आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु । अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥
आ । नः॒ । इळा॑भिः । वि॒दथे॑ । सु॒ऽश॒स्ति । वि॒श्वान॑रः । स॒वि॒ता । दे॒वः । ए॒तु॒ । अपि॑ । यथा॑ । यु॒वा॒नः॒ । मत्स॑थ । नः॒ । विश्व॑म् । जग॑त् । अ॒भि॒ऽपि॒त्वे । म॒नी॒षा ॥
नः विदथे अस्मदीये यज्ञे सुशस्ति ॥ सुपो लुक् ॥ सुशस्तिभिः शोभनशंसनैः स्तुतिभिः प्रदेयैः रत्नैः सह । यद्वा । इळाभिः। तदाश्रितेषु तच्छब्द्यम् । भूमिस्थानाभिर्देवताभिः सह। विश्वानरः सर्वप्राणिहितकार्यग्निः सविता प्रेरक आदित्यश्च देवः एतु आगच्छतु । हे युवानः नित्यतरुणा यज्ञस्य मिश्रयितारो वा यूयं नः अस्मान् अभिपित्वे अभिपतनीयेऽस्मद्यज्ञे मनीषा मनीषया मनसः ईशितृत्वेन स्वेच्छयेत्यर्थः । अपिः संभावनायाम् । अपि अस्मान् मत्सथ मादयथ। यथा विश्वं जगत् । एतत्स्थावरस्याप्युपलक्षणम् । यद्वा कृत्स्नं प्रपञ्चे मत्सथ तथा अस्मानपि । यद्वा । जगच्छब्दो यजमानरूपमनुष्यवाची । सर्वानपि यजमानान् यथा मत्सथ तथेत्यर्थः ॥
“May the divine Savitā, the benefactor of all men, come benignantly to our solemnity, together with the divinities of earth, and do you, who are (always) young, willingly present at our sacrifice, exhilarate us, as (you exhilarate) the whole world.”
LOVED of all men, may Savitar, through praises offered as sacred food, come to our synod,
That you too, through-our hymn, ye ever-youthful, may gladden, at your visit, all our people.
Let god Savitar, who belongs to all men, come to us here at the rite with ritual refreshments and a good laud,
so that you, o youths [=gods], will reach exhilaration nearby us—(let) inspired thought (come) to the whole moving world at the evening
mealtime.
Durch unser Lied und unsre Opfer komme Gott Savitar zum Opfer hold den Menschen, Dass auch ihr jungen Götter uns erfreuet die ganze Welt mit Huld bei eurer Einkehr.
Bei unserem Opfer soll mit Labungen und Segenswort der allen Menschen gehörende Gott Savitri erscheinen. Auf daß auch ihr Jünglinge uns in gehobener Stimmung versetzet, soll am Abend zur ganzen lebenden Welt die Andacht kommen.
Пусть придет на место жертвоприношения (поощренный) призывами, восхвалениями
Бог Савитар, принадлежащий всем людям!
Чтобы вы обрадовали нас, о юные,
(Пусть придет он) ко всему живому миру вечером вместе с Вдохновением!
आ नो॒ विश्व॒ आस्क्रा॑ गमन्तु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषा॑: । भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धास॒: कर॑न्त्सु॒षाहा॑ विथु॒रं न शव॑: ॥
आ । नः॒ । विश्वे॑ । आस्क्राः॑ । ग॒म॒न्तु॒ । दे॒वाः । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ । भुव॑न् । यथा॑ । नः॒ । विश्वे॑ । वृ॒धासः॑ । कर॑न् । सु॒ऽसहा॑ । वि॒थु॒रम् । न । शवः॑ ॥
नः अस्माकं यज्ञं विश्वे सर्वे देवाः आस्क्राः शत्रूणामास्कन्दयितारः आक्रमितारो वा आ गमन्तु आगच्छन्तु । के ते । मित्रो अर्यमा वरुणः च त्रयोऽपि सजोषाः समानप्रीतयः सन्तः आगच्छन्तु । किंतु विश्वे देवाः नः अस्माकं वृधासः वर्धयितारः यथा भुवन् भवेयुः तथा सुषाहा सुष्ठु शत्रूणामभिभवेन नोऽस्मदीयं शवः अन्नं विथुरं हीनं यथा न करन् न कुर्युः तथा आगच्छन्तु ॥
“May all the triumphant gods, Mitra, Aryaman, Varuṇa equally well plural ased, come (to our rite); may they all be propitious to us; may they not leave us in want of food, after overcoming (our foes).”
