ता वा॑म॒द्य ताव॑प॒रं हु॑वेमो॒च्छन्त्या॑मु॒षसि॒ वह्नि॑रु॒क्थैः । नास॑त्या॒ कुह॑ चि॒त्सन्ता॑व॒र्यो दि॒वो नपा॑ता सु॒दास्त॑राय ॥
ता । वा॒म् । अ॒द्य । तौ । अ॒प॒रम् । हु॒वे॒म॒ । उ॒च्छन्त्या॑म् । उ॒षसि॑ । वह्निः॑ । उ॒क्थैः । नास॑त्या । कुह॑ । चि॒त् । सन्तौ॑ । अ॒र्यः । दि॒वः । नपा॑ता । सु॒दाःऽत॑राय ॥
ता तौ रक्षकत्वेन प्रसिद्धौ वां युवाम् अद्य अस्मिन् यागदिने हुवेम आह्वयामः इति आशीः । तथा अपरम् अपरस्मिन्नपि दिने तौ युवां हुवेम । अपरमित्येतत् अपरस्मिन्नित्यर्थे समभिव्याहारात्, ‘ अद्या च नो मृळयतापरं च ' ( ऋ. सं. २. २९. २ ) इत्यादिमन्त्रान्तरे तथा दर्शनाच्च । अपरयागं प्रत्यपि इति वा । कस्मिन् काले। उपसि उषोदेवतायाम् उच्छन्त्यां तमो विवासयन्त्यां सत्याम् । उषःकाले हि प्रातरनुवाकाश्विनशस्त्रे प्रयुज्यते । उक्ते काले हे नासत्या असत्यरहितौ दिवो नपाता द्युलोकस्य नपातयितारौ नप्तृस्थानीय वा कुह चित् सन्तौ कुत्रचिद्देशे वर्तमानौ युवां वह्निः स्तुतेर्वोढा अर्यः ईरयिता स्तुतेरीश्वरो वा ईदृशोऽहं होता सुदास्तराय अत्यर्थं शोभनहविर्दात्रे यजमानाय तदर्थं तौ युवाम् उक्थैः शस्त्रैर्हुवेमेति संबन्धः । अत्र आख्यातं पदमेकवचनतया नेतव्यम् । वह्निरर्यशब्दौ वा बहुवचनत्वेन नेतव्यौ । अथवा वाक्यद्वयम् । यस्माद्वह्निरर्यो होता उक्तगुणकौ युवां शंसति तस्माद्वयं यजमानाः तौ युवामाह्वयामः इति ।
“We invoke you two, (Aśvins), today; the same two on any other day; when the morning dawns. Nāsatyas, grandsons of heaven, wherever you may be, the pious reciter (of the hymn) invokes you with praises on behalf of the liberal donor (of the offering).”
LET us invoke you both this day and after the priest is here with lauds when morn is breaking:
Nasatyas, wheresoe'er ye be, Heaven's Children, for him who is more liberal than the godless.
We would summon you today and you later on. When dawn is breaking, the conductor (of words) with solemn words (summons)
the Nāsatyas, the sons of Heaven, wherever they are, for the man who gives even more than the stranger.
Euch wollen heut wir, euch in Zukunft rufen, beim Morgenlicht euch Fahrende mit Liedern, Wo ihr auch seid, o Treue, zu dem Mann hin, der mehr, o Himmelssöhne, als der Feind gibt.
Euch beide wollen wir heute, euch künftig rufen, bei aufleuchtender Morgenröte ich der Wortführer mit Lobgedichten die Nasatya´s, wo sie auch sein mögen, die Enkel des Himmels für den, der freigebiger als der hohe Herr ist,
Вас двоих мы хотим призывать сегодня, вас двоих - в будущем,
Когда зажигается утренняя заря (я,) ведущий (обряд), гимнами (призову вас),
О Насатьи, где бы вы ни были,
Как отпрысков неба для того, кто щедрее дает, чем чужой.
अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मद॑न्ता । श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णै॑: ॥
अ॒स्मे इति॑ । ऊँ॒ इति॑ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद॑न्ता । श्रु॒तम् । मे॒ । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । एष्टा॑ । न॒रा॒ । निऽचे॑तारा । च॒ । कर्णैः॑ ॥
हे वृषणा कामानां वर्षकौ अश्विनौ युवाम् अस्मे उ अस्मास्वेव सु मादयेथां सुष्ठु तृप्यतम् । अस्मभ्यं तर्पयतमभिमतम् । तथा पणीन् वणिजो लुब्धकानयष्टॄन् उत् उन्मूल्य हतं नाशयतम् । कीदृशौ युवाम् । ऊर्म्या । रात्रिनामैतत् । रात्रौ मदन्ता माद्यन्तौ । यद्वा । ऊर्मिरिति सोमनाम ।' ऊर्मिर्यस्ते पवित्र अ ' ( ऋ. सं. ९. ६४. ११ ) इत्यादिषु तथा प्रयोगात् । अस्मदीयेन सोमेन मदन्तौ । तादृशौ युवां मे मम अच्छोक्तिभिः अभिमुख्यकरैर्निर्मलवेदवाक्यैः रचिताः मतीनाम् ॥ कर्मणि षष्ठी ॥ मननसाधनाः स्तुतीः कर्णैः आकर्णनसाधनैः श्रोत्रैः श्रुतम् शृणुतम् । हे नरा नेतारौ युवां खलु एष्टा अन्वेष्टारौ अस्मत्स्तुतीनां तथा निचेतारा लब्धानां तासां संचयकर्तारौ । निरित्येष समित्येतस्य स्थाने । यस्मादेवंविधौ तस्माच्छृणुतमिति ॥
“Showerers (of benefits), rejoicing in (our) libations), make us happy, and destroy the niggard (withholder) of offerings; hear, leaders, with your ears, my praises addressed to you with pure words, for you are seekers (after praise), you are retentive (of laudation).”
With us, ye Mighty, let yourselves be joyful, glad in our stream of Soma slay the niggards.
Graciously hear my hymns and invitations, marking, O Heroes, with your cars my longing.
Bring yourselves to exhilaration in our company, o bulls! Beat up the niggards when you are exhilarated by the wave (of soma).
Listen to me, you superior men, brought here through sacrifice by the invitations of my thoughts, and (be) attentive with your ears.
Bei uns, ihr Stiere, ja bei uns berauscht euch, den Kargen schlagt; der Somaflut euch freuend Auf meiner Lieder Zuspruch höret achtsam, geliebte Männer, mit den Ohren lauschend.
Bei uns sollet ihr Bullen euch fein ergötzen. Treibet die Knauser aus, indem ihr euch an dem Somagewoge ergötzet. Höret auf mich, ihr Herren, von den Einladungen meiner Dichtungen herbeigewünscht, und seid aufmerksam mit den Ohren!
У нас наслаждайтесь хорошенько, о два быка!
Вышвырните скупцов! Наслаждайтесь волною (сомы)!
Услышьте меня, о два мужа, привлеченные
Приглашениями (моих) молитв! Внемлите ушами!
