कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
कस्य॑ । नू॒नम् । क॒त॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ । कः । नः॑ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥
‘कस्य ' इत्यनयर्चा शुनःशेपो यूपे बद्धः कांदिशीकः कं देवम् उपधावानि इति विचिकित्सति। तथा च आम्नायते- हन्ताहं देवता उपधावामीति स प्रजापतिमेव प्रथमं देवतानामुपससार ' ( ऐ. ब्रा. ७. १६ ) इति । वयं शुनःशेपनामकाः अमृतानां देवतानां मध्ये कतमस्य किंजातीयस्य कस्य देवस्य चारु शोभनं नाम मनामहे उच्चारयामः । कः देवो मां मुमूर्षुं पुनः अपि मह्यै महत्यै अदितये पृथिव्यै दात् दद्यात् । तेन दानेन अहममृतः सन् पितरं मातरं च दृशेयं पश्येयम् ।' को वै नाम प्रजापतिः' (ऐ. ब्रा. ३.२१ ) इति श्रुतेः कस्य इति शब्दसामान्यात् अनया प्रजापतिरेव उपसृतः इति गम्यते ॥ कतमस्य । किंशब्दात् ' वा बहूनां जातिपरिप्रश्ने डतमच् ' (पा. सू. ५. ३. ९३ )। ‘चितः' इत्यन्तोदात्तत्वम् । अमृतानाम् । नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वे प्राप्ते 'नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । मनामहे! ‘मन ज्ञाने'। व्यत्ययेन शप् । पादादित्वादनिघातः । मह्यै । ‘उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । दात् । गातिस्था' (पा. सू. २. ४. ७७ ) इति सिचो लुक् । बहुलं छन्दस्यमाङयोगेऽपि ' इति अडागमाभावः। दृशेयम् । “ दृशिर् प्रेक्षणे '। आशीर्लिङि मिपः अम् । ‘दृशेरग्वक्तव्यः' (पा. म. ३. १. ८६. २) इति अक्प्रत्ययः शपोऽपवादः। कित्वागेत् लघूपधगुणाभावः । ‘लिङ्याशिष्यङ्' (पा. सू. ३. १. ८६ ) इति अङि हि सति ‘ऋदृशोऽङि गुणः' (पा. सू. ७. ४. १६) इति गुणः स्यात् । यासुट् । सलोपः। अतो येयः । ‘आद्गुणः । यासुटः स्वरेण एकार उदात्तः । मातरं च इत्यत्र चशब्दात् दृशेयम् इति अनुषज्यते । अतः तदपेक्षयैषा तिङ्विभक्तिः प्रथमा इति ‘चवायोगे प्रथमा ' इति न निहन्यते ।
“Of whom, or of which divinity of the immortals, shall we invoke the auspicious name? who will give us to the great Aditi that I may again behold my father and my mother.”
WHO now is he, what God among Immortals, of whose auspicious name we may bethink us?
Who shall to mighty Aditi restore us, that I may see my Father and my Mother?
The dear name of which god, of which of the immortals, shall we recall? Who will return us to great Aditi [/Guiltlessness]? I would see my father and mother.
Welch Gott ist's, der Unsterblichen wie vielter, in dessen theuren Namen wir gedenken? Wer gibt der grossen Aditi zurück uns, dass Vater ich und Mutter wieder schaue?
Wer ist der Gott, welcher unter den Unsterblichen, an dessen teuren Namen wir jetzt gedenken ? Wer gibt uns der großen Aditi zurück ? Möchte ich Vater und Mutter sehen !
Милое имя какого бога,
Которого из бессмертных мы сейчас вспомним?
Кто же снова вернет нас великой Несвязанности,
Чтобы я видел отца и мать?
अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ । स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
अ॒ग्नेः । व॒यम् । प्रथ॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ । सः । नः॑ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥
इत्थं प्रथमया ऋचा विचिकित्सां कृत्वा प्रजापतेः सकाशात् तं देवम् अग्निं निश्चित्य अनया तुष्टाव । तथा च श्रूयते-’तं प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति सोऽग्निमुपससाराग्नेर्वयं प्रथमस्यामृतानामित्येतयर्चा ' ( ऐ. ब्रा. ७. १६) इति । पूर्ववत् योजना । दात् ददातु दृशेयं पश्यानि इत्येवम् आशीःपरत्वेन पदद्वयं योज्यम् ॥
“Let us invoke the auspicious name of Agni, the first divinity of the immortals, that he may give us to the great Aditi, and that I may behold agin my father and my mother.”
Agni the God the first among the Immortals,--of his auspicious name let us bethink us.
He shall to mighty Aditi restore us, that I may see my Father and my Mother.
We will recall the dear name of the god Agni, of the first of the
immortals.
He will return us to great Aditi. I would see my father and mother.
Gott Agni ist's, der ew'gen Götter erster, an dessen theuren Namen wir gedenken; Er gibt der grossen Aditi zurück uns, dass Vater ich und Mutter wieder schaue.
Gott Agni ist der erste der Unsterblichen, an dessen teuren Namen wir gedenken. Er soll uns der großen Aditi zurückgeben. Möchte ich Vater und Mutter sehen.
Мы вспомним милое имя бога
Агни – первого из бессмертных.
Он вернет нас снова великой Несвязанности,
Чтобы я видел отца и мать!
अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् । सदा॑वन्भा॒गमी॑महे ॥
अ॒भि । त्वा॒ । दे॒व॒ । स॒वि॒तः॒ । ईशा॑नम् । वार्या॑णाम् । सदा॑ । अ॒व॒न् । भा॒गम् । ई॒म॒हे॒ ॥
अथ अग्निना प्रेरितः सन् सवितारम् ‘अभि त्वा' इत्यनेन तृचेन प्रार्थयते । तथैव श्रूयते-- तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन ' (ऐ. ब्रा. ७. १६ ) इति । हे सदावन् सदा सर्वदा रक्षक हे सवितः देव वार्याणां वरणीयानां धनानाम् ईशानं स्वामिनं त्वां प्रति भागं भजनीयं धनम् अभि सर्वतः ईमहे याचामहे ॥ ईशानम्। ईश ऐश्वर्ये'। लटः शानच् । ‘ तास्यनुदात्तेत्' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । वार्याणाम् । ‘वृङ् संभक्तौ'।' ऋहलोर्ण्यत्'। ईडवन्द इत्यादिनाद्युदात्तत्वम् । अवन् । आमन्त्रितनिघातः । भागम् ।' कर्षात्वतः' इति घञोऽन्तः उदात्तः ॥
“Ever-protecting Savitā, we solicit (our) portion of you, who are the lord of affluence.”
To thee, O Savitar, the Lord of precious things, who helpest us
Continually, for our share we come-
O god Savitar, master of desirable things,
we implore you for a portion, o you who ever give.
Dich, o Gott Savitar, der du über schöne Güter verfügst, der stets du hilfst, flehn wir um unsern Antheil an.
Dich, Gott Savitri, den Besitzer alles Wünschenswerten, du stets Helfender, bitten wir um einen Anteil.
К тебе, о бог Савитар,
Владыке всего желанного,
Мы идем за долей, о (ты,) дающий!
