प्रति॒ त्यं चारु॑मध्व॒रं गो॑पी॒थाय॒ प्र हू॑यसे । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
प्रति॑ । त्यम् । चारु॑म् । अ॒ध्व॒रम् । गो॒ऽपी॒थाय॑ । प्र । हू॒य॒से॒ । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
त्यच्छब्दः सर्वनाम तच्छब्दपर्यायः। हे अग्ने यो यज्ञः चारुः अङ्गवैकल्यरहितः त्यं तथाविधं चारुमध्वरं प्रतिलभ्य गोपीथाय सोमपानाय प्र हूयसे प्रकर्षेण त्वं हूयसे तस्मात् अस्मिन्नध्वरे त्वं मरुद्भिः देवविशेषैः सह आ गहि आगच्छ । सेयमृक् यास्केनैवं व्याख्याता -' तं प्रति चारुमध्वरं सोमपानाय प्रहूयसे सोऽग्ने मरुद्भिः सहागच्छ ' ( निरु. १०. ३६ ) इति ॥ प्रति । निपात आद्युदात्तः । त्यम् । ‘ त्यदादीनामः ' ( पा. सू. ७. २. १०२ ) । प्रातिपदिकस्वरः । चारुम् । ‘ दॄसनिजनिचरि° । (उ. सू. १. ३ ) इत्यादिना ञुण् । अत उपधायाः' (पा. सू. ७. २. ११६ ) इति वृद्धिः । नित्त्वादाद्युदात्तः । गोपीथाय। ‘ निशीथगोपीथावगथाः ' ( उ. सू. २. १६६ ) इति थक्प्रत्ययान्तो निपातितः । प्र । निपातस्वरः ॥
“Earnestly are you invoked to this perfect rite, to drink the Soma juice; come, Agni, with the Maruts.”
To this fair sacrifice to drink the milky draught thou art invoked:
O Agni, with the Maruts come.
Toward this pleasing ceremony you are called, for its protection.
– With the Maruts, o Agni, come hither.
Zum Milchtrunk wirst gerufen du, zu diesem schönen Opferfest, Komm, Agni, mit der Marutschar.
Zu diesem angenehmen Opfer wirst du geladen, um es in Schutz zu nehmen. - Mit den Marut komm, o Agni!
На этот славный обряд
Ты приглашаешься для защиты (его).
С Марутами приди, о Агни!
न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
न॒हि । दे॒वः । न । मर्त्यः॑ । म॒हः । तव॑ । क्रतु॑म् । प॒रः । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
हे अग्ने महः महतः तव संबन्धिनं क्रतुं कर्मविशेषमुल्लङ्घ्य परः नहि उत्कृष्टः देवः न भवति खलु । तथा मर्त्यः मनुष्यश्च परः न भवति । ये मनुष्यास्त्वदीयं क्रतुमनुतिष्ठन्ति ये च । देवास्त्वदीये क्रतौ इज्यन्ते ते एवोत्कृष्टा इत्यर्थः । मरुद्भिरित्यादि पूर्ववत् ॥ नहि । एवमादीनामन्तः ' इत्यन्तोदात्तः । देवः । पचाद्यजन्तः चित्त्वादन्तोदात्तः । महः । महतस्तलोपश्छान्दसः । ‘ बृहन्महतोरुपसंख्यानम् ' ( पा. सू. ६. १. १७३. १ ) इति विभक्तेरुदात्तत्वम् । तव । ‘ युष्मदस्मदोर्ङसि' (पा. सू. ६. १. २११ ) इत्याद्युदात्तत्वम् । क्रतुम् ॥ ‘ कृञः कतुः । ( उ. सू. १. ७७ )। प्रत्ययाद्युदात्तत्वम् । गहि । ‘ गम्लृ सृप्लृ गतौ ' । लोटः सेर्हिः । ‘ बहुलं छन्दसि ' इति शपो लुक् ।' अनुदात्तोपदेश° ' ( पा. सू. ६. ४. ३७ ) इत्यादिना अनुनासिकलोपः । तस्य • असिद्धवदत्रा भात् ' ( पा. सू. ६. ४. २२ ) इति असिद्धत्वात् “ अतो हेः' इति लुक् न भवति । निघातः ॥
“Nor god nor man has power over a rite (dedicated) to you, who are mighty; come, Agni, with the Maruts.”
