ती॒व्राः सोमा॑स॒ आ ग॑ह्या॒शीर्व॑न्तः सु॒ता इ॒मे । वायो॒ तान्प्रस्थि॑तान्पिब ॥
ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । आ॒शीःऽव॑न्तः । सु॒ताः । इ॒मे । वायो॒ इति॑ । तान् । प्रऽस्थि॑तान् । पि॒ब॒ ॥
हे वायो इमे सोमासः ऐन्द्रवायवग्रहादिरूपाः सोमाः सुताः अभिषुताः । ते च तीव्राः प्रभूतत्वात् तर्पयितुं समर्थाः आशीर्वन्तः आशीर्युक्ताः अतस्त्वम् आ गहि अस्मिन् कर्मणि आगच्छ । प्रस्थितान् उत्तरवेदिं प्रति आनीतान् तान् सोमान् पिब ॥ सोमासः । ‘ अर्तिस्तु ' ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । ‘ आज्जसेरसुक्'। गहि । मरुद्भिरग्न आ गहि' (ऋ. सं. १. १९. २) इत्यत्रोक्तम् । आशीर्वन्तः । ‘ श्रीजञ् पाके'। ‘ अपस्पृधेथाम् । ( पा. सू. ६. १. ३६ ) इत्यादिसूत्रे आङ्पूर्वस्य क्विपि शिरादेशो निपातितः । करणस्यापि श्रयणद्रव्यस्य स्वव्यापारे कर्तृत्वविवक्षया कर्तरि क्विप् न विरुध्यते । आशीः एषाम् अस्तीति आशीर्वन्तः । ‘ छन्दसीरः' इति वत्वम् । वायो । आमन्त्रिताद्युदात्तत्वम् । प्रस्थितान् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा व्यत्ययेन अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“These sharp and blessing-bearing Soma juices are poured out; come, Vāyu, and drink of them as presented.”
STRONG are the Somas; come thou nigh; these juices have been mixt with milk:
Drink, Vayu, the presented draughts.
Sharp are the soma drinks—come here. Here are the pressings mixed with milk.
Vāyu, drink those set forth.
O Vaju, komm, hier stehn gepresst die starken Soma's, milchgemischt; Die aufgetragnen trinke nun.
Herb ist der Soma, komm herbei, dieser Preßtrank ist mit Milch gemischt. Vayu! Trink den vorgesetzten!
Остры (на вкус) соки (сомы). Приди!
Эти выжатые (соки) смешаны с молоком.
О Ваю, пей их – они поданы!
उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे । अ॒स्य सोम॑स्य पी॒तये॑ ॥
उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ । इ॒न्द्र॒वा॒यू इति॑ । ह॒वा॒म॒हे॒ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥
दिविस्पृशा द्युलोकवर्तिनौ उभा देवा द्वौ देवौ इन्द्रवायू हवामहे आह्वयामः । किमर्थम् । अस्य सोमस्य पीतये । असकृत् व्याख्यातम् ॥ उभा देवा । ‘सुपां सुलुक्' इति आकारः । दिविस्पृशा । हृद्द्युभ्यां रूपसंख्यानम् ' (पा. सू. ६. ३. ९. १) इति सप्तम्या अलुक् । कृदुत्तरपद प्रकृतिस्वरत्वम् । इन्द्रवायू । इन्द्रश्च वायुश्च इति द्वन्द्वः । उभयत्र वायोः प्रतिषेधो वक्तव्यः ' ( पा. सू. ६. ३. २६. १ ) इति आनङो निषेधः । देवताद्वन्द्वे च ' इति प्राप्तस्य उभयपदप्रकृतिस्वरत्वस्य ‘नोत्तरपदेऽनुदात्तादौ ' ( पा. सू. ६. २. १४२ ) इति निषेधात् समासान्तोदात्तत्वमेव शिष्यते । हवामहे । “ ह्वेञ् स्पर्धायां शब्दे च '। ‘ बहुलं छन्दसि ' इति संप्रसारणम् । ' संप्रसारणाच्च' इति परपूर्वत्वम् । शप् । गुणावादेशौ । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण पदस्य आद्युदात्तत्वे प्राप्ते ' तिङ्ङतिङः' इति आष्टमिको निघातः । अस्य । ऊड़िदम्' इत्यादिना षष्ठ्या उदात्तत्वम् । पीतये । ‘ पा पाने । स्थागापापचः ' ( पा. सू. ३. ३. ९५) इति भावे क्तिन् । ‘ घुमास्था ' इति ईत्वम् । व्यत्ययेनान्तोदात्तत्वम् ॥
“We invoke both the divinities abiding in heaven, Indra and Vāyu, to drink of this Soma juice.”
Both Deities who touch the heaven, Indra and Vayu we invoke
To drink of this our soma juice.
Both gods who touch the heaven, Indra and Vāyu, do we call,
to drink of this soma.
Indra und Vaju laden wir, das himmelhohe Götterpaar, Zum Trunke dieses Soma's ein.
Die beiden Götter, die an den Himmel reichen, Indra und Vayu rufen wir, daß sie diesen Soma trinken.
Обоих богов, касающихся неба:
Индру-Ваю, мы зовем
Для питья этого сомы.
इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा॑ हवन्त ऊ॒तये॑ । स॒ह॒स्रा॒क्षा धि॒यस्पती॑ ॥
इ॒न्द्र॒वा॒यू इति॑ । म॒नः॒ऽजुवा॑ । विप्राः॑ । ह॒व॒न्ते॒ । ऊ॒तये॑ । स॒ह॒स्र॒ऽअ॒क्षा । धि॒यः । पती॒ इति॑ ॥
विप्राः मेधाविनः ऋत्विग्यजमानाः ऊतये रक्षणार्थम् इन्द्रवायू हवन्ते आह्वयन्ति । कीदृशौ मनोजुवौ मन इव वेगवेत्तरौ सहस्राक्षा सहस्रनयनयुक्तौ । यद्यपि इन्द्र एव सहस्राक्षः तथापि च्छत्रिन्यायेन वायुरपि तथोच्यते । धियस्पती कर्मणः बुद्धेर्वा पालकौ ॥ मनोजुवा । जवतिर्गतिकर्मा । मनोवत् जवतः इति मनोजुवा मन इव वेगयुक्तौ । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्° ' इति आकारः । विप्राः । औणादिको रन् । रन्प्रत्ययान्तः आद्युदात्तः। ऊतये। ऊतियूति' इत्यादिना क्तिनः उदात्तत्वम् । सहस्राक्षा। सहस्रम् अक्षीणि ययोस्तौ । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः ' ( पा. सू. ५. ४. ११३ ) इति षच् समासान्तः । बहुव्रीहिस्वरे प्राप्ते समासान्तप्रत्ययस्य सतिशिष्टत्वात् ‘ चितः 'इत्यन्तोदात्तत्वम् । धियः । ‘ सावेकाचः' इति ङस उदात्तत्वम् । ‘ षष्ठ्याः पतिपुत्र' इति संहितायां विसर्जनीयस्य सकारः । पती । डत्यन्तः आद्युदात्तः ॥
“The wise invoke, for their preservation, Indra and Vāyu, who are swift as thought, have a thousand eyes, and are protectors of pious acts.”
The singers' for their aid, invoke Indra and Vayu, swift as mind,
The thousand-eyed, the Lords of thought.
Indra and Vāyu, mind-swift, do the inspired poets call for help— the thousand-eyed lords of insight.
Zu Hülfe ruft der Sänger Schar sie, die mit tausend Augen schaun, Gedankenschnell, die Andachtsherrn.
Indra und Vayu, die gedankenschnellen rufen die Beredten zur Gnade, die tausendäugigen Meister des fromme Gedankens.
Индру-Ваю быстрые мыслью
Вдохновенные зовут для поддержки,
Двух тысячеглазых повелителей молитвы.
मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये । ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥
मि॒त्रम् । व॒यम् । ह॒वा॒म॒हे॒ । वरु॑णम् । सोम॑ऽपीतये । ज॒ज्ञा॒ना । पू॒तऽद॑क्षसा ॥
वयम् अनुष्ठातारः सोमपीतये सोमपानार्थं मित्रं वरुणं च उभौ आह्वयामः । कीदृशावुभौ । जज्ञाना कर्मप्रदेशे प्रादुर्भवन्तौ पूतदक्षसा शुद्धबलौ ॥ वरुणम् । ‘वृञ् वरणे'। ‘कृवृतॄदारिभ्य उनन्' ( उ. सू. ३. ३३३)। नित्त्वादाद्युदात्तः । सोमपीतये। दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । जज्ञाना । ‘ जनी प्रादुर्भावे'। 'छन्दसि लिट् ' (पा. सू. ३. २. १०५ )। तस्य ‘लिटः कानज्वा' (पा. सू. ३. २. १०६ ) इति कानजादेशः । गमहन' इत्यादिना उपधालोपः । तस्य ' अचः परस्मिन् ' इति स्थानिवद्भावात् जनशब्दस्य द्विर्वचनम् । “ स्तोः श्चुना श्चुः' ( पा. सू. ८. ४.४०) इति नकारस्य अकारः । ‘ चितः' इत्यन्तोदात्तत्वम् । पूर्ववत् आकारः । पूतदक्षसा । पूञ् पवने'।' निष्ठा' इति क्तः । श्र्युकः किति ' (पा. सू. ७. २. ११) इति इट्प्रतिषेधः । पूतं दक्षो ययोस्तौ ।' बहुव्रीहौ प्रकृत्या ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
“We invoke Mitra and Varuṇa, becoming present at the sacrifice, and of pure strength, to drink the Soma juice.”
Mitra and Varuna, renowned as Gods of consecrated might,
We call to drink the Soma juice.
Mitra do we call and Varuṇa, for soma-drinking—
the two born with refined skill.
Zum Somatrunke laden wir den Mitra und den Varuna, Die reingesinnten von Geburt.
Mitra rufen wir, und Varuna, zum Somatrunk, die mit lauterer Wirkenskraft geboren sind.
Митру мы зовем,
Варуну для питья сомы,
Двоих, родившихся с чистой силой действия.
ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ । ता मि॒त्रावरु॑णा हुवे ॥
ऋ॒तेन॑ । यौ । ऋ॒त॒ऽवृधौ॑ । ऋ॒तस्य॑ । ज्योति॑षः । पती॒ इति॑ । ता । मि॒त्रावरु॑णा । हु॒वे॒ ॥
यौ मित्रावरुणौ ऋतेन सत्यवचनेन यजमानानुग्रहकारिणा ऋतावृधौ ऋतम् अवश्यंभावितया सत्यं कर्मफलं तस्य वर्धकौ ऋतस्य सत्यस्य प्रशस्तस्य ज्योतिषः प्रकाशस्य पती पालकौ । श्रुत्यन्तरे मित्रावरुणयोः अदितिपुत्रत्वेन श्रुतत्वात् द्वादशादित्येष्वन्तर्भूतत्वेन ज्योतिष्पालकत्वं युक्तम् । श्रुत्यन्तरे च ‘ अष्टौ पुत्रासो अदितेः' इत्युपक्रम्य ‘ मित्रश्च वरुणश्च ' ( तै. आ. १. १३. २-३ ) इत्यादिकमाम्नातम् । ता मित्रावरुणा तथाविधौ मित्रावरुणौ हुवे आह्वयामि ॥ ऋतावृधौ ।' वृधु वृद्धौ । ‘ क्विप् च ' इति क्विप् । अन्येषामपि दृश्यते' इति दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ज्योतिषः । ‘द्युत दीप्तौ'। द्युतेरिसिन्नादेश्च जः ' ( उ. सू. २. २६७ ) इति इसिन्प्रत्ययः । नित्त्वादाद्युदात्तः । ‘ षष्ठ्याः पतिपुत्र° ' इति संहितायां विसर्जनीयस्य सत्वम् । मित्रावरुणा । देवताद्वन्द्वे च' (पा. सू. ६. ३. २६ ) इति आनङ् । ' देवताद्वन्द्वे च ' ( पा. सू. ६. २. १४१ ) इति उभयपदप्रकृतिस्वरत्वम् । ‘ सुपां सुलुक्° ' इति पूर्वसवर्णदीर्घ आकारः । हुवे । ह्वेञ् । आत्मनेपदोत्तमपुरुषैकवचने संप्रसारणे परपूर्वत्वे च कृते ' बहुलं छन्दसि ' इति शपो लुक्। टेः एत्वम् । गुणे प्राप्ते ‘ क्ङिति च' (पा. सू. १. १. ५) इति प्रतिषेधः । उवङादेशः । तिङ्ङतिङः ' इति निघातः ॥ ॥ ८ ॥
“I invoke Mitra and Varuṇa, who with true speech, are the encouragers of pious acts, and are lords of true lighṭ”
Those who by Law uphold the Law, Lords of the shining light of Law,
Mitra I call, and Varuna.
Those who through truth increase by truth, the lords of truth, of light, these two, Mitra and Varuṇa, do I call.
Die sich durch Recht des Rechtes freun, des Rechtes und des Glanzes Herrn, Mitra ruf' ich und Varuna.
Die durch die Wahrheit Wahrheitsmehrer sind, die Herren der Wahrheit, des Lichts, Mitra und Varuna, diese beiden rufe ich.
Кто истиной умножает истину,
Двоих повелителей света истины,
Этих Митру-Варуну я зову.
वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभि॑: । कर॑तां नः सु॒राध॑सः ॥
वरु॑णः । प्र॒ऽअ॒वि॒ता । भु॒व॒त् । मि॒त्रः । विश्वा॑भिः । ऊ॒तिऽभिः॑ । कर॑ताम् । नः॒ । सु॒ऽराध॑सः ॥
अयं वरुणः अस्माकं प्राविता भुवत् प्रकर्षेण रक्षको भवतु । मित्रः च विश्वाभिरूतिभिः सर्वाभिः रक्षाभिः प्राविता भुवत् । तावुभावपि नः अस्मान् सुराधसः प्रभूतधनयुक्तान् करतां कुरुताम् ॥ अविता । तृचश्चित्त्वादन्तोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भुवत् । ‘ भू सत्तायाम् '। लेटस्तिप् । 'लेटोऽडाटौ ' इति अडागमः । ‘ इतश्च लोपः०' इति इकारलोपः । ‘बहुलं छन्दसि' इति शपो लुक् । गुणे प्राप्ते ' भूसुवोस्तिङि' ( पा. सू. ७. ३. ८८ ) इति प्रतिषेधः । उवङादेशः । ‘ तिङ्ङतिङः' इति निघातः । विश्वाभिः ।“ अशिप्रुषि इत्यादिना क्वनन्तो विश्वशब्द आद्युदात्तः। टाप्सुपोः अनुदात्तत्वात् तदेव शिष्यते । ऊतिभिः। ऊतियूति इत्यादिना क्तिन् उदात्तः । करताम् । ‘कृञ् करणे'। भौवादिकः । लोटस्तस् । तसस्ताम् । कर्तरि शप् । गुणो रपरत्वम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । सुराधसः । राध साध संसिद्धौ । राध्नोति अनेन इति राधः धनम् । शोभनं राधः येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वं प्राप्तं ' सोर्मनसी अलोमोषसी' (पा. सू. ६. २. ११७ ) इत्युत्तरपदाद्युदात्तत्वेन बाध्यते ॥
“May Varuṇa be our especial protector; may Mitra defend us with all defences; may they make us most opulent.”
Let Varuna be our chief defence, let Mitra guard us with all aids
Both make us rich exceedingly.
Varuṇa will become a helper, as will Mitra with all forms of help. They will make us well rewarded.
Ein Helfer sei uns Varuna, mit allen Hülfen Mitra auch, Sie mögen reich beschenken uns.
