प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् । अ॒स्य सोम॑स्य पी॒तये॑ ॥
प्रा॒तः॒ऽयुजा॑ । वि । बो॒ध॒य॒ । अ॒श्विनौ॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥
अत्र होता अध्वर्युमुद्दिश्य ब्रूते । हे अध्वर्यो प्रातर्युजा प्रातःसवनग्रहेण संयुक्तावश्विनौ देवौ वि बोधय विशेषेण प्रबुद्धौ कुरु । अश्विनौ प्रबुद्धौ चाश्विनौ देवौ अस्य अभिषवसंस्कारयुक्तस्य सोमस्य पीतये पानाय इह कर्मणि आ गच्छताम् । प्रातर्युञ्जाते गृह्यमाणेन ग्रहेण सहेति प्रातर्युजा । ‘सत्सूद्विष" ' इत्यादिना क्विप् । सुपां सुलुक्° ' इति आकारः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अस्य । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । पीतये । व्यत्ययेन क्तिन उदात्तत्वम् ॥
“Awaken, the Aśvins, associated for the morning sacrifice; let them both come hither to drink of this Soma juice.”
WAKEN the Asvin Pair who yoke their car at early morn: may they
Approach to drink this Soma juice.
Awaken the two who hitch up early in the morning. Let the Aśvins come here,
to drink of this soma.
Die früh anspannen, wecke auf, die Ritter mögen sich uns nahn, Zu trinken diesen Somatrank.
Wecke die beiden Frühanspanner auf: die Asvin sollen hierher kommen zum Trunk dieses Soma.
Разбуди (тех) двоих, кто запрягает поутру:
Оба Ашвина пусть придут сюда
Для питья этого сомы.
या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ । अ॒श्विना॒ ता ह॑वामहे ॥
या । सु॒ऽरथा॑ । र॒थिऽत॑मा । उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ । अ॒श्विना॑ । ता । ह॒वा॒म॒हे॒ ॥
या उभा अश्विना देवा यावुभावश्विनौ देवौ सुरथा शोभनरथयुक्तौ रथीतमा रथिनां मध्ये अतिशयेन रथिनौ दिविस्पृशा द्युलोकनिवासिनौ ता हवामहे तादृशावश्विनावाह्वयामहे ॥ या इत्यादिष्वष्टसु पदेषु ‘सुपां सुलुक्' इति द्विवचनस्य आकारः । सुरथा । शोभनो रथो ययोस्तौ सुरथौ । समासान्तोदात्तत्वापवादं बहुव्रीहौ पूर्वपदप्रकृतिस्वरं बाधित्वा ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वे प्राप्ते ' आद्युदात्तं द्व्यच्छन्दसि ' इत्युत्तरपदाद्युदात्तत्वम् । रथीतमा । ‘अन्येषामपि दृश्यते' ( पा. सू. ६. ३. १३७ ) इति संहितायाम् इकारस्य दीर्घत्वम् । दिविस्पृशा । दिवि स्पृशतः इति दिविस्पृशौ । ‘क्विप् च ' इति क्विप् । ‘तत्पुरुषे कृति बहुलम् ' ( पा. सू. ६. ३. १४ ) इति अलुक् ।' गतिकारकोपपदात्कृत्' इति कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“We invoke the two Aśvins, who are both divine, the best of charioteers, riding in an excellent car and attaining heaven.”
We call the Asvins Twain, the Gods borne in a noble car, the best
Of charioteers, who reach the heavens.
Those two possessing a good chariot who are the best charioteers, both gods who touch heaven,
the Aśvins we invoke.
Die schönster Wagen Lenker sind und bis zum Himmel ragen auf, Die beiden Ritter rufen wir.
Die auf gutem Wagen die besten Wagenführer sind, die beiden Götter, die an den Himmel reichen, diese Asvin rufen wir.
Обладатели прекрасных колесниц, лучшие из колесничих,
Оба бога, касающихся неба, –
Этих Ашвинов мы призываем.
या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता॑वती । तया॑ य॒ज्ञं मि॑मिक्षतम् ॥
या । वा॒म् । कशा॑ । मधु॑ऽमती । अश्वि॑ना । सू॒नृता॑ऽवती । तया॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ॥
अश्विना हे अश्विनौ देवौ वां युवयोः संबन्धिनी या कशा अश्वताडनी विद्यते तया सहागत्य यज्ञम् अस्मदीयं मिमिक्षतं सोमरसेन सेक्तुमिच्छतम् । कशयाश्वान् दृढं ताडयित्वा सहसा समागत्य भवद्विषयां सोमरसाहुतिं निष्पादयितुमुद्युक्तौ भवतमित्यर्थः । कीदृशी कशा । मधुमती।' अर्णः क्षोदः' इत्यादिषु एकशतसंख्याकेषु उदकनामसु ‘मधु पुरीषम्' (नि. १. १२. ११) इति पठितम् । तस्मात् उदकवतीत्युक्तं भवति । अश्वस्य शीघ्रगत्या यत् स्वेदोदकं स्रवति तेनेयं कशा क्लिन्नेत्यर्थः । सूनृतावती प्रियसत्यवाग्युक्ता । तीव्रेण कशाताडनेन यो ध्वनिर्निष्पद्यते ताडनवेलायाम् अश्वारूढेन च य आक्रोशः क्रियते तदुभयं शीघ्रगमनहेतुत्वेन यजमानस्य प्रियम् । यद्वा । ' श्लोकः धारा' इत्यादिषु सप्तपञ्चाशद्वाङ्नामसु • कशा धिषणा ' ( नि. १. ११. ४३ ) इति पठितम् । अश्विनोर्या वाक् मधुमती माधुर्योपेता पारुष्यरहिता सूनृतावती प्रियत्वसत्यत्वोपेता फलप्रदानविषयेत्यर्थः । तया वाचा युक्तौ यज्ञं मिमिक्षतमिति योजनीयम् ॥ कशा ।' कश गतिशातनयोः '। पचाद्यच् । वृषादित्वादाद्युदात्तः । सूनृतावती। ‘ऊन परिहाणे '। सुष्ठु ऊनयति अप्रियम् इति सून् । तथाविधम् ऋतं सत्यं यस्यां वाचि सा सुनृता। ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वं बाधित्वा • परादिश्छन्दसि बहुलम्' इति ऋकार उदात्तः । सा यस्या अस्ति सा कशा सूनृतावतीति कशायाः संज्ञा । एवंनामा या कशेत्यर्थः । ‘संज्ञायाम् ' (पा. सू. ८. २. ११) इति मतुपो वत्वम् । मिमिक्षतम् । मिहेः सन् । हलन्ताच्च ' ( पा. सू. १. २. १० ) इति कित्वाद्गुणाभावः । ढत्वकत्वषत्वानि ॥
“Aśvins, stir up (mimikṣatam = mix intimately, rapidly like a whip) the sacrifice with your whip that is wet the foam (of your horses), and lashing loudly.”
Dropping with honey is your whip, Asvins, and full of pleasantness
Sprinkle therewith the sacrifice.
