् । मधु॑ऽमन्तम् । अत्र॑ये । अ॒पः । न । क्षोदः॑ । अ॒वृ॒णी॒त॒म् । ए॒षे । तत् । वा॒म् । न॒रौ॒ । अ॒श्वि॒ना॒ । पश्वः॑ऽइष्टिः । रथ्या॑ऽइव । च॒क्रा । प्रति॑ । य॒न्ति॒ । मध्वः॑ ॥
अत्रेतिहासमाहुः । प्रवर्ग्येण प्रचरन्तमत्रिं राक्षसास्तप्ते घर्मेऽपातयन् । स च तप्यमानोऽश्विनौ तुष्टाव । तौ च स्तुत्या हृष्टमनसावरक्षतामिति । अपरेऽग्नौ क्षिप्तमपालयतामित्याहुरिति । हे अश्विनौ । युवं युवां मधुमन्तं पयोघृतरूपाभ्यां मधुभ्यां तद्वन्तं घर्मं दीप्तं प्रवर्ग्यम् एषे सौख्यमिच्छते अत्रये एतन्नाम्ने महर्षये क्षोदः क्षोदांसि क्षोद्यमानानि अपो न उदकानीव अवृणीतम् अवारयतम् । औष्ण्यं शैत्यसुखं कृतवन्तौ । तप्तघर्मसकाशात् भ(र)क्षितवान् (वन्तौ) इत्यर्थः । यद्वा । अत्रये क्षोदः । उदकनामैतत् । तत्स्थं शैत्यं लक्ष्यते । अपः क्षोदो न । अप इति षष्ठ्यर्थे द्वितीया । उदकानां शैत्यं यथा भवति तद्वत् । पक्षान्तरे तु घर्मं दीप्तमग्निं मधुमन्तं कृत्वा अवृणीतं सुखयतमित्यर्थः । तथा च मन्त्रान्तरं-’ तप्तं घर्ममोम्यावन्तमत्रये' (ऋ. सं. १. ११२. ७ ) इति । तत् तस्मात् यस्मादेवं तस्मात् हे नरौ नेतारौ नराकारौ वा अश्विना अश्विनौ वां युवाभ्यां पश्वइष्टिः । पशुरित्यग्नेर्नाम । ‘अग्निः पशुरासीत् ' (तै. सं. ५. ७. २६ ) इत्यादिश्रुतेः । यद्वा । पशुप्रियत्वात् पशुरित्युच्यते । तस्याग्नेः इष्टिर्भवति । अग्नौ यागः सर्वो युष्मदर्थं प्रवर्तते इत्यर्थः । यद्वा । पशुसाध्यो यागो युवाभ्यां प्रवर्तते इति शेषः । ‘आश्विनं धूम्रललाममा लभेत यो दुर्ब्राह्मणः सोमं पिपासेत् '(तै. सं. २. १. १०. १) इत्यादिनाप्यश्विभ्यां पशुर्विहितः । तथा मध्वः मधुसदृशाः सोमरसा अपि युवाभ्यां प्रति यन्ति अभिगच्छन्ति । तत्र दृष्टान्तः । रथ्येव चक्रा रथसंबन्धीनि चक्रा चक्राणीव । तानि यथा प्रवणदेशमभिगच्छन्ति तद्वत् ॥
“You rendered the heat as soothing as sweet butter to Atri; wishing (for relief), and invested it with coolness,like water; therefore, for you, Aśvins, leaders (of rites) the fire-offering (is made); to you the Soma (drips) run like chariot wheels (down a declivity).”
Ye made the fierce heat to be full of sweetness for Atri at his wish, like streaming water.
Fire-offering thence is yours, O Asvins, Heroes: your car-wheels speed to us like springs of honey.
You chose the honeyed hot drink for Atri, to send it here like a surge of water.
Now (the refreshing drinks) of honey come back to you, like chariot wheels on the quest for livestock, o Aśvins, superior men.
Dem Atri habt ihr euren süssen Milchtrank auf seinen Wunsch gewährt, wie Wasserfluten, Drum gehn zu euch, o Ritter, süsse Tränke wie Wagenräder, die ihr Milch begehret.