Varuna, Mitra mit all ihren Hilfen mögen Helfer sein. Sie sollen uns reichbelohnt machen.
Пусть станет Варуна помощником,
(И) Митра со всеми подкреплениями!
Пусть сделают они нас щедро осыпанными дарами!
म॒रुत्व॑न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये । स॒जूर्ग॒णेन॑ तृम्पतु ॥
म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ । इन्द्र॒म् । आ । सोम॑ऽपीतये । स॒ऽजूः । ग॒णेन॑ । तृ॒म्प॒तु॒ ॥
मरुत्वन्तं मरुद्भिर्युक्तम् इन्द्रं सोमपीतये सोमपानाय आ हवामहे आह्वयामः । स च इन्द्रः गणेन मरुत्समूहेन सजूः सह 'तृम्पतु तृप्तो भवतु ॥ मरुत्वन्तम् । मरुतः अस्य सन्तीति मरुत्वान्। झयः ' ( पा. सू. ८. २. १० ) इति मतुपो वत्वम् । तसौ मत्वर्थे ' ( पा. सू. १. ४. १९ ) इति भसंज्ञायां पदसंज्ञाया बाधितत्वात् जश्त्वाभावः । मतुप्सुपौ पित्त्वादनुदात्तौ । ननु ‘ ह्रस्वनुड्भ्यां मतुप्' (पा. सू. ६. १. १७६ ) इति मतुप उदात्तत्वेन भवितव्यं, ‘स्वरविधौ व्यञ्जनमविद्यमानवत् ' ( परिभा० ७९ ) इति तकारस्य अविद्यमानवत्वेन ह्रस्वात् परत्वात् । न । ‘ ह्रस्वनुड्भ्याम् ' इत्यत्र नुङ्ग्रहणसामर्थ्यात् अविद्यमानपरिभाषा नाश्रीयते इति वृत्तावुक्तम् ( का. ६. १. १७६ )। अतो मरुच्छब्दस्य स्वर एव शिष्यते । सजूः । जुषी प्रीतिसेवनयोः '। संपदादिलक्षणः क्विप्। समाना प्रीतिः यस्य इति बहुव्रीहिः । ‘ समानस्य च्छन्दसि ' इति सभावः । ‘ ससजुषो रुः ' ( पा. सू. ८. २. ६६ ) इति रुत्वम् । र्वोरुपधायाः° ' ( पा. सू. ८. २.७६ ) इत्युपधादीर्घः । बहुव्रीहिस्वरे प्राप्ते ' त्रिचक्रादीनां छन्दसि' ( पा. सू. ६. २. १९९. १ ) इत्युत्तरपदान्तोदात्तत्वम् । तृम्पतु । ‘ तृप तृम्प तृप्तौ'। ' तुदादिभ्यः शः । ‘शे तृम्पादीनाम् । (पा. सू. ७. १. ५९. १) इति नुमागमः ॥
“We invoke Indra, attended by the Maruts to drink the Soma juice; may he, with his associates, be satisfied.”
Indra, by Maruts girt, we call to drink the Soma juice: may he
Sate him in union with his troop.
We call Indra accompanied by the Maruts here for soma-drinking. Along with the troop let him reach satiety.
Den Indra mit der Marutschar, ihn rufen wir zum Somatrunk; Mit seiner Schar ergötz' er sich.
Indra in Begleitung der Marut, rufen wir her zum Somatrunk; mit seiner Gefolgschaft zusammen soll er sich gütlich tun.
Мы зовем сопровождаемого Марутами
Индру на питье сомы
Пусть насытится он вместе с (их) толпой!
इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒: पूष॑रातयः । विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥
इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः । विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥
हे देवासः इन्द्रमरुद्रूपाः विश्वे सर्वे यूयं मम हवम् आह्वानं श्रुत शृणुत । कीदृशाः । इन्द्रज्येष्ठाः । इन्द्रो ज्येष्ठो मुख्यो येषु ते तथाविधाः मरुद्गणाः मरुत्समूहरूपाः । पूषरातयः । पूषाख्यो देवो रातिः दाता येषाम् इन्द्रमरुतां ते पूषरातयः ॥ इन्द्रज्येष्ठाः । आमन्त्रिताद्युदात्तत्वम् । पादादित्वादनिघातः । मरुद्गणाः । विभाषितं विशेषवचने बहुवचनम् ' ( पा. सू. ८. १. ७४ ) इति पूर्वस्याविद्यमानवत्त्वादनिघातः । देवासः पूषरातयः । पूर्ववत् । श्रुत । ‘ श्रु श्रवणे'। लोण्मध्यमबहुवचनं थ । तस्थस्थमिपाम् ' ( पा. सू. ३. ४. १०१ ) इति तादेशः । व्यत्ययेन शप् । बहलं छन्दसि' इति शपो लुक् । सार्वधातुकार्धधातुकयोः ' इति गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । ‘ द्व्यचोऽतस्तिङः' इति दीर्घः । हवम् । ह्वेञ् स्पर्धायां शब्दे च'। भावेऽनुपसर्गस्य ' ( पा. सू. ३. ३. ७५ ) इति अप्। संप्रसारणं परपूर्वत्वं गुणावादेशौ । पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते॥
“Divine Maruts, of whom Indra is the chief and Pūṣan is the donor, or benefactor; in what way, is not specified.”
Gods, Marut hosts whom Indra leads, distributers of Pusan's gifts,
Hearken ye all unto my cry.
Having Indra as chief, the Maruts as troop, and the gifts of Pūṣan, o gods,
all of you, hear my call.
Ihr Scharen, welche Indra führt, mit Puschan's Gaben Götter ihr, Vernehmet alle meinen Ruf.
Ihr Götter mit Indra an der Spitze, mit den Marut als Gefolgschaft und mit Pusan als Gönner, höret alle auf meinen Ruf!
О толпа Марутов с Индрой во главе,
(Вы,) боги, кому Пушан – даритель,
Все услышьте мой зов!
ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे॑ण॒ सह॑सा यु॒जा । मा नो॑ दु॒:शंस॑ ईशत ॥
ह॒त । वृ॒त्रम् । सु॒ऽदा॒न॒व॒ । इन्द्रे॑ण । सह॑सा । यु॒जा । मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥
हे सुदानवः शोभनदानयुक्ताः मरुद्गणाः सहसा बलवता युजा योग्येन इन्द्रेण सह वृत्रं शत्रुं हत नाशयत । दुःशंसः दुष्टेन शंसनेन कीर्तनेन युक्तो वृत्रो नः अस्मान् प्रति मा ईशत समर्थो मा भूत् ॥ हत । ‘हन हिंसागत्योः '। लोटः थ । तस्य त ।' अदिप्रभृतिभ्यः शपः' इति शपो लुक् । 'अनुदात्तोपदेश' (पा. सू. ६. ४. ३७ ) इत्यादिना अनुनासिकलोपः । सुदानवः। ‘डुदाञ् दाने '।' दाभाभ्यां नुः ' ( उ. सू. ३. ३१२) इति औणादिको नुप्रत्ययः । प्रादिसमासे आमन्त्रितनिघातः । युजा । ‘युजिर् योगे' । ‘ ऋत्विक् ' इत्यादिना क्विन् । ' सावेकाचः०' इति तृतीयैकवचनस्योदात्तत्वम् । दुःशंसः । ‘ ईषद्दुःसुषु' (पा. सू. ३. ३. १२६ ) इति खल् । ‘ लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम्। ईशत। इंश ऐश्वर्ये'। माङि लुङि प्राप्ते ‘छन्दसि लुङ्लङ्लिटः' इति व्यत्ययेन लङ्। तस्य ' बहुलं छन्दसि ' इति शपो लुगभावः । न माङयोगे' इति आडागमाभावः। ‘ तिङ्ङतिङः' इति निघातः ॥
“Liberal donors, along with the mighty and associated Indra, destroy Vṛtra; let not the evil one prevail against us.”