यश्चि॒द्धि त॑ इ॒त्था भग॑: शशमा॒नः पु॒रा नि॒दः । अ॒द्वे॒षो हस्त॑योर्द॒धे ॥
यः । चि॒त् । हि । ते॒ । इ॒त्था । भगः॑ । श॒श॒मा॒नः । पु॒रा । नि॒दः । अ॒द्वे॒षः । हस्त॑योः । द॒धे ॥
हे सवितः यः भगः भजनीयो धनविशेषः ते तव हस्तयोर्दधे धृतोऽभूत् तं धनविशेषम् ईमहे इति पूर्वत्रान्वयः । चिच्छब्दः पूजार्थे हिशब्दः प्रसिद्धौ। धनस्य पूज्यत्वं सर्वत्र प्रसिद्धम् । तामेव पूज्यत्वप्रसिद्धिं विशदयति । इत्था शशमानः अनेन प्रकारेण शस्यमानः स्तूयमानः । धनस्तुतिप्रकारं च सर्वे जानन्ति। ननु स्वकीये धने वैरिभिः अपहृते सति वैरिगृहीतं धनं सर्वो लोको निन्दति द्वेष्टि च । अतो धनस्तुतिः न नियता इत्याशङ्क्याह । निदः पुरा अद्वेषः निन्दायाः पूर्वं स्वकीयत्वेन व्यवस्थिते सति तदानीं द्वेषरहितः । तस्मात् स्वकीयत्वाभिप्रायेण स्तूयमानत्वमुक्तमित्यर्थः ॥ इत्था । प्रकारवचने ' इदमस्थमुः ' ( पा. सू. ५. ३. २४ )। ‘सुपां सुलुक् । इति व्यत्ययेन विभक्तेः डादेशः । टिलोपे उदात्तनिवृत्तिस्वरेण आकार उदात्तः । शशमानः । ‘शश प्लुतगतौ '। इह तु स्तुत्यर्थः। ताच्छील्यवयोवचन ' ( पा. सू. ३. २. १२९) इति ताच्छीलिकानश् । कर्तरि शप् । ‘चितः' इत्यन्तोदात्तत्वम् । निदः । ‘णिदि कुत्सायाम्। संपदादिलक्षणः क्विप्। सावेकाचः° ' इति पञ्चम्या उदात्तत्वम् । अद्वेषः । न विद्यते द्वेषोऽस्य इति बहुव्रीहौ ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । दधे । कर्मणि लिट् । तस्य आर्धधातुकत्वेन ‘अभ्यस्तानामादिः' इत्याद्युदात्तो न भवति । प्रत्ययस्वर एव शिष्यते । यद्वृत्तयोगात् निघाताभावः ॥
“That wealth which has been retained in your hands, and is entitled to commendation, as exempt from envy or reproach.”
Wealth, highly lauded ere reproach hath fallen on it, which is laid,
Free from all hatred, in thy hands
For also the one who is Fortune [/Bhaga], laboring correctly for you ahead of reproach,
has received freedom from hatred in his hands.
Denn welcher Antheil, vor Schmähern wohl gesichert, unangefeindet, nur irgend in deine Hände gelegt ist,
Denn was auch der so bereite Bhaga für dich, vor Tadel geschützt, unangefochten, in den Händen hält,
Ведь та поистине Счастливая доля,
Что, покоясь за пределами зависти,
Была бесстрастно вложена в твои руки, –
भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा । मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥
भग॑ऽभक्तस्य । ते॒ । व॒यम् । उत् । अ॒शे॒म॒ । तव॑ । अव॑सा । मू॒र्धान॑म् । रा॒यः । आ॒ऽरभे॑ ॥
हे सवितः ते त्वदीयाः वयं शुनःशेपनामानः भगभक्तस्य धनेन संयुक्तस्य तवावसा रक्षणेन उदशेम उत्कर्षेण व्याप्नुमः । किं कर्तुम् । 'रायः धनस्य मूर्धानम् उत्कर्षम् आरभे प्रारब्धुम् । धनिकत्वप्रसिद्धया व्याप्ता भूयामेत्यर्थः? ॥ भगशब्दो वृषादित्वादाद्युदात्तः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । अशेम । अशू व्याप्तौ' । लिङि व्यत्ययेन परस्मैपदम् । शप् । रायः। ‘ऊडिदम् ' इति षष्ठ्या उदात्तत्वम् । आरभे । ‘कृत्यार्थे तवैकेन्” ' इति तुमर्थे केन्प्रत्ययः । नित्स्वरेणा-. द्युदात्तत्वम् ॥ ॥ १३ ॥
“We are assiduous in attaining the summit of affluence, through the protection of you, who are the possessor of wealth.”
