अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः । गा॒था॒न्य॑: सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ता॑: ॥
अ॒न॒र्वाण॑म् । वृ॒ष॒भम् । म॒न्द्रऽजि॑ह्वम् । बृह॒स्पति॑म् । व॒र्ध॒य॒ । नव्य॑म् । अ॒र्कैः । गा॒था॒न्यः॑ । सु॒ऽरुचः॑ । यस्य॑ । दे॒वाः । आ॒ऽशृ॒ण्वन्ति॑ । नव॑मानस्य । मर्ताः॑ ॥
हे होतः नव्यं नवतरं स्तुत्यं वा तम् अनर्वाणम् अगन्तारम् । स्तोतुरधीनमित्यर्थः । वृषभम् अपां फलानां वर्षितारं मन्द्रजिह्वं मादकवाचं बृहस्पतिं मन्त्रस्य पालयितारमेतन्नामकं देवम् अर्कैः अर्चनसाधनैर्मन्त्रैः वर्धय प्रवृद्धं कुरु । सुरुचः शोभनदीप्तेः नवमानस्य स्तूयमानस्य ॥ कर्मणि कर्तृप्रत्ययः ॥ यस्य बृहस्पतेः ॥ कर्मणि षष्ठ्यः ॥ रोचमानं स्तूयमानं गाथान्यः । गाथेति वाङ्नाम । स्तुतिवचसो नेतारः देवाः व्यवहर्तारः मर्ताः मनुष्याः होत्रादयः । यद्वा । नवमानस्य स्तुवानस्य यजमानस्य संबन्धिनस्ते । आशृण्वन्ति आश्रावयन्ति पुरा तं बृहस्पतिं वर्धय । अत्र ‘अनर्वाणमप्रत्यृतमन्यस्मिन् ' (निरु. ६. २३ ) इत्यादि निरुक्तं द्रष्टव्यम् ॥
“(Priests), augment by your hymns Bṛhaspati, who deserts not (his worshipper); the showerer (of benefits) the plural asant-tongued, the adorable; of whom resplendent gods and men, (the ministers) of the instrumental tutor of the sacrifice, emulous in sacred songs, proclaim (the praise).”
GLORIFY thou Brhaspati, the scatheless, who must be praised with hymns, sweet-tongued and mighty,
To whom as leader of the song, resplendent, worthy of lauds, both Gods and mortals listen.
With chants I will strengthen anew the unassailable bull of gladdening tongue, Br̥haspati,
the brightly shining leader of song to whom the gods and the mortals harken as he bellows.
Den unnahbaren Mann, der lieblich redet, Brihaspati erhebe neu mit Liedern, Den leuchtenden, dem, wenn Gesang er leitet und singt, die Götter und die Menschen lauschen.
Den unerreichbaren Bullen mit der wohllautenden Zunge, den Brihaspati erbaue aufs neue mit Preisliedern, den glänzenden Gesangesleiter, auf den Götter und Sterbliche hinhören, wenn er seine Stimme erhebt!
Неодолимого быка, сладкозвучного
Брихаспати я хочу снова подкрепить гимнами,
(Того, кто) ведет песню, ярко сверкает, к кому боги
(И) смертные прислушиваются, когда он поднимает голос.