श्रि॒ये पू॑षन्निषु॒कृते॑व दे॒वा नास॑त्या वह॒तुं सू॒र्याया॑: । व॒च्यन्ते॑ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरे॑: ॥
श्रि॒ये । पू॑षन् । इ॒षु॒कृता॑ऽइव । दे॒वा । नास॑त्या । व॒ह॒तुम् । सू॒र्यायाः॑ । व॒च्यन्ते॑ । वाम् । क॒कु॒हाः । अ॒प्ऽसु । जा॒ताः । यु॒गा । जू॒र्णाऽइ॑व । वरु॑णस्य । भूरेः॑ ॥
सविता सूर्यो दुहितरं सूर्याख्यां प्रदातुमनाः देवानाहूय सामर्थ्यसमीक्षणाय आजिं परिकल्प्य यः इमं जेष्यति स एषां कन्यकामृक्सहस्रक्लृप्तं स्तोत्रं च लभते इत्यकल्पयत्। तमग्निः प्रथममजयत् तमनु अश्विनावपि जित्वा अग्निं प्रधृष्य ऋक्सहस्रं कन्यकां च अलभेताम् । तत इन्द्रः उषाश्च अजयताम् । तौ च तैरग्न्यादिभिः प्रार्थितौ स्वशस्त्रस्य कंचित्कंचिद्भागं तेभ्यः परिकल्प्य सूर्यां स्वरथेऽधारयतामिति । अयमितिहासो ब्राह्मणे ‘प्रजापतिर्वै सोमाय राज्ञे' (ऐ. ब्रा. ४. ७) इत्यत्राम्नातोऽस्माभिः प्रथमाष्टमे “ आ वां पतित्वं सख्याय' (ऋ. सं. १. ११९. ५) इत्यत्र प्रपञ्चितः । अत्राह । हे पूषन् पोषक सूर्य । एतच्चन्द्रस्याप्युपलक्षणं सूर्याचन्द्रमसोरेवाश्वित्वात् । ‘सूर्यचन्द्रमसावित्येके' (निरु. १२. १ ) इति यास्केनोक्तत्वात् । अतः पूषन्नित्युक्ते हे पोषकावश्विनावित्युक्तं भवति । हे पोषकौ हे नासत्या असत्यरहितौ देवा देवौ युवां श्रिये श्रेयसे शस्त्रस्य कन्यायाश्च लाभायेत्यर्थः । इषुकृतेव । इवशब्दः एवार्थे । आजिधावनाय इषुवच्छीघ्रमृजुगामिनौ कृतावेव सन्तौ सूर्यायाः एतन्नामिकायाः सवितुः पुत्र्याः ॥ कर्मणि षष्ठी ॥ सूर्यां वहतुं रथे धारयितुम् । आजिमुदजयतामित्यर्थः । यस्मादेवं तस्मात् अप्सु जाताः कर्मसु संपादिताः ककुहाः शस्त्ररूपाः स्तुतयः भूरेः अविच्छिन्नप्रवाहस्य वरुणस्य फलप्रतिबन्धकपापनिवारकस्य यागस्य सिद्ध्यर्थं तत्संबन्धिन्यः वां प्रति वच्यन्ते होत्रादिभिः । युवामेव शस्त्रगतमन्त्रैः यागकाले च स्तुवन्तीत्यर्थः । युगा जूर्णेव जीर्णानि युगानीव। इवशब्दः संप्रत्यर्थः । पुरातना यागकालाः यथा तद्वत् अद्यतनाः अपि इत्यर्थः । पूर्वकाले यथा युवामेव स्तुवन्ति तद्वत् इदानीमपीति तात्पर्यम् ॥
“Divine Aśvins, in whom is no untruth, (darting) like arrows to acquire glory, and to carry off Sūrya, to you are addressed the prayers that are recited at holy rites, for (the completion of) the uninterrupted, sin-removing (sacrifice), as ancient ages (offered them).”
Nasatyas, Pusans, ye as Gods for glory arranged and set in order Surya's bridal.
Your giant steeds move on, sprung from the waters, like ancient times of Varuna the Mighty.
O Pūṣan, the two gods, the Nāsatyas, as if making arrows ready for glory, (made ready) the bridal procession of Sūryā.
Your lead horses, born in the waters, zig-zag along the wagon-treks as if over the worn (surfaces) of the vast Varuṇa [=the sea?].
Die treuen Ritter kamen zu der Hochzeit der Surja schön, wie mit dem Pfeil verwundend; Es springen eure meergebornen Büffel wie Varuna's, des starken, alte Stämme.