No mortal man, no God exceeds thy mental power, O Mighty one:
O Agni, with the Maruts come:
For no god nor mortal is beyond the will of you who are great.
– With the Maruts, o Agni, come hither.
Denn über dein, des grossen, Macht ragt weder Gott, noch Sterblicher, Komm, Agni, mit der Marutschar.
Denn nicht übertrifft ein Gott noch ein Sterblicher deine, des Großen Umsicht. - Mit den Marut komm, o Agni!
Ни бог, ни смертный
Не превосходит силой духа тебя, великого.
С Марутами приди, о Агни!
ये म॒हो रज॑सो वि॒दुर्विश्वे॑ दे॒वासो॑ अ॒द्रुह॑: । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ये । म॒हः । रज॑सः । वि॒दुः । विश्वे॑ । दे॒वासः॑ । अ॒द्रुहः॑ । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
हे अग्ने ये मरुतः महो रजसः महत उदकस्य वर्षणप्रकारं विदुः तैः मरुद्भिः इत्यन्वयः । कीदृशा मरुतः । विश्वे सर्वे सप्तविधगणोपेताः । ‘ सप्तगणा वै मरुतः '( तै. सं. २. २. ११. १ ) इति श्रुतेः । देवासः द्योतमानाः अद्रुहः द्रोहरहिता वर्षणेन सर्वभूतोपकारित्वात् । तथा च उपरिष्टादाम्नायते-- उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः ' (ऋ. सं. ५. ५५.५ ) इति । शाखान्तरेऽपि मन्त्रान्तरस्य ब्राह्मणमेवमाम्नायते - ‘मरुतां पृषतयः स्थेत्याह मरुतो वै वृष्ट्या ईशते' (तै. ब्रा.३.३.९.४) इति । रजःशब्दो यास्केन बहुधा व्याख्यातः - ‘ रजो रजतेर्ज्योती रज उच्यत उदकं रज उच्यते लोका रजांस्युच्यन्तेऽसृगहनी रजसी उच्यते ' (निरु. ४. १९) इति ॥ रजसः । ‘ नब्विषयस्यानिसन्तस्य' इत्याद्युदात्तः । विदुः । ‘ विद ज्ञाने '।' विदो लटो वा ' ( पा. सू. ३. ४. ८३ ) इति झेः उसादेशः । प्रत्ययस्वरः । यद्वृत्तयोगात् निघाताभावः। विश्वे । विशेः क्वनन्तस्य नित्त्वादाद्युदात्तत्वम् । देवासः । ‘ आज्जसेरसुक्' । देवशब्दः पचाद्यजन्तः । चित्त्वादन्तोदात्तः । अद्रुहः । संपदादित्वात् भावे क्विपि बहुव्रीहौ ‘नञ्सुभ्याम् ' इत्यन्तोदात्तत्वम् । कर्तरि वा क्विप् । तत्पुरुषे हि अव्ययपूर्वपदप्रकृतिस्वरत्वं स्यात् । न च कृदुत्तरपदप्रकृतिस्वरत्वम् ( पा. सू. ६. २. १३९ ), यतो नञ् न गतिर्न च कारक इति ॥
“Who all are divine (devāsaḥ = dyotamānāḥ, shining) and devoid of malignity and who know (how to cause the descent) of great waters; come, Agni, with the (sapta-gaṇā or all seven troops of) Maruts.”
All Gods devoid of guile, who know the mighty region of mid-air:
O Agni, with those Maruts come.
Those who know the great airy realm, the All Gods without deceit— with the Maruts, o Agni, come hither.
Die wohnen in dem grossen Raum,die holden Götter allzumal – Komm, Agni, mit der Marutschar.
Die den großen Luftraum kennen, die truglosen Allgötter, mit den Marut komm, o Agni!
(Те,) что знают великое воздушное пространство,
Все-Боги, чуждые обмана –
С Марутами приди, о Агни!