तमृ॒त्विया॒ उप॒ वाच॑: सचन्ते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि । बृह॒स्पति॒: स ह्यञ्जो॒ वरां॑सि॒ विभ्वाभ॑व॒त्समृ॒ते मा॑त॒रिश्वा॑ ॥
तम् । ऋ॒त्वियाः॑ । उप॑ । वाचः॑ । स॒च॒न्ते॒ । सर्गः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि । बृह॒स्पतिः॑ । सः । हि । अञ्जः॑ । वरां॑सि । विऽभ्वा॑ । अभ॑वत् । सम् । ऋ॒ते । मा॒त॒रिश्वा॑ ॥
तं बृहस्पतिम् ऋत्विया वर्षर्तुसंबन्धिन्यः वाचः माध्यमिकाः उप सचन्ते समीपे सेवन्ते । यः सर्गो न उदकस्य स्रष्टापि । नशब्दोऽप्यर्थे । देवयतां देवानिच्छतां यजमानानाम् असर्जि फलम् । यद्वा । देवं तमिच्छतां मनुष्याणाम् असर्जि सृष्टवान्वृष्ट्युदकम् । यद्वा । ऋत्वियाः प्राप्तकालीना वाचः होत्रादिप्रेरिता वाचः उप सचन्ते तं यः सर्गो न उदकसृष्टिरिव । सः स एव बृहस्पतिः अञ्जः हि व्यञ्जकः खलु। तस्मिन् वर्षति सर्वे भवन्ति। अत एव विभ्वा विभुर्व्याप्तः मातरिश्वा वृष्टिनिर्मातरि अन्तरिक्षे चेष्टमानो वायुसदृशो वा वरांसि वरणीयानि वृष्ट्यादिफलानि संपादयन् ऋते उदके निमित्तभूते सति सम् अभवत् संभूतः । अथवा । अञ्जो यज्ञियानां व्यञ्जकः मातरिश्वा फलस्य निर्मातरि यज्ञे श्वसिता वर्तमानः स बृहस्पतिर्ऋते यज्ञे निमित्तभूते सति वरांसि वरणीयानि हवींषीच्छन् विभ्वा विभुः समभवत् ॥
“The hymns of the (rainy) season are addressed to him, who is verily the creator (of the rain), and has granted it (to the prayers) of the devout; for that Bṛhaspati is the manifester (of all), the expansive wind that (dispensing) blessings has been produced for (the diffusion of) water.”
On him wait songs according to the season even as a stream of pious men set moving.
Brhaspati--for he laid out the expanses--was, at the sacrifice, vast Matarisvan.
Words follow close upon him in proper sequence, like a gush that has been sent gushing from those serving the gods,
for Br̥haspati, far-ranging straightway through the wide spaces, has become equal to Mātariśvan in regard to truth.
Ihm huldigen die festlichen Gesänge, der wie ein Zug der Frommen sich ergossen, Brihaspati, denn er verschönt die Welten, und kräftig war beim Opfer Matariçvan.
Ihm streben rechtzeitig die Reden zu, die wie ein Erguß der Gottergebenen sich ergossen haben, denn dieser Brihaspati, stracks die weiten Räume durchdringend, ward im rechten Werk ein zweiter Matarisvan.
Во время обрядов к нему стремятся речи,
Словно возлияние, которое возлито (у людей,) любящих богов.
Ведь этот Брихаспати, прямо (пронизывающий) просторы,
Стал как бы замечательным Матаришваном при обряде.
उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू । अ॒स्य क्रत्वा॑ह॒न्यो॒३॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥
उप॑ऽस्तुतिम् । नम॑सः । उत्ऽय॑तिम् । च॒ । श्लोक॑म् । यं॒स॒त् । स॒वि॒ताऽइ॑व । प्र । बा॒हू इति॑ । अ॒स्य । क्रत्वा॑ । अ॒ह॒न्यः॑ । यः । अस्ति॑ । मृ॒गः । न । भी॒मः । अ॒र॒क्षसः॒ । तुवि॑ष्मान् ॥
अयं बृहस्पतिः उपस्तुतिं यजमानेनोपेत्य क्रियमाणां स्तुतिं नमसः हविर्लक्षणस्यान्नस्य उद्यतिम् उद्धारं च श्लोकम् अन्यो यो मन्त्रविशेषोऽस्ति तं च प्र यंसत् प्रकर्षेण यतते स्वीकर्तुम् । यजमानो वा तत्सर्वं प्रयच्छत्यस्मै । तत्र दृष्टान्तः । सवितेव सूर्य इव । स यथा स्तोत्रादिकं स्वीकरोति तद्वत् । यजमानप्रदानपक्षे सविता सर्वस्य प्रसविता सूर्य इव । स यथा बाहुभ्यः प्रकाशादि प्रयच्छति तद्वत् बाहू बाहुभ्यां यजमानोऽपीत्यर्थः। तस्य महत्त्वमाह । अरक्षसः स्वविरोधिरक्षोरहितस्य अस्य बृहस्पतेः क्रत्वा कर्मणा सामर्थ्येन अहन्यः अह्नि साधुः यः सूर्यः अस्ति सः भीमः न मृगः इव भयजनकः सिंहादिरिव भीमो भयहेतुः तुविष्मान् बलवान् परिभ्रमतीति शेषः । यस्य माहात्म्येन मन्त्राभिमानिनो बृहस्पतेः सामर्थ्यात् मन्देहाद्यसुराञ्जित्वातितेजस्वी भवति तादृशो महानुभावो यजमानदत्तं हविरादिकं स्वीकरोतीत्यर्थः ॥
“He is ready (to accept) the offered praise, the presentation of the homage, the hymn, as the sun (is ready) to put forth his rays; by the acts of him whom the rākṣasas (oppose not), the daily (revolving sun) exists, and he is strong as a fearful beast of prey.”
