वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः । तेषां॑ पाहि श्रु॒धी हव॑म् ॥
वायो॒ इति॑ । आ । या॒हि॒ । द॒र्श॒त॒ । इ॒मे । सोमाः॑ । अरं॑ऽकृताः । तेषा॑म् । पा॒हि॒ । श्रु॒धि । हव॑म् ॥
दर्शत हे दर्शनीय वायो कर्मण्येतस्मिन् आ याहि आगच्छ । त्वदर्थम् इमे सोमा अरंकृताः अलंकृताः । अभिषवादिसंस्कारोऽलंकारः। तेषां तान् सोमान् । यद्वा। तेषामेकदेशमित्यध्याहारः। पाहि स्वकीयं भागं पिबेत्यर्थः। तत्पानार्थं हवम् अस्मदीयमाह्वानं श्रुधि शृणु। अत्र यास्कः-’वायवा याहि दर्शनीयेमे सोमा अरंकृता अलंकृतास्तेषां पिब शृणु नो ह्वानम् ' ( निरु. १०. २ ) इति ॥ दर्शतेत्यत्र ‘भृमृदृशि° ' ( उ. सू. ३. ३९० ) इत्यादिसूत्रेण अतच्प्रत्यय औणादिकः । चित्त्वादन्तोदात्तस्य आमन्त्रितानुदात्तत्वम् । अर्तिस्तुसु ' (उ. सू. १. १३७ ) इत्यादिना मन्प्रत्ययान्तस्य सोमशब्दस्य नित्स्वरः । अलमित्यत्र छान्दसो रेफादेशः । अरंकृतशब्दे समासान्तोदात्तत्वम् (पा. सू. ६. १. २२३) बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरप्राप्तौ (पा. सू. ६. २. २) भूषणेऽलम्' (पा. सू. १. ४. ६४ ) इत्यलंशब्दस्य गतिसंज्ञायां ' गतिकारक° ' ( पा. सू. ६. २. १३९ ) इत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते तदपवादत्वेन ‘ गतिरनन्तरः ' ( पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरत्वम् । निपातत्वादलंशब्द आद्युदात्तः । पाहीत्यत्र पिबादेशाभावश्छन्दसः । श्रुधीत्यत्र ‘श्रुशृणु° । (पा. सू. ६. ४. १०२) इत्यादिना हेर्धिभावः । तिङन्तादुत्तरस्य निघातो नास्ति । सेर्ह्यपिञ्च' (पा. सू. ३. ४. ८७ ) इति पित्वनिषेधानुदात्ते निवारिते प्रत्ययस्वरः । हवमित्यत्र ह्वयतिधातोः ‘बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणे सति उकारान्तत्वात् ‘ऋदोरप् ' ( पा. सू. ३. ३. ५७) इति अप्प्रत्ययः । तस्य पित्त्वादनुदात्ते सति धातुस्वरः शिष्यते। संहितायां श्रुधीत्यस्य ‘अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः ।
“Vāyu, plural asant to behold, approach; these libations are prepared for you drink of them; hear our invocation.”
BEAUTIFUL Vayu, come, for thee these Soma drops have been prepared:
Drink of them, hearken to our call.
O Vāyu, lovely to see, drive here! Here are the properly prepared soma juices.
Drink of them! Hear our summons!
O schöner Vaju, komm herbei, die Somatränke stehn bereit; Von diesen trinke, hör den Ruf.
Vayu! Komm her, du Gerngesehener; diese Somasäfte sind fertig. Trink davon, erhöre den Ruf!
O Ваю, приди, приятный для глаз,
Эти соки сомы приготовлены.
Испей их, услышь призыв!
वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तार॑: । सु॒तसो॑मा अह॒र्विद॑: ॥
वायो॒ इति॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ । त्वाम् । अच्छ॑ । ज॒रि॒तारः॑ । सु॒तऽसो॑माः । अ॒हः॒ऽविदः॑ ॥
हे वायो जरितारः स्तोतार ऋविग्यजमानाः त्वामच्छ त्वामभिलक्ष्य उक्थेभिः आज्यप्रउगादिशस्त्रैः जरन्ते स्तुवन्ति। कीदृशाः। 'सुतसोमाः अभिषुतेन सोमेनोपेताः। अहर्विदः । अहःशब्द एकेनाह्ना निष्पाद्येऽग्निष्टोमादिक्रतौ वैदिकव्यवहारेण प्रसिद्धः । ऋत्वभिज्ञा इत्यर्थः । ‘अर्चति गायति' इत्यादिषु चतुश्चत्वारिंशत्स्वर्चतिकर्मसु धातुषु जरते ह्वयति' (नि. ३. १४, ८) इति पठितम् । स्तुतेरपि अर्चनाविशेषत्वात् औचित्येनात्र स्तुत्यर्थों जरतिधातुः । अच्छशब्दस्य संहितायां ‘निपातस्य च' ( पा. सू. ६. ३. १३६ ) इति दीर्घः । सुतसोमा इत्यत्र बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरः ( पा. सू. ६. २. १ )। अहर्विद इत्यत्र समासस्वरं ( पा. सू. ६. १. २२३ ) बाधित्वा ‘तत्पुरुषे तुल्यार्थ° ( पा. सू. ६. २. २) इत्यादिना द्वितीयापूर्वपदप्रकृतिस्वरे प्राप्ते तदपवादत्वेन ‘गतिकारकोपपदात्कृत (पा. सू. ६. २. १३९ ) इति कृदुत्तरपदप्रकृतिस्वरः ॥
“Vāyu, your praisers praise you with holy praises having poured out Soma juice, and knowing the (fit) season.”
Knowing the days, with Soma juice poured forth, the singers glorify
Thee, Vayu, with their hymns of praise.
O Vāyu, with their hymns the singers sing you here—
they who have pressed soma, who understand the (ritual) days.
Der Feste kundig nahen nun, o Vaju, mit den Sprüchen dir Die Sänger und mit Somatrank
Vayu! Mit Lobgedichten singen die Sänger dir zu bei ausgepreßtem Soma der Zeiten kundig.
O Ваю, в хвалебных песнях славят
Тебя певцы,
При выжатом соме, зная (урочный) час.
वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ । उ॒रू॒ची सोम॑पीतये ॥
वायो॒ इति॑ । तव॑ । प्र॒ऽपृ॒ञ्च॒ती । धेना॑ । जि॒गा॒ति॒ । दा॒शुषे॑ । उ॒रू॒ची । सोम॑ऽपीतये ॥
हे वायो तव धेना वाक् सोमपीतये सोमपानार्थं दाशुषे दाश्वांसं दत्तवन्तं यजमानं जिगाति गच्छति । हे यजमान त्वया दत्तं सोमं पास्यामीत्येवं वायुर्ब्रूते इत्यर्थः। कीदृशी धेना । प्रपृञ्चती प्रकर्षेण सोमसंपर्क कुर्वती सोमगुणं वर्णयन्तीत्यर्थः । उरूची उरून् बहून् यजमानान् गच्छन्ती । ये ये सोमयाजिनस्तान् सर्वान् वर्णयन्तीत्यर्थः ॥ प्रपृञ्चतीत्यत्र ‘शतुरनुमः' ( पा. सू. ६. १. १७३ ) इति ङीप् उदात्तः । ‘श्लोकः धारा ' इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ' गणः धेना ग्नाः' ( नि. १. ११. ३९ ) इति पठितम् । वर्तते अयते' इत्यादिषु द्वाविंशाधिकशतसंख्येषु गतिकर्मसु “ गाति जिगाति' (नि. २. १४. ११३) इति पठितम् । दाशुषे इत्यत्र ‘गत्यर्थकर्मणि' (पा. सू. २. ३. १२ ) इति चतुर्थी । उरूचीत्यत्र गौरादित्वेन ( पा. सू. ४. १. ४१ ) ङीषि कृते प्रत्ययस्वरः । सोमपीतये इत्यत्र बहुव्रीहित्वाभावेऽपि व्यत्ययेन पूर्वपदप्रकृतिस्वरः ॥
“Vāyu, your approving speech comes to the giver (of the libation), and to many (others who invite you) to drink of the Soma juice.”
Vayu, thy penetrating stream goes forth unto the worshipper,
Far-spreading for the Soma draught.
O Vāyu, your nourishing stream infusing (the soma) is going along for the pious man—
the broadly spreading (stream) for soma-drinking.
O Vaju, deine Milchkuh naht weit ausgedehnt zum Somatrank Und schenkt dem Frommen reichlich Gut.
Vayu! Deine Lippe kommt würzend zum Opferspender, sich breit machend, um Soma zu trinken.
О Ваю, твой (все) заполняющий
Голос, простирающийся далеко,
Идет к почитающему (тебя) для питья сомы.