Through thy protection may we come to even the height of affluence
Which Bhaga hath dealt out to us.
We would reach upward to (a portion) of that apportioned by Bhaga through your help,
in order to take hold of the head of wealth.
Den von den Göttern zugetheilten mögen wir durch deine Hülfe erlangen, um des Reichthums Gipfel zu ergreifen.
Möchten wir mit deinem Beistand hinaufreichen, um das Oberste des von Bhaga ausgeteilten Reichtums zu erfassen.
У тебя, наделенного Счастливой долей, мы
Хотим приобщиться с твоей помощью
К вершине богатства, чтобы опереться (о нее).
न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः । नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥
न॒हि । ते॒ । क्ष॒त्रम् । न । सहः॑ । न । म॒न्युम् । वयः॑ । च॒न । अ॒मी इति॑ । प॒तय॑न्तः । आ॒पुः । न । इ॒माः । आपः॑ । अ॒नि॒ऽमि॒षम् । चर॑न्तीः । न । ये । वात॑स्य । प्र॒ऽमि॒नन्ति॑ । अभ्व॑म् ॥
अथ सवित्रा प्रेरितः शुनःशेपः एतदादिसूक्तशेषेण उत्तरेण च सूक्तेन वरुणं तुष्टाव। तथा च श्रूयते-’तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोऽसि तमेवोपधावेति स वरुणं राजानमुपससारात उत्तराभिरेकत्रिंशता ' ( ऐ. ब्रा. ७. १६) इति। हे वरुण पतयन्तः प्रौढे वियत्युत्पतन्तः अमी दृश्यमानाः वयश्चन श्येनादयः पक्षिणोऽपि ते क्षत्रं त्वदीयं शरीरबलं नहि आपुः नैव प्राप्ताः । त्वत्सदृशं शरीरबलं पक्षिणामपि नास्तीत्यर्थः । तथा सहः त्वदीयं पराक्रमं तव सामर्थ्यमपि न प्रापुः । तथा मन्युं त्वदीयं कोपमपि न प्रापुः । त्वयि क्रुद्धे सति सोढुमशक्ता इत्यर्थः । अनिमिषं सर्वदा चरन्तीः प्रवाहरूपेण गच्छन्त्यः आपः त्वदीयं बलं न प्रापुः । वातस्य वायोः ये गतिविशेषाः त्वदीयम् अभ्वं वेगं न प्रमिनन्ति न हिंसन्ति । अतिक्रमं कर्तुं न शक्ता इत्यर्थः । तेऽपि न प्रापुरिति पूर्वत्रान्वयः ॥ पतयन्तः । ‘पत गतौ'। चुरादिरदन्तः । लटः शतृ । शप् । गुणायादेशौ । अदुपदेशात् । लसार्वधातुकानुदात्तत्वे णिचः स्वरः । आपुः । ‘आप्लृ व्याप्तौ ' । लिट्युसि द्विर्भावहलादिशेषौ। ‘अत आदेः' (पा. सू. ७. ४. ७० ) इति आत्वम् । अत्र न सहो न मन्युम् इत्यादिभिः आपुः इत्यस्य संबन्धात् तदपेक्षया प्राथम्यात् ‘चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । चरन्तीः । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घः । प्रमिनन्ति । ‘मीञ् हिंसायाम् । ‘क्र्यादिभ्यः श्ना'।' श्नाभ्यस्तयोरातः' इति आकारलोपः। ' मीनातेर्निगमे' ( पा. सू. ७. ३. ८१ ) इति ह्रस्वत्वम् । प्रत्ययस्वरः । ‘तिङि चोदात्तवति' (पा. सू. ८. १. ७१ ) इति गतिरनुदात्तः । यद्वृत्तयोगादनिघातः ॥
“These birds, that are flying (through the air), have not obtained, Varuṇa, your bodily strength or your prowess, or (are able to endure your) wrath; neither do these waters that flow increasingly, nor (do the gales) of wind, surpass your speed.”
