अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या । अका॑रि रत्न॒धात॑मः ॥
अ॒यम् । दे॒वाय॑ । जन्म॑ने । स्तोमः॑ । विप्रे॑भिः । आ॒स॒या । अका॑रि । र॒त्न॒ऽधात॑मः ॥
ऋभवो हि मनुष्याः सन्तस्तपसा देवत्वं प्राप्ताः । ते चात्र सूक्ते देवताः । तत्संघो जायमानवाचिना जन्मशब्देन एकवचनान्तेन अत्र निर्दिश्यते । जन्मने जायमानाय ऋभुसंघरूपाय देवाय तत्प्रीत्यर्थम् अयं स्तोमः स्तोत्रविशेषः विप्रेभिः मेधाविभिः ऋत्विग्भिः आसया स्वकीयेनास्येन अकारि निष्पादितः । कीदृशः स्तोमः । रत्नधातमः अतिशयेन रमणीयमणिमुक्तादिधनप्रदः । स्तोत्रेण तुष्टा ऋभवो धनं प्रयच्छन्तीत्यर्थः ॥ आसया। आस्यशब्दात् तृतीयैकवचनस्य • सुपां सुलुक् । इत्यादिना याजादेशः । व्यत्ययेन प्रकृतियकारस्य लोपः । ‘ चितः 'इत्यन्तोदात्तः । रत्नधातमः । रत्नानि दधातीति रत्नधाः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“This hymn, the bestower of riches, has been addressed by the sages, with their own mouths, to the (class of) divinities having birth (lit. to the divine or brilliant birth; e.g. Ṛbhus--Ṛbhu, Vibhu and Vāja were pious men, who through penance became divinities).”
FOR the Celestial Race this song of praise which gives wealth lavishly
Was made by singers with their lips.
This praise here has been made for the godly breed by the inspired poets by mouth—
a praise that best confers treasures.
Dies Loblied, welches Schatz verschafft, ist vor der Götter Angesicht Vom Sänger ihrem Stamm gemacht.
Dem göttlichen Geschlecht ist von den Redekundigen mit dem Munde das Loblied bereitet worden, das recht viel Lohn einbringt.
Эта хвала божественному роду
Создана вдохновенными – их устами -,
(Она,) приносящая самые большие сокровища.
य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ । शमी॑भिर्य॒ज्ञमा॑शत ॥
ये । इन्द्रा॑य । व॒चः॒ऽयुजा॑ । त॒त॒क्षुः । मन॑सा । हरी॒ इति॑ । शमा॑ईभिः । य॒ज्ञम् । आ॒श॒त॒ ॥
ये ऋभवः इन्द्राय इन्द्रप्रीत्यर्थं वचोयुजा ताडनादिकं विना वाङ्मात्रेण रथे युज्यमानौ सुशिक्षितौ हरी एतन्नामकावश्वौ मनसा ततक्षुः संपादितवन्तः । ऋभूणां सत्यसंकल्पत्वात् तत्संकल्पमात्रेण इन्द्रस्याश्वौ संपन्नावित्यर्थः । ते ऋभवः शमीभिः ग्रहचमसादिनिष्पादनरूपैः कर्मभिः यज्ञम् अस्मदीयम् आशत व्याप्तवन्तः । अपः अप्नः' इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु • शमी शिमी (नि. २. १. २३ ) इति पठितम् । वचोयुजा । वचसा युञ्जाते । सत्सूद्विष° ' इत्यादिना क्विप् । ‘ सुपां सुलुक्' इत्यादिना विभक्तेः आकारः। कृदुत्तरपदप्रकृतिस्वरः । ततक्षुः। तक्षू त्वक्षू तनूकरणे'। लिटि झेः उसादेशः । पादादित्वादनिघातः । शमीभिः । शमयन्ति पापानीति शम्यः कर्माणि ॥ औणादिकः इन् । कृदिकारादक्तिनः ' ( पा. सू. ४. १. ४५ ग. ) इति ङीष् । वृषादित्वादाद्युदात्तः । आशत । अशू व्याप्तौ ' । लङि झस्य अदादेशः । ‘ स्वादिभ्यः श्नुः । तस्य ‘बहुलं छन्दसि इति लुक् । आडागमः। ‘ तिङ्ङतिङः' इति निघातः ॥
“They who created mentally for Indra the horses that are harnessed (carved) at his words, have partaken of the sacrifice performed with holy acts. (śamībhiḥ = ceremonies; i.e. they have pervaded, appropriated or accepted the sacrifice peformed with tongs, ladles, and utensils; an intimation of the mechanical skills of Ṛbhu).”