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि ॥
इन्द्र॑वायू॒ इति॑ । इ॒मे । सु॒ताः । उप॑ । प्रयः॑ऽभिः॒ । आ । ग॒त॒म् । इन्द॑वः । वाम् । उ॒शन्ति॑ । हि ॥
एतस्या ऋच ऐन्द्रवायवग्रहे द्वितीयपुरोनुवाक्यारूपेण विशेषविनियोगः पूर्वमेवोक्तः । हे इन्द्रवायू भवदर्थम् इमे सोमाः सुताः अभिषुताः। तस्मात् युवां प्रयोभिः अन्नैर् अस्मभ्यं दातव्यैः सह उप आ गतम्, अस्मत्समीपं प्रति आगच्छतम्। हि यस्मात् इन्दवः सोमाः वां युवाम् उशन्ति कामयन्ते तस्मात् आगमनमुचितम् ॥ इन्द्रवायूशब्दस्यामन्त्रिताद्युदात्तत्वम् ।
प्रीणयन्ति भोक्तॄनिति प्रयांस्य् अन्नानि । प्रीञ्धातोरन्तर्भावितण्यर्थात् (पा. सू. ३. १. २६ ) असुन्प्रत्यये सति नित्स्वरः ।
गमिधातोर् लोण्-मध्यम-पुरुष-द्विवचने ‘बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘अनुदात्तोपदेश' ( पा. सू. ६. ४. ३७) इत्यादिना मकालोपः । ततो गतम् इति भवति ।
‘उन्दी क्लेदने' इति धातोः ‘ उन्देरच्चादेः' (उ. सू. १. १२) इति उन्प्रत्ययः। आद्यक्षरस्य इकारादेशः । तत इन्दुशब्दस्य नित्स्वरः। सोमरसस्य द्रवत्वात् क्लेदनं संभवति। युष्मच्छब्दादेशस्य वामित्येतस्य ‘अनुदात्तं सर्वमपादादौ (पा. सू. ८. १. १८) इत्यनुदात्तः । उशन्तीत्यस्य निघाते ' हि च ' ( पा. सू. ८, १, ३४ ) इति सूत्रेण प्रतिषिद्धे सति प्रत्ययस्वरः । हिशब्दस्य निपातस्वरः ॥
“Indra and Vāyu, these libations are poured out (for you); come hither with food (for us); verily the drops (of the Soma juice) await you both. ”
These, Indra-Vayu, have been shed; come for our offered dainties' sake:
The drops are yearning for you both.
O Indra and Vayu, these draughts are ready;
Come ye for the libations,
For the drops desire you.
O Indra and Vāyu, here are the soma-pressings: come near with delight,
for the soma drops are eager for you.
Hier, Indra-Vaju, steht der Saft, so kommt zu ihm nach eurer Lust, Die Tropfen sehnen sich nach euch.
Indra und Vayu! Hier sind die gepreßten Tränke; kommet mit Freuden, denn die Somasäfte verlangen nach euch.
О Индра-Ваю, вот эти выжатые соки (сомы).
Придите с радостными чувствами:
Ведь капли (сомы) стремятся к вам!
वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू । तावा या॑त॒मुप॑ द्र॒वत् ॥
वायो॒ इति॑ । इन्द्रः॑ । च॒ । चे॒त॒थः॒ । सु॒ताना॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । तौ । आ । या॒त॒म् । उप॑ । द्र॒वत् ॥
अत्र चकारेणान्यः समुच्चीयते । संनिहितत्वाद्वायुरेव। हे वायो त्वम् इन्द्रश्च युवामुभौ सुतानाम् अभिषुतान् सोमान् चेतथः जानीथः । यद्वा। अभिषुतानां सोमानां विशेषमित्यध्याहारः। कीदृशौ युवाम्। वाजिनीवसू । वाजिनीशब्दो यद्यप्युषोनामसु पठितस्तथाप्यत्रासंभवान्न गृह्यते । वाजोऽन्नम् । तद्यस्यां हविः संततावस्ति सा वाजिनी । तस्यां वसत इति तौ वाजिनीवसू । आमन्त्रितत्वादनुदात्तः। तौ तथाविधौ युवां द्रवत् क्षिप्रम् उप समीपे आ यातम् आगच्छतम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसु ‘नु क्षिप्रं मधु द्रवत्' (नि. २. १५. ३ ) इति पठितम् । तत्र फिट्स्वरः ॥ ॥ ३ ॥
“Indra and Vāyu, abiding in the sacrificial rite, you are aware of these libations; come both (then) quickly hither.”
Well do ye mark libations, ye Vayu and Indra, rich in spoil
So come ye swiftly hitherward.
O Vāyu and Indra, you take note of the pressings, you two rich in prizewinning mares.
Drive right here at speed.
O Vaju, Indra, nehmet wahr der Tränke, labungsreiche ihr, So kommet eilig denn herbei.