Ihr wünschtet für Atri den süßen Gharma, daß er wie die Wasserflut komme. Das war für euch, ihr Herren Asvin, lohnend wie das Herdensuchen: die Gaben des süßen Tranks gehen jetzt zurück wie die Wagenräder.
Вы создали сладкое горячее молоко для Атри,
Стремившегося (попасть) словно в поток воды.
О двоица мужей Ашвинов, это ваши поиски коров:
(Они повторяются,) словно медовые колеса колесницы возвращаются назад.
आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रि॑: । अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥
आ । वा॒म् । दा॒नाय॑ । व॒वृ॒ती॒य॒ । द॒स्रा॒ । गोः । ओहे॑न । तौ॒ग्र्यः । न । जिव्रिः॑ । अ॒पः । क्षो॒णी इति॑ । स॒च॒ते॒ । माहि॑ना । वा॒म् । जू॒र्णः । वा॒म् । अक्षुः॑ । अंह॑सः । य॒ज॒त्रा॒ ॥
हे दस्रा शत्रूणामुपक्षपयितारावश्विनौ वां युवयोः दानाय अस्मदभिमताय युवाभ्यां वाहयितुम् आ ववृतीय आवर्तयामि यागदेशम् ॥ वृतेरन्तर्भावितण्यर्थस्येदम् ॥ केन साधनेनेति तदुच्यते । गोः स्तुतिरूपाया वाचः ओहेन वहनेन साधनेन । यद्वा । आवर्तनकाल उच्यते । गोर्गन्त्र्याः उषसो वहनेन। 'जिव्रिः जीर्णो जयशीलो वा तौग्र्यो न तुग्राख्यस्य राज्ञः पुत्रो भुज्युरिव । स यथा शत्रुभिः संताड्य समुद्रे पातितो युवां परितोष्य स्वोद्धाराय स्वसमीपमानयत तद्वदित्यर्थः । इयमाख्यायिका ‘तुग्रो ह' (ऋ. सं. १. ११६. ३), ‘भुज्युमंहसः पिपृथः' (ऋ. सं. १०.६५.१२), ‘ नासत्या भुज्युम्' (ऋ. सं. १. ११६. ४ ) इत्यादिषु प्रसिद्धा च । किमाश्चर्यमहमावर्तयामीति । किंतु अपः क्षोणी। अप इत्यन्तरिक्षनाम (नि. १.३.८)। क्षोणीति पृथिवीनाम (नि. १. १.७)। द्यावापृथिव्यावपि वां युवयोः माहिना माहात्म्येन युवयोः प्रसादेन सर्वोपकारिण्याविति ख्यातिं सर्वप्रदेशव्यापित्वं वा सचते सेवते प्रत्येकम् । यद्वा । वां माहिना यजमानो द्यावापृथिव्यौ सचते । किंच हे यजत्रा यष्टव्यौ प्रसादादयमृषिः जूर्णः जरया जीर्णाङ्गः सन् अंहसः पापात् जरालक्षणात् प्रमुच्य अक्षुः चिरकालव्याप्तो दीर्घजीवी भूयात् । यद्वा । हे यजत्रा वां प्रसादात् जूर्णो जीर्णो यजमानः अंहसो दुरितस्य हन्त्रीरप उक्तलक्षणानि सोमरसरूपाण्युदकानि क्षोणी क्षोण्याम् ॥ सप्तम्यर्थे प्रगृह्यम् ॥ भूम्यां चिरकालमक्षुर्व्याप्तः सन् महिना माहात्म्येन सचते । द्वितीयो वामित्ययमादरार्थः ॥ ॥ २३ ॥
“Dasras, may I bring you, by the vehicle of my prayers, (hither), to bestow (upon me your aid), like the infirm son of Tugra; heaven and earth combine (to worship you) through your greatness; may this, your aged (worshipper), adorable (Aśvins), enjoy long life, (exempt) from sin.”
