इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि । ता सोमं॑ सोम॒पात॑मा ॥
इ॒ह । इ॒न्द्रा॒ग्नी इति॑ । उप॑ । ह्व॒ये॒ । तयोः॑ । इत् । स्तोम॑म् । उ॒श्म॒सि॒ । ता । सोम॑म् । सो॒म॒ऽपात॑मा ॥
इह अस्मिन्कर्मणि इन्द्राग्नी देवौ उप ह्वये आह्वयामि तयोरित् इन्द्राग्न्योरेव स्तोमं स्तोत्रं उश्मसि कामयामहे । सोमपातमा अतिशयेन सोमं पातुं क्षमौ तौ द्वौ देवौ सोमं पिबताम् इति शेषः ॥ इन्द्राग्नी । अत्र देवताद्वन्द्वेऽपि पूर्वपदस्य आनङ् न भवति । तत्र हि द्वन्द्वे इत्यनुवृत्तौ पुनर्द्वन्द्वग्रहणात् लोकप्रसिद्धसाहचर्याणामेव द्वन्द्वे आनङ् इत्युक्तम् (का. ६. ३. २६ )। तस्मात् अत्र अवग्रहे ह्रस्व इन्द्रशब्दः । ‘ समासस्य ' इत्यन्तोदात्तत्वम् । ‘देवताद्वन्द्वे च ' ( पा. सू. ६. २. १४१ ) इति उभयपदप्रकृतिस्वरत्वं तु न भवति । अग्निशब्दस्यानुदात्तादित्वेन ‘नोत्तरपदेऽनुदात्तादौ ' ( पा. सू. ६. २. १४२ ) इति प्रतिषेधात् । उश्मसि ।' वश कान्तौ । लटो मस् । ‘इदन्तो मसि' (पा. सू. ७. १. ४६ ) इति इकारोपजनः । अदादित्वात् शपो लुक् । मसेर्ङित्त्वात् ' ग्रहिज्या° ' इत्यादिना संप्रसारणम् । ता सोमपातमा । उभयत्र ‘सुपां सुलक्°' इति आकारः ॥
“Invoke hither Indra and Agni, to whom we desire to present our praise; let them, who are both copious drinkers of the Soma juice, (accept the libation).”
INDRA and Agni I invoke fain are we for their song of praise:
Chief Soma-drinkers are they both.
I call Indra and Agni here. For those two alone we desire a praise hymn. They are the best soma-drinkers of soma.
Indra und Agni ruf' ich her, denn deren Lob begehren wir; Die besten Somatrinker sie.
Indra und Agni rufe ich hierher; wir wünschen ihren Lobpreis; die beiden sind die größten Somatrinker.
Сюда Индру-Агни я призываю.
Это их хвалить мы стремимся.
Они больше всех пьют сому.
ता य॒ज्ञेषु॒ प्र शं॑सतेन्द्रा॒ग्नी शु॑म्भता नरः । ता गा॑य॒त्रेषु॑ गायत ॥
ता । य॒ज्ञेषु॑ । प्र । शं॒स॒त॒ । इ॒न्द्रा॒ग्नी इति॑ । शु॒म्भ॒त॒ । न॒रः॒ । ता । गा॒य॒त्रेषु॑ । गा॒य॒त॒ ॥
हे नरः मनुष्याः ऋत्विजः ता पूर्वोक्तौ तौ इन्द्राग्नी यज्ञेषु अनुष्ठीयमानकर्मसु प्र शंसत शस्त्रैः। तथा शुम्भत नानाविधैरलंकारैः शोभितौ कुरुत । तथा ता पूर्वोक्तौ ताविन्द्राग्नी गायत्रेषु गायत्रीच्छन्दस्केषु मन्त्रेषु सामरूपेण गायत ॥ ता । ‘ सुपां सुलुक्° ' इति आकारः । शुम्भत । अस्य संहितायाम् अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः ॥
“Praise, men, Indra and Agni, in sacrifices, decorate them (with ornaments) and hymn them with hymns.”
Praise ye, O men, and glorify Indra-Agni in the holy rites:
Sing praise to them in sacred songs.
Proclaim them at the sacrifices; embellish Indra and Agni, o men. Sing to them in songs.
Indra und Agni preist beim Fest, o Männer und verherrlicht sie, Besingt mit Lobgesängen sie.
Diese beiden preiset bei Opfern, verherrlichet Indra und Agni, ihr Männer; besinget sie in Sangesliedern!
Восславьте их обоих на жертвоприношениях!
Индру-Агни украсьте, о мужи!