To us may all the Gods come trooped together, Aryaman, Mitra, Varuna concordant,
That all may be promoters of our welfare, and with great might preserve our strength from slackness.
Let all the gods together come here to us: Mitra, Aryaman, and Varuṇa in concert,
so that they all will become our strengtheners and will make (all things) easy to overcome, like faltering power.
᳓
Vereinigt mögen alle Götter kommen, Arjaman, Mitra, Varuna gemeinsam, Damit sie alle uns zum Heile werden, und alle Kraft uns schaffen, die nicht wanket.
Zu uns sollen all die zusammenhaltenden Götter kommen: Mitra, Aryaman, Varuna in Eintracht, auf daß sie alle unsere Förderer seien, und alles leicht besiegbar machen wie eine wankende Macht.
Пусть придут к нам все объединившиеся боги:
Митра, Арьяман, Варуна, единодушные,
Так, чтобы они все придали нам силы,
Чтобы сделали (все) легко одолимым, словно расходившаяся сила.
प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणि॑: स॒जोषा॑: । अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥
प्रेष्ठ॑म् । वः॒ । अति॑थिम् । गृ॒णी॒षे॒ । अ॒ग्निम् । श॒स्तिऽभिः॑ । तु॒र्वणिः॑ । स॒ऽजोषाः॑ । अस॑त् । यथा॑ । नः॒ । वरु॑णः । सु॒ऽकी॒र्तिः । इषः॑ । च॒ । प॒र्ष॒त् । अ॒रि॒ऽगू॒र्तः । सू॒रिः ॥
हे देवाः वः युष्माकं प्रेष्ठं प्रियतमम् । सर्वेषामाह्वातृत्वाद्धविर्वहनाच्च अग्निः देवानां प्रियतमः। तम् अतिथिं गृणीषे गृणे स्तौमि ॥ व्यत्ययेन मध्यमः ॥ केन साधनेन । शस्तिभिः शंसनैः स्तुतिभिः । कीदृशोऽहम् । तुर्वणिः तूर्णवनिः शीघ्रं संभक्ता सजोषाः युष्माभिः सह प्रीयमाणः । यद्वा । एते अग्निविशेषणे । यः तुर्वणिः शीघ्रं यज्ञस्य संभक्ता सजोषा युष्माभिः सह प्रीयमाणः तम् अग्निं गृणीषे । यथा येन प्रकारेण नः अस्माकं वरुणः एतन्नामको देवः सुकीर्तिः शोभनकीर्तिमान् असत् । ‘सुकीर्तिं भिक्षे वरुणस्य भूरेः' (ऋ. सं. २. २८.१ ) इत्यादिमन्त्रवर्णेषु वरुणात् सुकीर्तिरेव एषणीया । अरिगूर्तः अरिषु अदातृषु सदा शब्दितः अरीणां हननाय उद्युक्तो वा सूरिः प्रेरयिता अयं वरुणः इषश्च अन्नानि पर्षत् पूरयेत् । तथा तमपि स्तुम इत्यर्थः ॥
“I praise with hymns, (O gods), your best beloved guest, Agni, who is prompt (to partake of the oblation) and who is well plural ased along (with you); so that (thereby) Varuṇa, the possessor of renown, the subduer of foes, the animator (of men), may fill us with food.”
Agni I sing, the guest you love most dearly: the Conqueror through our lauds is friendly-minded.
That he may be our Varuna rich in glory and send food like a prince praised by the godly.
I will sing for you to the dearest guest, to Agni, with my lauds, I who prevail in concert with (him?),
so that our good praise will be Varuṇa. And he [=Agni] will deliver
refreshments like a patron praised by a stranger.