With conquering Indra for ally, strike Vrtra down, ye bounteous Gods
Let not the wicked master us.
Smash Vr̥tra, you of good drops [=Maruts/All Gods], with Indra and his might as yokemates.
Let no defamer hold sway over us.
Mit Indra schlagt, schöngebende, den Dämon Vritra, kraftgepaart, Nicht herrsch ein Böser über uns.
Erschlaget den Vritra, ihr Gabenschönen, mit dem starken Indra als Bundesgenossen! Nicht soll der Verleumder über uns Macht haben.
Убейте Вритру, о обладатели прекрасных даров,
Вместе с сильным Индрой, как с союзником!
Да не овладеет нами хулитель!
विश्वा॑न्दे॒वान्ह॑वामहे म॒रुत॒: सोम॑पीतये । उ॒ग्रा हि पृश्नि॑मातरः ॥
व्विश्वा॑न् । दे॒वान् । ह॒वा॒म॒हे॒ । म॒रुतः॑ । सोम॑ऽपीतये । उ॒ग्राः । हि । पृश्नि॑ऽमातरः ॥
मरुतः मरुत्संज्ञकान् विश्वान् सर्वान् देवान् सोमपीतये हवामहे सोमपानार्थम् आह्वयामः । ते च मरुतः उग्राः शत्रुभिरसह्यबलाः पृश्निमातरः पृश्नेः नानावर्णयुक्ताया भूमेः पुत्राः । हिशब्दः प्रसिद्ध्यर्थः । सा च प्रसिद्धिः ‘ पृश्नेः पुत्राः ' ( ऋ. सं. ५. ५८. ५) इति मन्त्रान्तरादवगन्तव्या ॥ पृश्निमातरः। पृश्निः माता येषां ते। पृश्निशब्दः ‘घृणिपृश्नि' (उ. सू. ४. ४९२) इति उणादावाद्युदात्तो निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ९ ॥
“We invoke all the divine Maruts, who are fierce, and have the (many- coloured) earth for their mother, to drink the Soma juice.”
We call the Universal Gods, and Maruts to the Soma draught,
For passing strong are Prsni's Sons.
The All Gods we call, the Maruts, for soma-drinking,
for they are strong, with Pr̥śni as their mother.
Zum Somatrunke laden wir der Maruts ganze Götterschar, Denn mächtig ist der Priçni Stamm.
Die Allgötter rufen wir, die Marut zum Somatrunk, denn gewaltig sind die Söhne der Prisnimutter.
Мы зовем Всех-Богов –
Марутов на питье сомы.
Ведь грозны те, чья мать Пришни!
जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या । यच्छुभं॑ या॒थना॑ नरः ॥
जय॑ताम्ऽइव । त॒न्य॒तुः । म॒रुता॑म् । ए॒ति॒ । धृ॒ष्णु॒ऽया । यत् । शुभ॑म् । या॒थन॑ । न॒रः॒ ॥
मरुतां देवानां तन्यतुः शब्दः धृष्णुया धार्ष्ट्ययुक्तः सन् एति गच्छति। केषामिव । जयतां विजययुक्तानां शूराणां भटानाम् इव । हे नरः नेतारः मरुतः यूयं यत् यदा शुभं शोभनं देवयजनं याथन प्राप्नुथ । तदा त्वदीयः शब्दो गच्छतीति पूर्वत्रान्वयः ॥ तन्यतुः । ‘ तनु विस्तारे '। ऋतन्यञ्जि° ' ( उ. सू. ४. ४४२ ) इत्यादिना यतुच्प्रत्ययः । धृष्णुया। ञिधृषा प्रागल्भ्ये '। ' त्रसिगृधिधृषिक्षिपेः क्नुः' ( पा. सू. ३. २. १४०)।' सुपां सुलुक्° ' इति सोः याजादेशः । चित्त्वादन्तोदात्तः । याथन ।' तप्तनसनथनाश्च' इति थनादेशः । यच्छब्दयोगात् निघाताभावः ॥
“Whenever, leaders (of men), you accept an auspicious (offering), then the shout of the Maruts spreads with exultation, like (that) of conquerors.”
Fierce comes the Maruts' thundering voice, like that of conquerors, when ye go
Forward to victory, O Men.
The thundering of (you) Maruts, like that of victors, goes boldly, when, o men, you drive in beauty.
Wie kühner Sieger Donnergang, so dringt der Maruts Toben vor, Wenn, Männer, ihr zum Glänze eilt.
Ungestüm ergeht der Marut Donner wie der Donnerruf der Sieger, wenn ihr Herren im Prunkzug ausfahrt.
Мощно рождается гром
Марутов, как (грозный клич) победителей,
Когда вы едете, чтобы покрасоваться, о мужи.
ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वन्तु नः । म॒रुतो॑ मृळयन्तु नः ॥
ह॒स्का॒रात् । वि॒ऽद्युतः॑ । परि॑ । अतः॑ । जा॒ताः । अ॒व॒न्तु॒ । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । नः॒ ॥
हस्कारात् दीप्तिकरात् विद्युतः विशेषेण दीप्यमानात् अतः अन्तरिक्षात् परि जाताः सर्वत उत्पन्ना मरुतः नः अस्मान् अवन्तु रक्षन्तु। तथाविधाः मरुतः नः अस्मान् मृळयन्तु सुखयन्तु ॥ हस्कारात् । हसे हसने ' । अत्र तु प्रकाशमात्रे वर्तते । अस्मात् संपदादिलक्षणः क्विप् । अस्मिन् उपपदे ‘ डुकृञ् करणे ' इत्यस्मात् ‘कर्मण्यम् ' (पा, सू. ३. २. १) इति अण्प्रत्ययः । तत्पुरुषे तुल्यार्थ' इत्यादिना पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिकारक ' इत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वम् । अतः कृकमि ' ( पा. सू. ८. ३, ४६ ) इत्यादिना विसर्जनीयस्य सत्वम् ॥
“May the Maruts, born from the brilliant lightning, everywhere preserve us, and make us happy.”
Born of the laughing lightning. may the Maruts guard us everywhere
May they be gracious unto Us.
Born out of the laughing lightening, from there let them help us; let the Maruts be merciful to us.
Die Marut's, die aus munterm Blitz erzeugt sind, mögen helfen uns Von dort her und uns gnädig sein.
Aus dem Lachen des Blitzes geboren sollen sie uns davor schützen; die Marut sollen uns gnädig sein.
От смеха молнии рожденные
Пусть защитят они нас от нее!
Да будут милостивы к нам Маруты!
आ पू॑षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः । आजा॑ न॒ष्टं यथा॑ प॒शुम् ॥
आ । पू॒ष॒न् । चि॒त्रऽब॑र्हिष॒म् । आघृ॑णे । ध॒रुण॑म् । दि॒वः । आ । अ॒ज॒ । न॒ष्टम् । यथा॑ । प॒शुम् ॥
हे पूषन् 'चित्रबर्हिषं विचित्रैर्दर्भैर्युक्तं धरुणं यागस्य धारकं सोमं दिवः आ द्युलोकात् आहर इति शेषः । पूषा विशेष्यते । आघृणे अगतदीप्तियुक्त । तत्र दृष्टान्तः । हे अज गमनशील यथा लोके नष्टं पशुं महारण्यादौ अन्वीक्ष्य कश्चिदाहरति तद्वत् ॥ आघृणे। ‘घृ क्षरणदीप्त्योः' इत्यस्मात् घृणिपृश्नि' इति निप्रत्ययो निपातितः । ऋवर्णाच्चेति वक्तव्यम्' इति णत्वम् । प्रादिसमासः । आमन्त्रिताद्युदात्तत्वम् । धरुणम् । ‘धृञ् धारणे'। अस्मात् ण्यन्ताद्धातोः ‘धारेर्णिलुक्च' ( दश. पा. ५) इति उनन्प्रत्ययः । व्यत्ययेन नित्स्वराभावे प्रत्ययस्वरः । दिवः । ऊडिदम्' इत्यादिना षष्ठ्या उदातत्वम् । अज। ‘ अज गतिक्षेपणयोः ॥
“Resplendent and (swift) moving Pūṣan, bring from heaven the Soma juice, in combination with the variegated sacred grass, as (a man brings back) an animal that was lost.”