They who for Indra, with their mind, formed horses harnessed by a word,
Attained by works to sacrifice.
Those who fashioned for Indra with mind the two fallow bays yoked by speech,
they attained the sacrifice through their labors.
Die klug dem Indra zimmerten das wortgeschirrte Füchsepaar, Erlangten Opfer durch ihr Werk.
Die für Indra das aufs Wort sich schirrende Falbenpaar mit Verstand zimmerten, sie haben durch ihre Meisterwerke das Recht auf Opfer erlangt.
(Те,) что для Индры вытесали умело
Пару буланых коней, запрягаемых словом,
Трудами добились (права на) жертву.
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् । तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥
तक्ष॑न् । नास॑त्याभ्याम् । परि॑ऽज्मानम् । सु॒ऽखम् । रथ॑म् । तक्ष॑न् । धे॒नुम् । स॒बः॒ऽदुघा॑म् ॥
नासत्याभ्याम् अश्विदेवप्रीत्यर्थं रथं तक्षन् ऋभवो देवाः कंचिद्रथमतक्षन् तक्षणेन संपादितवन्तः । कीदृशम् । परिज्मानं परितो गन्तारं सुखं उपर्युपवेशने सुखकरम् । किंच ”धेनुx कांचिद्गां तक्षन् । धातूनामनेकार्थत्वात् तक्षतिरत्र संपादनवाची । कीदृशीं धेनुम् । सबर्दुघां सबरः क्षीरस्य दोग्ध्रीम् ॥ तक्षन् ।' बहुलं छन्दसि° ' ( पा. सू. ६. ४. ७५ ) इति अडभावः । नासत्याभ्याम् । न विद्यते सत्यं ययोस्तौ असत्यौ । न असत्यौ नासत्यौ ।' नभ्राण्नपात्' ( पा. सू. ६. ३. ७५) इत्यादिना नलोपाभावः। परिज्मानम् । अजेः परिपूर्वस्य ‘ श्वन्नुक्षन् ' ( उ. सू. १. १५७ ) इत्यादिना मन्प्रत्यये अकारलोपः आद्युदात्तत्वं च निपातनात् । सबर्दुघाम् । सबः पयः दोग्धीति सबर्दुघा । 'दुहः कब्धश्च ' ( पा. सू. ३. २. ७० ) इति कप् । सबर् इति रेफान्तं प्रातिपदिकं क्षीरवाची इति संप्रदायविदः। कपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरः॥
“They constructed for the Nāsatyās, a universally-moving and easy car, and a cow yielding milk. (takṣan = atakṣan, lit. they (Ṛbhus) chipped or fabricated, mechanically, the appendages of Indra and Aśvin).”
They for the two Nasatyas wrought a light car moving every way:
They formed a nectar-yielding cow.
They fashioned for the Nāsatyas an earth-circling, well-naved chariot; they fashioned a juice-yielding milk-cow.
Den treuen Rittern schufen sie den Wagen, der im Fluge kreist, Und auch die Kuh, die Nektar strömt.
Sie zimmerten den Nasatya´s den umherfahrenden, leichtlaufenden Wagen, sie bildeten die Kuh des Sabardugha.
Они вытесали для двух Насатьев
Быстроходную колесницу, объезжающую вокруг (вселенной).
Они вытесали дойную корову, всегда доящуюся.