Ne'er have those birds that fly through air attained to thy high dominion or thy might or spirit;
Nor these the waters that flow on for ever, nor hills, abaters of the wind's wild fury.
Yet not even birds flying yonder have attained your rule, power, or fervor, nor have these waters moving without blinking, nor those [=the gods] who confound the wind’s formless mass.
Denn deine Herrschaft, deine Macht, dein Zürnen erreichen selbst nicht jene raschen Vögel, Noch diese Wasser, welche rastlos wandern, noch die des Windes Urkraft übertreffen.
Niemals erreichen sie ja deine Herrschaft und Macht und deinen Eifer, nicht einmal jene fliegenden Vögel, noch diese rastlos fließenden Gewässer, noch die, welche die Gewalt des Windes hinter sich lassen.
Ни твоей власти, ни силы, ни ярости
Никогда не достигли ни те порхающие птицы,
Ни эти воды, непрерывно движущиеся,
Ни (те,) что превосходят неистовство ветра.
अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः । नी॒चीना॑: स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तव॑: स्युः ॥
अ॒बु॒ध्ने । राजा॑ । वरु॑णः । वन॑स्य । ऊ॒र्ध्वम् । स्तूप॑म् । द॒द॒ते॒ । पू॒तऽद॑क्षः । नी॒चीनाः॑ । स्थुः॒ । उ॒परि॑ । बु॒ध्नः । ए॒षा॒म् । अ॒स्मे इति॑ । अ॒न्तः । निऽहि॑ताः । के॒तवः॑ । स्यु॒रिति॑ स्युः ॥
पूतदक्षः शुद्धबलः वरुणः राजा अबुध्ने मूलरहिते अन्तरिक्षे तिष्ठन् वनस्य वननीयस्य तेजसः स्तूपं संघम् ऊर्ध्वम् उपरिदेशे ददते धारयति । नीचीनाः स्थुः । ऊर्ध्वदेशे वर्तमानस्य वरुणस्य रश्मय इत्यध्याहार्यम् । ते ह्यधोमुखास्तिष्ठन्ति । एषां रश्मीनां बुध्नः मूलम् उपरि तिष्ठतीति शेषः। तथा सति केतवः प्रज्ञापकाः प्राणाः अस्मे अस्मासु अन्तर्निहिताः स्थापिताः स्युः मरणं न भविष्यतीत्यर्थः ॥ अबुध्ने । न विद्यते बुध्नः मूलम् अस्य इति बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । स्तूपम् । ‘स्त्यै शब्दसंघातयोः । ‘स्त्यः संप्रसारणमूञ्च' इति पप्रत्ययः; तत्संनियोगेन यकारस्य संप्रसारणं परपूर्वत्वे ऊकारादेशश्च । नित्' इत्यनुवृत्तेराद्युदात्तत्वम् । ददते । भौवादिकः । नीचीनाः । निपूर्वात् अञ्चतेः ‘ऋत्विक् ' इत्यादिना क्विन् । “ अनिदिताम्' इति नलोपः । न्यच्शब्दात्स्वार्थे ' विभाषाञ्चेरदिक्स्त्रियाम् ' ( पा. सू. ५. ४. ८) इति खः । ‘आयन्' इत्यादिना तस्य ईनादेशः । ‘आयनादिषूपदेशिवद्वचनं स्वरसिध्यर्थम् ' ( पा. सू. ७. १. २. १ ) इति वचनात् ईकार उदात्तः । ‘अचः' इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । स्थुः । ‘गातिस्था ' ( पा. सू. २. ४. ७७ ) इत्यादिना सिचो लुक् ।' आतः' ( पा. सू. ३. ४. ११० ) इति झेः जुसादेशः । उस्यपदान्तात् ' ( पा. सू. ६. १. ९६) इति पररूपत्वम् । ‘बहुलं छन्दस्यमाङ्योगेऽपि' इति अडागमाभावः । अस्मे । ‘सुपां सुलुक् ' इति सप्तम्याः शेआदेशः । निहिताः । गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । स्युः। अस्तेर्लिङि ‘ श्नसोरल्लोपः ॥
“The regal Varuṇa, of pure vigour (abiding) in the baseless (firmament), sustains on high a heap of light, the rays (of which) are pointed downwards, while their base is above; may they become concentrated in us as the sources of existence.”