Ich preise euren liebsten Gast, den Agni, mit Lobgesängen ihn im Chor umstürmend, Damit zum Ruhm uns Yaruna gereiche, der gernbesungne Fürst uns Labung schenke.
Agni preise ich als euren liebsten Gast gemeinschaftlich mit Lobreden andere überbietend, auf daß er uns ein Varuna sei, dessen Name in Ehren steht, und er möge uns Speisegenüsse in Fülle spenden wie ein von den Standesgenossen gepriesener Patron.
Я воспою в славословиях вашего самого милого гостя -
Агни вместе (с другими богами, я,) превосходящий (соперников),
Чтобы он был нам Варуной, прекрасно прославленным,
И чтобы щедрый покровитель, воспеваемый сторонниками (?), сделал жертвенные услады полными.
उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः । स॒मा॒ने अह॑न्वि॒मिमा॑नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ॥
उप॑ । वः॒ । आ । इ॒षे॒ । नम॑सा । जि॒गी॒षा । उ॒षसा॒नक्ता॑ । सु॒दुघा॑ऽइव । धे॒नुः । स॒मा॒ने । अह॑न् । वि॒ऽमिमा॑नः । अ॒र्कम् । विषु॑ऽरूपे । पय॑सि । सस्मि॑न् । ऊध॑न् ॥
हे देवाः वः युष्माकं नमसा हविषा नमस्कारेण वा उप उपेत्य जिगीषा पापानां जिगीषया एषे इच्छामि ॥ ‘इष गतौ ' इत्यस्य वा ईषतेर्वा गत्याद्यर्थस्य लिटि उत्तमैकवचने इदं रूपम् ॥ भजामि । कस्मिन् काले । उषासानक्ता अहनि रात्रौ च । यद्वा । अहोरात्रदेवते अपि अभिगच्छामि । गतौ दृष्टान्तः । सुदुघा धेनुः इव सुदोग्ध्री धेनुः यथा दोहाय दोग्धुः गृहमागच्छति तद्वत् । किं कुर्वन् । सस्मिन् समाने ऊधन ऊधस्युत्पन्ने विषुरूपे नानारूपे पयसि क्षीरघृतादिके अर्कम् अर्चनीयमन्नं चरुपुरोडाशादिकं विमिमानः विविधं मिमानः । कस्मिन् काले। समाने अहन् षष्ठेऽहनि । एकस्मिन्नेवाहनि सर्वदैव वा इत्यर्थः । एकस्मिन्नेवाहनि समाने ऊधस्युत्पन्ने नानारूपे पयसि त्वदर्थं हविर्मिमान उपगच्छामीत्यर्थः । यद्वा । सस्मिन् सर्वस्मिन्नूधसि फलाख्यक्षीरोत्पादके यज्ञे निमित्तभूते सति विषुरूपे पयसि नानारूपे सोमलक्षणोदके अर्कमन्नसाधनं स्तोत्रं विमिमानोऽहं युष्मानभिगच्छामि ॥
“I approach you, (deities), with reverence, night and day, in the hope of overcoming (sin), as (willingly), as a genitive tle cow (comes to be milked), mixing (for you) on the appropriate day the (sacrificial) food, (consisting) of multiform (preparations) of milk (genitive rated) from the same udder.”
To you I seek with reverence, Night and Morning, like a cow good to milk, with hope to conquer,
Preparing on a common day the praise. song with milk of various hues within this udder.
With a desire for gain I hasten for you with homage to Dawn and Night, (who are) like a cow that is easily milked,
as in one and the same day I measure out my chant in milk of dissimilar forms (though found) in the same udder.
Ich lock' euch her durch Andacht, Nacht und Morgen! wie zwei milchreiche Kühe voll Verlangen, An gleichem Tag den Lobgesang bereitend, bei ungleichfarb'ger Milch an gleichem Euter.
Ich trete für euch unter Verbeugung im Wunsch etwas zu gewinnen vor beide - Nacht und Morgen sind wie eine gutmelke Kuh -, indem ich am gleichen Tage das Preislied in das Versmaß bringe, bei ungleichfarbiger Milch am gleichen Euter.