युवा॑ना पि॒तरा॒ पुन॑: स॒त्यम॑न्त्रा ऋजू॒यव॑: । ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥
युवा॑ना । पि॒तरा॑ । पुन॒रिति॑ । स॒त्यऽम॑न्त्राः । ऋ॒जू॒ऽयवः॑ । ऋ॒भवः॑ । वि॒ष्टी । अ॒क्र॒त॒ ॥
ऋभव एतन्नामका देवाः पितरौ स्वकीयौ मातापितरौ पूर्वं वृद्धावपि पुनः युवाना तरुणौ अक्रत कृतवन्तः । कीदृशाः । सत्यमन्त्राः अवितथमन्त्रसामर्थ्योपेताः । पुरश्चरणाद्यनुष्ठानेन सिद्धमन्त्रत्वात् यद्यत्फलमुद्दिश्य मन्त्राः प्रयुज्यन्ते तत्तत्फलं तथैव संपद्यते । तस्मात् जीर्णयोः पित्रोर्युवत्वं संपादयितुं समर्था इत्यर्थः । ऋजूयवः ऋजुतामात्मन इच्छन्तः छलरहिता इत्यर्थः । अत एव एतेषामनुष्ठिता मन्त्राः सिध्यन्ति । विष्टी विष्टयो व्याप्तियुक्ताः । सर्वेषु कार्येषु एतदीयस्य मन्त्रसामर्थ्यस्याप्रतिघातोऽत्र व्याप्तिरुच्यते । ऋभुशब्दं यास्क एवं निर्वक्ति- ऋभव उरु भान्तीति वर्तेन भान्तीति वर्तेन भवन्तीति वा ' ( निरु. ११. १५ ) इति ॥ युवाना । युवन्शब्दो यौतेः कनिनन्तो नित्त्वादाद्युदात्तः । ‘ सुपां सुलुक् ' इत्यादिना विभक्तेः आकारः । पितरा । पूर्ववदाकारः । सत्यमन्त्राः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ‘ऋजुशब्दो भावपरः । ऋजुत्वमात्मन इच्छन्ति । क्यच् ।' अकृत्सार्वधातुकयोर्दीर्घः' ( पा. सू. ७. ४, २५ ) इति दीर्घः । ‘ क्याच्छन्दसि ' ( पा. सू. ३. २. १७० ) इति उप्रत्ययः ॥ प्रत्ययस्वरः । विष्टी । “ विष्लृ व्याप्तौ ' । ‘क्तिच्क्तौ च संज्ञायाम् ' ( पा. सू. ३. ३. १७४ ) इति क्तिच् । ‘ तितुत्र° ' इत्यादिना इट्प्रतिबन्धः । तस्मात् जसः ‘इयाडियाजीकाराणामुपसंख्यानम् ( पा. सू. ७. १. ३९. १ ) इति तस्य ईकारादेशः । स च ‘ अलोऽन्त्यस्य ' ( पा. सू. १. १. ५२ ) इति सकारस्य भवति । ततः ‘आद्गुणः' इति गुणे कृते ‘ प्रथमयोः पूर्वसवर्णः' (पा. सू. ६. १. १०२ ) इति पूर्वसवर्णदीर्घः । तं बाधित्वा परत्वात् ' जसि च ' (पा. सू. ७. ३. १०९) इति ह्रस्वस्य गुणेन भवितव्यमिति चेत्, न। संज्ञापूर्वकस्य विधेरनित्यत्वात् । अक्रत । कृञो लुङ । आत्मनेपदम् । झस्य अदादेशः। ‘ मन्त्रे घस' (पा. सू. २. ४. ८०) इत्यादिना च्लेर्लुक् । यणादेशः । अडागमः । निघातः ॥
“The Ṛbhus, uttering unfailing prayers, endowed with rectitude, and succeeding (in all pious acts; viṣṭī = vyāptiyuktaḥ, i.e. encountering no opposition in all acts), made their (aged) parents young.”
The Rbhus with effectual prayers, honest, with constant labour, made
Their Sire and Mother young again.
They whose mantras come true, who aim straight—the R̥bhus—
made their parents young again through their toil.
Durch kräft'ge Sprüche machten sie die alten Aeltern wieder jung, Die treuen Ribhu's durch ihr Mühn.
