कदु॒ प्रेष्टा॑वि॒षां र॑यी॒णाम॑ध्व॒र्यन्ता॒ यदु॑न्निनी॒थो अ॒पाम् । अ॒यं वां॑ य॒ज्ञो अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒ अवि॑तारा जनानाम् ॥
कत् । ऊँ॒ इति॑ । प्रेष्ठौ॑ । इ॒षाम् । र॒यी॒णाम् । अ॒ध्व॒र्यन्ता॑ । यत् । उ॒त्ऽनि॒नी॒थः । अ॒पाम् । अ॒यम् । वा॒म् । य॒ज्ञः । अ॒कृ॒त॒ । प्रऽश॑स्तिम् । वसु॑धिती॒ इति॑ वसु॑ऽधिती । अवि॑तारा । ज॒ना॒ना॒म् ॥
हे अश्विनौ प्रेष्ठौ प्रियतमौ वां युवां कदु कदा भविष्यति' इषाम् इष्यमाणानामन्नानां रयीणां धनानाम् ॥ कर्मणि षष्ठ्यौ । अन्नानि धनानि च उन्निनीथः ऊर्ध्वं प्रापयथः अध्वर्यन्ता अध्वरं पारयितुमिच्छन्तौ युवाम् अपां वृष्ट्युदकानां वृष्ट्युदकानि च उन्निनीथः उत्कृष्टम् अधः प्रापयथ इति यत् तत्कदा । कस्मादेवमुच्यते इति उच्यते । अयं यज्ञः अस्माभिरनुष्ठीयमानः वां युवयोरेव प्रशस्ति प्रशंसां स्तुतिम् अकृत करोति । यज्ञे शंसनीयानि शस्त्राणि युवामेव प्रशंसन्तीत्यर्थः । यस्मादेवं तस्मात् हे वसुधिती वसुनो धनस्य धातारौ वस्तव्यकर्माणौ तथा हे जनानाम् अवितारौ उक्तलक्षणौ युवा कदा अन्नानां धनानां च दातारौ भवथ इति ॥
“When, beloved (Aśvins), do you bear aloft (the materials) of food and riches, that, desirous of the sacrifice, you may send down the rain; this sacrifice offers you adoration, givers of riches, protectors of men.”
WHAT, dearest Pair, is this in strength and riches that ye as Priests are bring from the waters?
This sacrifice is your glorification, ye who protect mankind and give them treasures.
What (portion) of nourishments and riches (do) you two dearest ones (draw up), when, acting as Adhvaryus, you draw up (a portion) of the waters?
This sacrifice here has made its own encomium for you, o you
depositories of goods, helpers of the peoples.384 I.182
Was ist's, o liebste, was ihr aus den Wassern an Trunk und Reichthum dienstbeflissen herführt? Dies Opfer hat euch hohen Ruhm bereitet, Schatzkammern ihr und Schützer aller Menschen!
Was war es, das ihr, die größten Liebhaber von Speisegenüssen, von Reichtümern, den Opferdienst besorgend aus dem Wasser geschöpft habt? Dieses Opfer hat euch Ehre gemacht, ihr Schatzhalter, ihr Helfer der Menschen.
Что же (это было такое), что вы, самые большие любители жертвенных услад (и) богатств,
Действуя как адхварью, извлекли из вод?
Эта жертва создала вам славу,
О два обладателя богатств, о помощники людей.
आ वा॒मश्वा॑स॒: शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒ अत्या॑: । म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒ एह स्व॒राजो॑ अ॒श्विना॑ वहन्तु ॥
आ । वा॒म् । अश्वा॑सः । शुच॑यः । प॒यः॒ऽपाः । वात॑ऽरंहसः । दि॒व्यासः॑ । अत्याः॑ । म॒नः॒ऽजुवः॑ । वृष॑णः । वी॒तऽपृ॑ष्ठाः । आ । इ॒ह । स्व॒ऽराजः॑ । अ॒श्विना॑ । व॒ह॒न्तु॒ ॥
अश्विनौ शोभनाश्वयुक्तौ वां युवाम् अश्वासः युष्मदीयाः इह अस्मिन् यज्ञे आ वहन्तु प्रापयन्तु । अवशिष्टानि अश्वविशेषणानि । कीदृशास्ते । शुचयः शुद्धा दीप्ता वा पयस्पाः वृष्ट्युदकस्य पातारः वातरंहसः वायुवेगाः दिव्याः दिविभवाः अत्याः अतनशीलाः मनोजुवः मनोजवाः वृषणः वर्षकाः युवान इत्यर्थः । वीतपृष्ठाः कान्तपृष्ठाः वपुष्मन्त इत्यर्थः । स्वराजः स्वयमेव राजमानाः। ईदृशा भवन्तु ॥
“Aśvins, may your horses, pure, rain-drinking, swift as the wind, heaven-born, quick-moving, fleet as thought, vigorous, well-backed, and self-irradiating, bring you hither.”