Я приближаюсь к вам с поклоном в надежде победить -
Утренняя Заря и Ночь подобны хорошо доящейся молочной корове –
В тот же день отмеривая хвалебный гимн
В разнообразном молоке у этого вымени.
उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्क॒: शिशुं॒ न पि॒प्युषी॑व वेति॒ सिन्धु॑: । येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह॑न्ति ॥
उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । मयः॑ । क॒रिति॑ कः । शिशु॑म् । न । पि॒प्युषी॑ऽइव । वे॒ति॒ । सिन्धुः॑ । येन॑ । नपा॑तम् । अ॒पाम् । जु॒नाम॑ । म॒नः॒ऽजुवः॑ । वृष॑णः । यम् । वह॑न्ति ॥
उत अपि च नः अस्माकम् अहिः अन्तरिक्षगामी अहन्ता वा अहीनो वा अहन्यमानो वा एतन्नामको देवः स एव बुध्न्यः । बुध्नं बन्धकमन्तरिक्षम् । तदर्हतीति बुध्न्यः अन्तरिक्षचारी एतन्नामको देवः मयः सुखं कः करोतु ॥ करोतेर्लङि रूपम् ॥ किंच पिप्युषी । इवशब्दः एवार्थः पूरणो वा । अस्मान् रसेन आप्याययन्ती सिन्धुः नाम नदी वेतु आयच्छतु। तत्र दृष्टान्तः । शिशुं न यथा शिशुं प्याययन्ती गौर्गच्छति तद्वत् । अपां नपातम् उदकानामपातयितारं वर्षकमेतन्नामकं यद्वा उदकानां नप्तारं तृतीयं पुत्रम् । अद्भ्यः ओषधिवनस्पतयः तेभ्योऽग्निरिति नप्तृत्वम् । तादृशमग्निं जुनाम स्तुतिभिः संगच्छेम । जु इति सौत्रो धातुर्गत्यर्थः ॥ यं देवं मनोजुवः मनोवेगाः वृष्णः वर्षका मेघा अश्वाः वहन्ति स सुखं करोतु ॥ ॥ ४ ॥
“May, Ahirbudhnya grant us happiness; may Sindhu come, nourishing us as a (cow her) calf, whereby we may propitiate the grandson of the waters, (Agni), whom the clouds, swift as thought, convey.”
May the great Dragon of the Deep rejoice us: as one who nourishes her young comes Sindhu,
With whom we will incite the Child of Waters whom vigorous course swift as thought bring hither.
And let Ahi Budhnya create joy for us. As a (cow) swelling (with milk) pursues her young, the River pursues (the hymn?)
with which we will speed the Child of the Waters, whom the bulls
having the speed of thought convey.
Der Wetterdrache auch verleihe Heil uns, es kommt der Strom wie zu dem Kalb die Milchkuh, Mit ihm beeilen wie den Sohn der Wasser, ihn, den gedankenschnelle Hengste fahren.
Auch Ahi Budhnya soll uns Freude bereiten. Die Sindhu verlangt wie die milchstrotzende Kuh nach ihrem Jungen so nach dem Liede, durch das wir den Apam Napat zur Eile treiben wollen, den die gedankenschnellen Bullen fahren.
И еще: пусть Ахи Будхнья создаст нам радость!
Синдху принимает благосклонно (нашу хвалу), словно (корова,) набухшая (от молока) – теленка,
(Хвалу,) с чьей помощью мы подгоним Апам Напата,
Которого везут быки, быстрые, как мысль.
उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषा॑: । आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥
उ॒त । नः॒ । ई॒म् । त्वष्टा॑ । आ । ग॒न्तु॒ । अच्छ॑ । स्मत् । सू॒रिऽभिः॑ । अ॒भि॒ऽपि॒त्वे । स॒ऽजोषाः॑ । आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽप्राः । तु॒विःऽत॑मः । न॒राम् । नः॒ । इ॒ह । ग॑म्याः ॥
त्वष्टा देवोऽपि नः अस्मान् अच्छ अभिप्राप्तुं ईम् इदानीम् इमं यज्ञं वा आ गन्तु। आगत्य च । स्मत् सहार्थे प्राशस्त्ये वा वर्तते । अत्र प्रशंसायाम् । प्रशस्तं यथा तथा अभिपित्वे अभिगन्तव्ये यज्ञे निमित्तभूते सति सूरिभिः स्तोतृभिर्ऋत्विग्भिः सजोषाः समानप्रीतिर्भवत्विति शेषः । तथा वृत्रहा वृत्रघाती चर्षणिप्राः। चर्षणयो मनुष्या यजमानाः । कामैः तेषां पूरकः । तुविष्टमः बहुतमो महत्तमः इह अस्मिन् कर्मणि नरां नृणां नः अस्माकम् उक्तगुणोपेतः सन् आ गम्याः आगच्छतु ॥
“Or may Tvaṣṭā come to this sacrifice, equally well plural ased with those who praise (him) at the excellent (rite) at which he is present; may the most potent Indra, the protector of man, the destroyer of Vṛtra, come to the (solemnity) of our leaders.”
Moreover Tvastar also shall approach us, one-minded with the princes at his visit.
Hither shall come the Vrtra-slayer Indra, Ruler of men, as strongest of the Heroes.
And let Tvaṣṭar come right here to us, in concert with the patrons, at the evening mealtime.
Indra, the Vr̥tra-smasher, who fills the domains, the most powerful of men, should come here to us.
Und Tvaschtar auch, er möge zu uns kommen zusammen mit der Fürstenschar zur Einkehr, Der Vritratödter, Weltbeherrscher, Indra, der Männer stärkster, möge zu uns kommen.
Auch Tvastri soll zu uns im Verein mit den freigebigen Patronen am Abend kommen. Der Vritratöter Indra, der die Lande erfüllt, der Stärkste der Männer soll hierher zu uns kommen!
И еще: к нам пусть придет Тваштар вместе с
Щедрыми покровителями вечером, единодушный (с богами)!
Пусть Индра – убийца Вритры, наполнитель народов,
Самый могущественный из мужей придет сюда, к нам!
उ॒त न॑ ईं म॒तयोऽश्व॑योगा॒: शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति । तमीं॒ गिरो॒ जन॑यो॒ न पत्नी॑: सुर॒भिष्ट॑मं न॒रां न॑सन्त ॥
उ॒त । नः॒ । ई॒म् । म॒तयः॑ । अश्व॑ऽयोगाः । शिशु॑म् । न । गावः॑ । तरु॑णम् । रि॒ह॒न्ति॒ । तम् । ई॒म् । गिरः॑ । जन॑यः । न । पत्नीः॑ । सु॒र॒भिःऽत॑मम् । न॒राम् । न॒स॒न्त॒ ॥
उत अपि च ईम् एनं तरुणं नित्ययुवानमिन्द्रं मतयः अस्मद्बुद्धयः अश्वयोगाः अश्वसमानप्राप्तयः रिहन्ति आस्वादयन्ति स्तुवन्तीत्यर्थः । तत्र दृष्टान्तः । गावः दोग्र्योः धेनवः शिशुं न शिशुमिव वत्समिव तं यथा लिहन्ति तद्वत् । तदेवाह । तमीं तमेवैनं नरां नराणां यजमानानां सुरभिष्टमम् अतिशयेन सुरभिं जनयः फलस्योत्पादयित्र्यः गिरः स्तुतयः नसन्त व्याप्नुवन्ति । नसतिर्व्यप्तिकर्मा । तत्र दृष्टान्तः । जनयः न उत्पादयित्र्यः पत्नीः पत्न्यः पतिमिव ।
“For our minds, yoked together like horses tend to the ever youthful Indra, as cows to their calves; and the praises of men, (addressed) to him, are genitive rating most fragrant (fruit), as wives bear (children to their husbands).”
Him too our hymns delight, that yoke swift horses, like mother cows who lick their tender youngling.