That I whip of yours which is rich in sweetness
And full of mercy, O Aśvins,
With that touch the sacrifice.
The honeyed whip that is yours, Aśvins, that has a liberal spirit— with that mix the sacrifice.
Die Peitsche, die von Honig trieft, o Ritter, reich an Gaben ist, Mit der benetzt das Opferwerk.
Eure honighaltige, glückbringende Peitsche, ihr Asvin, mit der würzet das Opfer!
Ваш медовый кнут,
О Ашвины, что дает благо –
Окропите им жертву!
न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे॑न॒ गच्छ॑थः । अश्वि॑ना सो॒मिनो॑ गृ॒हम् ॥
न॒हि । वा॒म् । अस्ति॑ । दू॒र॒के । यत्र॑ । रथे॑न । गच्छ॑थः । अश्वि॑ना । सो॒मिनः॑ । गृ॒हम् ॥
अश्विना हे अश्विनौ देवौ युवां सोमिनः सोमवतो यजमानस्य गृहं प्रति रथेन गच्छथः स मार्गो वां युवयोः दूरके दूरदेशे नहि अस्ति न वर्तते खलु । यद्वा । यत्र गृहे गच्छथः तच्च गृहं दूरे न भवति ॥ नहि। ' एवमादीनामन्तः' इत्यन्तोदात्तः । अस्ति । ‘चादिलोपे विभाषा' इति निघाताभावः । अत्र हि गृहं दूरे च नास्ति युवां च रथेन गच्छथः इति समुच्चयश्चार्थो गम्यते, चशब्दो न प्रयुज्यते इति चलोपे प्रथमा तिङ्विभक्तिरस्तीति । यत्र । 'निपातस्य च ' इति संहितायां दीर्घत्वम् । गच्छथः । इयं यद्यपि न प्रथमा तथापि यत्र इति यद्वृत्तयोगात् न निघातः ॥
“The abode of the offerer of the libation is not far from you, Aśvins, going thither in your car.”
As ye go thither in your car, not far, O Asvins, is the home
Of him who offers Soma juice.
For it is not even a little distance from you, when you come in your chariot
to the house of a man with soma, Aśvins.
Denn nicht, o Ritter, ist entfernt von euch des Somabringers Haus, Zu dem ihr mit dem Wagen kommt.
Für euch liegt ja nicht in der Ferne, wohin ihr zu Wagen fahret, das Haus des Somaopfers, ihr Asvin.
Не бывает для вас далеким,
Когда вы едете на колеснице,
О Ашвины, дом того, кто приносит в жертву сому.
हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥
हिर॑ण्यऽपाणिम् । ऊ॒तये॑ । स॒वि॒तार॑म् । उप॑ । ह्व॒ये॒ । सः । चेत्ता॑ । दे॒वता॑ । प॒दम् ॥
ऊतये अस्मद्रक्षणार्थं सवितारं देवम् उप हृये आह्वयामि। सः च सविता देवः एतन्मन्त्रप्रतिपाद्यदेवता भूत्वा पदं यजमानेन प्राप्यं स्थानं चेत्ता ज्ञापयिता भवति । कीदृशं सवितारम् । हिरण्यपाणिं यजमानाय दातुं हस्ते सुवर्णधारिणम् । यद्वा । देवकर्तृके यागे सविता स्वयमृत्विग्भूत्वा ब्रह्मत्वेन अवस्थितः । तदानीं कस्यांचिदिष्टौ अध्वर्यवः तस्मै सवित्रे ब्रह्मणे प्राशित्रनामकं पुरोडाशभागं दत्तवन्तः । तच्च प्राशित्रं हस्ते सवित्रा गृहीतं सत् तदीयपाणिं चिच्छेद । ततः प्राशित्रस्य दातारोऽध्वर्यवः सुवर्णमयं पाणिं निर्माय प्रक्षिप्तवन्तः । सोऽयमर्थः कौषीतकिब्राह्मणे समाम्नातः- सवित्रे प्राशित्रं प्रतिजह्रुस्तत्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रतिदधुस्तस्माद्धिरण्यपाणिरिति स्तुतः ' इति । हिरण्यशब्दं पाणिशब्दं च यास्क एवं निर्वक्ति - ’हिरण्यं कस्माद्ध्रियत आयम्यमानमिति वा ह्रियते जनाज्जनमिति वा हितरमणं भवतीति वा हृदयरमणं भवतीति वा हर्यतेर्वा स्थात्प्रेप्साकर्मणः' (निरु. २. १०) इति । तथा ' पाणिः पणायतेः पूजाकर्मणः ' ( नि. २. २६ ) इति ॥ हिरण्यशब्दो नञ्विषयत्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ऊतये । 'उदात्तः ' इत्यनुवृत्तौ उतियूतिजूतिसाति' इत्यादिना क्तिनन्तः अन्तोदात्तो निपातितः । सवितारम् । तृचश्चित्त्वादन्तोदात्तत्वम् । चेत्ता। ‘चिती संज्ञाने'। अस्मादन्तर्भावितण्यर्थात्ताच्छील्ये तृन् । ' अनित्यमागमशासनम् ' इति इडभावः । नित्त्वादाद्युदात्तः । देवता । देवात्तल्' (पा. सू. ५. ४.२७ ) इति स्वार्थे तल् । ‘लिति' इति प्रत्ययात्पूर्वमुदात्तत्वम् । पदशब्दः पचाद्यजन्तः । ‘चितः ' इत्यन्तोदात्तः ॥ ॥ ४ ॥
“Invoke Savitā (Sun), the golden- handed, to protect me; he will appoint the station of the worshippers.”
For my protection I invoke the golden-handed Savitar.
He knoweth, as a God, the place.
To help us I summon
The golden-handed Savitr
He as a god knoweth the place.
I call upon golden-palmed Savitar for help.
He, through his divinity, is attentive to the track.
Den Savitar mit goldner Hand, ihn rufe ich zur Hülfe her; Er kennt als Gott den rechten Ort.
Den Savitri mit goldener Hand rufe ich zur Gnade her; er unter den Göttern kennt die Wegspur.
Савитара, золоторукого,
Я призываю для поддержки.
Он знаток следа (пути) среди богов.
अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि । तस्य॑ व्र॒तान्यु॑श्मसि ॥
अ॒पाम् । नपा॑तम् । अव॑से । स॒वि॒तार॑म् । उप॑ । स्तु॒हि॒ । तस्य॑ । व्र॒तानि॑ । उ॒श्म॒सि॒ ॥
अत्र होता सामगमृत्विजम् अन्यं वा शस्त्रिणं ब्रूते । अवसे अस्मान् रक्षतुं सवितारम् उप स्तुहि । तस्य सवितुः संबन्धीनि व्रतानि कर्माणि सोमयागादिरूपाणि उश्मसि कामयामहे । कीदृशं सवितारम् । अपां नपातं जलस्य न पालकम् । संतापेन शोषकमित्यर्थः ॥ अपाम् । ‘उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । नपातम् ।' पा रक्षणे ' । अस्य शत्रन्तः पाच्छब्दः । तस्य नञा समासे ‘नभ्राण्नपात्' इत्यादिना नलोपप्रतिषेध इति वृत्तिकारः । अग्निर्ह्यपो न पाति तच्छोषकत्वात् । तर्हि कथम् अपाम् इति षष्ठी ‘न लोकाव्ययनिष्ठाखलर्थ' (पा. सू. २. ३. ६९ ) इति कर्मणि षष्ठ्याः प्रतिषेधात् इति चेत्, तर्ह्येषा शेषलक्षणास्तु। अग्न्यादित्यौ अपां कारणतया संबन्धिनौ ‘अग्नेरापः' (तै. आ. ८.२ ) इति श्रुतेः । ‘आदित्याज्जायते वृष्टिः' (मनु. ३.७६) इति स्मृतेश्च । अस्मिन्पक्षे ‘उगिदचाम्' इति नुमभावोऽपि निपातनादेवेति मन्तव्यम् । पातेः क्विबन्तस्य तुग्वा निपातनात् द्रष्टव्यः । अथवा न पातयति इति नपात् । पत्लृ गतौ ' इति धातोर्यन्तात्क्विप् । अग्न्यादित्यौ ह्यपां न प्रापकौ प्रत्युत तच्छोषकौ । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अवसे । ‘तुमर्थे सेसेन्' इत्यादिना असेन् । नित्त्वादाद्युदात्तः । उश्मसि ।' वश कान्तौ' ।' अदिप्रभृतिभ्यः° ' इति शपो लुक् । 'इदन्तो मसि' इति इकारोपजनः ॥
“Glorify Savitā, who is no friend to water, or our protection; we desire to celebrate his worship.(apām napāt = son of the waters).”
That he may send us succour, praise the Waters' Offspring Savitar:
Fain are we for his holy ways.
Praise the Child of the Waters, Savitar, for help.
We desire his commandments.
Den Sohn der Wasser Savitar, ihn preis' ich, dass er hülfreich sei, Sein göttlich Wirken wünschen wir.
Besinge den Apam Napat, den Savitri zur Gnade! Nach seinem Dienste haben wir verlangen.
Апам Напата – для помощи,
Савитара прославь!
Мы жаждем твоих обетов.
वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः । स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥
वि॒ऽभ॒क्तार॑म् । ह॒वा॒म॒हे॒ । वसोः॑ । चि॒त्रस्य॑ । राध॑सः । स॒वि॒तार॑म् । नृ॒ऽचक्ष॑सम् ॥
वसोः निवासहेतोः चित्रस्य सुवर्णरजतादिरूपेण बहुविधस्य राधसः धनस्य विभक्तारम् अस्य यजमानस्य एतावद्धनदानम् उचितमिति विभागकारिणं नृचक्षसं मनुष्याणां प्रकाशकारिणं सवितारं हवामहे । कौषीतकिन एतस्या ऋचो व्याख्यानरूपे ब्राह्मणे सवितुर्विभागहेतुत्वम् एव समामनन्ति- ' यदेतद्वसोश्चित्रं राधस्तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजति' इति ॥ विभक्तारम् । तृचश्चित्त्वादन्तोदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । हवामहे । ह्वयतेः ‘बहुलं छन्दसि’ इति संप्रसारणम् । वसोः । वस निवासे '।' शॄस्वृस्निहि ' ( उ. सू. १. १० ) इत्यादिना उः । ‘नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तः । राधसः । असुनन्तः नित्त्वादाद्युदात्तः । नृचक्षसम् । नॄन् चष्टे इति नृचक्षाः तं नृचक्षसम् । ‘चक्षेर्बहुलं शिच्च' ( उ. सू. ४. ६७२) इति असुन्। शित्त्वात् अनार्धधातुकत्वेन ख्याञादेशाभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“We invoke Savitā, the enlightener of men, the dispenser of various home-insuring wealth.”
We call on him, distributer of wondrous bounty and of wealth,
On Savitar who looks on men.
We call upon the apportioner of goods, of brilliant bounty,
on Savitar, whose eye is on men.
Ihn rufen wir, der vieles Gut und mannichfachen Schatz vertheilt, Den männerschaunden Savitar.
Wir rufen den Austeiler des Gutes, der ansehnlichen Ehrengabe, den Savitr mit dem Herrenblick an.
Мы зовем распределителя
Добра, удивительного дара –
Савитара, взирающего на людей.
सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु न॑: । दाता॒ राधां॑सि शुम्भति ॥
सखा॑यः । आ । नि । सी॒द॒त॒ । स॒वि॒ता । स्तोम्यः॑ । नु । नः॒ । दाता॑ । राधां॑सि । शु॒म्भ॒ति॒ ॥
सखिभूता हे ऋत्विजः आ नि षीदत सर्वत्रोपविशत । नः अस्माकम् अयं सविता नु क्षिप्रं स्तोम्यः स्तुतियोग्यः राधांसि धनानि दाता प्रदातुमुद्युक्तः एष सविता शुम्भति शोभते ॥ समानाः सन्तः ख्यान्ति प्रकाशन्ते इति सखायः। ‘ख्या प्रकथने '। 'समाने ख्यश्चोदात्तः ' ( उ.सू. ४. ५७६ ) इति इण्प्रत्ययः; तत्संनियोगेन डित्त्वं यलोपश्च । डित्त्वात् आकारलोपः । ‘समानस्यू च्छन्दसि ' (पा. सू. ६. ३. ८४ ) इत्यादिना समानशब्दस्य सादेशः । इण्संनियोगेनोदात्तत्वम् । जसि ‘सख्युरसंबुद्धौ ' ( पा. सू. ७. १. ९२ ) इति णित्त्वात् वृद्धिः आयादेशश्च । नि षीदत । ‘सदिरप्रतेः ' ( पा. सू. ८. ३. ६६ ) इति षत्वम् । स्तोमेषु प्रतिपाद्यत्वेन भवः स्तोम्यः । ‘भवे छन्दसि ' ( पा. सू. ४. ४. ११०) इति यत् । यतोऽनावः ' ( पा. सू. ६. १. २१३ ) इत्याद्युदात्तत्वम् दाता दानशीलः । ताच्छील्ये तृन् । नित्त्वादाद्युदात्तः । राधांसि । गतम् । ‘कर्तृकर्मणोः कृति ' ( पा. सू. २. ३. ६५) इति प्राप्तायाः षष्ठ्याः ‘न लोकव्यय° ' ( पा. सू. २. ३. ६९ ) इति प्रतिषेधः ॥
“Sit down, friends; Savitā verily is to be praised by us, for he is the giver of riches.”
Come hither, friends, and seat yourselves Savitar, to be praised by us,
Giving good gifts, is beautiful.
Comrades, sit down here: Savitar is now to be praised by us.
The giver beautifies his bounties.
Ihr Freunde, kommt und setzet euch, lasst preisen uns den Savitar; Es glänzt der Gaben spendende.
Ihr Freunde, setzet euch nieder, Savitri soll jetzt für uns der Preisliche sein! Der Geber macht die Ehrengabe schön.
Друзья, усаживайтесь!