Worthaltend, mit redlichem Streben haben die Ribhus ihre Eltern durch Dienstleistung wieder jung gemacht.
Прямодушные Рибху, чьи молитвы истинны,
(Своим) трудом сделали (так),
Что (их) родители стали снова юными.
सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता । आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥
सम् । वः॒ । मदा॑सः । अ॒ग्म॒त॒ । इन्द्रे॑ण । च॒ । म॒रुत्व॑ता । आ॒दि॒त्येभिः॑ । च॒ । राज॑ऽभिः ॥
हे ऋभवः वः युष्माकं संबन्धिनः मदासः मदहेतवः सोमाः इन्द्रेण च आदित्येभिः आदित्यैः च सम् अग्मत संगताः । ऋभूणामिन्द्रादित्यैः सह सोमपानं तृतीयसवनेऽस्ति । अत एव आवाहननिगदः आश्वलायनेनैवं पठितः - इन्द्रमादित्यवन्तमृभुमन्तं विभुमन्तं वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमावह ' ( आश्व. श्रौ. ५. ३) इति । कीदृशेनेन्द्रेण मरुत्वता मरुद्भिर्युक्तेन । अत एव मन्त्रान्तरमेवमाम्नायते - मरुद्भिरिन्द्र सख्यं ते अस्तु ' ( ऋ. सं. ८.९६. ७) इति । कीदृशैरादित्येभिः । राजभिः दीप्यमानैः ॥ मदासः । माद्यति एभिरिति मदाः सोमाः । ‘ मदोऽनुपसर्गे ' (पा. सू. ३. ३. ६७ ) इत्यप् । तस्य पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । आजसेरसुक् ' इति जसः असुगागमः । अग्मत। गमेः संपूर्वात् लुङ् । समो गम्यृच्छि° ' (पा. सू. १. ३. २९ ) इत्यादिना आत्मनेपदम् । झस्य अदादेशः । ‘ मन्त्रे घस ' इत्यादिना । च्लेर्लुक् ।' गमहन' (पा. सू. ६. ४. ९८ ) इत्यादिना उपधालोपः । ‘ व्यवहिताश्च ' इति समो व्यवहितप्रयोगः । निघातः । मरुत्वता । मरुतोऽस्य सन्तीति मरुत्वान् ।' तसौ मत्त्वर्थे ' ( पा. सू. १. ४. १९ ) इति भसंज्ञया पदसंज्ञाया बाधितत्वात् जश्त्वाभावः । ‘ झयः ' ( पा. सू. ८. २. १०) इति मतुपो वत्वम् । आदित्येभिः । ‘ बहुलं छन्दसि ' ( पा. सू. ७. १. १०) इति भिस ऐसादेशाभावे ' बहुवचने झल्येत्' इति एत्वम् । राजभिः । राजन्शब्दस्य कनिनन्तत्वेन नित्त्वादाद्युदात्तत्वम् ॥ ॥ १ ॥
“Ṛbhus, the exhilarating juices are offered to you, along with Indra, attended by the Maruts and along with the brilliang Ādityas.”
Together came your gladdening drops with Indra by the Maruts girt,
With the Adityas, with the Kings.
Your exhilarating drinks have united with Indra accompanied by the Maruts
and with the kingly Ādityas.
Ihr nahmt an den Gelagen Theil mit Indra und der Marutschar, Den Herrschern, den Aditja's, auch.
Eure Trunkfreude hat sich mit Indra in Begleitung der Marut und den Adityas, den Königen, vereinigt.
Ваши радости опьянения (сомой) сошлись
С Индрой, сопровождаемым Марутами,
И с Адитьями-царями.