Vayu und Indra! Ihr versteht euch auf die ausgepreßten Tränke, ihr Gewinnreichen. Kommet also eilig heran!
О Ваю и Индра, вы разбираетесь
В выжатых (соках сомы), о богатые наградой.
Быстро приходите вы оба!
वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् । म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥
वायो॒ इति॑ । इन्द्रः॑ । च॒ । सु॒न्व॒तः । आ । या॒त॒म् । उप॑ । निः॒ऽकृ॒तम् । म॒क्षु । इ॒त्था । धि॒या । न॒रा॒ ॥
हे वायो त्वम् इन्द्रश्च सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य निष्कृतं संस्कृतं संस्कर्तारं वा सोमम् उप आ यातम् आगच्छतम् । नरा हे नरौ पुरुषौ पौरुषेण सामर्थ्येनोपेतौ युवयोरागतयोश्च सतोः धिया अमुना कर्मणा मक्षु त्वरया संस्कारः संपत्स्यते। इत्था सत्यम्॥ वायो इत्यस्य ‘आमन्त्रितस्य (पा. सू. ६. १. १९८) इति षाष्ठिकमाद्युदात्तत्वम् । इन्द्रशब्दः ‘ ऋजेन्द्रा ' ( उ. सू. २. १८६ ) इत्यादिना रन्प्रत्ययान्तत्वेन निपातितो नित्यादिर्नित्यम् ' ( पा. सू. ६. १. १९७ ) इत्याद्युदात्तः । चशब्दः ‘चादयोऽनुदात्ताः' ( फि. सू. ८४ ) इत्यनुदात्तः । सुन्वत इत्यत्र ‘शतुरनुमो नद्यजादी' (पा. सू. ६. १. १७३) इति विभक्तेरुदात्तत्वम् । ‘ निरित्येष समित्येतस्य स्थाने ' ( निरु. १२. ७) इति यास्कः । कृतशब्द आदिकर्मणि कर्तरि क्तः ( पा, सू. ३. ४. ७१ ) । संस्कर्तुं प्रवृत्त इत्यर्थः । कुगतिप्रादयः' ( पा. सू. २. २. १८) इति समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते ' थाथघञ्ताादजबित्रकाणाम् ' ( पा. सू. ६. २. १४४ ) इत्यन्तोदात्तः । ‘गतिरनन्तरः ' ( पा. सू. ६. २. ४९ )। इति तु निसः उदात्तत्वं न भवति । तद्धि कर्मणि क्े विहितम् (पा. सू. ६. २. ४८ )। निष्करोतीति निष्कृदिति क्विबन्तव्याख्याने तु ‘गतिकारकोपपदात्कृत्' (पा. सू. ६. २. १३९ ) इति ऋकार उदात्तः स्यात् । धिया । सावेकाचस्तृतीयादिः° '( पा. सू. ६. १. १६८ ) इति विभक्तिरुदात्ता । नरा । ‘सुपां सुलुक्' ' ( पा. सू. ७. १. ३९ ) इत्यादिना संबोधनद्विवचनस्य डादेशः । पदापरत्वात् ' आमन्त्रितस्य' (पा. सू. ८. १. १९ ) इत्याष्टमिको निघातः ॥
“Vāyu and Indra, come to the rite of the sacrificer, for thus, men, will completion be speedily (attained) by the ceremony.”
Vayu and Indra, come to what the Soma. presser hath prepared:
Soon, Heroes, thus I make my prayer.
O Vāyu and Indra, drive right here to the appointed place of the soma-presser,
swiftly and according to our insight right to the point, you superior men.
O Vaju, Indra, stellt euch ein zum Ort des Somapressers rasch, O Männer, recht mit Achtsamkeit.
Vayu und Indra! Kommet zum Treffort des Somapressenden, alsbald, so recht nach Wunsch, ihr Herren!
О Ваю и Индра, к выжимающему (сому)
Придите на условное место –
В один миг, с неподдельным желанием, о два мужа!