Сейчас Савитар достоин нашей хвалы!
Даритель делает дары прекрасными.
अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ । त्वष्टा॑रं॒ सोम॑पीतये ॥
अग्ने॑ । पत्नीः॑ । इ॒ह । आ । व॒ह॒ । दे॒वाना॑म् । उ॒श॒तीः । उप॑ । त्वष्टा॑रम् । सोम॑ऽपीतये ॥
हे अग्ने उशतीः कामयमानाः देवानां पत्नीः इन्द्राण्याद्याः इह देवयजनदेशे आ वह । तथा त्वष्टारं देवं सोमपीतये सोमपानार्थम् उप समीपे आ वह ॥ पत्नीः । डत्यन्तः पतिशब्द आद्युदात्तः । ‘पत्युर्नो यज्ञसंयोगे' ( पा. सू. ४. १. ३३ ) इति ङीप्; तत्संनियोगेन नकारश्च । डीपः पित्त्वात् डतिस्वर एव । उशतीः । ‘वश कान्तौ । लटः शतृ । ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । शतुर्ङित्वात् ग्रहिज्यादिना संप्रसारणम् । उगितश्च ' इति ङीप् । ‘शतुरनुमः० ' इति ङीप् उदात्तः ॥
“Agni, bring hither the loving wives of the gods, and Tvaṣṭā, to drink the Soma juice.”
O Agni, hither bring to us the willing Spouses of the Gods,
And Tvastar, to the Soma draught.
Agni, convey the eager Wives of the Gods here,
and Tvaṣṭar, for soma-drinking.
O Agni, fahre zu uns her die Götterfraun, die willigen, Und Tvaschtar zu dem Somatrunk.
Agni, fahr die willigen Göttergemahlinnen und den Tvastri zum Somatrunke her!
О Агни, привези сюда
Согласных жен богов
(И) Тваштара на питье сомы.
आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम् । वरू॑त्रीं धि॒षणां॑ वह ॥
आ । ग्नाः । अ॒ग्ने॒ । इ॒ह । अव॑से । होत्रा॑म् । य॒वि॒ष्ठ॒ । भार॑तीम् । वरू॑त्रीम् । धि॒षणा॑म् । व॒ह॒ ॥
हे अग्ने अवसे अस्मानवितुं ग्नाः देवपत्नीः इह आ वह । तथा हे यविष्ठ युवतमाग्ने होत्रां होमनिष्पादकाग्निपत्नीं भारतीं भरतनामकस्य आदित्यस्य पत्नीं वरूत्रीं वरणीयां धिषणां वाग्देवीं च आ वह। ‘वाग्वै धिषणा' इति वाजसनेयकम् । भरत आदित्यः (निरु. ८. १३ ) इति यास्केन उक्तत्वात् तस्य पत्नी भारती इत्युच्यते ॥ गम्यन्त इति ग्नाः । ‘गम्लृ सृप्लृ गतौ'। औणादिको ड्नप्रत्ययः । डित्त्वात् टिलोपः । प्रत्ययस्वरः । होत्राम् । हुयामाश्रुभसिभ्यस्त्रन् ' ( उ. सू. ४. ६०७ ) इति त्रनन्तो नित्त्वादाद्युदात्तः । अतिशयेन युवा यविष्ठः । ‘अतिशायने तमबिष्ठनौ ' ( पा. सू. ५. ३. ५५ )। ' स्थूलदूर ' ( पा. सू.. ६. ४. १५६ ) इत्यादिना यणादिपरस्य लोपः पूर्वस्य च गुणः। भारतीम् । शार्ङ्गरवादेः अवृत्कृतत्वात् ङीनन्तो नित्त्वादाद्युदात्तः । वरूत्रीम् । ‘ग्रसितस्कभित° ' (पा. सू. ७. २. ३४) इत्यादौ यद्यपि वरूतृशब्दः तृजन्त इत्युक्तं तथापि अन्ते इतिकरणस्य प्रदर्शनार्थत्वात् वरूतृशब्दः तृनन्तोऽपि द्रष्टव्यः । तेन नित्त्वादाद्युदात्तत्वम् । शेषनिघातेन ऋकारस्य अनुदात्तत्वात् “ उदात्तयणो हल्पूर्वात्' इत्यपि न ङीप उदात्तत्वम्। धिषणाम् । क्युप्रत्ययानुवृत्तौ • धृषेर्धिष च संज्ञायाम् ' ( उ. सू. २. २४० ) इति क्युः ॥ ॥ ५ ॥
“Youthful Agni, bring hither for our protection the wives (of the gods), Hotrā (wife of Agni or person nified invocation), Bhāratī (an Āditya), Varutrī (= varaṇīyā, chosen), and Dhiṣaṇā (= vāc or vāg-devī, goddess of speech).”
Most youthful Agni, hither bring their Spouses, Hotra, Bharati,
Varutri, Dhisana, for aid.
Agni, youngest one, convey the Wives here for help, and
Hotrā Bhāratī,
Varūtrī, Dhiṣaṇā.
O jüngster Agni, fahre her die Frauen Hotra, Bharati, Zur Huld Varutri, Dhischana.
Die Götterfrauen fahr, o Agni, her zu Gnade, Hotra, Bharati, Varutri, die Dhisana, du Jüngster!
Божественных жен, о Агни, привези сюда
Для помощи: Хотру, Бхарати,
Варутри, Дхишану, о юнейший!
अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नी॑: । अच्छि॑न्नपत्राः सचन्ताम् ॥
अ॒भि । नः॒ । दे॒वीः । अव॑सा । म॒हः । शर्म॑णा । नृ॒ऽपत्नीः॑ । अच्छि॑न्नऽपत्राः । स॒च॒न्ता॒म् ॥
देवीः देव्यः देवपत्न्यः अवसा रक्षणेन महः महता शर्मणा च सुखेन च सह नः अस्मान् अभि सचन्ताम् आभिमुख्येन सेवन्ताम् । कीदृश्यो देव्यः । नृपत्नीः मनुष्याणां पालयित्र्यः अच्छिन्नपत्राः अच्छिन्नपक्षाः । न हि पक्षिरूपाणां देवपत्नीनां पक्षाः केनचित् छिद्यन्ते ॥ देवीः । ‘पुंयोगादाख्यायाम् ' ( पा. सू. ४. १. ४८ ) इति ङीषन्तः प्रत्ययस्वरेणान्तोदात्तः । ‘दीर्घाञ्जसि च ' ( पा. सू. ६. १. १०५) इति प्रतिषेधस्य वा छन्दसि ' ( पा. सू. ६. १. १०६ ) इति पाक्षिकस्योक्तेः पूर्वसवर्णदीर्घत्वम् । अवसा । अव रक्षणे ' । असुन् । नित्वादाद्युदात्तः । महः । ‘मह पूजायाम् ' । क्विप् । ‘सुपां सुपो भवन्ति ' ( पा. म. ७. १. ३९ ) इति तृतीयैकवचनस्य ङसादेशः । ‘सावेकाचः° ' इति विभक्तेरुदात्तत्वम् । नृपत्नीः । समासान्तोदात्तत्वे प्राप्ते ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । अच्छिन्नपत्राः । न च्छिन्नानि अच्छिन्नानि ॥ अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अच्छिन्नानि पत्राणि यासां ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“May the goddesses, whose wings are unclipt the protectresses of mankind, favour us with perfection, and with entire felicity.”