य उ॒ग्रा अ॒र्कमा॑नृ॒चुरना॑धृष्टास॒ ओज॑सा । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ये । उ॒ग्राः । अ॒र्कम् । आ॒नृ॒चुः । अना॑धृष्टासः । ओज॑सा । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
ये मरुतः उग्राः तीव्राः सन्तः अर्कम् उदकम् आनृचुः अर्चितवन्तः वर्षणेन संपादितवन्त इत्यर्थः । तैः मरुद्भिः इत्यन्वयः । कीदृशा मरुतः । ओजसा बलेन अनाधृष्टासः अतिरस्कृताः सर्वेभ्योऽपि प्रबला इत्यर्थः । अर्कशब्दस्योदकवाचित्वं वाजसनेयिन आमनन्ति- ‘ आपो वा अर्कः ' (श. ब्रा. १०. ६. ५. २) इति । तन्निर्वचनं च त एवामनन्ति- सोऽर्चन्नचरत्तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वम् ' ( श. ब्रा. १०, ६. ५. १ ) इति । स जगत् सृष्ट्वा हिरण्यगर्भं उदकं स्रष्टुमुद्युक्तोऽर्चन् सत्यसंकल्पसहिमप्रख्यापनेन स्वात्मानं पूजयन्नचरत् । तथा पूजयतो हिरण्यगर्भस्य सकाशादुदकमुत्पन्नम् । तदानीमर्चतो मत्तः कमभूदित्यवोचत् । तेनोदकस्य अर्कनाम निष्पन्नमित्यर्थः ॥ आनृचुः । अर्चतेः ‘ अपस्पृधेथाम् ' ( पा. सू. ६. १. ३६ ) इत्यादिना निपातितः । प्रत्ययस्वरः । यद्वृत्तयोगात् न निघातः । अनाधृष्टासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ओजसा ॥' उब्जेर्बलोपश्च'( उ. सू. ४. ६३१ ) इति असुन् । नित्त्वादाद्युदात्तः ॥
“Who are fierce, and send down rain (arka, from arc to worship; āpo vā arkaḥ (Śatapatha Brāhmaṇa 10.6.5.2); hence, arka connotes water or rain), and are unsurpassed in strength; come, Agni with the Maruts.”
The terrible, who sing their song, not to be overcome by might:
O Agni, with those Maruts come.
Those who chanted the chant, the strong ones, unassailable through their strength—
with the Maruts, o Agni, come hither.
Die starken, die des Donners Sang anstimmen, kräftig, unbesiegt – Mit diesen Maruts, Agni, komm.
Die gewaltigen, die den Schlachtgesang sangen, an Stärke unbezwinglich, mit den Marut komm, o Agni!
(Те) грозные, что запели песнь,
К кому не подступиться с силой, –
С Марутами приди, о Агни!
ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो॑ रि॒शाद॑सः । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ये । शु॒भ्राः । घो॒रऽव॑र्पसः । सु॒ऽक्ष॒त्रासः॑ । रि॒शाद॑सः । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
ये मरुतः शुभ्रत्वादिगुणोपेताः तैः मरुद्भिः इत्यन्वयः । शुभ्राः शोभनाः घोरवर्पसः उग्ररूपधराः सुक्षत्रासः शोभनधनोपेताः रिशादसः हिंसकानां भक्षकाः। ‘मघम्' इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु ‘ क्षत्रं भगः ' (नि. २. १०.९ ) इति पठितम् । शुभ्राः । ‘ स्फायितञ्चि° । इत्यादिना शुभेः औणादिको रक्प्रत्ययः । प्रत्ययस्वरः । घोरवर्पसः । घोरं वर्षो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुक्षत्रासः । बहुव्रीहौ: नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । ' आद्युदात्तं द्व्यच्छन्दसि' ( पा. सू. ६, २. ११९ ) इत्येव तु न भवति, क्षत्रशब्दस्यान्तोदात्तत्वात् । रिशन्ति हिंसन्तीति रिशाः । तान् अदन्तीति रिशादसः । सर्वधातुभ्योऽसुन्प्रत्ययः । नित्स्वरेण उत्तरपदमाद्युदात्तम् । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते ॥ ॥ ३६ ॥
“Who are brilliant, of terrific forms, who are possessors of great wealth, and are devourers of the malevolent; come, Agni with the Maruts.”
Brilliant, and awful in their form, mighty, devourers of their foes':
O Agni, with those Maruts come.
Those who are resplendent, of terrible form, of good dominion, caring for the stranger—
with the Maruts, o Agni, come hither.