The praise, the verse that offers adoration, may he bring forth, as the Sun sends his arms out,
He who gives daily light through this God's wisdom, strong as a dread wild beast, and inoffensive.
A praise song and an offering of reverence, as well as his signal-call, will he hold forth, like Savitar his two arms—
(the call) that happens every day according to his will, (the call) of the undemonic, which is powerful like a fearsome wild beast.
Und Lob und Preis und des Gebets Verrichtung streck er empor, wie Savitar die Arme, Der tageshell durch seines Geistes Kraft ist, des Bösen Zwingherr, wie ein Löwe furchtbar.
Den Lobgesang und die dargebrachte Huldigung, den Ruf möge er wie Savitri die Arme erheben, der nach seinem Ratschluß tagtäglich stattfindet, der Ruf des Arglosen, furchtbar wie ein wildes Tier, gewaltig.
Восхваление и возносимое почитание,
Возглас пусть направит ввысь (Брихаспати), как Савитар, - руки,
(Тот,) что существует ежедневно благодаря своей силе духа,
Страшный, как зверь, (но) не вредящий, могучий.
अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद्यक्ष॒भृद्विचे॑ताः । मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥
अ॒स्य । श्लोकः॑ । दि॒वि । ई॒य॒ते॒ । पृ॒थि॒व्याम् । अत्यः॑ । न । यं॒स॒त् । य॒क्ष॒ऽभृत् । विऽचे॑ताः । मृ॒गाणा॑म् । न । हे॒तयः॑ । यन्ति॑ । च॒ । इ॒माः । बृह॒स्पतेः॑ । अहि॑ऽमायान् । अ॒भि । द्यून् ॥
अस्य बृहस्पतेः श्लोकः स्तुत्यात्मिका कीर्तिः गर्जितवाक् वा दिवि द्योतमाने द्युलोके पृथिव्यां च ईयते गच्छति व्याप्नोति । यो बृहस्पतिः अत्यो न अतनशील आदित्य इव यक्षभृत् पूजितं हविरादिकं दधानः विचेताः विविधं चेतयिता प्राणिनां विशिष्टप्रज्ञायुक्तो वा यंसत् नियच्छति फलम् । किंच मृगाणां हन्तुमन्विष्यतां हेतयः न आयुधानीवास्य बृहस्पतेः इमाः हेतयो हिंस्राणि आयुधानि यन्ति गच्छन्ति च ॥ ‘चवायोगे प्रथमा ' इति न निघातः । अहिमायान् आगत्य हन्त्र्योऽन्तरिक्षचारिण्यो वा माया येषां वृत्रादीनां तानसुरान् द्यून दिवसान् ।' कालाध्वनोः०' (पा. सू. २. ३. ५) इति द्वितीया ॥ तान्यायुधानि अभि लक्षयन्ति च ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥
“The gloryof this Bṛhaspati spreads through heaven and earth like the sun; receiving worship, and giving intelligence, he bestows (the rewards of sacrifice); like the weapons of the hunters, so these (weapons) of Bṛhaspati fall daily upon the workers of guile.”
His song of praise pervades the earth and heaven: let the wise worshipper draw it, like a courser.
These of Brhaspati, like hunters' arrows, go to the skies that change their hue like serpents.
When his signal-call speeds in heaven and on earth like a steed, the discriminating one [=Br̥haspati?], bringing wondrous apparitions, will control it, *like a steed—
as also when these missiles [=words] of Br̥haspati, like the charges of wild beasts, go to the heavens that possess serpentine wiles.