Воспойте их в песнях (размером) Гаятри!
ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे । सो॒म॒पा सोम॑पीतये ॥
ता । मि॒त्रस्य॑ । प्रऽश॑स्तये । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ । सो॒म॒ऽपा । सोम॑ऽपीतये ॥
मित्रस्य स्नेहविषयस्य मम अनुष्ठातुः प्रशस्तये ता पूर्वोक्तौ देवौ संपद्येताम् इति शेषः । यद्वा । मित्रस्य मम संबन्धिनौ ताविन्द्राग्नी प्रशस्तये प्रशंसितुमिच्छामः इति शेषः । सोमपा सोमपानक्षमौ ता पूर्वोक्तौ इन्द्राग्नी सोमपीतये सोमपानार्थं हवामहे आह्वयामः ॥ प्रशस्तये । 'तुमर्थाच्या भाववचनात् ' (पा. सू. २. ३. १५) इति चतुर्थी । कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा • तादौ च निति कृत्यतौ ' (पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । सोमपीतये । सोमस्य पीतिर्यस्मिन्कर्मणि तस्मै । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सोमस्य पीतिः इति तत्पुरुषे वा दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ॥
“We invoke Indra and Agni, for the benefit of our friend (the instrumental tutor of the rite), drinkers of the Soma juice, to drink the libation.”
Indra and Agni we invite, the Soma-drinkers, for the fame
Of Mitra, to the Soma-draught.
We call these two to proclaim their alliance; we call them, Indra and Agni, the two soma-drinkers, to drink soma.
Indra und Agni rufen wir, die Trinker zu dem Somatrunk, Zu Mitra's Ruhm und Herrlichkeit.
Diese beiden gereichen Mitra zum Preise. Indra und Agni rufen wir, die beiden Somatrinker zum Somatrunke.
Эти двое – во славу Митре.
Индру-Агни – их мы зовем,
Двух любителей пить сому – на питье сомы.
उ॒ग्रा सन्ता॑ हवामह॒ उपे॒दं सव॑नं सु॒तम् । इ॒न्द्रा॒ग्नी एह ग॑च्छताम् ॥
उ॒ग्रा । सन्ता॑ । ह॒वा॒म॒हे॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् । इ॒न्द्रा॒ग्नी इति॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् ॥
सुतम् अभिषवोपेतम् इदम् अनुष्ठीयमानं सवनं प्रातःसवनादिरूपं कर्म उप सामीप्येन प्राप्तुम् उग्रा सन्ता वैरिवधादिषु क्रूरौ सन्तौ देवौ हवामहे आह्वयामः । इन्द्राग्नी देवौ इह कर्मणि आ गच्छताम् ॥ सन्ता। अस्तेः शतरि ‘ श्नसोरल्लोपः '। सवनं सुतम् इति द्वयं • सेमं नः स्तोममा गहि ' (ऋ. सं. १. १६, ५) इत्यत्रोक्तम् ॥
“We invoke the two who are fierce (to their foes) to attend the rite, where the libation is prepared; Indra and Agni, come hither.”
Strong Gods, we bid them come to this libation that stands ready here:
Indra and Agni, come to us.
Those two, though formidable, we will call near to this pressing
pressed here.
Let Indra and Agni come right here.
Wir rufen sie, die mächtigen, zu diesem ausgepressten Saft, O Indra, Agni kommt herbei.
Die Gewaltigen rufen wir her zu dieser ausgepreßten Trankspende: Indra und Agni sollen hierher kommen.
Мы призываем (их двоих,) бывающих грозными,
Сюда, к выжатому соме.
Пусть Индра-Агни придут сюда!
ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्नी॒ रक्ष॑ उब्जतम् । अप्र॑जाः सन्त्व॒त्रिण॑: ॥
ता । म॒हान्ता॑ । सद॒स्पती॒ इति॑ । इन्द्रा॒ग्नी॒ इति॑ । रक्षः॑ । उ॒ब्ज॒त॒म् । अप्र॑जाः । स॒न्तु॒ । अ॒त्रिणः॑ ॥
तौ पूर्वोक्तौ इन्द्राग्नी रक्षः राक्षसजातिम् उब्जतम् ऋजु कुरुतं क्रौर्यं परित्याजयतमित्यर्थः । कीदृशौ । महान्ता महान्तौ गुणैरधिकौ सदस्पती सभापालकौ । तयोः प्रसादात् अत्रिणः भक्षकाः राक्षसाः अप्रजाः अनुत्पन्नाः सन्तु ॥ महान्ता । ‘ सान्तमहतः संयोगस्य' ( पा. सू. ६. ४. १०) इति दीर्घः । सदस्पती । सदसः पती इति समासे षष्ठ्या लुकि प्रातिपदिकसकारस्य रुत्वाभावश्छान्दसः। उभे वनस्पत्यादिषु युगपत् ' ( पा. सू. ६. २. १४० ) इति उभयपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । आमन्त्रिताद्युदात्तत्वम् । अप्रजाः । प्रजायन्ते इति प्रजाः । अन्येष्वपि दृश्यते ' (पा. सू. ३. २. १०१ ) इति जनेः डप्रत्ययः । न प्रजाः अप्रजाः। प्रजाशब्दस्य बहुव्रीहौ हि नित्यमसिच् प्रजामेधयोः' ( पा. सू. ५. ४. १२२ ) इति असिजादेशः स्यात् । अव्ययपूर्वपदप्रकृतिस्वरः । अत्रिणः । तृजन्तस्य अत्तृशब्दस्य जसश्छान्दसः इनुडागमः।' चितः' इति ऋकार उदात्तः । तस्य यणादेशे ‘उदात्तयणो हल्पूर्वात् ' (पा. सू. ६. १. १७४ ) इति इकार उदात्तः ॥
“May those two, Indra and Agni who are mighty, and guardians of the assembly, render the Rākṣas innocuous, and may the devourers (of men) be destitute of progeny.”
Indra and Agni, mighty Lords of our assembly, crush the fiends:
Childless be the devouring ones.
As great lords of the seat, Indra and Agni, crush the demonic force. Let the voracious ones be without offspring.
O Indra, Agni, Wohnungsherrn, ihr grossen, beugt die Geisterschar, Die Fresser seien kinderlos.
Als die großen Schutzherren des Opferhauses fanget den Unhold ein, Indra und Agni! Kinderlos sollen die Atrin´s sein!
Как два великие господина сиденья,
О Индра-Агни, придавите ракшаса!
Да будут бездетными атрины!
तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने॑ प॒दे । इन्द्रा॑ग्नी॒ शर्म॑ यच्छतम् ॥
तेन॑ । स॒त्येन॑ । जा॒गृ॒त॒म् । अधि॑ । प्र॒ऽचे॒तुने॑ । प॒दे । इन्द्रा॑ग्नी॒ इति॑ । शर्म॑ । य॒च्छ॒त॒म् ॥
हे इन्द्राग्नी सत्येन अवश्यफलप्रदानादवितथेन तेन अस्माभिरनुष्ठितेन कर्मणा 'प्रचेतुने प्रकर्षेण फलभोगज्ञापके पदे स्वर्गलोकादिस्थाने अधि जागृतं आधिक्येन सावधानौ भवतम् । ततः अस्मभ्यं शर्म यच्छतं सुखं गृहं वा दत्तम् । ‘गयः कृदरः' इत्यादिषु द्वाविंशतिसंख्याकेषु गृहनामसु ‘ शर्म वर्म' (नि. ३. ४. २१) इत्युक्तम् ॥ जागृतम् । ‘ जागृ निद्राक्षये'। ‘अदिप्रभृतिभ्यः शपः इति शपो लुक्। ‘ तिङ्ङतिङः' इति निघातः । प्रचेतुने । ‘ चिती संज्ञाने 'इत्यस्मात् ण्यन्तात् बाहुलकादौणादिक उनप्रत्ययः । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । ‘ इहेन्द्राग्नी ' इत्यत्रोक्तम् । आमन्त्रितत्वदाद्युदात्तत्वमत्र विशेषः । शृणाति हिनस्ति दुःखमिति शर्म। ‘शॄ हिंसायाम् ' । ‘ अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । यच्छतम् । इषुगमियमां छः ' ( पा. सू. ७. ३. ७७ ) इति छः ॥ ॥ ३ ॥
“By this unfailing sacrifice, by you rendered vigilant, Indra and Agni, in the station which affords knowledge (of the consequence of acts), and bestow upon us happiness.”
Watch ye, through this your truthfulness, there in the place of spacious view
Indra and Agni, send us bliss.
By this truth be watchful over the footprint of discernment [=ritual ground].
Indra and Agni, extend (us) shelter.114 I.22
So wahr dies ist, so wacht für uns am Ort, der weite Aussicht beut; O Indra, Agni, reicht uns Schutz.
So wahr ich dies sage, wachet beide über ihre kenntliche Spur! Indra und Agni gewähret Schirm!
Силой этой истины бодрствуйте
Над приметным следом!
О Индра-Агни, даруйте защиту!