Varuna, King, of hallowed might, sustaineth erect the Tree's stem in the baseless region.
Its rays, whose root is high above, stream downward. Deep may they sink within us, and be hidden.
In (the airy realm) without a base, King Varuṇa of purified skill firmly holds the crest of the (nyāgrodha) tree on high.
They [=its trunks] reach downward, their base above. They should be set down as beacons within us.
Der heil'ge König Varuna hält aufrecht, des Baumes Schopf im bodenlosen Raume; Es steigen nieder, ihre Wurzel aufwärts, die Strahlen; mögen sie in uns sich senken.
Im bodenlosen Raum hält König Varuna von lauter Willenskraft die Krone des Baumes oben fest. Nach unten senken sie sich, oben ist ihre Wurzel. In uns mögen die Strahlen befestigt sein.
В бездонном (пространстве) царь Варуна с чистой силой действия
Держит прямо вершину дерева.
(Ветви) направлены вниз. Их основание – наверху.
Да укоренятся в нас лучи!
उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ । अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥
उ॒रुम् । हि । राजा॑ । वरु॑णः । च॒कार॑ । सूर्या॑य । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊँ॒ इति॑ । अ॒पदे॑ । पादा॑ । प्रति॑ऽधातवे । अ॒कः॒ । उ॒त । अ॒प॒ऽव॒क्ता । हृ॒द॒य॒ऽविधः॑ । चित् ॥
वरुणः राजा सूर्याय सूर्यस्य पन्थां मार्गम् उरुं विस्तीर्णं चकार । हिशब्दः प्रसिद्धौ । उत्तरायणदक्षिणायनॊमार्गस्य विस्तारः प्रसिद्धः । किमर्थमेवं कृतवान् इति तदुच्यते । अन्वेतवा उ अनुक्रमेण उदयास्तमयौ गन्तुमेव । तथा अपदे पादरहिते अन्तरिक्षे पादा प्रतिधातवे पादौ प्रक्षेप्तुम् अकः मार्गं कृतवान् । पूर्वत्र रथस्य मार्गः अत्र पादयोरिति विशेषः । यद्वा । अपदे यूपे बद्धेन मया गन्तुमशक्ये भूप्रदेशे पादौ प्रक्षेप्तुम् उपाय बन्धविमोचनरूपं करोत्वित्यर्थः । उत अपि च हृदयाविधश्चित् अस्मदीयवेधकस्ये शत्रोरपि अपवक्ता अपवदिता निराकर्ता भवतु ॥ चकार । लित्स्वरेण आकार उदात्तः । ‘हि च ' इति निघातप्रतिषेधः । पन्थाम् । 'पथिमथ्यृभुक्षामात् ' (पा. सू. ७. १. ८५) इति द्वितीयायामपि व्यत्ययेन आत्वम् । पथिन्शब्दस्य ‘पतेस्थ च' ( उ. सू. ४. ४५२ ) इति प्रत्ययान्तत्वेन अन्तोदात्तत्वे प्राप्ते ' पथिमथोः सर्वनामस्थाने ' ( पा. सू. ६. १. १९९) इत्याद्युदात्तत्वम् । अन्वेतवै। अनुपूर्वात् एतेः “ तुमर्थे सेसेन् ' इनि तवैप्रत्ययः । तवै चान्तश्च युगपत् ' (पा. सू. ६. २. ५१ ) इति आद्यन्तयोरुदात्तत्वम् । पादा।' सुपां सुलुक् ' इति आकारः । प्रतिधातवे । दधातेः तुमर्थ ' इति सूत्रेणैव तवेन्प्रत्ययः । ‘तादौ च निति° ' ( पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । अकः । करोतेः 'छन्दसि लुङ्लङलिटः' इति लोडर्थे लुङ्। तस्य तिप् । मन्त्रे घस' ( पा. सू. २. ४. ८०) इत्यादिना च्लेर्लुक् । गुणो रपरत्वम् । हल्ङ्याब्भ्यः ' (पा. सू. ६. १.६८) इति तिपो लोपः । अडागमः । हृदयाविधः । ‘हृञ् हरणे'। ‘वृहोः षुग्दुकौ च' ( उ. सू.४.५४०) इति कयन् ।' व्यध ताडने ' । क्विप् ।' नहिवृति' (पा. सू. ६. ३. ११६ ) इत्यादिना पूर्वपदस्य दीर्घत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“The regal Varuṇa verily made with the path of the sun, (by which) to travel on his daily course; a path to traverse in pathless (space); may he be the repeller of every afflicter of the heart.”