Like Tugra's ancient son may I, ye Mighty, bring you to give your gifts with milk-oblations.
Your greatness compasseth Earth, Heaven, and Waters: decayed for you is sorrow's net, ye Holy.
With a laud might I turn you here for the giving of a cow, as the
time-worn son of Tugra did, o wondrous ones—
a great roar (as if) of water accompanies you two great ones—(might I,) worn out from anxiety and without cattle, (turn) you (here), o you who are worthy of the sacrifice.
Zum Geben möcht' ich euch, o hehre, stimmen, euch Milch anbietend wie der greise Bhudschju, Des Wassers Flut geht mächt'gen euch zur Seite, für euch ist morsch das Netz der Noth, o heil'ge!
Ich möchte euch, Meister, zum Schenken bringen durch Anpreisung der Kuhmilch, wie der greise Tugrasohn. Eure mächtige Hilfe sucht das Wasser, beide Welten auf. Abgenutzt ist eure Stange infolge der Not, ihr Opferwürdige.
Я хочу вас, о чудесные, повернуть к дарению
С помощью расхваливания (молока) коровы, подобно старому сыну Тугры.
Ваша могучая (помощь) распространяется на воды, небо и землю.
Изношена для вас ось узости, о достойные жертвы.
नि यद्यु॒वेथे॑ नि॒युत॑: सुदानू॒ उप॑ स्व॒धाभि॑: सृजथ॒: पुरं॑धिम् । प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज॑म् ॥
नि । यत् । यु॒वेथे॒ इति॑ । नि॒ऽयुतः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । उप॑ । स्व॒धाभिः॑ । सृ॒ज॒थः॒ । पुर॑म्ऽधिम् । प्रेष॑त् । वेष॑त् । वातः॑ । न । सू॒रिः । आ । म॒हे । द॒दे॒ । सु॒ऽव्र॒तः । न । वाज॑म् ॥
हे सुदानू शोभनदानावश्विनौ यत् यदा नियुतः अश्वान् नि युवेथे नियुञ्जाथे नियोजयथः ताभिरस्मद्यज्ञगमनाय संयुक्तौ भवथः तदा स्वधाभिः अन्नैः तत्कारणैरुदकैर्वा पुरंधिं बहूनां धात्रीं पृथिवीम् उप सृजथः। एवं च सति सूरिः स्तोता अयं यजमानः वातो न वायुरिव तद्वत् क्षिप्रं युवां प्रेषत् तर्पयतु । वेषत् व्याप्नोतु । कामयतां वा ॥ प्रीणातेर्वेतेश्च लेटि रूपे ॥ अनन्तरं सुव्रतो न अतिप्रशस्तोष्मादिकर्मवानिव वाजम् अन्नं महे महत्त्वाय अयं यजमानः आ ददे आदत्ते स्वीकरोति ॥ ‘ आङो दोऽनास्यविहरणे' (पा. सू. १. ३. २०) इत्यात्मनेपदम् । ‘लोपस्त आत्मनेपदेषु' इति तलोपः । यद्वा । छान्दसे लिटि रूपम् ॥ स्वीकृत्य स्वमहत्त्वाय युवामेव तर्पयत्वित्यर्थः॥
“Bountiful givers, when you yoke your horses you replenish the earth with viands; may this your worshipper be (swift) as the wind to propitiate and plural ase you, that, through your great (favour), he may, like a pious man, obtain food.”
When, Bounteous Ones, ye drive your yoked team downward, ye send, by your own natures, understanding.
Swift as the wind let the prince please and feast you: he, like a pious man, gains strength for increase.
When you team up your teams, o you of good gifts, you send abundance nearby by your own autonomous powers.
Our patron gives the ritual prompt [/will please]; he toils [/will pursue] like the wind. Like one who well follows his commandments, he has taken victory’s prize, in order (to show) great (generosity?).
Wenn, gabenreiche, ihr die Rosse lenket, so lasst ihr willig Segensfülle strömen; Erquickend eile wie der Wind der Reiche, er gab zur Lust die Labung als ein frommer.