Like some lost animal, drive to us, bright Pusan, him who bears up heaven,
Resting on many-coloured grass.
O Pūṣan, glowing one—the buttress of heaven [=Agni?] with his glittering ritual grass—
drive him here like lost livestock.
Den Trank, o Puschan, strahlender, der Götter labt, dess Streu erglänzt, Bring her wie ein verlornes Rind.
Pusan, du.....! Treib den Soma, der einen bunten Teppich hat, den Träger des Himmels, heim wie ein verlorenes Stück Vieh!
О Пушан, пылающий,
Пригони (сому,) обладателя пестрой соломы,
Опору неба, (пригони,) как пропавший скот.
पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तम् । अवि॑न्दच्चि॒त्रब॑र्हिषम् ॥
पू॒षा । राजा॑नम् । आघृ॑णिः । अप॑ऽगूळ्हम् । गुहा॑ । हि॒तम् । अवि॑न्दत् । चि॒त्रऽब॑र्हिषम् ॥
आघृणिः पूषा राजानं सोमम् अविन्दत् अलभत । कीदृशम् । अपगूळ्हम् अत्यन्तगूढम् । तत्र हेतुः । गुहा हितं गुहासदृशे दुर्गमे द्युलोके स्थितं तथा चित्रबर्हिषम् ॥ अपगूळ्हम् । ‘ गुहू संवरणे'। निष्ठा' इति कर्मणि क्तः । ‘ हो ढः' ( पा. सू. ८. २. ३१ ) इति ढत्वम् । झषस्तथोर्धोऽधः ' ( पा. सू. ८. २, ४० ) इति धकारः । ष्टुत्वढलोपदीर्घाः । समासे ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । गुहा ।' सुपां सुलुक्' इति सप्तम्या लुक् । हितम् । निष्ठायां दधातेर्हिः ॥
“The resplendent Pūṣan has found the royal (Soma juice), although concealed, hidden in a secret plural ce, strewed amongst the sacred grass.”
Pusan the Bright has found the King, concealed and hidden in a cave,
Who rests on grass of many hues.
Pūṣan the glowing has found the king [=Agni], hidden, laid in hiding, with his glittering ritual grass.
Der strahlenreiche Puschan fand den König, der verborgen war, Und der nun auf der Streu erglänzt.
Pusan, der....., fand den verborgenen, versteckten König Soma, der einen bunten Teppich hat.
Пушан пылающий нашел
(Сому) царя, скрытого, тайно положенного,
Обладателя пестрой соломы.
उ॒तो स मह्य॒मिन्दु॑भि॒: षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् । गोभि॒र्यवं॒ न च॑र्कृषत् ॥
उ॒तो इति॑ । सः । मह्य॑म् । इन्दु॑ऽभिः । षट् । यु॒क्तान् । अ॒नु॒ऽसेसि॑धत् । गोभिः॑ । यव॑म् । न । च॒र्कृ॒ष॒त् ॥
उतो अपि च सः पूषा मह्यं यजमानाय इन्दुभिः यागहेतुभिः सोमैः युक्तान षट् वसन्तादीन् ऋतून् अनुसेषिधत् अनुक्रमेण पुनःपुनर्नयन् वर्तते इति शेषः । तत्र दृष्टान्तः । गोभिः बलीवर्दैः यवं न चर्कृषत् नशब्द उपमार्थः । यथा यवमुद्दिश्य भूमिं प्रतिसंवत्सरं पुनःपुनः कृषति तद्वत् ॥ मह्यम् । ङयि च ' ( पा. सू. ६. १. २१२ ) इत्याद्युदात्तत्वम् । इन्दुभिः । ‘ उन्दी क्लेदने । ‘ उन्देरिच्चादेः ' ( उ. सू. १. १२ ) इति उप्रत्ययः, उकारस्य इकारादेशश्च । नित्' इति अनुवृत्तेराद्युदात्तत्वम् । युक्तान्। दीर्घादटि समानपादे ' इति संहितायां नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः । अनुसेषिधत् । षिधु गत्याम् ।' धातोरेकाचः ' ( पा. सू. ३. १. २२ ) इति यङ् । यङोऽचि च ' (पा. सू. २. ४. ७४ ) इति तस्य लुक् । प्रत्ययलक्षणेन ‘ सन्यङोः ' (पा. सू. ६. १. ९) इति द्विर्भावः । हलादिशेषः । ‘ गुणो यङ्लुकोः ' ( पा. सू. ७. ४. ८२ ) इति अभ्यासस्य गुणः । ‘ इण्कोः ' ( पा. सू. ८. ३. ५७ ) इति षत्वम् । सनादित्वात् धातुसंज्ञायां लटः शतृ। कर्तरि शप् । अदादिवच्च' इति वचनात् तस्य लुक् । ‘नाभ्यस्ताच्छतुः (पा. सू. ७. १. ७८ ) इति नुम्प्रतिषेधः । प्रत्ययस्वरे प्राप्ते ‘ अभ्यस्तानामादिः ' ( पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् । गोभिः । ‘ सावेकाचः' इति भिस उदात्तत्वे प्राप्ते ‘ न गोश्वन्° " इति प्रतिषेधः । चर्कृषत् । “ कृष विलेखने ' । यङ्लुकि द्विर्भावहलादिशेषचर्त्वानि । 'रुग्रिकौ च लुकि' (पा. सू. ७. ४. ९१ ) इति अभ्यासस्य रुगागमः । अस्मात् यङ्लुगन्तात् लेटस्तिप्। ‘इतश्च लोपः' । ‘लेटोऽडाटौ ' इति अडागमः । ‘ अदिप्रभृतिभ्यः शपः' इति शपो लुक् । लघूपधगुणे प्राप्ते ‘नाभ्यस्तस्याचि पिति” ' ( पा. सू. ७. ३. ८७ ) इति निषेधः । ‘ तिङ्ङतिङः' इति निघातः ॥ ॥ १० ॥
“Verily he has brought to me successively the six (seasons), connected with the drops (of the Soma juice) as (a husbandsman) repeatedly plural ughs (the earth) for barley.”
And may he. duly bring to me the six bound closely, through these drops,
As one who ploughs with steers brings corn.
And with drops (of ghee) he will keep driving along to me the six yoked (flames),
as if plowing a grain(field) with oxen.
Herführend durch den Indusaft die Sechsgepaarten, pflüge er Mit Stieren gleichsam mir das Feld.
Und er soll mir, indem er durch die Somasäfte sechs Gespanne erzielt, gleichsam Korn mit Rindern erpflügen.
И пусть он мне каплями сомы
Добьется шести упряжек,
Словно ячменя напашет на быках.