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् । धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥
मि॒त्रम् । हु॒वे॒ । पू॒तऽद॑क्षम् । वरु॑णम् । च॒ । रि॒शाद॑सम् । धिय॑म् । घृ॒ताची॑म् । साध॑न्ता ॥
अहमस्मिन् कर्मणि हविष्प्रदानाय पूतदक्षं पवित्रबलं मित्रं हुवे। तथा रिशादसं रिशानां हिंसकानाम् अदसम् अत्तारं वरुणं च हुवे आह्वयामि । कीदृशौ मित्रावरुणौ । घृतमुदकमञ्चति भूमिं प्रापयति या धीर्वर्षणकर्म तां घृताचीं धियं साधन्ता साधयन्तौ कुर्वन्तौ ॥ मित्रशब्दः पुल्ँलिङ्गः प्रातिपदिकस्वरेणान्तोदात्तः । हुवे इति हूयतेः ‘बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘ह्वः संप्रसारणम्' (पा. सू. ६. १. ३२) इत्यनुवृत्तौ ‘बहुलं छन्दसि’ ( पा. सू. ६.१. ३४ ) इति संप्रसारणे उवङादेशः । तिङ्ङतिङः' (पा. सू ८. १. २८) इति निघातः। पूतशब्दः प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वरुणशब्दः ‘कॄवृदारिभ्य उनन्’ (उ. सू.३. ३३३) इति उनन्प्रत्ययान्तो नित्त्वादाद्युदात्तः । रिशन्ति हिंसन्तीति रिशाः शत्रवः। ‘इगुपधज्ञाप्रीकिरः कः' (पा. सू. ३. १. १३५ ) इति कः । प्रत्ययस्वरेणोदात्तः । तानत्तीति रिशादाः, तम् । ‘सर्वधातुभ्योऽसुन् ' ( उ. सू. ४, ६२८) इत्यसुन्प्रत्यये नित्स्वरेणोत्तरपदमाद्युदात्तम् । कृदुत्तरपदप्रकृतिस्वरेण स एवावशिष्यते। शेषनिघाते सति ‘एकादेश उदात्तेनोदात्तः' (पा. सू.८.२.५) इति सवर्णदीर्घोऽप्युदात्त एव। ‘धीः' इति ‘अपः' इत्यादिषड्विंशतौ कर्मनामसु (नि. २.१.२१)पठितः। प्रातिपदिकस्वरेणान्तोदात्तः । घृतमञ्चतीति घृताची । 'ऋविग्दधृक् ' (पा. सू. ३. २. ५९ ) इत्यादिना क्विनि “ अनिदिताम्' (पा. सू. ६. ४. २४) इति नकारलोपः । ‘अञ्चतेश्चोपसंख्यानम्' (पा. सू. ४. १. ६. २) इति ङीप्! ‘अचः' (पा. सू. ६. ४. १३८ ) इत्यकारलोपे ‘चौ ' (पा. सू. ६. ३. १३८ ) इति दीर्घत्वम् । घृतशब्दः ‘नब्विषयस्यानिसन्तस्य' (फि. सू. २६ ) इत्याद्युदात्तं बाधित्वा 'घृतादीनां च ' (फि. सू. २१ ) इत्यन्तोदात्तः। 'समासस्य' ( पा. सू. ६. १. २२३ ) इत्यन्तोदात्तस्यापवादकं तत्पुरुषे तुल्यार्थं° ' (पा. सू. ६. २. २) इतिपूर्वपदप्रकृतिस्वरं बाधित्वा ‘गतिकारकोपपदात् ' ( पा. सू. ६. २. १३९ ) इति उत्तरपदप्रकृतिस्वरेणोदात्तस्य धात्वकारस्य लोपे सति ‘अनुदात्तस्य च यत्रोदात्तलोपः' ( पा. सू. ६. १. १६१ ) इति ङीप उदात्तत्वे प्राप्ते ‘चौ ' ( पा. सू. ६. १. २२२) इति पूर्वपदान्तोदात्तत्वम् । साधन्ता । ‘राध साध संसिद्धौ ' इत्यस्मादन्तर्भावितण्यर्थात् लटः शत्रादेशे ( पा. सू. ३. २. १२४) क्षुं बाधित्वा व्यत्ययेन शप् । अदुपदेशत्वादुपरि शतृप्रत्ययस्य लसार्वधातुकानुदात्तत्वम् (पा. सू. ६. १. १८६) । द्वितीयाद्विवचनस्य शपश्च ‘अनुदात्तौ सुप्पितौ ' ( पा. सू. ३. १, ४) इत्यनुदात्तत्वे ‘धातोः ' (पा. सू. ६. १. १६२) इति धातुस्वर एव शिष्यते । ‘सुपां सुलुक्' (पा. सू. ७. १, ३९) इत्यादिना विभक्तेराकारादेशः ॥
“I invoke Mitra, of pure vigour, and Varuṇa, the devourer of foes; the joint accomplishers of the act bestowing water (on the earth).”
Mitra, of holy strength, I call, and foe-destroying Varuna,
Who make the oil-fed rite complete.