May your pure steeds, rain-drinkers, bring you hither, swift as the tempest, your celestial coursers,
Rapid as thought, with fair backs, full of vigour, resplendent in their native light, O Asvins.
Your blazing, milk-drinking horses, the heavenly steeds whose speed is the wind’s,
the mind-swift, straight-backed bulls—let (those) self-ruling
[/self-directing] ones convey you Aśvins here.
Her mögen euch die lichten Rosse fahren, rasch wie der Wind, des Himmels muntre Renner, Gedankenschnell die Hengste, glatt am Rücken, Milch trinkend selbsterstrahlend, o ihr Ritter!
Eure Rosse, die reinen, Milch trinkenden, windschnellen himmlischen Rennpferde, die gedankenschnellen, bullenartigen mit geradem Rücken, die selbstherrlichen sollten die Asvin hierher fahren.
Ваши кони, чистые, пьющие молоко,
Быстрые, как ветер, небесные скакуны,
Стремительные, как мысль, быки с прямыми спинами,
Правящие сами собой, пусть привезут сюда Ашвинов!
आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा॑न्त्सृ॒प्रव॑न्धुरः सुवि॒ताय॑ गम्याः । वृष्ण॑: स्थातारा॒ मन॑सो॒ जवी॑यानहम्पू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ॥
आ । वा॒म् । रथः॑ । अ॒वनिः॑ । न । प्र॒वत्वा॑न् । सृ॒प्रऽव॑न्धुरः । सु॒वि॒ताय॑ । ग॒म्याः॒ । वृष्णः॑ । स्था॒ता॒रा॒ । मन॑सः । जवी॑यान् । अ॒ह॒म्ऽपू॒र्वः । य॒ज॒तः । धि॒ष्ण्या॒ । यः ॥
पूर्वमन्त्रेऽश्वव्याजेन अश्विनोरागमनमुक्तम् । अनेन रथव्याजेनोच्यते । हे धिष्ण्या उन्नतस्थानार्हौ स्थातारा स्वरथाधिष्ठानौ वां युवयोः यः रथः अस्ति सः सुविताय शोभनफलाय आ गम्याः अस्मद्यज्ञमागच्छतु ॥ पुरुषव्यत्ययः ॥ कीदृशो रथ इति स विशेष्यते । अवनिर्न प्रवत्वान् भूमिरिवात्यन्तविस्तारवान् सृप्रवन्धुरः विस्तीर्णपुरोभागः वृष्णः वर्षकस्याश्वस्य मनसः अपि जवीयान् मनोवेगवानित्यर्थः । अहंपूर्वः अहंकारपूर्वो मनस्वी वा अत्युदारः यजतः यष्टव्यः । ईदृशो रथ आगच्छतु ॥
“Aśvins, excellent and steady, may your chariot, vast as the earth, broad-fronted, rapid as the rain (fleet) as thought, cumulative and adorable, come hither for (our) good.”
Your car is like a torrent rushing downward: may it come nigh, broad-seated, for our welfare,--
Car holy, strong, that ever would be foremost, thought-swift, which ye, for whom we long, have mounted.
Your chariot with its glossy chariot-box should come here like a
forward-coursing stream, for good faring—
(the chariot) that is worthy of the sacrifice and swifter than mind,
(saying) “I am in front,” o you mounters of the bull [=chariot], you
holy ones.
Mit breitem Sitze komme euer Wagen zum Glück uns her gleichwie ein Strom am Abhang, Der stark sich vordrängt, schneller als Gedanken, den ihr besteigt, den heiligen, o Spender!