Spouses of Heroes, Goddesses, with whole wings may they come to us
With great protection and with aid.
Let the goddesses, Wives of superior men [=gods], attend upon us greatly with help, with shelter—those with unclipped
wings.
Mit unbeschnittnen Flügeln lass die Göttinnen, die Heldenfraun Mit Hülf' und starkem Schutz uns nahn.
Die Göttinnen sollen mit ihrer Gnade, mit ihrem großen Schirm uns zur Seite stehen, die Herrscherfrauen mit ungebrochenen Fittichen.
Да сопутствуют нам богини со (своей) помощью,
Великие жены повелителей со (своей) защитой,
(Эти) неповрежденнокрылые.
इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ । अ॒ग्नायीं॒ सोम॑पीतये ॥
इ॒ह । इ॒न्द्रा॒णीम् । उप॑ । ह्व॒ये॒ । व॒रु॒णा॒नीम् । स्व॒स्तये॑ । अ॒ग्नायी॑म् । सोम॑ऽपीतये ॥
इह अस्मिन्कर्मणि स्वस्तये अस्माकमविनाशाय सोमपीतये सोमपानाय च इन्द्रवरुणाग्नीनां पत्नीः आह्वयामि ॥ इन्द्राणीम् । वरुणानीम् । इन्द्रवरुण ' ( पा. सू. ४. १. ४९ ) इत्यादिना पुंयोगे ङीष्प्रत्ययः आनुगागमश्च । प्रत्ययस्वरः । अग्नायीम् । ‘वृषाकप्यग्निकुसितकुसिदानामुदात्तः ' ( पा. सू. ४. १. ३७ ) इति ङीप्; तत्संनियोगेन इकारस्य ऐकार उदात्तः । सोमपीतये । असकृत् । पूर्वोक्तम् ॥
द्वितीये छन्दोमे वैश्वदेवशस्त्रे ‘मही द्यौः पृथिवी च नः' इति द्यावापृथिव्यनिविद्धानीयस्तृचः । ‘द्वितीयस्याग्निं वः' इति खण्डे सूत्रितं - ‘मही द्यौः पृथिवी च नो युवाना पितरा पुनः' (आश्व. श्रौ. ८. १०) इति । आग्रयणेष्टौ ‘मही द्यौः' इत्येषा द्यावापृथिव्यैककपालस्य अनुवाक्या।' आग्रयणं व्रीहिश्यामाक० ' इति खण्डे सूत्रितं- ये के च ज्मा महिनो अहिमाया मही द्यौः पृथिवी च नः । ( आश्व. श्रौ. २. ९) इति । अग्निमन्थनेऽप्येषा विनियुक्ता।' प्रातर्वैश्वदेव्याम् ' इति खण्डे सूत्रितम् - ’अभि त्वा देव सवितर्मही द्यौः पृथिवी च नः ' (आश्व. श्रौ. २. १६) इति । विष्यन्दमानं सांनाय्यमनयैव आहवनीयदेशे निनयेत् । ‘विध्यपराधे' इति खण्डे तथैव सूत्रितं– विष्यन्दमानं मही द्यौः पृथिवी च न इत्यन्तःपरिधिदेशे निनयेयुः ' (आश्व. श्रौ. ३. १० ) इति । आश्विनशस्त्रेऽप्येषा ‘संस्थितेष्वाश्विनाय ' इति खण्डे सूत्रितं -’मही द्यौः पृथिवी च नस्ते हि द्यावापृथिवी विश्वशंभुवा ' ( आश्व, श्रौ. ६. ५) इति ॥
“Invoke hither, Indrāṇī, Varuṇānī, and Agnāyī, for our welfare, and to drink the Soma juice.”
Indrani, Varunani, and Agnayi hither I invite,
For weal, to drink the Soma juice.
Here I call upon Indrāṇī, Varuṇānī for well-being,
upon Agnāyī for soma-drinking.
Des Indra und des Varuna, des Agni Gattin ruf' ich her Zum Wohlergehn, zum Somatrunk.
Ich rufe die Frau des Indra, des Varuna zum Glück, die Frau des Agni zum Somatrunk.
Сюда я призываю Индрани,
Варунани – на счастье,
Агнайи – на питье сомы.
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥
म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इ॒मम् । य॒ज्ञम् । मि॒मि॒क्ष॒ता॒म् । पि॒पृ॒ताम् । नः॒ । भरी॑मऽभिः ॥
मही महती द्यौः द्युलोकदेवता पृथिवी भूमिदेवता च नः अस्मदीयम् इमं यज्ञं मिमिक्षतां स्वकीयसारभूतेन रसेन मिमिक्षतां सेक्तुमिच्छताम् । तथा भरीमभिः भरणैः पोषणैः नः अस्मान् पिपृताम् उभे देव्यौ पूरयताम् ॥ मही । महच्छब्दात् ‘ उगितश्च ' ( पा. सू. ४. १. ६) इति ङीप् । अच्छब्दलीपश्छान्दसः। ‘बृहन्महतोरुपसंख्यानम्' (पा. सू. ६. १. १७३. १ ) इति ङीप उदात्तत्वम् । द्यौः । दिव्शब्दः प्रातिपदिकस्वरेणान्तोदात्तः । ‘गोतो णित् ' ( पा. सू. ७. १. ९०) इति ततः परस्य सोः णिद्वद्भावात् भवन्ती वृद्धिरपि स्थानिवद्भावेनोदात्ता । पृथिवी। ‘प्रथ प्रख्याने '। प्रथेः षिवन्संप्रसारणं च ' ( उ. सू. १. १४८ ) इति षिवन्प्रत्ययः । ‘षिद्गौरादिभ्यश्च ' ( पा. सू. ४. १. ४१ ) इति ङीष् । प्रत्ययस्वरः । मिमिक्षताम् । मिह सेचने'। सनि द्विर्भावहलादिशेषौ । ढत्वकत्वषत्वानि । पिपृताम् । पॄ पालनपूरणयोः ' । ह्रस्व इत्येके । शपः श्लुः । ‘अर्तिपिपर्त्योश्च' (पा. सू. ७. ४. ७७ ) इति अभ्यासस्य अकारस्य इकारः । तिङः प्रत्ययस्वरः । भरीमभिः । ‘डुभृञ् धारणपोषणयोः । ‘हुस्तॄभृधृस्वृसृभ्य ईमन् ' ( दश. पा. ६) इति ईमन् । नित्त्वादाद्युदात्तः ॥
“May the great heven and the earth be plural ased to blend this sacrifice (with their own dews) and fill us with nutriment.”
May Heaven and Earth, the Mighty Pair, bedew for us our sacrifice,
And feed us full with nourishments.
Let the great ones, Heaven and Earth, mix this sacrifice for us.
Let them carry us through with their support.