Die glänzen furchtbar von Gestalt, weitherrschend, tilgend jeden Feind, Mit diesen Maruts, Agni, komm.
Die hellglänzenden, von furchtbarem Aussehen, die guten Herrscher, die über die Feinde triumphieren, mit den Marut komm, o Agni!
Те сверкающие, с ужасным обликом,
Добрые властители, заботящиеся о чужом –
С Марутами приди, о Агни!
ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ये । नाक॑स्य । अधि॑ । रो॒च॒ने । दि॒वि । दे॒वासः । आस॑ते । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
ये मरुतः नाकस्याधि दुःखरहितस्य सूर्यस्योपरि दिवि द्युलोके रोचने दीप्यमाने ये देवासः स्वयमपि दीप्यमानाः आसते तैः मरुद्भिः इत्यन्वयः ॥ नाकस्य। कं सुखम् । तत् यस्मिन्नास्ति असौ अकः इति बहुव्रीहिं कृत्वा पश्चात् नञ् । न अको नाक इति नञ्तत्पुरुषः । ‘ नलोपो नञः ' (पा. सू. ६. ३. ७३ ) इति लोपो न भवति, ‘नभ्राण्नपात् ' (पा. सू. ६. ३. ७५) इत्यादिना प्रकृतिभावात् । तत्पुरुषे तुल्यार्थ ' (पा. सू. ६. २. २) इत्यादिना अव्ययपूर्वपदप्रकृतिस्वरत्वेनोदात्तत्वम् । प्रथमतस्तत्पुरुषं कृत्वा पश्चात् बहुव्रीहौ उत्तरपदान्तोदात्तत्वं स्यात् । अधिशब्द उपर्यर्थे । उपसर्गप्रतिरूपको निपातः । रोचने । “ रुच दीप्तौ '। ' अनुदात्तेतश्च हलादेः' (पा. सू. ३. २. १४९ ) इति युच् ।' चितः' इत्यन्तोदात्तत्वम् । दिवि । ऊडिदम्' इत्यादिना विभक्तेरुदात्तस्वम् । देवासः । आजसेरसुक्' इति असुक् । आसते । आस उपवेशने '। अनुदात्तेत्त्वात् आत्मनेपदम् । झस्य अदादेशः । अदिप्रभृतिभ्यः शपः ' इति शपो लुक् । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वम् । यद्वृत्तयोगात् न निघातः ॥
“Who are divinities abiding in the radiant heaven above the sun; come, Agni with the Maruts.”
Who sit as Deities in heaven, above the sky-vault's luminous sphere:
O Agni, with those Maruts come.
Those who as gods sit in the luminous realm of the firmament, in heaven—
with the Maruts, o Agni, come hither.
Die thronen in des Aethers Licht als Götter in dem Himmelsraum, Mit diesen Maruts, Agni, komm.
Die über dem Lichte des Firmaments, im Himmel als Götter wohnen, mit den Marut komm, o Agni!
(Те,) что на светлом пространстве небосвода
На небе живут как боги –
С Марутами приди, о Агни!
य ई॒ङ्खय॑न्ति॒ पर्व॑तान्ति॒रः स॑मु॒द्रम॑र्ण॒वम् । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
ये । ई॒ङ्खय॑न्ति । पर्व॑तान् । ति॒रः । स॒मु॒द्रम् । अ॒र्ण॒वम् । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
ये मरुतः पर्वतान् मेघान् ईङ्खयन्ति चालयन्ति तथा अर्णवं उदकयुक्तं समुद्रं तिरः कुर्वन्तीति शेषः । निश्चलस्य जलस्य तरङ्गाद्युत्पत्तये चालनं तिरस्कारः । तैः मरुद्भिः इत्यन्वयः ॥ ईङ्खयन्ति ।' उख उखि ' इत्यादौ ईखिर्गत्यर्थः । ‘ हेतुमति च ' ( पा. सू. ३. १. २६ ) इति णिच् । 'इदितो नुम् धातोः' इति नुम् । णिजन्तधातोः ‘ चितः' इत्यन्तोदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । पर्वतान् । पूर्व पर्व मर्व पूरणे ' । औणादिकोऽतन् । प्रत्ययस्वरः ॥
“Who scatter the clouds, and agitate the sea (with waves): come, Agni with the Maruts.”
Who scatter clouds about the sky, away over the billowy sea:
O Agni, with those Maruts come.