I call upon Mitra of refined skill and Varuṇa, who cares for the stranger, the two who send our ghee-covered insight to its goal.
Den heilgen Mitra rufe ich, den Feindverzehrer Varuna, Die Opfer segnen und Gebet:
Ich rufe den Mitra von lauterer Wirkenskraft und Varuna, den herrenstolzen, die beide das gesalbte Gedicht gelingen lassen.
Митру призываю я, обладающего чистой силой действия
И Варуну, заботящегося о чужом (?), –
(Их обоих), помогающих молитве, смазанной жиром.
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा । क्रतुं॑ बृ॒हन्त॑माशाथे ॥
ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒ता॒ऽवृ॒धौ॒ । ऋ॒त॒ऽस्पृ॒शा॒ । क्रतु॑म् । बृ॒हन्त॑म् । आ॒शा॒थे॒ इति॑ ॥
हे मित्रावरुणौ युवां क्रतुं प्रवर्तमानमिमं सोमयागम् आशाथे आनशाथे व्याप्तवन्तौ । केन निमित्तेन । ऋतेन अवश्यंभावितया सत्येन फलेन । अस्मभ्यं फलं दातुमित्यर्थः । कीदृशौ युवाम् । ऋतावृधौ । 'ऋतमित्युदकनाम' (निरु. २. २५), ‘सत्यं वा यज्ञं वा ' ( निरु. ४. १९) इति यास्कः । उदकादीनामन्यतमस्य वर्धयितारौ । अत एव ऋतस्पृशा उदकादीन् स्पृशन्तौ । कीदृशं क्रतुम् । बृहन्तम् अङ्गैरुपाङ्गैश्च अतिप्रौढम् ॥ ऋतशब्दो घृतादित्वादन्तोदात्तः । मित्रावरुणावित्यत्र मित्रश्च वरुणश्चेति मित्रावरुणौ । “ देवताद्वन्द्वे च ' ( पा. सू. ६. ३. २६ ) इति पूर्वपदस्य आनङादेशः । ऋतस्य वर्धयितारौ इत्यर्थेऽन्तर्भावितण्यर्थात् वृधेः क्विप् । ‘अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति पूर्वपदस्य दीर्घः । ऋतस्पृशा । ‘सुपां सुलुक् ' ( पा. सू. ७. १. ३९ ) इति डादेशः । मित्रावरुणावित्याद्यामन्त्रितत्रयस्य स्वस्वपूर्वपदात् परत्वात् ' आमन्त्रितस्य ' ( पा.
. ८. १. १९ ) इति आष्टमिको निघातः । ननु ऋतेन इत्येतस्य ‘सुबामन्त्रिते पराङ्गवत्स्वरे ' ( पा. सू. २. १. २) इति पराङ्गवद्भावेन आमन्त्रितानुप्रवेशात् पादादित्वेन पदादपरत्वेन वा आष्टमिकनिघाताभावात् ' आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८ ) इत्याद्युदात्तेन भवितव्यमिति चेत्, न। पराङ्गवद्भावस्य सुबामन्त्रिताश्रयत्वेन पदविधित्वात् ‘समर्थः पदविधिः' (पा. सू. २. १. १) इति नियमात् । इह च ऋतेन मित्रावरुणौ इत्यनयोः आशाथे इति आख्यातेनैवान्वयेन परस्परमसामर्थ्यात् । यत्र पुनः परस्परान्वयेन सामर्थ्यं तत्र पराङ्गवद्भावात् पादादेः आद्युदात्तत्वं भवत्येव । यथा 'मरुतां पितस्तदहं गृणामि ' इति । ' मृग्रोरुतिः ' ( उ. सू. १. ९४ ) । इति उतिप्रत्ययान्तत्वेन ‘पृश्नियै वै पयसो मरुतो जाताः' (तै. सं. २. २. ११. ४ ) । इत्यादौ अन्तोदात्तोऽपि हि मरुच्छब्दो ‘ मरुतां पितः' इत्यत्र सामर्थ्यात् पराङ्गवद्भावादेव आद्युदात्तो जातः । प्रकृते तु ऋतेन इत्यस्यासामर्थ्यादेव न पराङ्गवद्भाव इति । ऋतावृधावित्यत्र द्वितीयामन्त्रितस्य निघाते कर्तव्ये ‘आमन्त्रितं पूर्वमविद्यमानवत् ' ( पा. सू. ८. १.