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् । अक॑र्त च॒तुर॒: पुन॑: ॥
उ॒त । त्यम् । च॒म॒सम् । नव॑म् । त्वष्टुः॑ । दे॒वस्य॑ । निःऽकृ॑तम् । अक॑र्त । च॒तुरः॑ । पुन॒रिति॑ ॥
उत अपि च त्वष्टुः एतन्नामकस्य देवस्य संबन्धी तक्षणव्यापारः नवं नूतनं त्यं चमसं तं सोमधारणक्षमं काष्ठपात्रविशेषं निष्कृतं निःशेषेण संपादितमकरोदिति शेषः । तक्षणव्यापारकुशलस्य त्वष्टुः शिष्याः ऋभवः तेन निर्मितं तमेकं चमसं पुनरपि चतुरः अकर्त चतुर्धा विभक्तांश्चमसान् कृतवन्तः । एकस्य चतुर्विधत्वकरणरूपोऽयमर्थो मन्त्रान्तरेऽपि विस्पष्टः - ‘ एक चमसं चतुरः कृणोतन ' (ऋ. सं. १. १६१. २ ) इति ॥ नवम्। णु स्तुतौ' । नूयत इति नवम् । कर्मणि अप्प्रत्ययः । स हि घञोऽपवादत्वात् घञर्थे सर्वत्र भवति । घञ्प्रत्ययश्च ‘अकर्तरि च कारके संज्ञायाम् ' ( पा. सू. ३. ३. १९ ) इति कर्तृव्यतिरिक्ते सर्वत्र कारके भवति । यद्यपि तत्र संज्ञायां इत्युक्तं तथापि चकारस्य संज्ञाव्यभिचारार्थत्वात् असंज्ञायामपि भवत्येव । संबध्यते इति संबन्धः। कर्मणि घञ् इत्युक्तम् । त्वष्टुः । ‘ तक्षू त्वक्षू तनूकरणे'। औणादिकस्तृन् । ऊदित्वात्पक्षे इडभावः (पा. सू. ७. २. ४४ )।' स्कोः संयोगाद्योरन्ते च ' (पा. सू. ८. २. २९) इति ककारलोपः । निष्कृतम् । कृञो निरुपसृष्टात् कर्मणि क्तः । प्रादिसमासे ‘ नित्यं समासेऽनुत्तरपदस्थस्य' (पा. सू. ८. ३. ४५ ) इति षत्वम् । अत्र ‘कर्तृकर्मणोः कृति' ( पा. सू. २. ३. ६५) इति प्राप्ता षष्ठी यद्यपि न लोकाव्यय' (पा. सू. २. ३. ६९) इति निषिद्धा तथापि कर्तुः शेषत्वेन विवक्षितत्वात् ‘कर्तृकरणयोस्तृतीया' (पा. सू. २. ३. १८) इत्येतस्याः प्राप्तेः शैषिकी षष्ठी ( पा. सू. २. ३. ५० )। यथा कर्मणि शेषत्वेन विवक्षिते माषाणामश्नीयात् इति । गतिरनन्तरः' इति निस उदात्तत्वम् । अकर्त अकृषत । कृञो लुङि झस्य व्यत्ययेन तादेशः । ‘ मन्त्रे घस' इत्यादिना च्लेर्लुक् । 'छन्दस्युभयथा ' इति तिङ आर्धधातुकत्वात् ङित्त्वाभावेन गुणः। चतुरः । ‘ चतुरः शसि ' ( पा. सू. ६. १. १६७ ) इत्युकार उदात्तः । पुनः । स्वरादिष्वाद्युदात्तः पठितः ॥
“The Ṛbhus have divided unto four the new ladle, the work of the divine Tvaṣṭā (i.e. devasambandhiḥ takṣana.vyāpāraḥ = divinity whose duty in relations to gods is carpentry; cf. tvaṣṭā tvaṣṭuḥ śiṣyāḥ Ṛbhavaḥ = Ṛbhus are the disciples of Tvaṣṭā; four ladles are an apparent reference to an innovation in the objects of libation for sharing).”
The sacrificial ladle, wrought newly by the God Tvastar's hand--
Four ladles have ye made thereof.
And this beaker of the god Tvaṣṭar new produced
you made again into four.
Und jenes neue Trinkgefäss, das Werk des Gottes Tvaschtar habt Zu vier Gefässen ihr geformt.
Und jenen Becher, das neue Werk des Gottes Tvastri, habt ihr vierfach wiederholt.
И тот новый отделанный
Кубок бога Тваштара
Вы переделали на четыре (кубка).