To him our songs shall yield themselves like spouses, to him the most delightful of the Heroes.
And our horse-yoked thoughts lick him like cows their tender young. Our songs approach him, the sweetest smelling of men, like
wedded wives.
Gebete eilen wie geschirrte Rosse, wie Kühe, die das junge Kalb belecken, Den lieblichsten der Männer küssen unsre Gesänge wie den Mann vermählte Frauen.
Und es schmeicheln ihm unsere als Rosse angeschirrten Gedichte, wie Kühe ihr zartes Junges lecken. Ihn, den duftendsten der Männer liebkosen die Lobreden wie die Gattinnen den Mann.
И еще: наши молитвы – упряжки коней (облизывают Индру),
Словно коровы лижут нежного теленка.
Словно женщины – (мужние) жены, песни ласкают того,
Кто самый привлекательный из мужей.
उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑ना॒: स्मद्रोद॑सी॒ सम॑नसः सदन्तु । पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥
उ॒त । नः॒ । ई॒म् । म॒रुतः॑ । वृ॒द्धऽसे॑नाः॒ । स्मत् । रोद॑सी॒ इति॑ । सऽम॑नसः । स॒द॒न्तु॒ । पृष॑त्ऽअश्वासः । वन॑यः । न । रथाः॑ । रि॒शाद॑सः । मि॒त्र॒ऽयुजः॑ । न । दे॒वाः ॥
उत अपि च नः अस्मदीयम् ईम् इदानीम् एनं यागं वा मरुतः स्मत् सह अपि सदन्तु गच्छन्तु । कुतो देशात् । रोदसी रोदस्योर्द्यावापृथिव्योः सकाशात् । यद्वा । रोदस्यावपि गच्छताम् । कीदृशास्ते मरुतः । वृद्धसेनाः प्रवृद्धबलाः समनसः समानमनस्काः पृषदश्वासः पृषद्वर्णाश्वाः । ‘पृषत्यो मरुताम् ' (नि. १, १५, ६) इति यास्कः । अवनयो न यथैव नमनस्वभावाः रथाः रंहणस्वभावा रथवन्तो वा ॥ मत्वर्थों लुप्यते ॥ यद्वा । अवनयो रक्षका रथा इव स्थिताः। रिशादसः । रिशाः शत्रवः । तेषाम् अत्तारः मित्रयुजः देवाः न मैत्रीयुक्ता व्यवहर्तारः ऋत्विज इव । यद्वा । मैत्रीयुक्ता अन्ये देवा यथा गच्छन्ति तद्वत् ॥
“Or may the Maruts, being of one mind, come from heaven and earth (to the sacrifice); they who are a mighty host, who have parti-coloured steeds, who are like protecting chariots, and who are devourers of foes may they come like friendly deities.”
So may the Maruts, armed with mighty weapons, rest here on heaven and earth with hearts in concord,
As Gods whose cars have dappled steeds like torrents, destroyers of the foe allies of Mitra.
And let the like-minded Maruts along with Rodasī sit here for us—their weapons grown strong,
their horses dappled, their chariots like streams—the gods who care for the stranger, like yokemates in alliance.
Die Maruts auch in grossen Scharen mögen mit Rodasi vereint sich niederlassen, Die Feindvertilger, wie gesellte Götter, mit Schecken fahrend, gleichwie schnelle Ströme.
Auch die Marut mit verstärkter Heerschar sollen sich einträchtig mit Rodasi zu uns setzen, mit scheckigen Rossen fahrend - ihre Wagen sind rasch wie die Ströme -, herrenstolz wie die mit Mitra verbündeten Götter.
И еще: пусть Маруты с сильным войском
Сядут к нам вместе с Родаси, единодушные,
Ездящие на пестрых конях – колесницы (их) словно (быстрые) потоки –
Заботящиеся о чужом, подобные богам, связанным с Митрой.