Wenn ihr Gabenschöne die Gespanne anbindet, so lasset ihr nach eigenem Ermessen der Wunscherfüllung freien Lauf. Der Lohnherr soll befriedigen, soll hinterher sein wie der Wind. Er hat Gewinn eingebracht, um ihn wie ein pflichtgetreuer Lohnherr zu verschenken.
Когда вы запрягаете упряжки, о щедродающие,
По своим обычаям вы изливаете изобилие (богатства).
Пусть щедрый покровитель обрадуется (и) помнится, как ветер!
Он получает награду, чтобы (потом) дарить, как (человек,) неуклонно следующий обету.
व॒यं चि॒द्धि वां॑ जरि॒तार॑: स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् । अधा॑ चि॒द्धि ष्मा॑श्विनावनिन्द्या पा॒थो हि ष्मा॑ वृषणा॒वन्ति॑देवम् ॥
व॒यम् । चि॒त् । हि । वा॒म् । ज॒रि॒तारः॑ । स॒त्याः । वि॒प॒न्याम॑हे । वि । प॒णिः । हि॒तऽवा॑न् । अध॑ । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अ॒नि॒न्द्या॒ । पा॒थः । हि । स्म॒ । वृ॒ष॒णौ॒ । अन्ति॑ऽदेवम् ॥
वयं चिद्धि वयमपि जरितारः तव स्तोतारः सत्याः सत्यफलाः सन्तः विपन्यामहे विविधं स्तुमः । पणिः पणाधारो द्रोणकलशः वि हितवान् स्थापितरसवानासीत् । यद्वा । पणिर्वणिग्लुब्धकोऽयष्टा हितवान्नियतधनो धनाढ्योऽप्ययष्टा वि वियुज्यताम् ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ अध अपि च चिद्धि ष्म । एते त्रयः पूरणाः । हे अश्विनौ अनिन्द्या । प्रशस्यनामैतत् । हे प्रशस्यौ वृषणौ हे कामानां वर्षितारौ युवाम् अन्तिदेवं देवानामन्तिके पाथः सोमं पिबथः । यद्वा । अन्तिके वर्तमानं देवान् प्राप्नुवानं सोममिति योज्यम् ॥
“Your sincere adorers, we verily praise you in various ways. The pitcher has been plural ced (ready for the Soma). Irreproachable Aśvins, showerers (of benefits) drink freely of the juice in the presence of the gods.”
For verily we truthful singers praise you the niggard trafficker is here excluded.
Now, even now do ye O blameless Asvins, ye Mighty, guard the man whose God is near him.
Since we, your trusty singers, are expressing our admiration for you, the niggard with his hoard is far away.
And since, o Aśvins, (you are) irreproachable, because you protect (the man) who has the gods nearby, o bulls,
Wir rühmen uns als eure treuen Sänger, der Karge rühmt sich als des Schatzes Hüter; Drum schützt ihr nun, o Ritter ohne Tadel, ihr Helden den, der sich den Göttern nahet.
Denn wir werden doch als eure wahren Lobsänger anerkannt. Der Geizhals und einer, der gute Freunde hat, sind zweierlei. Denn gerade darum seid ihr Asvin untadelig, denn ihr Bullen schützet den, dem die Götter nahe stehen.
Ведь это только мы славимся как ваши подлинные певцы -
Скупец, приготовивший (угощение для вас, остается) в стороне!
Вы же, о Ашвины, потому безупречны,
Что храните, о два быка, того, к кому близки боги.