Zum Himmel dringt sein Preislied und zur Erde, gleich wie ein Jagdross dringe vor der weise, Und wie des Wildes Hufe gehn die Lieder Brihaspati's zu allgestalt'gen Himmeln.
Sein Ruf dringt zum Himmel, zur Erde. Wie ein Rennpferd den Wagen anzieht, möge der Kluge, der das Geheimnis trägt, die Götter anziehen, wenn diese Geschosse des Brihaspati, wie die Geschosse für das Wild, zu den wie Schlangen wandelbaren Himmelsgöttern gehen.
. Возглас его идет на небо, на землю.
Словно конь, (которым правят,) пусть правит он (речью), (он,) несущий чудесные силы, прозорливый,
Когда, как стрелы для диких зверей, мчатся эти (стрелы)
Брихаспати к небо(жителям), обладающим змеиной силой превращений.
ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव॑न्ति प॒ज्राः । न दू॒ढ्ये॒३॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुम् ॥
ये । त्वा॒ । दे॒व॒ । उ॒स्रि॒कम् । मन्य॑मानाः । पा॒पाः । भ॒द्रम् । उ॒प॒ऽजीव॑न्ति । प॒ज्राः । न । दुः॒ऽध्ये॑ । अनु॑ । द॒दा॒सि॒ । वा॒मम् । बृह॑स्पते । चय॑से । इत् । पिया॑रुम् ॥
हे देव बृहस्पते ये पापाः पापबुद्धयोऽल्पाः पज्राः हविर्लक्षणान्नवन्तः पापेन जीर्णा वा नराः भद्रं कल्याणं वा त्वाम् उस्रिकम् । उस्रियेति गोनाम । कुत्सितामल्पक्षीरोत्स्राविणीं गां जीर्णमनड्वाहं वा 'मन्यमानाः उपजीवन्ति उपेत्य प्राणन्ति अल्पं याचन्ते इत्यर्थः। दूढये दुर्धिये ॥ वचनव्यत्ययः ॥ दुर्बुद्धिभ्यस्तेभ्यः वामं वननीयं धनं न अनु ददासि अनुकूलं न वितरसि । हे बृहस्पते देव पियारुं सोमपानशीलं सोमेन यष्टारं महाफलरिप्सुं तु चयसे इत् गच्छस्येवानुग्रहीतुम् ॥ ‘चय गतौ ' इत्यस्येदं रूपम् ॥ यद्वा । हे बृहस्पते पियारुं हिंसकम् ॥ पीयतेर्हिंसाकर्मणः इदं रूपम् ॥ तं प्राणिहिंसकं चयसे इत् । हंस्येव । बृहस्पते यच्चातयसि देवपीयुम् (निरु. ४. २५) इति निरुक्तम् ॥ ॥ १२ ॥
“Divine Bṛhaspati, you do not bestow desired (wealth) upon those stupid (men), who, sinful and mean subsist, considering you, who are auspicious, as an old ox; but you favour him who offers (you) libations.”
Those, God, who count thee as a worthless bullock, and, wealthy sinners, live on thee the Bounteous,--
On fools like these no blessing thou bestowest: Brhaspati, thou punishest the spiteful.
Those who are wicked and tough, who live off you who are good, taking you for a ruddy little bullock, o god—
to the evil-minded one you do not concede anything of value; you just punish the reviler, Br̥haspati.
Den Bösen, die dem Oechslein gleich dich achten, und üppig von dem eignen Reichthum schwelgen, Dem Schlechten nicht, o Gott, gewährst du Schätze, und du bestrafst, Brihaspati, den Spötter.
Da die Pajra´s dich für ein Öchslein halten und die Bösen dich, den Guten, ausnutzen, o Gott. So gestehst du dem Bösgesinnten nicht den Gewinn zu. Du strafst vielmehr den Feindseligen, o Brihaspati.
(Те) злодеи паджры, которые, считая тебя, о бог,
Слабым бычком, живут (тобою,) несущим благо... –
Ты не даешь желанного злоумышленнику,
О Брихаспати, ты же наказываешь презренного.