Dies Opfer mögen netzen hold die grossen Erd' und Himmel uns, Und füllen uns mit Speis' und Trank.
Der große Himmel und die Erde sollen uns dieses Opfer würzen; sie sollen uns mit ihren Unterstützungen helfen.
Великие Небо и Земля
Пусть окропят нам эту жертву!
Пусть они наполнят нас питанием!
तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहन्ति धी॒तिभि॑: । ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥
तयोः॑ । इत् । घृ॒तऽव॑त् । पयः॑ । विप्राः॑ । रि॒ह॒न्ति॒ । धी॒तिऽभिः॑ । ग॒न्ध॒र्वस्य॑ । ध्रु॒वे । प॒दे ॥
गन्धर्वस्य ध्रुवं पदम् अन्तरिक्षम् । तथा च तापनीयशाखायां समाम्नायते- यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षम् ' (नृ. ता. १. २) इति । तेनान्तरिक्षेण उपलक्षिते आकाशे वर्तमानयोः तयोरित् द्यावापृथिव्योरेव संबन्धि पयः जलं घृतवत् घृतसदृशं विप्राः मेधाविनः प्राणिनः धीतिभिः कर्मभिः रिहन्ति लिहन्ति । यद्वा । घृतवत् घृतं सारं तेनोपेतं रिहन्ति ॥ लिहेर्व्यत्ययेन रेफः । गन्धर्वस्य । ‘धृञ् धारणे'।' गवि गन् धृञो वः' इति वप्रत्ययः; तत्संनियोगेन गोशब्दस्य च गन्नादेशः ॥
“The wise taste, through their pious acts, the ghee-resembling waters of these two, (abiding) in the permanent region of the Gandharvas. (Antarikṣa, the sphere of gandharvas, yakṣas and apsarasas, the firmament between heaven and earth).”
Their water rich with fatness, there in the Gandharva's steadfast place,
The singers taste through sacred songs.
The inspired poets lick the ghee-filled milk of this very pair [=Heaven and Earth] with their poetic insights,
in the firm footstep of the Gandharva.
Denn ihre butterreiche Milch saugt eifrig auf der Weisen Schar An des Gandharven festem Ort.
Nach dieser schmalzigen Milch lecken die Redekundigen mit ihren Gedichten an der bleibenden Stätte des Gandharva.
Ведь богатое жиром молоко этих двух
Лижут (своими) помыслами вдохновенные
На твердом месте Гандхарвы.
स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒: शर्म॑ स॒प्रथ॑: ॥
स्यो॒ना । पृ॒थि॒वि॒ । भ॒व॒ । अ॒नृ॒क्ष॒रा । नि॒ऽवेश॑नी । यच्छ॑ । नः॒ । शर्म॑ । स॒ऽप्रथः॑ ॥
हे पृथिवि स्योनत्वादिगुणयुक्ता भव । स्योनशब्दो विस्तीर्णवाची । तथा च वाजसनेयब्राह्मणे स्योनशब्दोपेतं कंचिन्मन्त्रमुदाहृत्य व्याख्यातम् -‘इन्द्रस्योरुमाविश स्योनः स्योनमिति विस्तीर्णो विस्तीर्णमित्येव तदाह' इति। यद्वा । स्योनशब्दः सुखवाची (नि. ३.६. १५)। तथा च यास्कवाक्यमुदाहरिष्यते । अनृक्षरा कण्टकरहिता निवेशनी निवेशस्थानभूता सप्रथः विस्तारयुक्तं शर्म शरणं नः अस्मभ्यं यच्छ हे पृथिवि देहि । तामेतामृचमुदाहृत्य यास्क एवं व्याचष्टे- ‘सुखा नः पृथिवि भवानृक्षरा निवेशन्यृक्षरः कण्टक ऋच्छतेः कण्टकः कन्तपो वा कृन्ततेर्वा कण्टतेर्वा स्याद्गतिकर्मण उद्गततमो भवति यच्छ नः शर्म शरणं सर्वतः पृथु ' ( निरु. ९. ३२ ) इति ॥ स्योना । ‘षिवु तन्तुसन्ताने '। • सिवेष्टेर्यो च ' ( उ. सू. ३. ३८९ ) इति नप्रत्ययः । टेश्च यो इत्यादेशः । प्रत्ययस्वरः । स्योना पृथिवि इत्यनयोः भव इत्याख्यातेनैवान्वयो न परस्परम् । अतः असामर्थ्येनैव पराङ्गवद्भावाभावात् ओकारस्य न आमन्त्रिताद्युदात्तत्वम् । अनृक्षरा । ' ऋषी गतौ । गच्छति अन्तः इति ऋक्षरः कण्टकः । ‘तन्यृषिभ्यां क्सरन् ' ( उ. सू. ३. ३५५)। ‘षढोः कः सि' (पा. सू. ८. २, ४१ ) इति कत्वम् । ‘आदेशप्रत्यययोः' इति षत्वम् । नञा बहुव्रीहिः । ‘तस्मान्नुडचि' (पा. सू. ६. ३. ७४ ) इति नुडागमः । ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । निविशन्ति अस्याम् इति निवेशनी । करणाधिकरणयोश्च' (पा. सू. ३. ३. ११७ ) इति ल्युट् । ‘लिति ' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यच्छ ।' दाण् दाने '।' पाघ्रा' (पा. सू. ७. ३. ७८ ) इत्यादिना यच्छादेशः । द्व्यचोऽतस्तिङः' इति दीर्घः । सप्रथः । ‘प्रथ प्रख्याने '। असुन्। प्रथसा सह वर्तते इति ‘तेन सहेति तुल्ययोगे' (पा. सू. २. २. २८) इति समासः। वोपसर्जनस्य ' ( पा. सू. ६. ३. ८२) इति सभावः । कृत्स्वरः ॥ ॥ ६ ॥
“Earth be your wide-spreading, free from thorns, and our abiding plural ce; give us great happiness.”
Thornless be thou, O Earth, spread wide before us for a dwelling-place:
Vouchsafe us shelter broad and sure.
Earth, become comfortable, a place to settle down, not sweeping men away.
Extend to us widespread shelter.
O Erde, sei uns freudenreich, voll schöner Wohnung, dornenlos, Und reich uns ausgedehnten Schutz.
Sei behaglich, Erde, dornenlos, eine Ruhestätte bereitend; gewähr uns deinen Schirm in ganzer Ausdehnung!
О Земля, будь покойной,
Без шипов, дающей приют!
Даруй нам обширное убежище!
अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे । पृ॒थि॒व्याः स॒प्त धाम॑भिः ॥
अतः॑ । दे॒वाः । अ॒व॒न्तु॒ । नः॒ । यतः॑ । विष्णुः॑ । वि॒ऽच॒क्र॒मे । पृ॒थि॒व्याः । स॒प्त । धाम॑ऽभिः ॥
विष्णुः परमेश्वरः सप्त धामभिः सप्तभिर्गायत्र्यादिभिश्छन्दोभिः साधनभूतैः यतः पृथिव्याः यस्माद्भूप्रदेशात् विचक्रमे विविधं पदक्रमणं कृतवान् , अतः अस्मात् पृथिवीप्रदेशात् नः अस्मान् देवाः अवन्तु । विष्णोः पृथिव्यादिलोकेषु च्छन्दोभिः साधनैर्जयं तैत्तिरिया आमनन्ति– विष्णुमुखा वै देवाश्छन्दोभिरिमाल्ँलोकाननपजय्यमभ्यजयन् ' ( तै. सं. ५. २. १. १ ) इति । विष्णोस्त्रिविक्रमावतारे पादत्रयक्रमणस्य पृथिव्यपादानम् । पृथिवीप्रदेशाद्रक्षणं नाम भूलोके वर्तमानानां पापनिवारणम् ॥ अतः । एतच्छब्दात् ‘पञ्चम्यास्तसिल् ' ( पा. सू. ५. ३. ७ ) इति तसिल् । ‘एतदोऽश् ' ( पा. सू. ५. ३. ५) इति अशादेशः । लित्स्वरेण अकार उदात्तः । यतः । तसिलः ‘प्राग्दिशो विभक्तिः ' (पा. सू. ५. ३. १ ) इति विभक्तिसंज्ञायां त्यदाद्यत्वम् । लित्स्वरः । विष्णुः । विषेः किच्च (उ. सू. ३. ३१९) इति नुप्रत्ययः। कित्त्वात् न गुणः। नित्' इत्यनुवृत्तेः आद्युदात्तत्वम्। विचक्रमे । ‘सुप् ' इति योगविभागात् विशब्दस्य समासः । समासान्तोदात्तत्वम् । यद्वृत्तयोगात् न निघातः । सप्त । ‘सुपां सुलुक्' इति भिसो लुक् । धामभिः । दधातेः ‘आतो मनिन्' (पा. सू. ३. २. ७४ ) इति मनिन् । नित्स्वरः ॥
“May the gods preserve us (from that portion) of the earth whence Viṣṇu (aided) by the seven metres, stepped.”
The Gods be gracious unto us even from the place whence Visnu strode
Through the seven regions of the earth!
Let the gods help us from there whence Viṣṇu strode out
from the earth through the seven domains.
Von dort her mögen schützen uns die Götter, von wo Vischnu durch Der Erde sieben Stätten schritt.
Von dort sollen uns die Götter huldreich sein, von wo Vishnu ausgeschritten ist durch die sieben Formen der Erde.
Оттуда пусть помогут нам боги,
Откуда зашагал Вишну
Через семь местностей земли.
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ळ्हमस्य पांसु॒रे ॥
इ॒दम् । विष्णुः॑ । वि । च॒क्र॒मे॒ । त्रे॒धा । नि । द॒धे॒ । प॒दम् । सम्ऽऊ॑ळ्हम् । अ॒स्य॒ । पां॒सु॒रे ॥
विष्णुः त्रिविक्रमावतारधारी इदं प्रतीयमानं सर्वं जगदुद्दिश्य वि चक्रमे विशेषेण क्रमणं कृतवान् । तदा त्रेधा त्रिभिः प्रकारैः पदं नि दधे स्वकीयं पादं प्रक्षिप्तवान् । अस्य विष्णोः पांसुरे धूलियुक्ते पादस्थाने समूळ्हम् इदं सर्वं जगत् सम्यगन्तर्भूतम्। सेयमृक् यास्केनैवं व्याख्याता - ’विष्णुर्विशतेर्वा व्यश्नोतेर्वा यदिदं किंच तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः समूळ्हमस्य पांसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे स्यात् पांसुर इव पदं न दृश्यत इति पांसवः पादैः सूयन्त इति वा पन्नाः शेरत इति वा पंसनीया भवन्तीति वा' (निरु. १२. १८-१९) इति ॥ त्रेधा। ‘एधाच्च' (पा. सू. ५. ३. ४६ ) इति एधाच्प्रत्ययः । चितोऽन्तोदात्तः । समूळ्हम् । ‘वह प्रापणे '। निष्ठा ' इति क्तः। ‘वचिस्वपि ' ( पा. सू. ६. १. १५ ) इत्यादिना संप्रसारणम् । ढत्वधत्वष्टुत्वढलोपदीर्घत्वानि । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अस्य । इदमोऽन्वादेशे ' इति अश् अनुदात्तः, प्रत्ययश्च सुप्स्वरेण । पांसुरे । 'नगपांसुपाण्डुभ्यश्चेति वक्तव्यम् ' ( का. ५. २. १०७. २ ) इति मत्वर्थीयो रः । प्रत्ययस्वरः ।
“Viṣṇu traversed this (world); three times he plural nted his foot and the whole (world) was collected in the dust of his (footstep).”
Through all this world strode Visnu; thrice his foot he planted, and the whole
Was gathered in his footstep's dust.
Over this Visnu strode;
Thrice did he set down his foot;
(All) is gathered [1] in its dust.
Viṣṇu strode out this (world); three times he laid down a step:
(this world) is concentrated in his dusty (step).
Vischnu durchschritt die ganze Welt, trat dreimal nieder mit dem Fuss, An seinem Fussstaub ballt sie sich.
Vishnu hat dieses All ausgeschritten, dreimal hat er seine Spur hinterlassen. In seiner staubigen Fußspur ist es zusammengehäuft.
Через это шагнул Вишну.
Трижды запечатлел он (свой) след.
В его пыльном (следе все) сосредоточено.
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । अतो॒ धर्मा॑णि धा॒रय॑न् ॥
त्रीणि॑ । प॒दा । वि । च॒क्र॒मे॒ । विष्णुः॑ । गो॒पाः । अदा॑भ्यः । अतः॑ । धर्मा॑णि । धा॒रय॑न् ॥
अदाभ्यः केनापि हिंसितुमशक्यः गोपाः सर्वस्य जगतः रक्षकः विष्णुः पृथिव्यादिस्थानेषु अतः एतेषु त्रीणि पदानि वि चक्रमे । किं कुर्वन् । धर्माणि अग्निहोत्रादीनि धारयन् पोषयन् ॥ पदा । सुपां सुलुक्' इत्यादिना विभक्तेः डादेशः । तस्य स्थानिवद्भावेन अनुदात्तत्वे प्राप्ते उदात्तनिवृत्तिस्वरेणोदात्तत्वम् । गोपाः । गोपामृतस्य' (ऋ. सं. १. १. ८) इत्यत्रोक्तम् । अदाभ्यः । दभेः “ ऋहलोर्ण्यत् ' (पा. सू. ३. १. १२४) इति ण्यत् । नञ्समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । धारयन्। शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण णिच एव स्वरः शिष्यते ॥
3अथ तृतीयामाह - गोपाः सर्वस्य जगतो रक्षकः अदाम्यः केनाप्यतिरस्कार्यो विष्णुः कृत्स्नेऽपि जगति त्रीणि पदा विचक्रमे पदत्रयं निदधौ । किं कुर्वन्? ततस्तस्मत्पदत्रयात् धर्माणि धारयितव्यानि सर्वाणि वस्तूनि धारयन् ॥
“Viṣṇu, the preserver, the uninjurable, stepped three steps, upholding thereby righteous acts.”