यु॒वां चि॒द्धि ष्मा॑श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ । अ॒गस्त्यो॑ न॒रां नृषु॒ प्रश॑स्त॒: कारा॑धुनीव चितयत्स॒हस्रै॑: ॥
यु॒वाम् । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अनु॑ । द्यून् । विऽरु॑द्रस्य । प्र॒ऽस्रव॑णस्य । सा॒तौ । अ॒गस्त्यः॑ । न॒राम् । नृषु॑ । प्रऽश॑स्तः । कारा॑धुनीऽइव । चि॒त॒य॒त् । स॒हस्रैः॑ ॥
हे अश्विनौ युवां । चिद्धि ष्म इति त्रयः पूरणाः । अनु द्यून प्रतिदिनं विरुद्रस्य विशिष्टोष्णरूपदुःखद्रावणस्य विविधरोरूयमाणद्रवणवतो वा प्रस्रवणस्य वृष्ट्युदकसंस्त्यायस्य सातौ लाभे निमित्तभूते सति अगस्त्यः एतन्नामा महर्षिः नरां नेतॄणां कर्मनिर्वाहकानां मनुष्याणां नृषु येषु तादृशाः मनुष्याः सन्ति तेषु प्रशस्तः प्रशस्यतरोऽयं सहस्रैः अपरिमितैः स्तोत्रैः चितयत् चेतयति स्तुत्या प्रबोधयति । तत्र दृष्टान्तः । काराधुनीव । कारा शब्दः । तस्य धूनयितोत्पादयिता शङ्खादिः स इव । यद्वा । एतदप्यगस्त्यविशेषणम् । कारः शब्दयिता होत्रादिः । तस्य धुनिः कम्पयिता प्रेरकः इव । इवेति संप्रत्यर्थे ।' अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः ' ( निरु. ७. ३१ ) इति निरुक्तम् ॥
“Aśvins, Agastya, eminent among the leader of men, arouses you daily with numerous (invocations) like an instrumental ument of sound, for the sake of obtaining a manifold (flow) of a torrent (of rain).”
You of a truth day after day, O Asvins, that he might win the very plenteous torrent,
Agastya, famous among mortal heroes, roused with a thousand lauds like sounds of music.
And since (Agastya summons) you, o Aśvins, through the days at the winning of the first outpouring of (soma, offered) apart from the
Rudras [=Maruts],
Agastya, proclaimed of men among men as if with a tumult of praise songs [?], is conspicuous by his thousands (of cows).
Denn euch hat täglich auch gerühmt, o Ritter, bei jeder Spende glanzbegabten Trankes Agastia, der Männer Ruhm bei Männern, mit tausend Liedern gleich der Kriegstrompete.
Denn euch opferte er doch täglich, ihr Asvin, als er das Trankopfer ohne die Rudrasöhne gewann. Agastya, der unter den Männern der gepriesene der Männer ist, zeichnet sich wie ..... durch Tausende aus.
Ведь он, о Ашвины, (приносил) вам (жертвы) день за днем,
Когда добился выливающегося (из цедилки сомы) без Рудр.
Агастья среди мужей прославлен мужами.
Словно боевой гонг (?) (- победами), он отмечен тысячами (гимнов).
प्र यद्वहे॑थे महि॒ना रथ॑स्य॒ प्र स्य॑न्द्रा याथो॒ मनु॑षो॒ न होता॑ । ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाच॑: स्याम ॥
प्र । यत् । वहे॑थे॒ इति॑ । म॒हि॒ना । रथ॑स्य । प्र । स्य॒न्द्रा॒ । या॒थः॒ । मनु॑षः । न । होता॑ । ध॒त्तम् । सू॒रिऽभ्यः॑ । उ॒त । वा॒ । सु॒ऽअश्व्य॑म् । नास॑त्या । र॒यि॒ऽसाचः॑ । स्या॒म॒ ॥
हे अश्विनौ युवां रथस्य गमनसाधनस्य महिना महत्त्वेन यत् यस्मात् प्र वहेथे धारयथो यज्ञम् । यद्वा । रथस्य स्वर्गगमनसाधनस्य यागस्य धुरं वहत । तथा हे स्यन्द्रा स्यन्दनशीलौ युवां याथः गच्छथः । स्वस्थानं यज्ञारम्भे आगच्छथः यज्ञसमाप्तौ पुनर्गच्छथश्च । तत्र दृष्टान्तः । मनुषः होता मनुष्यस्य यजमानस्य होता यथा यज्ञप्रारम्भे आगच्छति कर्मणि निर्वृत्ते पुनरपगच्छति तद्वत् । आगमनसमये सूरिभ्यः स्तोतृभ्यः धत्तं धारयतं फलम् । उत वा स्वश्व्यं शोभनाश्वसमूहं धत्तम् । नासत्या । सत्सु भवौ सत्यौ । न असत्यौ नासत्यौ । हे तादृशौ त्वदनुग्रहात् रयिसाचः धनसमवायिनः स्याम भवेम ॥
“When, by the virtue of your chariot, you come (to the sacrifice), and when, like the ministering priest (after discharging his rfunction), you depart, gliding away, you give to the devout (worshippers a reward), thogh it be store of good horses; may we be enriched, Nāsatyās (by your favour).”