प्र नु यदे॑षां महि॒ना चि॑कि॒त्रे प्र यु॑ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति । अध॒ यदे॑षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेना॑: ॥
प्र । नु । यत् । ए॒षा॒म् । म॒हि॒ना । चि॒कि॒त्रे । प्र । यु॒ञ्ज॒ते॒ । प्र॒ऽयुजः॑ । ते । सु॒ऽवृ॒क्ति । अध॑ । यत् । ए॒षा॒म् । सु॒ऽदिने॑ । न । शरुः॑ । विश्व॑म् । आ । इरि॑णम् । प्रु॒षा॒यन्त॑ । सेनाः॑ ॥
एषां मरुतां महिना महिमा वृष्टिलक्षणः यत् यस्मात् प्र चिकित्रे प्रज्ञायते । यद्वा । एषां महत्त्वेन युक्ता नराः चिकित्रे जानन्त्यनुष्ठेयम् । नु इति पूरणः । ततः ते ज्ञातारः सुवृक्ति ॥ सुपो लुक् ॥ सुष्ठुतीनां प्रयुजः प्रयोगान् प्र युञ्जते । अध अथ प्रयोगानन्तरं यत् यस्मात् एषां सेनाः वृष्ट्युत्पादकाः विश्वं सर्वं भुवनम् इरिणम् ऊषरप्रदेशं यथा तथा सर्वतः प्रुषायन्त उत्पादयन्ति । तत्र दृष्टान्तः । सुदिने मेघावरणादिरहिते दिने शरुः अन्धकारहिंसकः प्रकाश इव। स यथा सर्वमावृणोति तथा मरुत्सेना वृष्ट्या सर्वम् ऊषरं करोति । यद्वा । मरुन्महिमा वृष्टिर्भवति । तदा सस्यादिसमृद्धौ सत्यां प्रयोगं कुर्वन्ति । यदा यजन्ति तदा मरुत्सेनाः सर्वा महीमुन्दन्तीत्येवं महानुभावा मरुत इति तेषां स्तुतिः ॥ ।
“For, verily, their greatness is well known, (as) they diligently discharge their functions; by which their spot pours rain upon every arid soil, as light spreads (universally) on a fine day.”
They hasten on to happy termination their orders when they are made known by
glory.
As on a fair bright day the arrow flieth o'er all the barren soil their missiles sparkle.
Now that they have become conspicuous in their greatness, they hitch up their advance teams with a well-twisted (hymn),
then, when, like a (lightning) bolt on a clear day, their weapons spray all the salt-land.
Wenn sie in ihrer Herrlichkeit sich zeigen, so schirren sie schön rüstend die Gespanne, Und wie der Blitz am heitern Tag, so netzen ein jedes Thal mit Strömen ihre Scharen.
Sobald sie sich in ihrer ganzen Größe gezeigt haben, spannen sie ihren Vorspann unter Lobpreis vor, wenn dann wie ein Blitz bei heiterem Himmel ihre Scharen das ganze rissige Land mit Regen überschütten.
Стоит им только показаться во (всем) их величии,
Как они запрягают передние упряжки, (погоняемые) гимнами,
И затем, подобно выстрелу их при ясном небе,
Стрелы летят брызгами в каждую впадину.
प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ । अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥
प्रो इति॑ । अ॒श्विनौ॑ । अव॑से । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । स्वत॑वसः । हि । सन्ति॑ । अ॒द्वे॒षः । विष्णुः॑ । वातः॑ । ऋ॒भु॒क्षाः । अच्छ॑ । सु॒म्नाय॑ । व॒वृ॒ती॒य॒ । दे॒वान् ॥
हे ऋत्विजः अश्विनौ एतन्नामकौ देवावुद्दिश्य अवसे अस्मद्रक्षणाय प्रो कृणुध्वं स्तुतिं प्रकर्षेण कृणुध्वम् । पूषणं पोषकम् एतन्नामकं देवमपि अवसे प्रकर्षेण स्तुतिं कृणुध्वम् । किंच ये स्वतवसः स्वायत्तबलाः सन्ति तानपि प्र कृणुध्वम् । के ते। अद्वेषः द्वेषरहितः विष्णुः व्याप्तः एतन्नामको देवः । प्रथममनाहूतोऽपि न कुप्यतीति वक्तुम् अद्वेषः इत्युक्तम् । तथा वातः सर्वत्र संचारी वायुः ऋभुक्षाः पतिरिन्द्रश्च । एतानपि प्र कृणुध्वम् । अतोऽहं स्वायत्तबलान् सर्वानपि देवान् सुम्नाय सुखाय अच्छ आभिमुख्येन ववृतीय स्तोत्रैः अभिवर्तयेयम् ॥
“Propitiate the Aśvins and Pūṣan, for my protection; (propitiate) those (deities), who are of independent powers, as Viṣṇu, devoid of hatred, Vāyu and Ṛbhukṣin, and may I influence the gods to be present for my felicity.”