अ॒म्बयो॑ य॒न्त्यध्व॑भिर्जा॒मयो॑ अध्वरीय॒ताम् । पृ॒ञ्च॒तीर्मधु॑ना॒ पय॑: ॥
अ॒म्बयः॑ । य॒न्ति॒ । अध्व॑ऽभिः । जा॒मयः॑ । अ॒ध्व॒रि॒ऽय॒ताम् । पृ॒ञ्च॒तीः । मधु॑ना । पयः॑ ॥
अध्वरीयताम् अध्वरमात्मन इच्छताम् अस्माकम् अम्बयः मातृस्थानीया आपः । तथा च कौषीतकिब्राह्मणे समाम्नायते - अम्बयो यन्त्यध्वभिरित्यापो वा अम्बयः' इति । ता आपः अध्वभिः देवयजनमार्गैः यन्ति गच्छन्ति। कीदृश्य आपः। जामयः हितकारिण्यो बन्धवः । तथा मधुना माधुर्यरसेन युक्तं पयः पृञ्चतीः गवादिषु योजयन्त्यः ॥ अम्बयः । ‘ रबि लबि अबि शब्दे । एतस्मात् ‘अच इः ' ( उ. सू. ४. ५७८) इति प्रकरणे बाहुलकात् इः । प्रत्ययस्वरः । अध्वभिः । अदेर्ध च ' ( उ. सू. ४. ५५५) इति क्वनिप् । पित्त्वात् प्रत्ययस्यानुदात्तत्वे धातुस्वरः । जामयः । ‘ जमु अदने' । बाहुलकात् इः। अध्वरीयताम् । अध्वरशब्दात् ‘सुप आत्मनः क्यच् ' इति क्यच् ।' क्यचि च ' इति ईत्वम् । ‘ अपुत्रादीनामिति वक्तव्यम् ' ( पा. म. ७. ४. ३५ ) इति वचनात् ' न च्छन्दस्यपुत्रस्य ' इति ईत्वनिषेधाभावः । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते । इति ‘कव्यध्वरपृतनस्य ' ( पा. सू. ७. ४. ३९ ) इति अकारलोपोऽपि न भवति । क्यच्प्रत्ययान्तधातोः लटः शतृ । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण तयोः क्यचा सहैकादेशः । ‘ एकादेश उदात्तेनोदात्तः' इत्यन्तोदात्तत्वे सति ‘ शतुरनुमो नद्यजादी ' इति षष्ठ्या उदात्तत्वम् ।
“Mothers to us, who are desirous of sacrificing, the kindred (waters) flow by the paths (of sacrifice) qualifying the milk (of kine) with sweetnesṣ”
Along their paths the Mothers go, Sisters of priestly ministrants,
Mingling their sweetness with the milk.
The motherly ones [=waters], siblings, go along the ritual roads of those who perform the rites,
mixing the milk with honey.
Die Mütter gehn auf ihrem Pfad, verschwistert sie den Opfernden, Mit Honig mischend ihre Milch.
Die Mütter der diensttuenden Priester, die Schwestern ziehen ihre Wege, ihre Milch mit Süßigkeit durchtränkend.
Матери движутся (своими) путями,
Сестры исполняющих обряд,
Смешивая молоко (свое) с медом.
अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑: स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥
अ॒मूः । याः । उप॑ । सूर्ये॑ । याभिः॑ । वा॒ । सूर्यः॑ । स॒ह । ताः । नः॒ । हि॒न्व॒न्तु॒ । अ॒ध्व॒रम् ॥
याः अमूः आपः सूर्ये उप समीपेन अवस्थिताः। ‘ आपः सूर्ये समाहिताः' (तै. आ. १. ८. १ ) इति श्रुत्यन्तरात् । वा अथवा सूर्यः याभिः अद्भिः सह वर्तते । पूर्वत्रापां प्राधान्यम् उतरत्र सूर्यस्येति विशेषः । ताः तादृश्य आपो नः अस्मदीयम् अध्वरं यागं हिन्वन्तु प्रीणयन्तु । याभिः । ‘ सावेकाचः' इति विभक्त्युदात्तस्य ‘ न गोश्वन्साववर्ण° ' इति प्रतिषेधः। शेषा तु प्रक्रिया स्पष्टा ॥
“May those waters which are contiguous to the Sun, and those with which the Sun is associated, be propitious to our rite.”
May Waters gathered near the Sun, and those wherewith the Sun is joined,
Speed forth this sacrifice of ours.
Those (waters) yonder that are close to the sun, or with whom the sun is— let them propel our rite.
Die Wasser bei der Sonne dort, bei denen auch die Sonne weilt, Sie seien unserm Opfer hold.
Jene Gewässer, die bei der Sonne sind oder mit denen die Sonne ist, die sollen unsere Opferhandlung fördern.
Те, кто возле солнца,
Или с кем солнце вместе,
Они подгоняют наш обряд.
अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गाव॒: पिब॑न्ति नः । सिन्धु॑भ्य॒: कर्त्वं॑ ह॒विः ॥
अ॒पः । दे॒वीः । उप॑ । ह्व॒ये॒ । यत्र॑ । गावः॑ । पिब॑न्ति । नः॒ । सिन्धु॑ऽभ्यः । कर्त्व॑म् । ह॒विः ॥
नः अस्मदीयाः गावः यत्र यास्वप्सु पिबन्ति पानं कुर्वन्ति ताः अपो देवीः उप ह्वये आह्वयामि । सिन्धुभ्यः स्यन्दनशीलाभ्योऽद्भ्यो देवताभ्यो हविः कर्त्वं अस्माभिः कर्तव्यम् ॥ अपः । ‘ ऊडिदम्' इत्यादिना शस उदात्तत्वम् । पिबन्ति । 'पाघ्रा ' इत्यादिना पिबादेशः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । ‘ निपातैर्यद्यदि इत्यादिना निघाताभावः । कर्त्वम् । डुकृञ् करणे'।' कृत्यार्थे तवैकेकेन्यत्वनः' (पा. सू. ३. ४. १४ ) इति कर्मणि त्वन्प्रत्ययः । गुणः । नित्स्वरेणाद्युदात्तत्वम् ॥
“Invoke the divine waters in which our cattle drink; offer oblations to the following (streams).”
I call the Waters, Goddesses, wherein our cattle quench their thirst;
Oblations to the Streams be given.
The goddess Waters do I call upon. Wherever our cows drink,
to the rivers an oblation is to be made.
Die Wasser, unsrer Kühe Trunk, ruf' ich herbei, die Göttinnen, Den Strömen will ich Opfer weihn.
Die göttlichen Gewässer rufe ich her, aus denen unsere Kühe trinken. Den Flüssen soll ein Opfer bereitet werden!
Я призываю божественные воды,
Где пьют наши коровы.
Рекам надо сделать жертвенное возлияние.
अ॒प्स्व१॒॑न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तये । देवा॒ भव॑त वा॒जिन॑: ॥
अ॒प्ऽसु । अ॒न्तः । अ॒मृत॑म् । अ॒प्ऽसु । भे॒ष॒जम् । अ॒पाम् । उ॒त । प्रऽश॑स्तये । देवाः॑ । भव॑त । वा॒जिनः॑ ॥
अप्सु जलेषु अन्तः मध्ये अमृतं पीयूषं वर्तते । तस्य अब्विकारत्वात् । अमृतं वा आपः । (तै. सं. ५. ६. २. १-२ ) इति श्रुत्यन्तराच्च । तथैव अप्सु भेषजम् औषधं वर्तते । क्षुद्रोगनिवर्तकस्य अन्नस्य अप्कार्यत्वात् । उत अपि च तादृशीनाम् अपां देवतानां प्रशस्तये प्रशंसार्थं हे देवाः ऋत्विजादयो ब्राह्मणाः । ‘ एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः ' ( तै. सं. १. ७. ३. १ ) इति श्रुत्यन्तरात् । वाजिनः वेगवन्तः भवत । शीघ्रं स्तुतिं कुरुतेत्यर्थः ॥ अप्सु । ऊडिदम्' इत्यादिना सप्तम्या उदात्तत्वम्। संहितायाम् ' उदात्तस्वरितयोर्यणः स्वरितः०' इति स्वरितत्वम्। अमृतम्। नञो जरमरमित्रमृताः' (पा. सू. ६. २. ११६) इत्युत्तरपदाद्युदात्तत्वम् । प्रशस्तये । ' तादौ च निति ' (पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । भवत । ‘ आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्यामन्त्रितस्य अविद्यमानवत्वेन पादादित्वात् न निघातः ॥
“Ambrosia is in the waters; in the waters are medicinal herbs; therefore, divine (priest), be prompt in their praise.”
Amrit is in the Waters in the Waters there is healing balm
Be swift, ye Gods, to give them praise.
Within the waters is deathlessness, in the waters healing, and (it is right) to glorify the waters.
O gods, become prizewinners.