When with the glory of your car ye travel, when we go speeding like the priest of mortals,
And give good horses to sacrificers, may we, Nasatyas! gain our share of riches.
When by the greatness of your chariot you carry yourselves forward, you drive forth like the Hotar [=Agni] of Manu, o streaming ones. Provide an abundance of good horses to our patrons and (to us): might we be companions of wealth, o Nāsatyas.
Wenn ihr einherfahrt mit des Wagens Andrang, so kommt ihr eilend wie des Menschen Priester, Den Fürsten gebet Schatz und schöne Rosse, und wir, ihr treuen, seien reich beschenkt auch.
Wenn ihr mit der Größe eures Wagens aufbrecht, dann gehet ihr Eilige auf die Fahrt wie der Hotri des Menschen. Schaffet den Lohnherren oder sonst gute Rosse! Ihr Nasatya´s, wir möchten im Besitz von Reichtümern sein.
Когда вы выезжаете со (всем) величием (вашей) колесницы,
Вы продвигаетесь вперед, о поспешные, как хотар человека.
Наделите прекрасными конями щедрых покровителей, а также (певцов)!
О Насатьи, да будем мы владеть богатствами!
तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम॒ स्तोमै॑रश्विना सुवि॒ताय॒ नव्य॑म् । अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । स्तोमैः॑ । अ॒श्वि॒ना॒ । सु॒वि॒ताय॑ । नव्य॑म् । अरि॑ष्टऽनेमिम् । परि॑ । द्याम् । इ॒या॒नम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
हे अश्विना हे अश्विनौ वां युवयोः संबन्धिनं शीघ्रगमनेन स्तुत्यं रथं वयम् अगस्त्याः अद्य अस्मिन्सुत्येऽहनि हुवेम आह्वयेम । केन साधनेनेति उच्यते । स्तोमैः स्तोत्रैः । किमर्थम् । सुविताय सुष्ठु प्राप्तये । कीदृशम् । नव्यं स्तुत्यं नूतनं वा तथा अरिष्टनेमिम् अहिंसितचक्रवलयं द्यां परि इयानं द्युलोकस्य परितो गच्छन्तम् । विद्याम इत्यादि गतम् ॥ ॥ २४ ॥
“We invoke today, Aśvins, with hymns, for the sake of good things, your praiseworthy chariot of undamaged wheels, and traversing the sky, that we may obtain (from it) food, strength and long life.”
With songs of praise we call to-day, O Asvins, that your new chariot, for our own well-being,
That circles heaven with never-injured fellies. May we find strengthening food in full abundance.
Today, o Aśvins, we would call your chariot here with praise songs for ever newer good faring—
(the chariot) that speeds around heaven with undamaged fellies. – May we know refreshment and a community having lively waters.
Wir rufen heute diesen euren Wagen, o Ritter, her durch Lieder neu zum Glücke, Der festen Rades um den Himmel fähret. Gebt Labung uns und wasserreiche Fluren.
Diesen Wagen von euch wollen wir heute mit Lobgesängen aufs neue zur Wohlfahrt anrufen, o Asvin, der mit unversehrten Felgen den Himmel umfährt. - Wir möchten einen gastfreien Opferbündler kennen lernen, der rasch schenkt.
Сегодня мы снова хотим прославлениями призвать
К счастливому выезду эту вашу колесницу,
С невредимыми ободьями объезжающую небо.
Мы хотим найти щедрую общину, легко дарящую!