Those who make the mountains swing, across the undulating sea— with the Maruts, o Agni, come hither.
᳓
Die durch des Meeres Wogenflut, die Wellenberge schaukelnd wehn, Mit diesen Maruts, Agni, komm.
Die die Berge schaukeln, über das flutende Meer kommen, mit den Marut komm, o Agni!
(Те,) что сотрясают горы,
Через бурное море (приходят к нам) –
С Марутами приди, о Агни!
आ ये त॒न्वन्ति॑ र॒श्मिभि॑स्ति॒रः स॑मु॒द्रमोज॑सा । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
आ । ये । त॒न्वन्ति॑ । र॒श्मिऽभिः॑ । ति॒रः । स॒मु॒द्रम् । ओज॑सा । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
ये मरुतः रश्मिभिः सूर्यकिरणैः सह आ तन्वन्ति आप्नुवन्ति आकाशमिति शेषः। किंच ओजसा स्वकीयबलेन समुदं तिरस्कुर्वन्ति तैः मरुद्भिः इत्यन्वयः ॥ तन्वन्ति।' तनु विस्तारे ' । लटो ‘झोऽन्तः । ‘ तनादिकृञ्भ्य उः '( पा. सू. ३. १. ७९ )। सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति तिङ एव आद्युदात्तत्वम् । समुद्रम् ।' उन्दी क्लेदने'। ' स्फायितञ्चि° ' इति रक् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“Who spread (through the firmament) along with the rays (of the sun) and with their strength agitate the ocean: come, Agni, with the Maruts.”
Who with their bright beams spread them forth over the ocean in their might
O Agni, with those Maruts come.
Those who stretch with their reins across the sea with their strength— with the Maruts, o Agni, come hither.
᳓
Die übers Meer nach ihrer Macht hindringen mit der Strahlen Glanz, Mit diesen Maruts, Agni, komm.
Die sich mit den Strahlen ausdehnen, mit Gewalt über das Meer kommen, mit den Marut komm, o Agni!
(Те,) что распространяются с лучами,
Через море с силой (пробиваются), –
С Марутами приди, о Агни!
अ॒भि त्वा॑ पू॒र्वपी॑तये सृ॒जामि॑ सो॒म्यं मधु॑ । म॒रुद्भि॑रग्न॒ आ ग॑हि ॥
अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । सृ॒जामि॑ । सो॒म्यम् । मधु॑ । म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
हे अग्ने पूर्वपीतये पूर्वकाले प्रवृत्ताय पानाय त्वां प्रति सोम्यं मधु सोमसंबन्धिनं मधुररसम् अभि सृजामि सर्वतः संपादयामि। अतस्त्वं मरुद्भिः सह अत्र आगच्छ ॥ अभि। ‘एवमादीनामन्तः इत्यन्तोदात्तत्वम् ।' त्वामौ द्वितीयायाः ' ( पा. सू. ८. १. २३ ) इति त्वादेशः सर्वानुदात्तः । पूर्वपीतये । पूर्वा चासौ पीतिश्च । पुंवत्कर्मधारय° ' ( पा. सू. ६. ३. ४२ ) इत्यादिना पुंवद्भावः । सृजामि । ‘सृज विसर्गे'। मिपः पित्त्वादनुदात्तत्वम् । विकरणस्वरः । सोम्यम् । सोममर्हति यः । प्रत्ययस्वरेणान्तोदात्तः । मधु । ‘ फलिपाटिनमि° ' ( उ. सू. १. १८) इत्यादिना उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम् । अन्यद्गतम् ॥ ॥ ३७॥
“I pour out the sweet Soma juice for your drinking, (as) of old; come, Agni with the Maruts.”
For thee, to be thine early draught, I pour the Soma-mingled meath:
O Agni, with the Maruts come.
Toward you I dispatch the somian honey, for you to drink first.
– With the Maruts, o Agni, come hither.
Dir giesse ich zum ersten Trunk des Soma Süssigkeiten aus; Komm, Agni, mit der Marutschar.
Dich lasse ich zum somischen Honigtrank zu, damit du zuerst davon trinkest. Mit den Marut komm, o Agni!
Тебя выпускаю я на мед сомы,
Чтобы ты первым выпил. –
С Марутами приди, о Агни!