सु॒प्रैतु॑: सू॒यव॑सो॒ न पन्था॑ दुर्नि॒यन्तु॒: परि॑प्रीतो॒ न मि॒त्रः । अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वन्तो॑ अस्थुः ॥
सु॒प्ऽरैतुः॑ । सु॒ऽयव॑सः । न । पन्था॑ । दुः॒ऽनि॒यन्तुः॑ । परि॑ऽप्रीतः । न । मि॒त्रः । अ॒न॒र्वाणः॑ । अ॒भि । ये । चक्ष॑ते । नः॒ । अपि॑ऽवृताः । अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । अ॒स्थुः॒ ॥
हे बृहस्पते त्वं सुप्रैतुः सुष्ठु गन्तुर्मनुष्यस्य सुयवसः शोभनान्नस्य पन्थाः न मार्गं इव सुष्ठु यज्ञमार्गगामिनः सुयवसः पन्था इव सुखकारी भवेत्यर्थः । किंच दुर्नियन्तुः दुःखेन नियमितुः राज्ञः परिप्रीतः सर्वप्रकारेण संतुष्टो द्वेषादिरहितः मित्रः न सुहृन्मन्त्रीव । स यथा दुर्नयात् निवर्तयति तद्वत् त्वमपि तथा अस्मभ्यं कुर्वित्यर्थः । सखिवत् अमार्गान्निवर्त्य मार्गे यज्ञादिरूपे योजयित्वा तत्रापि फलप्रदो भवेत्यर्थः । किंच अनर्वाणः अपापाः ये नराः नः अस्मान् अभि आभिमुख्येन चक्षते बोधयन्ति ते अपीवृताः अज्ञानेनावृता अपि अपोर्णुवन्तः अपगतावरणवन्तो ज्ञानवन्तः अस्थुः तिष्ठन्तु । यद्वा । अनर्वाणस्त्वामप्राप्नुवन्तो येऽस्मद्विरोधिनो नोऽस्मानभि चक्षते अभिवदन्ति निन्दन्ति तेऽपीवृता आच्छादित रक्षिता अपि अपोर्णुवन्तः अपगतरक्षणा भवन्ति ॥
“Be a (plural asant) way to him who goes well and makes good offerings, like the affectionate friend of (a ruler who) restrains the bad; and may those sinless men who instrumental uct us, although yet enveloped (by ignorance), stand extricated from their covering.”
Like a fair path is he, where grass is pleasant, though hard to win, a Friend beloved most early.
Those who unharmed by enemies behold us, while they would make them bare, stood closely compassed.
(You are) easy to approach like a path leading to good pastures, but difficult to hold onto like an ally gratified by (all those) around.
The unassailable ones who watch over us have taken their stand,
unclosing the enclosed (cows).
Dem schön gebahnten, wiesenreichen Pfade, dem lieben Freunde gleichst du, bist unhemmbar; Die uns beschaun, die ewig unbesiegten, erhoben sich enthüllend das verhüllte.
Gern aufgesucht wie eine Straße mit schöner Weide, schwer festzuhalten wie ein umschmeichelter Freund - Die Unerreichbaren, die auf uns sehen, die sind dagestanden, indem sie die verschlossenen Tore aufschlossen.
Тот, к кому легко идти – как по пути на хорошее пастбище,
Тот, кому трудно сопротивляться, как очень любящему другу...
Неодолимые, что смотрят на нас,
Были (с нами,) открывая закрытые (врата).
सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः । स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्र॑: ॥
सम् । यम् । स्तुभः॑ । अ॒वन॑यः । न । यन्ति॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । रोध॑ऽचक्राः । सः । वि॒द्वान् । उ॒भय॑म् । च॒ष्टे॒ । अ॒न्तः । बृह॒स्पतिः॑ । तरः॑ । आपः॑ । च॒ । गृध्रः॑ ॥
यं बृहस्पतिं स्तुभः स्तोत्राणि अवनयो न सर्वा अवनयो भूमयो मनुष्या यथा स्वामिनं कर्म प्रति वा सं यन्ति संगच्छन्ति तद्वत् तथा समुद्रं रोधचक्राः । नदीनामैतत् । रोधनशीलानि चक्राणि यासु तास्तादृश्यः कूलं क्रममाणाः वा स्रवतः स्रवन्त्यो नद्यो यथा यन्ति तद्वत् सर्वा अपि स्तुतयो यमेव प्राप्नुवन्ति गृध्रः गर्धनशीलो वृष्टिमाकाङ्क्षमाणः सः बृहस्पतिः विद्वान् वक्ष्यमाणाभिज्ञः तरः तरणं जलाभिवृद्धिम् आपः उदकानि च उभयम् अन्तः मध्ये स्थित्वा चष्टे पश्यति करोतीत्यर्थः ॥
“To whom praises (necessarily) proceed, as men (assemble round a master); as rivers, rolling between their banks, flow to the ocean; that wise Bṛhaspati greedy (after rain), and stationary in the midst, contemplates both (the ferry and the water).”
He to whom songs of praise go forth like torrents, as rivers eddying under banks flow sea-ward--
Brhaspati the wise, the eager, closely looks upon both, the waters and the vessel.
On whom the chants, like streams, converge, like rivers on the sea with their banks as wheels,
Br̥haspati, the knowing one, gazes between both, the ford and the waters, (like) a bird of prey.
Zu ihm gehn Lieder wie ins Meer die Flüsse, wie Ströme die am Ufer spülend rollen, Und beides schaut Brihaspati, der weise, begierig hier das Schiff und die Gewässer.
Dem die Gesänge wie Flüsse zuströmen, wie dem Meere die Ströme, die die Ufer entlang rollen - Brihaspati erspäht als Kundiger beides, die Furt und das Wasser, der Geier.
К кому стекаются хвалебные песни, словно потоки,
Словно реки с высокими берегами, (и течением, подобным) колесам (колесниц) – к океану,
Тот, как знаток, видит насквозь обоих:
И перевоз, и воду, (этот) коршун-Брихаспати.
ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः । स न॑: स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
ए॒व । म॒हः । तु॒वि॒ऽजा॒तः । तुवि॑ष्मान् । बृह॒स्पतिः॑ । वृ॒ष॒भः । धा॒यि॒ । दे॒वः । सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥
महः महान् तुविजातः बह्वर्थमुत्पन्नः तुविष्मान् बलवान् वृषभः अपां वर्षिता देवः बृहस्पतिः एव एवं स्तुतिप्रकारेण धायि धीयते स्तूयते इत्यर्थः । सः स्तुतः देवः नः अस्माकं वीरवत् पुत्राद्युपेतं गोमत् गोभिर्युक्तं फलं धातु करोत्वित्यर्थः । विद्याम इति गतम् ॥ ॥ १३ ॥
“So, Bṛhaspati, the mighty, be beneficent, the powerful, the showerer (of benefits), the divine, has been glorified; praised by us, may he make us possessed of progeny and cattle, that hence we may obtain food, strength and long life.”
So hath Brhaspati, great, strong and mighty, the God exceeding powerful, been brought hither.
May he thus lauded give us kine and horses. May we find strengthening food in full abundance.
Just so has the great, powerful one, powerfully born, the bull Br̥haspati, the god, been established in his place.
When praised, let him establish for us what brings heroes and cows.
– May we know refreshment and a community having lively waters.
So ist der grosse, hochgeborne, starke Brihaspati als Gott gesetzt und Herrscher, Uns schenk der hehre Gut an Rind und Mannschaft. Gebt Labung uns und wasserreiche Fluren.
So wurde der große, starkgeartete, gewaltige Brihaspati, der Bulle, zum Gott eingesetzt. Er soll uns, gepriesen, den Besitz von Söhnen und Rindern bringen. - Wir haben vertrauliche Worte vor ihm gesprochen, ich, der Sohn des Mana, vor dem mächtigen Agni. Wir wollen mit den Rishis Tausend verdienen, - Wir möchten einen gastlichen Opferbündler kennen lernen, der rasch schenkt.
Так великого, могучего рода, могущественного
Быка Брихаспати сделали богом.
Прославленный нами, пусть он дает (богатство,) состоящее из героев, состоящее из коров!
Мы хотим найти щедрую общину, легко дарящую!