Euer Wagen, der wie ein Strom vorwärts eilt, der breitsitzige soll zu guter Fahrt kommen, der, schneller als der Gedanke, der erste sein will, der verehrungswürdige, ihr Lenker des bullenhaften Wagens, ihr .....
Ваша колесница, мчащаяся вперед, словно поток,
С широким сиденьем, пусть приедет для (нашего) успеха!
О стоящие на мужественной (колеснице), (ведь она та,), что быстрее мысли,
Стремящаяся быть первой, достойная жертв, о (боги,), возбуждающие вдохновение!
इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा॑ त॒न्वा॒३॒॑ नाम॑भि॒: स्वैः । जि॒ष्णुर्वा॑म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो अ॒न्यः सु॒भग॑: पु॒त्र ऊ॑हे ॥
इ॒हऽइ॑ह । जा॒ता । सम् । अ॒वा॒व॒शी॒ता॒म् । अ॒रे॒पसा॑ । त॒न्वा॑ । नाम॑ऽभिः । स्वैः । जि॒ष्णुः । वा॒म् । अ॒न्यः । सुऽम॑खस्य । सू॒रिः । दि॒वः । अ॒न्यः । सु॒ऽभगः॑ । पु॒त्रः । ऊ॒हे॒ ॥
हे अश्विनौ युवां समवावशीताम् । सह सम्यग्वा पुनःपुनः स्तूयेथे कामयेथां वा यज्ञम् ॥ पुरुषव्यत्ययः ॥ कीदृशौ युवाम् । इहेह जाता । उभाभ्यामिहशब्दाभ्यां मध्यमोत्तमस्थाने उच्येते । तयोः संभूतौ । चन्द्रसूर्येण इति यावत् । “ सूर्याचन्द्रमसावित्येके ' ( निरु. १२. १ ) इति निरुक्तम् । अरेपसा अपापौ । आथर्वणस्य गुरोः शिरश्छेदनादिना पापलेपरहिताविति भावः । ‘आथर्वणायाश्विना दधीचेऽयं शिरः प्रत्यैरयतम् ' ( ऋ. सं. १. ११७. २२ ) इत्यादिमन्त्रवर्णात् । केन हेतुनेति उच्यते । तन्वा शरीरेण शरीरसौन्दर्येण निमित्तेन स्वैः नामभिः स्वीयैर्माहात्म्यविशिष्टैश्विनौ नासत्यावित्यादिभिरपि । रमणीयशरीरवत्त्वान्महिमोपेतनामवत्त्वाच्च हेतोः संस्तूयेथे इत्यर्थः । यद्वा । अरेपसा तन्वेति योज्यम् । उक्तप्रकारेण गुरुशिरश्छेदादप्यपापेन शीर्षेण तादृङ्महत्त्व ख्यापनेनेति यावत् । किंच वां युवयोः अन्यः एको मध्यमस्यान्तरिक्षस्य पुत्रस्थानीयः सोमः जिष्णुः जयशीलः सुमखस्य शोभनयज्ञस्य सूरिः प्रेरयिता सन् ऊहे वहति विश्वं जगद्धारयति । चन्द्रात्मनस्तस्योदये सति ह्योषधिवनस्पत्यादयो वर्धन्ते । अन्यः अपरः उत्तमस्थानः दिवः द्युलोकस्य पुत्रः पुत्रस्थानीय आदित्यः सुभगः शोभनरश्मिरूपधनः ऊहे वहति । कृत्स्नमेवं पृथग्जगन्निर्वाहकौ महानुभावौ युवां सह स्तूयेथे । अन्न निरुक्तम्-' इहेह जातौ संस्तूयेथे पापेनालिप्यमानया तन्वा नामभिश्च स्वैर्जिष्णुर्वामन्यः सुमहतो बलस्येरयिता मध्यमो दिवोऽन्यः सुभगः पुत्र उह्यत आदित्यः ' (निरु. १२. ३ ) इति ॥
“Born here (in the middle region) and here (in the upper region), you are glorified together, as faultless in your forms and (perfect in) your own many excellences; one (of you) the victorious son (of the firmament), the devout (promoter) of sacred sacrifice, the other, the auspicious son of heaven, (each) upholds (the world).”