Die Götter Nasatya´s kamen auf die Hochzeit der Surya, um ausgezeichnet zu werden wie Pfeilschmiede, o Pusan. Es schweben eure Buckeltiere auf dem Wasser, die Wassergeborenen. Abgenutzt sind die Joche wie die des reichen Varuna.
Для блеска, о Пушан, как два (мастера,) делающие стрелы, два бога
Насатьи (сделали) свадьбу Сурьи.
Парят ваши горбатые (буйволы), рожденные в водах,
Зыбки (ваши) хомуты, как у обильного Варуны.
अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः । अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मद॑न्ति ॥
अ॒स्मे इति॑ । सा । वा॒म् । मा॒ध्वी॒ इति॑ । रा॒तिः । अ॒स्तु॒ । स्तोम॑म् । हि॒नो॒त॒म् । मा॒न्यस्य॑ । का॒रोः । अनु॑ । यत् । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । सु॒ऽवीर्या॑य । च॒र्ष॒णयः॑ । मद॑न्ति ॥
हे माध्वी मधुपूर्णपात्रयुक्तावश्विनौ वां युवयोः संबन्धिनी सा प्रसिद्धा रातिः दानम् अस्मे अस्माकम् अस्तु भवतु । तदर्थं मान्यस्य मननीयस्य कारोः स्तोतुरगस्त्यस्य स्तोमं स्तुतिं हिनोतं प्रीणयतम् । हे सुदानू शोभनफलदानौ वां युवां श्रवस्या कीर्तेरन्नस्य वा इच्छया यत् यस्मात् सुवीर्याय यजमानाय शोभनबलाय वा चर्षणयः मनुष्या ऋत्विग्रूपाः अनु मदन्ति अनुक्रमेण माद्यन्ति युवाभ्यां सह स्वयं वा ।
“Receivers of the oblation, may your liberality be displayed towards us; be plural ased with the hymn of the venerable author, so that men may honour the instrumental tutor of the ceremony, as (they honour) you, liberal donors, for the sake of renown.”
Your grace be with us, ye who love sweet juices: further the hymn sung by the poet Mana,
When men are joyful in your glorious actions, to win heroic strength, ye Bounteous Givers.
Let your (honeyed) gift be for us, honeyed ones. Spur on the praise song of the bard, the son of Māna,
when the separate peoples applaud your (deeds) worthy of fame, in order to (attain) an abundance of good heroes, o you of good gifts.
Bei uns sei diese eure Gunst, o holde; erregt das Lied des Manasohns, des Dichters, Wenn ruhmbegierig, Heldenkraft erstrebend die Männer euch, o Geber, froh begrüssen.
Uns soll diese Gabe von euch gehören, ihr Süßreichen. Spornet das Loblied des Dichters, des Maniden, an, wenn euren Ruhmestaten die Menschen zujubeln, um die Meisterschaft zu erlangen, ihr Gabenschönen!
У нас пусть будет этот ваш дар, о вы двое, полных меда!
Поощрите хвалу певца Маньи,
Когда из желания славы, о обладатели прекрасных даров, вам вслед
Ликуют народы, чтобы (достигнуть) мужества!
ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति । या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मद॑न्ता ॥
ए॒षः । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒का॒रि॒ । माने॑भिः । म॒घ॒ऽवा॒ना॒ । सु॒ऽवृ॒क्ति । या॒तम् । व॒र्तिः । तन॑याय । त्मने॑ । च॒ । अ॒गस्त्ये॑ । ना॒स॒त्या॒ । मद॑न्ता ॥
हे अश्विनौ हे मघवाना हविर्लक्षणान्नवन्तौ वां युवाभ्याम् एषः स्तोमः स्तोत्रं सुवृक्ति सुष्ठु पापवर्जनं यथा भवति तथा । यद्वा । सुसमाप्ति अकारि कृतः । कीदृशोऽयम् । मानेभिः मानैः हविष्प्रदानरूपैः सहितः । हे नासत्या असत्यरहितौ युवाम् अगस्त्ये एतन्नाम्नि महर्षौ मयि मदन्ता माद्यन्तौ सन्तौ वर्तिः गृहं यज्ञसंबन्धि यातं प्राप्नुतम् । किमर्थम्। तनयाय पुत्रादिलाभाय त्मने आत्मने च हिताय ॥
“Aśvins, possessors of wealth, this sin-removing hymn has been addressed to you, together with respectful (oblations); Nāsatyas be favourable to Agastya; come to his dwelling for (conferring on him) progeny, and for his own (good).”