Incline the Asvins to show grace, and Pusan, for power and might have they, their own possession.
Friendly are Visnu, Vata, and Rbhuksan so may I bring the Gods to make us happy.
Bring the Aśvins forward to help; bring Pūṣan forward, for they are powerful by nature,
(as are) Viṣṇu without hatred, the Wind, and the Master of the R̥bhus. I would turn the gods here for their good favor.
Die Ritter auch macht euch geneigt zur Hülfe, den Puschan auch, denn sie sind durch sich selbst stark; Und freundlich sind der Wind, Ribhukschan, Vischnu, ich möchte her zur Huld die Götter wenden.
Lasset den Asvin den Vorrang, daß sie gewogen seien, lasset Pusan den Vorrang, denn sie sind die Selbstsicheren! Der nie feindselige Vishnu. Vata, Ribhuksan - die Götter möchte ich zur Gunsterweisung herwenden.
Сделайте Ашвинов главными, чтобы (они) помогали,
Пушана – главным: ведь они сильны сами собой!
Лишенный враждебности Вишну, Вата, Рибхукшан:
Я хочу повернуть к себе богов – для милости!
इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः । नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
इ॒यम् । सा । वः॒ । अ॒स्मे इति॑ । दीधि॑तिः । य॒ज॒त्राः॒ । अ॒पि॒ऽप्राणी॑ । च॒ । सद॑नी । च॒ । भू॒याः॒ । नि । या । दे॒वेषु॑ । यत॑ते । व॒सु॒ऽयुः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
हे यजत्राः यष्टव्या देवाः वः युष्मत्संबन्धिनी सा इयं प्रसिद्धा दीधितिः दीप्तिः अस्मे अस्माकम् अपिप्राणी सर्वदा चेष्टयित्री सदनी च निवासवती च भूयाः भूयात् भवतु । या दीधितिः वसूयुः वसुमती देवेषु नि यतते नियमेन प्रयत्नं करोति । तानपि प्रकाशितुं सैव भूयात् । विद्याम इति गतः ॥ ॥ ५ ॥
“Objects of admiration, may that wealth-abounding effulgence which manifests itself amongst the gods, give animation to our existence, and (permanence to) our dwellings; that we may (thence) obtain food, strength, and long life.”
This is my reverent thought of you, ye Holy; may it inspire you, make you dwell among us,--
Thought, toiling for the Gods and seeking treasure. May we find strengthening food in full abundance.
Here among us is this visionary hymn, o you who are worthy of the sacrifice; it should provide you your fill and a place to sit—
(the hymn) that, seeking goods, takes its place among the gods. – May we know refreshment and a community having lively waters.
Ihr heil'gen, diese unsre Andacht möge eur Odem sein, und euch zum Sitzen locken, Die Gut begehrend zu den Göttern hinstrebt. Gebt Labung uns und wasserreiche Fluren.
Diese unsere Andacht soll euch, ihr Opferwürdige, ganz erfüllen und zum Sitzen einladen, die um Gutes bittend zu den Göttern strebt. - Wir möchten einen gastfreien Opferbündler kennen lernen, der rasch schenkt.
Пусть эта молитва, о достойные жертв, вас
Целиком наполнит и пригласит сесть среди нас,
(Та,) что, стремясь к благам, пробивает себе путь к богам!
Мы хотим найти щедрую общину, легко дарящую!