Here sprung to life, they both have sung together, with bodies free from stain, with signs that mark them;
One of you Prince of Sacrifice, the Victor, the other counts as Heaven's auspicious offspring.
Born (one) here, (one) there, the two have always bellowed together with (one) flawless body but with their own (multiple) names.
One of you is lauded as the victorious patron of the good battler, the other as the son of heaven dispensing a good portion.
Sie, hier und dort geboren, rauschten beide vereint, an Leibern rein, nach ihrer Weise; Ein Fürst der eine, siegreich über Helden, der andre gilt als sel'ger Sohn des Himmels.
An verschiedenen Orten geboren stimmten die Makellosen an Körper und mit ihren Namen zueinander. Der eine von euch, der sieghafte Lohnherr, gilt als Sohn des Sumakha, der andere als der beliebte Sohn des Himmels.
(Эти) двое, рожденные в разных местах, соответствовали друг другу,
Беспорочные, телом и своими именами.
Один из вас – победоносный щедрый покровитель (человека,) имеющего прекрасную жертву,
Другой считается счастливым сыном неба.
प्र वां॑ निचे॒रुः क॑कु॒हो वशाँ॒ अनु॑ पि॒शङ्ग॑रूप॒: सद॑नानि गम्याः । हरी॑ अ॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॑र्म॒थ्रा रजां॑स्यश्विना॒ वि घोषै॑: ॥
प्र । वा॒म् । नि॒ऽचे॒रुः । क॒कु॒हः । वशा॑न् । अनु॑ । पि॒शङ्ग॑ऽरूपः । सद॑नानि । ग॒म्याः॒ । हरी॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । म॒थ्ना । रजां॑सि । अ॒श्वि॒ना॒ । वि । घोषैः॑ ॥
हे अश्विना अश्विनौ वां युवयोर्मध्ये अन्यस्य एकस्य ककुहः श्रेष्ठः पिशङ्गरूपः हिरण्यरूपः पीतवर्णो वा बहुभिरक्षाद्यवयवैर्निरूप्यमाणो वा रथः वशान् अनु कामाननुलक्ष्य यथाकामम् । अस्मद्यज्ञागमनेच्छयेत्यर्थः । यद्वा । वशान्स्वाधीनाः ककुहो दिशो दिगन्तरालानुक्रमेण नीचैरुच्चैश्चरन् स्वस्थानाद्देवयजनमुखं गच्छन् । सदनानि अस्मद्यागगृहाणि प्र गम्याः प्रकर्षेण गच्छतु॥ पुरुषव्यत्ययः ॥ अत्र यद्यप्यन्यस्येति नोक्तं तथाप्युत्तरवाक्ये तथोक्तत्वादत्रापि लभ्यते । अन्यस्य युवयोरन्यतमस्य हरी अश्वौ रजांसि लोकाः । अत्र लोकशब्दो जनवाचकः । ते यजमानरूपा जनाः इत्यर्थः । ते च मथ्ना प्रमथनेनालोडनेन निष्पादितैः वाजैः अन्नैरामिक्षादिरूपैः घोषैः स्तुतिभिश्च आह्वानादिशब्दविशिष्टैर्वा पीपयन्त आप्याययन्ति ॥ ॥ २५ ॥
“Aśvins, may the golden-coloured (car of one of you), traversing at will the quarters of space, come to our dwellings; may mankind encourage the horses of the other by food, by friction, and by shouts.”
May your car-seat, down-gliding, golden-coloured, according to your wish approach our dwellings.
Men shall feed full the bay steeds of the other, and, Asvins they with roars shall stir the regions.
The attentive lead (horse) of you two, your sorrel, should go forth, following your will, to the (sacrificial) seats,
(as should) the two fallow bays of the other [=Indra]. They will become swollen with prizes—the skittish (horses) as they (go) through the airy realms with their cries, o Aśvins.
Zum Opfersitze komme niedereilend eur hohes Ross nach Wunsch, das goldgefärbte, Des andern Rosspaar soll von Speise schwellen, die Luft erschütternd mit Getös', o Ritter.