Im Wasser ist Ambrosia und Arzenei; die Wasser zu verherrlichen, Seid, o ihr Götter, schnell zur Hand.
In den Gewässern ist Lebensbalsam, in den Gewässern Arzenei, und zu Ehren der Gewässer seid, ihr Götter, siegesstark!
В водах – амрита, в водах – целебное средство,
И во славу вод
Будьте мужественны, о боги!
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा । अ॒ग्निं च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥
अ॒प्ऽसु । मे॒ । सोमः॑ । अ॒ब्र॒वी॒त् । अ॒न्तः । विश्वा॑नि । भे॒ष॒जा । अ॒ग्निम् । च॒ । वि॒श्वऽश॑म्भुवम् । आपः॑ । च॒ । वि॒श्वऽभे॑षजीः ॥
अप्सु जलेषु अन्तः मध्ये विश्वानि भेषजा सर्वाणि औषधानि सन्तीति मे मह्यं मन्त्रदर्शिने मुनये सोमः देवः अब्रवीत् । तथा विश्वशंभुवं सर्वस्य जगतः सुखकरम् एतन्नामकं च अग्निं च अप्सु वर्तमानं सोमोऽब्रवीत् । तथा च तैत्तिरीयाः ‘ अग्नेस्त्रयो ज्यायांसः' इत्यनुवाके ‘सोऽपः प्राविशत् ' ( तै. सं. २. ६. ६. १ ) इति अग्नेः अप्सु प्रवेशमामनन्ति । लतागुल्मवृक्षमूलादीनाम् औषधानां वृष्टिजन्यत्वेन जलवर्तित्वं प्रसिद्धम् । विश्वभेषजीः विश्वानि भेषजानि यासु तथाविधाः अपः अपि अब्रवीत् ॥ भेषजा । सुपां सुलुक्' इति आकारः । विश्वशंभुवम् । भवतेरन्तर्भावितण्यर्थात् क्विप् । व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । विश्वे सर्वेऽपि व्यापाराः सुखकरा यस्य । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' ( पा. सू. ६. २. १०६ ) इति पूर्वपदान्तोदात्तत्वम् । आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् ।' अप्तृन् ' ( पा. सू. ६. ४. ११ ) इत्यादिना उपधादीर्घः । विश्वभेषजीः । विश्वशंभुवमितिवत् ॥ ॥ ११ ॥
“Soma has declared to me, 'all medicaments, as well as Agni, the benefactor of the universe, are in the waters'; the waters, contain all healing herbs.”
Within the Waters--Soma thus hath told me--dwell all balms that heal,
And Agni, he who blesseth all. The Waters hold all medicines.
“Within the waters,” Soma said to me, “are all healing remedies, and Agni who is weal to all.” And the waters are healing for all.
Im Wasser, sagte Soma mir, ist alle Arzenei vereint Und Agni, der das All erquickt.
Soma belehrt mich, daß in den Wassern alle Arzeneien und der allersprießliche Agni sei, und daß die Wasser allheilend sind.
Мне сказал сома, что в водах –
Все целебные средства
И Агни всеблагой
И что воды всеисцеляющи.
आप॑: पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ । ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ । ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥
हे आपः मम तन्वे शरीरार्थं वरूथं रोगनिवारकं भेषजम् औषधं पृणीत पूरयत । किंच ज्योक् चिरं सूर्यं दृशे द्रष्टुं नीरोगा वयं शक्नुवाम इति शेषः ॥ पृणीत । पॄ पालनपूरणयोः । ‘ लोण्मध्यमबहुवचनं थ । तस्य ‘ तस्थस्थमिपाम् ' इति तादेशः । ‘ क्र्यादिभ्यः श्ना'। ' प्वादीनां हस्वः' इति ह्रस्वः । ‘ ई हल्यघोः' इति ईत्वम् । ऋवर्णाच्च°' इति णत्वम् । ‘ सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति तिङः स्वरः शिष्यते । आपः इत्यस्य ' आमन्त्रितं पूर्वमविद्यमानवत् । इति अविद्यमानवत्त्वे पादादित्वात् निघाताभावः । वरूथम् । वृञ् वरणे'।' जॄवृञ्भ्यामूथन् । ( उ. सू. २. १६३ ) । नित्त्वादाद्युदात्तः । तन्वे । ङिति ह्रस्वश्च ' ( पा. सू. १. ४. ६ ) इति नदीसंज्ञा पाक्षिकी इति आडागमाभावः। ‘ उदात्तयणो हल्पूर्वात्' इति विभक्त्युदात्तत्वे प्राप्ते व्यत्ययेन ' उदात्तस्वरितयोः० ' इति स्वरितत्वम् । दृशे । ‘दृशे विख्ये च ' ( पा. सू. ३. ४. ११ ) इति तुमर्थे निपात्यते ॥
“Waters, bring to perfection all disease-dispelling medicaments for (the good of) my body, that I may long behold the sun.”
O Waters, teem with medicine to keep my body safe from harm,
So that I long may see the Sun.
O Waters, fully grant healing and protection for my body
and (for me) to see the sun for a long time.
O Wasser füllet Arzenei, Beschirmung meinem Leibe zu, Dass lang ich noch die Sonne schau.
Ihr Gewässer, spendet reichlich eure Arzenei als Schutz für meinen Leib, und daß ich noch lange die Sonne sehe!
О воды, пожертвуйте щедро целебное средство
Как защиту для тела моего,
И чтобы я долго видел солнце!
इ॒दमा॑प॒: प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ । यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दु॒रि॒तम् । मयि॑ । यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥
मयि यजमाने यत् किं च दुरितम् अज्ञानात् निष्पन्नं वा अथवा अहं यजमानः अभिदुद्रोह सर्वतो बुद्धिपूर्वकं द्रोहं कृतवानस्मि वा अथवा शेपे साधुजनं शप्तवानस्मीति यत् अस्ति उत अपि च अनृतम् उक्तवान् इति यत् अस्ति तत् इदं सर्वमपराधजातं प्र वहत मत्तोऽपनीय प्रवाहेणान्यतो नयत ॥ मयि । मपर्यन्तस्य ‘त्वमावेकवचने' इति मादेशे कृते अतो गुणे ' इति पररूपे च सति योऽचि ' इति दकारस्य यकारादेशः । एकादेशस्वरेण मकारात् परस्य अकारस्योदात्तत्वम् । दुद्रोह ।' द्रुह जिघांसायाम् । णलि गुणे द्विर्वचनह्रस्वहलादिशेषाः! ‘ लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । यद्वृत्तयोगात् निघाताभावः । शेपे । ‘शप आक्रोशे'। लिटि व्यत्ययेन तङ् । उत्तमैकवचनम् इट् । टेः एत्वम् । अत एकहलमध्ये ' ( पा. सू. ६. ४. १२० ) इति एत्वाभ्यासलोपौ । प्रत्ययस्वरेणान्तोदात्तत्वम् । पूर्ववत् निघाताभावः ॥
“Waters, take away whatever sin has been (found) in me whether I have (knowingly) done wrong, or have pronounced imprecations (against holy men) or (have spoken) untruth.”
Whatever sin is found in me, whatever evil I have wrought.
If I have lied or falsely sworn, Waters, remove it far from me.
O Waters, carry this away, whatever trouble is in me—
whether I have committed deceit or I have cursed—as well as untruth.
O Wasser, traget alles fort, was irgend Unrecht ist an mir, Was andern Uebles ich gethan, was ich gelogen, was geflucht.
Ihr Gewässer führet all das fort, was von Fehle an mir ist, sei es daß ich treulos war, oder daß ich geflucht habe und jede Unwahrheit!
Унесите прочь, о воды, то,
Что греховно во мне:
Если я обманул
Или если проклял, и (всю) неправду!