७२ ) इति प्रथमामन्त्रितेन अविद्यमानवद्भवितव्यमिति चेत्, भवतु । अत एव तस्याव्यवधायकत्वात् ऋतेन इति प्रथमपदात् परत्वेनैव द्वितीयामन्त्रितं निहनिष्यते । यथा “ इमं मे गङ्गे यमुने' ( ऋ. सं. १०. ७५, ६ ) इत्यादौ गङ्गेशब्दस्याविद्यमानवद्भावेऽपि तस्याव्यवधायकत्वादेव मे इत्येतदेव पदमुपजीव्य यमुनेशब्दस्य निघातः । किं च प्रकृते मित्रावरुणौ इत्यामन्त्रितं सामान्यवचनम् । तस्य विशेषणतया विशेषवचनम् ऋतावृधाविति । अतः ‘ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' ( पा. सू. ८. १.७३ ) इति पूर्वस्याविद्यमानवद्भावप्रतिषेधादपि निरन्तरायो द्वितीयस्य निघातः ॥ ननु एवमपि ‘अपादादौ ' (पा. सू. ८. १. १८) इत्यनुवृत्तेर्ऋतावृधेत्यस्य द्वितीयपादादित्वान्न भवितव्यं निघातेन । अत एव हि ‘इमं मे गङ्गे' इत्यत्र शुतुद्रिपदस्य पदात् परस्य आमन्त्रितस्यापि पादादित्वादेव अनिघातादाद्युदात्तत्वं जातम् । तद्वदत्रापि भवितव्यं वक्तव्यो वा विशेष इति ॥ उच्यते---मित्रावरुणपदस्य ‘सुबामन्त्रिते० ' ( पा. सू. २. १. २) इति पराङ्गवद्भावेन परानुप्रवेशादेव ऋतावृधेत्यस्य न पादादित्वम् । शुतुद्रिपदमपि तर्ह्येवमेव पूर्वस्य सरस्वतिपदस्य पराङ्गवद्भावेन न पादादिरिति निहन्येत इति चेत्, न । पराङ्गवद्भीवस्तावत् सुबन्तमामन्त्रितं चाश्रित्य प्रवृत्तेः' पदविधिः । अतस्तयोः सत्येव परस्परान्वये पराङ्गवद्भावेन भवितव्यं समर्थः पदविधिः' (पा, सू. २. १. १ ) इति नियमात् । शुतुद्रिसरस्वतिपदयोश्च न परस्परेणान्वयः किंतु सचत इत्यनेन इत्यसामर्थ्यात् न पराङ्गवद्भावः । प्रकृते तु मित्रावरुणौ ऋतावृधौ इति द्वयोरपि सामानाधिकरण्येन परस्परान्वयादस्तिसामर्थ्यमिति भवितव्यं पराङ्गवद्भावेन । यथा “ मरुतां पितः' इत्यत्रेति विशेषः ॥ ननु अत एव तर्हि मित्रावरुणपदस्य पराङ्गवद्भावेन पादादित्वात् “ अपादादौ ' इति पर्युदासादामन्वितनिघातो न स्यादिति चेत् , न । पूर्वं सुबन्तं परं चामन्त्रितमाश्रित्य यः स्वरः प्रवर्तते तत्र ‘सुबामन्त्रिते' इति पराङ्गवद्भावः । भवति चैवंविध ऋतावृधपदनिघात इति । तत्र पूर्वस्य पराङ्गवद्भावेनापादादित्वात् स प्रवर्तते । मित्रावरुणपदनिघातस्तु पूर्वमेव पदमुपजीवति न परमामन्त्रितमिति न पराङ्गवद्भावः ॥ ननु पराङ्गवद्भाववन्निघातोऽपि पदविधिरिति ऋतेन इत्यनेनासामर्थ्यात् ततः पदात्परस्य मित्रावरुणपदस्य न स्यात् इति चेत्, न । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' (पा. सू. २. १. १. ११) इति निघाते पदविधावपि समानवाक्यत्वमेव पर्याप्तं, न पराङ्गवद्भाववत् परस्परान्वयोऽपीत्यलम् । क्रतुम् । ‘कृञः कतुः' (उ. सू. १. ७७ )। प्रत्ययस्वरेणादिरुदात्तः । आशाथे आनशाथे। 'छन्दसि लुङ्लङ्लिटः ' ( पा. सू. ३. ४. ६) इति वर्तमाने लिट् । नुडभावश्छन्दसः ॥
“Mitra and Varuṇa, augmenters of water, dispensers of water, you connect this perfect rite with its true (reward).”
Mitra and Varuna, through Law, lovers and cherishers of Law,
Have ye obtained your might power.
By truth— o Mitra and Varuṇa, strong through truth, touching truth— you have attained your lofty purpose.