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते । एक॑मेकं सुश॒स्तिभि॑: ॥
ते । नः॒ । रत्ना॑नि । ध॒त्त॒न॒ । त्रिः । आ । साप्ता॑नि । सु॒न्व॒ते । एक॑म्ऽएकम् । सु॒श॒स्तिऽभिः॑ ॥
पूर्वास्वृक्षु ये प्रतिपादिता ऋभवः ते यूयं सुशस्तिभिः शोभनैरस्मदीयशंसनैर्युक्ताः सन्तः नः अस्माकं सबन्धिने सुन्वते सोमाभिषवं कुर्वते यजमानाय रत्नानि रमणीयानि सुवर्णमणिमुक्तादीनि धनानि एकमेकं क्रमेण प्रत्येकं धत्तन प्रयच्छत । सुवर्णादीनां मध्ये प्रतिद्रव्यं यावदपेक्षितं तावदिति विवक्षया एकमेकमित्युक्तम् । कीदृशानि रत्नानि । त्रिरा त्रिवारम् आवृत्तानि । उत्तमानि मध्यमान्यधमानि च इत्येवं रत्नानां त्रिरावृत्तिः । किंच साप्तानि सप्तसंख्यानिष्पन्नवर्गरूपाणि कर्माणि च धत्तन संपादयत । कीदृशानि साप्तानि । त्रिरा त्रिवारम् आवृत्तानि । अग्न्याधेयदर्शपूर्णमासादीनां सप्तानां हविर्यज्ञानामेको वर्गः । औपासनहोमो वैश्वदेवमित्यादीनां सप्तानां पाकयज्ञानां वर्गो द्वितीयः । अग्निष्टोमोऽत्यग्निष्टोम इत्यादीनां सप्तानां सोमसंस्थानां वर्गस्तृतीयः ॥ रत्नानि । “ रमु क्रीडायाम् । ‘नित्' इत्यनुवृत्तौ ‘ रमेस्त च' (उ. सू. ३. २९४) इति नप्रत्ययः; तत्संनियोगेन मकारस्य तकारः । नित्त्वादाद्युदात्तः । धत्तन धत्त । ‘ तप्तनप्तनथनाश्च ' इति तशब्दस्य तनादेशः । सप्तानां वर्गः साप्तम्। ‘ सप्तनोऽञ् छन्दसि ' ( पा. सू. ५, १. ६१ ) इति वर्गे अञ्प्रत्ययः । ‘ नस्तद्धिते ' (पा. सू. ६. ४. १४४ ) इति टिलोपः । ञित्त्वादादिवृद्धिः आद्युदात्तत्वं च । अत्र वर्गवचनेनानेन वर्गिणो लक्ष्यन्ते तेन बहुवचनम् । अन्यथा ह्येक एव वर्गस्त्रिरावृत्त इत्येकवचनमेव स्यात् । सुन्वते । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । एकमेकम् । नित्यवीप्सयोः' इति वीप्सायां द्विर्भावः । एकशब्द इणः कनन्तो नित्त्वादाद्युदात्तः । द्वितीयस्यैकशब्दस्य तस्य परमाम्रेडितम्' इति आम्रेडितसंज्ञायाम् ‘ अनुदात्तं च ' ( पा. सू. ८. १. ३ ) इत्यनुदात्तत्वम् । सुशस्तिभिः । शस्यते आभिरिति शस्तयः ऋचः । ‘ शंसु स्तुतौ ' । करणे क्तिन् । तस्य कित्त्वात् लोपः । शोभनाः शस्तयः इति प्रादिसमासे यद्यपि च क्तिनो नित्त्वादाद्युदात्तत्वेन कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव प्राप्तं, तत्तु परेण ‘ मन्क्तिन्व्याख्यान' (पा. सू. ६. २. १५१ ) इत्यादिना उत्तरपदान्तोदात्तत्वेन बाध्यते ॥
“May they, moved by our praises, give to the offere of the libation many precious things, and perfect the thrice seven sacrifices”
Vouchsafe us wealth, to him who pours thrice seven libations, yea, to each
Give wealth, pleased with our eulogies.