This praise was made, O liberal Lords, O Asvins, for you with fair adornment by the Manas.
Come to our house for us and for our children, rejoicing, O Nasatyas, in Agastya.
This praise song with a good twist has been made for you by the sons of Māna, o bounteous Aśvins.
Drive your circuit for the sake of our descendants and ourselves,
becoming exhilarated in company with Agastya, o Nāsatyas.
Dies Loblied ist, o Ritter, euch bereitet, von Mana's Söhnen schön geschmückt, o mächt'ge, Kommt her ins Haus zu uns und unsern Kindern, erfreuend euch, o treue, bei Agastja.
Dieses Loblied wurde für euch von den Maniden gedichtet zu eurem Preis, ihr freigebigen Asvin. Macht eure Rundfahrt zum Nutz für unsere Kinder und die eigene Person, ihr Nasatya´s, bei Agastya euch ergötzend!
Эта хвалебная песнь создана для вас, о Ашвины,
Потомками Маны для прекрасного почитания (вас,) о щедрые.
Совершите объезд для продолжения рода и для (нас) самих,
Наслаждаясь у Агастьи, о Насатьи!
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि । एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ । आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
अतारिष्मेतिषष्ठी व्याख्याता ॥ ६ ॥कतरापूर्वेतिएकादशर्चंषष्ठंसूक्तं द्यावापृथिवीदेवताकं अगस्त्यन्त्रैष्टुभं कतरैकादश द्यावापृथिवीय- मित्यनुक्रान्तम् आभिप्लविकेषष्ठेहनिवैश्वदेवशस्त्रेद्यावापृथिव्यनिविद्धानमिदं तृतीयस्येतिखण्डेसूत्रि- तम्—कतरापूर्वेषासानक्तेतिवैश्वदेवमिति महाव्रतेपिवैश्वदेवशस्त्रेइदमेवद्यावापृथिव्यनिविद्धानं उत्त- मादाभिप्लविकात्तृतीयसवनमित्यतिदेशात् ।
“(Through your aid), Aśvins, we cross over the limit of darkness; to you this (our hymn) has been addressed; come hither by the path traversed by thd gods, thatwe may obtain food, strength and long life.”
We have passed o'er the limit of this darkness: our praise hath been bestowed on you, O Asvins.
Come hitherward by paths which Gods have travelled. may we find strengthening food in full abundance.
We have crossed to the further shore of this darkness. A praise hymn has been set out in response to you, o Aśvins.
Drive just here along the paths leading to the gods. – May we know
refreshment and a community having lively waters.
Durch dieses Dunkel sind wir durchgedrungen und haben Loblied euch gebracht, o Ritter, So kommt denn her auf gottbetretnen Pfaden. – Gebt Labung uns und wasserreiche Fluren.
Wir sind ans Ende dieser Finsternis gelangt. An euch, Asvin, ist das Loblied gerichtet. Kommt auf den gottbegangenen Wege hierher! - Wir möchten einen gastfreien Opferbündler kennen lernen, der rasch schenkt.
Мы достигли другого берега этого мрака.
На вас нацелена эта хвалебная песнь, о Ашвины.
Приезжайте сюда по путям, изъезженным богами!
Мы хотим найти щедрую общину, легко дарящую