Durch Recht, o Mitra-Varuna, die Recht ihr liebt und Recht beschirmt, Habt hohe Weisheit ihr erlangt.
Durch die Wahrheit habt ihr, Mitra und Varuna, ihr Wahrheitsmehrer, Wahrheits-pfleger, hohe Einsicht erlangt.
Истиной, о Митра-Варуна,
Умножающие истину, лелеющие истину,
Вы достигли высокой силы духа.
क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ । दक्षं॑ दधाते अ॒पस॑म् ॥
क॒वी इति॑ । नः॒ । मि॒त्रावरु॑णा । तु॒वि॒ऽजा॒तौ । उ॒रु॒ऽक्षया॑ । दक्ष॑म् । द॒धा॒ते॒ इति॑ । अ॒पस॑म् ॥
मित्रावरुणावेतौ देवौ नः अस्माकं दक्षं बलम् अपसं कर्म च दधाते पोषयतः। कीदृशौ। कवी मेधाविनौ। तुविजातौ बहूनामुपकारकतया समुत्पन्नौ । उरुक्षया बहुनिवासौ । ‘विप्रः धीरः' इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु ' कविः मनीषी' ( नि. ३. १५. १०) इति पठितम् । ‘उरु तुवि ' (नि. ३. १. १, २) इत्येतौ शब्दौ द्वादशसु बहुनामसु पठितौ । ‘ओजः पाजः' इत्यादिषु अष्टाविंशति संख्याकेषु बलनामसु ‘दक्षः वीळु' (नि. २. ९. १३) इति पठितम् । अपःशब्दः षड्विंशतिसंख्याकेषु कर्मनामसु पठितः (नि. २. १. १) ॥ मित्रावरुणा । मित्रशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। वरुणशब्दो नित्स्वरेणाद्युदात्तः । द्वन्द्वे देवताद्वन्द्वे च' ( पा. सू. ६. २. १४१ ) इत्युभौ अवशिष्येते । तुविजातौ । बहूनामुपकारकतया तत्संबन्धित्वेन जाताविति षष्ठीसमासे समासान्तोदात्तत्वम् । चतुर्थी समासे हि क्ते च' (पा. सू. ६. २. ४५) इति पूर्वपदप्रकृतिस्वरः स्यात् । उरूणां बहूनां क्षयौ उरुक्षयौ । ‘क्षि निवासगत्यो-' इति धातोः क्षियन्त्यस्मिन्निति क्षयः । अधिकरणे ‘एरच् ' ( पा. सू. ३. ३. ५६ ) इत्यच्प्रत्ययान्तस्य ‘चितः' ( पा. सू. ६. १, १६३) इत्यन्तोदात्तत्वे प्राप्ते 'क्षयो निवासे' (पा. सू. ६. १. २०१ ) इत्याद्युदात्तत्वं विहितम् । समासे तु ‘समासस्य' (पा. सू. ६. १. २२३ ) इत्यन्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण प्राप्तमुत्तरपदाद्य़ुदात्तत्वं यद्यपि थाथादिस्वरेणान्तोदात्तेन बाध्यते, तथापि ‘परादिश्छन्दसि बहुलम् । (पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वं द्रष्टव्यम् । दक्षो दक्षतेरुत्साहकर्मणो घञ् । ञित्वादाद्युदात्तः । आप्यते फलमनेन इति अपः कर्म । ‘आपः कर्माख्यायां ह्रस्वो नुट्च वा' (उ. सू. ४. ६४७ ) इत्यसुनन्तस्य ‘अपसस्पारे' ( ऋ. सं. ६. ६९. १) इत्यादौ नित्त्वादाद्युदात्तस्यापि अपःशब्दस्य अत्र व्यत्ययेन प्रत्ययाद्युदात्तत्वम् ॥ ॥ ४ ॥
“Sapient Mitra and Varuṇa, prosper our sacrifice and increase our strength; you are born for the benefit of many, you are the refuge of multitudes.”
Our Sages, Mitra-Varuna, wide dominion, strong by birth,
Vouchsafe us strength that worketh well.
The two sage poets, Mitra and Varuṇa, powerfully born, having a wide dwelling place,
furnish us effective skill.
Die Seher Mitra-Varuna, weitherrschend, mächtig von Geburt, Verleihn zum Werk uns Tüchtigkeit.
Die beiden Seher Mitra und Varuna von starker Art, mit weitem Wohnsitz, verleihen uns geschickte Wirkenskraft.
Пара прозорливцев Митра-Варуна,
Сильного рода, с обширным жилищем
(Они) дают нам искусную силу действия.