Euer achtsamer Buckelochse von rotbrauner Farbe soll nach Wunsch zu den Opferstätten kommen. Die beiden Falben des anderen sind von Siegestrophäen geschwellt, die beiden Mathrarosse durchfliegen mit Getöse die Räume, o Asvin.
Ваш деятельный (?) горбатый буйвол по (своей) воле
Пусть примчится на места (жертвоприношений), (буйвол) золотистого цвета.
(Когда) двух буланых коней другого делают набухшими от наград,
Два ... (коня) с шумом про(летают) через пространства.
प्र वां॑ श॒रद्वा॑न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् । एवै॑र॒न्यस्य॑ पी॒पय॑न्त॒ वाजै॒र्वेष॑न्तीरू॒र्ध्वा न॒द्यो॑ न॒ आगु॑: ॥
प्र । वा॒म् । श॒रत्ऽवा॑न् । वृ॒ष॒भः । न । नि॒ष्षाट् । पू॒र्वीः । इषः॑ । च॒र॒ति॒ । मध्वः॑ । इ॒ष्णन् । एवैः॑ । अ॒न्यस्य॑ । पी॒पय॑न्त । वाजैः॑ । वेष॑न्तीः । ऊ॒र्ध्वाः । न॒द्यः॑ । नः॒ । आ । अ॒गुः॒ ॥
हे अश्विनौ युवयोरन्यतमो मध्यमस्थानः शरद्वान् शरणवान् मेघवृक्षपर्णादीनां विशरणवान् । अथवा बहुसंवत्सरः पूर्वतनो नित्य इत्यर्थः । वृषभो न वर्षितैवेन्द्रः। स इव शत्रूणां निष्षाट् निःसारयिता सन् पूर्वीः बह्वीः पुरातनीर्वा इषः अन्नानि सस्यादीन्युद्दिश्य प्र चरति प्रकर्षेण गच्छति । मध्यमस्थानश्चन्द्रः इति पक्षे शरद्वाञ्छरत्कालवान् । तस्मिन् ऋतौ हि चन्द्रः संनद्धः भवति । तेन च तृणगुल्मौषध्यादीनि वर्धन्ते । स किमर्थमेवं करोतीति उच्यते । मध्व इष्णन् मधुनो मधुसदृशस्य हविषः । कर्मणि षष्ठी ॥ हविरिच्छन् । तदर्थमेवं करोति । तथा अन्यस्य उत्तमादित्यस्य एवैः कामैर्गमनैर्वा निमित्तभूतैः पीपयन्त आप्याययन्ति हविर्भिर्यजमानाः । तुष्टेन तेन प्रेरिताः वेषन्तीः व्यापयन्तीः ऊर्ध्वाः उन्नताः उत्तीराः नद्यः न नदनशीला यथा नः अस्मदर्थम् आगुः आगच्छन्ति ॥
“(One of you), the disperser (of the clouds), like Indra, the annihilator (of his foes), desirous of the oblation, proceeds (bestowing) abundant food. (Devout worshippers) cherish with (sacrificial) viands, (the faculties) of the other, for the sake of favours, which flow upon us like swelling rivers.”
Forth comes your strong Bull like a cloud of autumn, sending abundant food of liquid sweetness.
Let them feed with the other's ways and vigour: the upper streams have come and do us service.
Like a bull setting out to conquer, your (lead horse) of (many) autumns, dispatching many refreshing drinks of honey, goes forth
along the routes of the other [=Indra]. (The horses) will become swollen with prizes; (like) high, roiling rivers they have come to us.
Von euch der eine wie ein Bull gewaltig, eilt hin, ausspritzend viele süsse Tränke, Des andern Rosspaar wird von Speise schwellen, uns sind genaht die hohen Ströme sprudelnd.
Euer bejahrter, wie ein Stier überlegener Buckelochse wandelt viele Labetränke der Süßigkeit entsendend. Die Falben des anderen sind von den Läufen und Siegestrophäen geschwellt; wie die eilenden Ströme sind sie aufrecht zu uns gekommen.
Ваш старый (горбатый буйвол,) словно бык, (всех) превосходящий,
Странствует, испуская много подкрепляющих напитков из меда.
(Кони) другого сделались набухшими от ристаний (и) наград.
Они примчались, словно реки, бьющие вверх.
अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे अ॑श्विना त्रे॒धा क्षर॑न्ती । उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया॑मञ्छृणुतं॒ हवं॑ मे ॥
अस॑र्जि । वा॒म् । स्थवि॑रा । वे॒ध॒सा॒ । गीः । बा॒ळ्हे । अ॒श्वि॒ना॒ । त्रे॒धा । क्षर॑न्ती । उप॑ऽस्तुतौ । अ॒व॒त॒म् । नाध॑मानम् । याम॑न् । अया॑मन् । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥
हे वेधसा विधातारावश्विनौ वां युवयोः बाळ्हे दृढे स्थैर्ये निमित्तभूते सति गीः स्तुतिरूपा वाक् असर्जि सृज्यते। कीदृशी सा । स्थविरा अत्यन्त स्थिरा नित्या वेदमयी त्रेधा मन्त्रादिभेदेन त्रिप्रकारा क्षरन्ती युवां गच्छन्ती । ईदृशी स्तुतिः कृतेत्यर्थः । तथा उपस्तुतौ सन्तौ नाधमानम् अभिमतफलं याचमानम् अवतं रक्षतं तर्पयतं वा । किंच यामन् गमने अयामन् अगमने च हवम् आह्वानं शृणुतम् ॥
“Aśvins, creators, the perpetual threefold hymn addressed to you, has been uttered, (to secure) your steady (favour); thus glorified protect him who solicits (your bounty), and whether moving or resting, hear his invocation.”
Your constant song hath been sent forth, Disposers! that flows threefold in mighty strength, O Asvins.
Thus lauded, give the suppliant protection moving or resting hear mine invocation.
A substantial song has been sent surging to you, flowing in three parts to the plumped-up (ritual grass?), o ritual experts, Aśvins.
When you are approached with praise, help the man in need; whether on your journey or not, hear my summons.
Ergossen ist das kräft'ge Lied, ihr Ordner, das dreifach strömt mit grosser Macht, o Ritter; O helft, gepriesne, doch dem flehnden Sänger, hört meinen Ruf beim Fahren und beim Rasten.
Es wurde für euch beide, ihr Meister, eine alte Lobrede losgelassen, dreifach in starkem Strom sich ergießend, ihr Asvin. Gepriesen nehmet euch des in Not gekommenen an, erhöret meinen Ruf, ob ihr auf der Fahrt seid oder nicht!
Выпущена для вас обоих, о устроители (обряда), могучая песнь,
Трижды мощно разливающаяся, о Ашвины.
Под восхваление помогите умоляющему (вас)!
В пути (вы или) не в пути – услышьте мой зов!
उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् । वृषा॑ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ॥
उ॒त । स्या । वा॒म् । रुश॑तः । वप्स॑सः । गीः । त्रि॒ऽब॒र्हिषि॑ । सद॑सि । पि॒न्व॒ते॒ । नॄन् । वृषा॑ । वा॒म् । मे॒घः । वृ॒ष॒णा॒ । पी॒पा॒य॒ । गोः । न । सेके॑ । मनु॑षः । द॒श॒स्यन् ॥
हे अश्विनौ वां युवयोः रुशतः दीप्तस्य वप्ससः रूपस्यैव वपुषो वा ख्यापयित्री गीः स्तुतिवाक् त्रिबर्हिषि त्रिधात्वास्तीर्णबर्हिष्के सदसि यागसदने नॄन् कर्मनेतॄनस्मान् पिन्वते आप्याययति आप्याययतु वा उचितप्रदानादिना । केन प्रकारेण उच्यते । हे वृषणा वर्षितारौ कामानां वां युवयोः स्वभूतः मेघः सेक्ता जलदः प्रदानविशेषो वा वृषा वर्षकः सन् 'मनुषः मनुष्यान् प्रति दशस्यन् प्रयच्छन् पीपाय आप्याययति । आप्यायने दृष्टान्तः । गोर्न सेके उदकसेके इव शांतनात् सेके उदकस्येव । तद्यथा आप्याययति तद्वदित्यर्थः । यद्वा । नेति संप्रत्यर्थे । गोः उदकस्य सेके निमित्तभूते सति पीपायेति संबन्धः ॥
“May the praise of your resplendent forms, (uttered) in the hall of sacrifice, thrice strewn with sacred grass, bring prosperity to the conductors (of the sacrifice). Showerers (of benefits), may the raining-cloud, proceeding to man, nourish him lik a a sprinkling of water.”