On us, on the soma-presser confer treasures, three times seven,
one after the other, for good lauds.
Verleihet nun uns Güter denn, je dreimal sieben dem, der presst, Eins nach dem andern fürs Gebet.
Bringet uns Kleinode, dreimal siebenfältige dem Somapressenden, je eines für die schönen Preisworte!
Дайте нам те сокровища – (числом)
Трижды семь – для выжимающего (сому),
По одному за прекрасные прославления!
अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ । भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥
अधा॑रयन्त । वह्न॑यः । अभ॑जन्त । सु॒ऽकृ॒त्यया॑ । भा॒गम् । दे॒वेषु॑ । य॒ज्ञिय॑म् ॥
वह्नयः चमसादिसाधननिष्पादनेन यज्ञस्य वोढारः ऋभवः अधारयन्त पूर्वं मनुष्यत्वेन मरणयोग्या अपि अमृतत्वलाभेन प्राणान् धारितवन्तः । तथा च मन्त्रान्तरमाम्नायते- ‘ मर्तासः सन्तो अमृतत्वमानशुः ' (ऋ. सं. १. ११०. ४ ) इति । किंचैते 'सुकृत्यया यज्ञसाधनद्रव्यसंपादनरूपेण शोभनव्यापारेण देवेषु मध्ये स्थिताः यज्ञियं यज्ञार्हं भागं हविर्लक्षणम् अभजन्त सेवितवन्तः । अयमर्थः ‘ सौधन्वना यज्ञियं भागमानश' (ऋ. सं. ३, ६०. १ ) इत्यादिमन्त्रान्तरे विस्पष्टः । ब्राह्मणेऽपि ‘ ऋभवो वै देवेषु तपसा सोमपीथमभ्यजयन्' ( ऐ. ब्रा. ३. ३०) इत्याद्युपाख्यानं विस्पष्टम् ॥ वह्नयः । नित्' इत्यनुवृत्तौ ‘ वहिश्रि° । इत्यादिना निप्रत्ययः । अभजन्त। पादादित्वादनिघातः । सुकृत्यया । ‘ विभाषा कृवृषोः ' (पा. सू. ३. १. १२० ) इति कृञः कर्मणि क्यप् । शोभनं कृत्यं यस्या भजनक्रियायाः सा सुकृत्या । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं बाधित्वा ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ननु कृत्यशब्दे क्यपः पित्त्वेनानुदात्तत्वात् धातुस्वरेणादिरुदात्तः । ततश्च ' आद्युदात्तं द्व्यच्छन्दसि' ( पा. सू. ६. ३. ११९) इत्यनेनाद्युदात्तत्वेन भवितव्यम् । तेन हि पुरस्तादपवादेन परमपि ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वं बाध्यते इत्युक्तम् । एवं तर्हि ‘ कृञः श च ' ( पा. सू. ३. ३. १०० ) इति स्त्रियां भावे क्यप्प्रत्ययान्तः कृत्याशब्दः । क्यपः पित्त्वेऽपि व्यत्ययेनोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भागम् । ‘ कर्षात्वतः० ' ( पा. सू. ६. १. १५९ ) इत्यन्तोदात्तः । यज्ञियम् । यज्ञमर्हतीत्यर्थे ' यज्ञर्त्विग्भ्यां घखञौ ' (पा. सू. ५. १. ७१) इति घः । तस्य इयादेशः । प्रत्ययस्वरः ॥ ॥ २ ॥
“Offerers (of sacrifices), they held (a moral existence); by their pious acts they obtained a share of sacrifices with the gods.”
As ministering Priests they held, by pious acts they won themselves,
A share in sacrifice with Gods.
The conveyors secured and by their good work shared in
the sacrificial share among the gods.
Durch ihre Kunst erlangten sie, die fahrenden, und hielten fest Bei Göttern göttergleiches Theil.
Die Opferfahrer behaupteten, empfingen durch ihre Kunstfertigkeit einen Opferanteil unter den Göttern.
Ведущие обряд удержали (за собой),
Получили жертвенную долю
Среди богов за прекрасное деяние.