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि । पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
आपः॑ । अ॒द्य । अनु॑ । अ॒चा॒रि॒ष॒म् । रसे॑न । सम् । अ॒ग॒स्म॒हि॒ । पय॑स्वान् । अ॒ग्ने॒ । आ । ग॒हि॒ । तम् । मा॒ । सम् । सृ॒ज॒ । वर्च॑सा ॥
अद्य अस्मिन् दिने अवभृथार्थम् आपः अन्वचारिषं जलान्यनुप्रविष्टोऽस्मि । प्रविश्य च रसेन जलसारेण समगस्महि संगताः स्मः। हे अग्ने पयस्वान् जले वर्तमानत्वेन पयोयुक्तः त्वम् आ गहि । अस्मिन् कर्मण्यागच्छ। तं मा तादृशं स्नातं मां वर्चसा तेजसा सं सृज संयोजय॥ आपः । कर्मणि शसि प्राप्ते व्यत्ययेन जस् । अचारिषम् । चर गत्यर्थः । लुङि च्लेः सिच् । ‘ आर्धधातुकस्येड्वलादेः' (पा. सू. ७. २. ३५) इति इट् । नेटि' (पा. सू. ७. २. ४ ) इति वृद्धिप्रतिषेधे प्राप्ते तदपवादतया ‘ अतो ल्रान्तस्य' (पा. सू. ७. २. २) इति उपधाया वृद्धिः। अगस्महि । “ समो गम्यृच्छि° ' (पा. सू. १. ३. २९) इति आत्मनेपदम् । च्लेः सिच् । 'मन्त्रे घस०' इत्यादिना च्लेर्लुगभावश्छान्दसः । ‘ एकाच उपदेशेऽनुदात्तात् ' (पा. सू. ७. २. १० ) इति इट्प्रतिषेधः । ‘वा गमः' (पा. सू. १. २. १३) इति सिचः कित्त्वात् “ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । गहि । लोटि गमेः सिपो हिः । अपित्त्वेन ङित्त्वात् ' अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ अतो हेः' इति लुक् न भवति; ‘ असिद्धवदत्रा भात्' इति मलोपस्यासिद्धत्वात् ॥
“I have this day entered into the waters; we have mingled with their essence; Agni, abiding in the waters, approach, and fill me, thus (bathed), with vigour.”
The Waters I this day have sought, and to their moisture have we come:
O Agni, rich in milk, come thou, and with thy splendour cover me.
O Waters, today I have followed (you). We have united with your sap. Full of milk, come here, o Agni. Merge me with luster.
Den Wassern ging ich heute nach, wir einten uns mit ihrer Flut; Komm, Agni, her mit Milch benetzt, und mich benetze du mit Glanz.
Die Gewässer habe ich heut aufgesucht; wir sind mit dem Naß in Berührung gekommen. Komm Milch bringend, Agni; begabe mich hier mit Ansehen!
Die Gewässer habe ich heute aufgesucht; wir sind mit ihrem Naß in Berührung gekommen. Komm Milch bringend, Agni, begabe mich hier mit Anziehungskraft!
Сегодня я добрался до вод.
Мы встретились с (их) влагой.
С молоком приди, о Агни!
Соедини меня с блеском!
सं मा॑ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा । वि॒द्युर्मे॑ अस्य दे॒वा इन्द्रो॑ विद्यात्स॒ह ऋषि॑भिः ॥
सम् । मा॒ । अ॒ग्ने॒ । वर्च॑सा । सृ॒ज॒ । सम् । प्र॒ऽजया॑ । सम् । आयु॑षा । वि॒द्युः । मे॒ । अ॒स्य॒ । दे॒वाः । इन्द्रः॑ । वि॒द्या॒त् । स॒ह । ऋषि॑ऽभिः ॥
हे अग्ने वर्चःप्रजायुर्भिः मां संयोजय । देवाः सोमपातारः अस्य मे यजमानस्य विद्युः अनुष्ठानं जानीयुः । किंच इन्द्रः च ऋषिगणैः सह ममानुष्ठानं विद्यात् जानीयात् ॥ विद्युः । ‘ विद ज्ञाने'। लिङि झेर्जुस्' ( पा सू. ३. ४. १०८ ) । यासुट् । ‘ लिङः सलोपः' इति सकारलोपः । ‘ उस्यपदान्तात् ' ( पा. सू. ६. १. ९६ ) इति पररूपत्वम् । यासुट उदात्तत्वेन एकादेश उकारोऽपि उदात्तः । अस्य । इदमोऽन्वादेशे° ' इति अशनुदात्तः । विभक्तिरपि सुप्त्वेन अनुदात्ता । सह ऋषिभिः इत्यत्र ‘ऋत्यकः' (पा. सू. ६. १. १२८) इति प्रकृतिभावः ॥ ॥१२॥ ॥५॥
“Agni, confer upon me vigour, progeny and life, so that the gods may know the (sacrifice) of this my (employer), and Indra with the Ṛṣis, may know it.”
Fill me with splendour, Agni; give offspring and length of days; the Gods
Shall know me even as I am, and Indra with the Rsis, know.
Merge me with luster, Agni, with offspring, with long life.
The gods should know this (hymn?) of mine; Indra should know it
along with the seers.
As Oldenberg (1888: 225) observes, I.24–30, the Śunaḥśepa hymns, like the preced ing Medhātithi hymns (I 12–23), generally follow the organization of the hymns of Maṇḍala VIII. He argues that irregularities in the placement of I.25, 27, and 30 can be explained if these hymns are composites of several hymns.
The story of Śunaḥśepa, the putative poet of these hymns, appears in Aitareya Brāhmaṇa VII 13–18 and Śāṅkhāyana Śrauta Sūtra XV 17–27. According to the story, King Hariścandra had begged Varuṇa for a son and promised that if Varuṇa gave him one, he would sacrifice his son to the god. A boy, Rohita, was born to Hariścandra, but the king managed to delay the sacrifice of his son until Rohita reached adulthood. When the king could no longer avoid the inevitable sacrifice, he told Rohita that he was to be sacrificed to Varuṇa. But Rohita refused to be the sacrificial victim and departed the kingdom. As a result Hariścandra was struck by dropsy in punishment for not performing the sacrifice.
In his travels Rohita eventually came upon a poor brahmin named Ajīgarta, who sold his son Śunaḥśepa to Rohita to be a substitute sacrificial victim. Rohita returned with Śunaḥśepa and Varuṇa accepted the substitution of Śunaḥśepa for Rohita. But when Śunaḥśepa was bound to the stake and was about to be killed, he appealed to the gods by reciting I.24.1 to Prajāpati, the god Ka (cf. 1a kásya “of which (god)?” and 1c káḥ “who?”), 24.2 to Agni, 24.3–5 to Savitar, 24.6–15 and I.25 to Varuṇa, I.26 and 27.1–12 to Agni, 27.13 to the All Gods, I.29 and 30.1–16 to Indra, 30.17–19 to the Aśvins, and 30.20–22 to Dawn. Each time Śunaḥśepa recited a verse, one of his bonds was loosened and Hariścandra’s belly became smaller. With the last verse Śunaḥśepa was free of his bonds and Hariścandra was free of disease. Although I.24 refers directly to Śunaḥśepa and to his rescue by Varuṇa, the story of Śunaḥśepa in the form in which it told in the Aitareya Brāhmaṇa does not fully correspond to that at the basis of any of the hymns in this collection. Probably closer to the R̥gvedic version is that alluded to in the Yajurveda. Taittirīya Saṃhitā
V 2.1.3 and Kāṭhaka Saṃhitā XIX 11 say simply that Śunaḥśepa had been seized by Varuṇa but then rescued himself from Varuṇa’s bonds.
Benetze, Agni, mich mit Glanz, mit Alter und mit Kinderschar, Dess sei'n die Götter Zeugen mir und Indra nebst den Sehern auch.
Begab mich, Agni, mit Ansehen, mit Nachkommenschaft und langem Leben! Die Götter mögen mir dessen Zeuge sein, Indra möge mit den Rishi´s Zeuge sein.
С блеском меня соедини,
С потомством, с долгой жизнью!
Да подтвердят мне это боги!
Да подтвердит Индра вместе с риши!