This song of bright contents for you is swelling in the men's hall where three-fold grass is ready.
Your strong rain-cloud, ye Mighty Ones, hath swollen, honouring men as 'twere with milk's outpouring.
And this very song of the gleaming wasp [=sacrificial fire] swells in the seat of men, which has three layers of ritual grass.
O bulls, the bullish cloud [=soma] is swollen as if at the insemination of a cow [/at the pouring out of the cow (=milk)], showing favor to the sons of Manu.
Dies Lied, das eure Glanzgestalt verherrlicht, erquickt auf dreigetheiltem Sitz die Männer, Es schwoll, o Stiere, euer Stier, die Wolke, wie mit Erguss der Milch die Menschen segnend.
Und für euch schwillt diese Lobrede des Rusat Vapsas auf dem mit dreifachem Barhis belegten Sitz der Männer an. Eure bullenhafte Wolke, ihr Bullenhaften, ist angeschwollen, bei ihrem Erguß die Menschen befriedigend wie bei dem der Kuh.
И для вас эта песнь Рушата Вапсаса
Делает мужей набухшими на месте жертвоприношения, трижды (устланном) соломой.
Ваша бычья туча набухла, о два быка,
Словно корова при излиянии (молока), делая приятное людям.
यु॒वां पू॒षेवा॑श्विना॒ पुरं॑धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् । हु॒वे यद्वां॑ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
यु॒वाम् । पू॒षाऽइ॑व । अ॒श्वि॒ना॒ । पुर॑म्ऽधिः । अ॒ग्निम् । उ॒षाम् । न । ज॒र॒ते॒ । ह॒विष्मा॑न् । हु॒वे । यत् । वा॒म् । व॒रि॒व॒स्या । गृ॒णा॒नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
हे अश्विनौ युवां पुरंधिः बहुप्रज्ञः पूषेव पोषक इव हविष्मान् हविर्युक्तः जरते स्तौति । यद्वा । पुरंधिर्बहूनां धारयित्री पूषेव पृथिवीव ॥ द्वितीयार्थे प्रथमा ॥ तां यथा स्तौति तद्वत् । किमिव अग्निमुषां न । अग्निमुषसं च यथा तथा युवामपि । प्रातरनुवाकाश्विनशस्त्रयोः आश्विनक्रतुवत् आग्नेयोषस्ययोरपि सद्भावादिति भावः । कदेति आह । यत् यदा वरिवस्या वरिवस्यया परिचर्यया युक्तः गृणानः स्तोता स्तौति तदा यजमानोऽपि जरते इत्यर्थः । विद्यामेत्यादि गतम् ॥ ॥२३॥
“The wise offerer of oblations, like Pūṣan, praises you, Aśvins, as (he would praise) Agni and Uṣā, (at the season) at which I invoke you praising with devotion that we may thence obtain food, strength, and long life.”
The prudent worshipper, like Pusan, Asvins! praises you as he praises Dawn and Agni,
When, singing with devotion, he invokes you. May we find strengthening food in full abundance.
Just as Pūṣan and Plenitude (summoned) you, o Aśvins—the one with the oblation sings (to you, as if) to Agni, as if to Dawn,
when I summon you, singing to you, with a longing for wide space.
– May we know refreshment and a community having lively waters.
Euch Rittern naht wie Puschan unsre Gabe, dem Agni wie dem Morgenroth der Priester, Wenn ich euch preisend rufe mit Verlangen. Gebt Labung uns und wasserreiche Fluren.
Euch, Asvin, ruft der Opfernde, wunscherfüllend wie Pusan, wach, wie den Agni, wie die Usas, da ich euch preisend lade im Wunsch nach Sorgenfreiheit. - Wir möchten einen gastfreien Opferbündler kennen lernen, der rasch schenkt.
Вас, о Ашвины, как (и) Агни, (и) Ушас, зовет жертвователь,
Подобно Пушану исполняющий желания,
Когда я приглашаю вас, воспевая из стремления к широкому простору.
Мы хотим найти щедрую общину, легко дарящую!