Visnu, the Guardian, he whom none deceiveth, made three steps; thenceforth
Establishing his high decrees.
He strode three steps, Viṣṇu the undeceivable cowherd,
founding the foundations from there—
Drei Schritte hat durchschritten er, Vischnu, der nie getäuschte Hirt, Die Stützen dort befestigend.
Drei Schritte schritt er aus, der untrügliche Wächter Vishnu, von dort die Gesetze festsetzend.
Три шага прошагал
Вишну – страж, не поддающийся обману,
Оттуда поддерживая законы.
विष्णो॒: कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्य॒: सखा॑ ॥
विष्णोः॑ । कर्मा॑णि । प॒श्य॒त॒ । यतः॑ । व्र॒तानि॑ । प॒स्प॒शे । इन्द्र॑स्य । युज्यः॑ । सखा॑ ॥
हे ऋत्विगादयः विष्णोः कर्माणि पालनादीनि पश्यत । यतः यैः कर्मभिः व्रतानि अग्निहोत्रादीनि पस्पशे सर्वो यजमानः स्पृष्टवान् विष्णोरनुग्रहात् अनुतिष्ठति इत्यर्थः । तादृशो विष्णुः इन्द्रस्य युज्यः योज्यः अनुकूलः सखा भवति । विष्णोः इन्द्रानुकूल्यं त्वष्टा हतपुत्रः' इत्यनुवाके ‘अथ वै तर्हि विष्णुः ' ( तै. सं. २. ४. १२. २ ) इत्यादिना प्रपञ्चेन तैत्तिरीया आमनन्ति ॥ पस्पशे । ' स्पश बाधनस्पर्शनयोः । लिट् । द्विर्भावे ‘शर्पूर्वाः खयः' ( पा. सू. ७. ४. ६१ ) इति पकारः शिष्यते सकारो लुप्यते । यद्वृत्तयोगादनिघातः । युज्यः । युजेः बाहुलकात् क्यप् । कित्त्वाद्गुणाभावः । क्यपः पित्त्वादनुदात्तत्वम् । धातुस्वरः ॥
“Behold the deeds of Viṣṇu, through which (the worshipper) has accomplished (pious) vows; he is the worthy friend of Indra.”
Look ye on Visnu's works, whereby the Friend of Indra, close-allied,
Hath let his holy ways be seen.
Behold the deeds of Visnu
Wherein he displayed his laws,
Indra's true friend.
Behold the deeds of Viṣṇu: from (the place) where he watches over the commandments,
the partner in yoke with Indra,
Des Vischnu Thaten schauet an, durch die die Ordnungen er sah, Des Indra eng verbundner Freund.
Schaut die Werke des Vishnu, von wo aus er auf seine Gebote acht gibt, des Indra treuer Freund!
Взгляните на деяния Вишну,
Откуда он следит за обетами,
Близкий друг Индры.
तद्विष्णो॑: पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रय॑: । दि॒वी॑व॒ चक्षु॒रात॑तम् ॥
तत् । विष्णोः॑ । प॒र॒मम् । प॒दम् । सदा॑ । प॒श्य॒न्ति॒ । सू॒रयः॑ । दि॒विऽइ॑व । चक्षुः॑ । आऽत॑तम् ॥
सूरयः विद्वांस ऋत्विगादयः विष्णोः संबन्धि परमम् उत्कृष्टं तत् शास्त्रप्रसिद्धं पदं स्वर्गस्थानं शास्त्रदृष्ट्या सर्वदा पश्यन्ति । तत्र दृष्टान्तः । दिवीव । आकाशे यथा आततं सर्वतः प्रसृतं चक्षुः निरोधाभावेन विशदं पश्यति तद्वत् ॥ सदा । ‘सर्वैकान्य ' ( पा. सू. ५. ३. १५) इति दाप्रत्ययः । सर्वस्य सोऽन्यतरस्यां दि ' ( पा. सू. ५. ३. ६ ) इति सर्वशब्दस्य सभावः । व्यत्ययेनाद्युदात्तत्वम् । दिवि । ' उडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' इति तदेव शिष्यते । चक्षुः । ‘नब्विषयस्य° ' इत्याद्युदात्तत्वम् । आततम् । तनोतेः कर्मणि क्तः ।' यस्य विभाषा ' इति इट्प्रतिषेधः । अनुदात्तोपदेश' इत्यादिना नलोपः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिरनन्तरः' इति गतेरुदात्तत्वम् ॥
“The wise ever contemplate that supreme station of Viṣṇu, as the eye ranges over the sky.”
The princes evermore behold that loftiest place where Visnu is,
Laid as it were an eye in heaven.
That highest step of Visnu
The singers ever gaze upon
Like an eye stretched in the sky.
That is the highest footstep of Viṣṇu. The patrons always
behold it
stretched out like the eye [=sun] in heaven.
Auf ihn, des Vischnu höchsten Tritt; der wie des Himmels Auge glänzt, Schaun fort und fort die Weisen hin.
Immerdar schauen die freigebigen Patrone diese höchste Fußtapfe des Vishnu, die wie das Auge am Himmel weithin reicht.
На этот высший след Вишну
Всегда глядят приносящие жертву,
Как на глаз, разверстый в небе.
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांस॒: समि॑न्धते । विष्णो॒र्यत्प॑र॒मं प॒दम् ॥
तत् । विप्रा॑सः । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ । विष्णोः॑ । यत् । प॒र॒मम् । प॒दम् ॥
पूर्वोक्तं विष्णोः यत् परमं पदम् अस्ति तत् पदं विप्रासः मेधाविनः समिन्धते सम्यक् दीपयन्ति। कीदृशाः। विपन्यवः विशेषेण स्तोतारः जागृवांसः शब्दार्थयोः प्रमादराहित्येन जागरूकाः॥ विप्रासः । ‘आज्जसेरसुक्'। विपन्यवः । स्तुत्यर्थस्य पनेः बाहुलक औणादिको युप्रत्ययः । तत्र प्रत्ययस्वरः । जागृवांसः ।' जागृ निद्राक्षये '। लिटः क्वसुः । क्रादिनियमाप्राप्तस्य इटः ‘वस्वेकाजाद्धसाम् ' ( पा. सू. ७. २. ६७ ) इति नियमात् निवृत्तिः ॥ ॥ ७ ॥
“The wise, ever vigilant and diligent in praise, amply glorify that which is the supreme station of Viṣṇu.”
This, Vishnu's station most sublime, the singers, ever vigilant,
Lovers of holy song, light up.
That do the inspired poets, admiring and wakeful, kindle—
the highest footstep of Viṣṇu.
Und diesen Tritt des Vischnu, der der höchste ist, entzünden stets, Die Priester, wachsam, rühmenswerth.
Die laut preisenden Redner, die frühwachen, entflammen jene höchste Fußtapfe des Vishnu.
Вдохновенные, громко прославляющие,
Рано пробуждаясь, зажигают того,
Кто – высший след Вишну.