King Varuna hath made a spacious pathway, a pathway for the Sun wherein to travel.
Where no way was he made him set his footstep, and warned afar whate'er afflicts the spirit.
King Varuna hath made a broad path
For the sun to travel;
He hath made him set his feet in the pathless way;
He driveth away whatever woundeth the heart.
Since King Varuṇa made a broad path for the sun to follow,
he has created two feet for the footless (sun) to give it support, and he exorcises even what pierces the heart.
Denn weite Bahn schuf Varuna, der König, dort für die Sonne, dass sie ihn durchwandre, Schuf Füsse ihr, die fusslos war, zum Treten, und wehrte ab das, was ihr Herz verwundet.
Denn König Varuna hat der Sonne den weiten Weg bereitet, um Ihn zu wandeln. Der Fußlosen hat er Füße gemacht zum Aufsetzen. Und er ist der Lossprecher selbst des ins Herz Getroffenen.
Ведь широкий сделал царь Варуна
Путь для солнца, чтобы следовать (ему).
Безногому он сделал ноги, чтобы приставить,
А еще он отвращает словом даже (того врага), что проник в сердце.
श॒तं ते॑ राजन्भि॒षज॑: स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु । बाध॑स्व दू॒रे निॠ॑तिं परा॒चैः कृ॒तं चि॒देन॒: प्र मु॑मुग्ध्य॒स्मत् ॥
श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः॑ । स॒हस्र॑म् । उ॒र्वी । ग॒भी॒रा । सु॒ऽम॒तिः । ते॒ । अ॒स्तु॒ । बाध॑स्व । दू॒रे । निःऽऋ॑तिम् । परा॒चैः । कृ॒तम् । चि॒त् । एनः॒ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥
हे राजन् वरुण ते तव शतं भिषजः बन्धनिवारकाणि शतसंख्याकानि औषधानि वैद्या वा सन्ति । ते तव सुमतिः अस्मदनुग्रहबुद्धिः उर्वी विस्तीर्णा गभीरा गाम्भीर्योपेता स्थिर अस्तु । निर्ऋतिम् अस्मदनिष्टकारिणीं निर्ऋतिं पापदेवतां 'पराचैः पराङ्मुखां कृत्वा दूरे अस्मत्तो व्यवहिते देशे स्थापयित्वा तां बाधस्व । कृतं चित् अस्माभिरनुष्ठितमपि एनः पापम् अस्मत् प्र मुमुग्धि प्रकर्षेण मुक्तं नष्टं कुरु ॥ सुमतिः । ‘तादौ च ' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ' मन्क्तिन' इत्यादिनोत्तरपदान्तोदात्तत्वम् । संहितायां विसर्जनीयसकारस्य । युष्मत्तत्ततक्षुःष्वन्तःपादम् ' ( पा. सू. ८. ३. १०३ ) इति षत्वम् । बाधस्व । ‘बाधृ विलोडने '। शपः पित्त्वादनुदात्तत्वम् । तिङ्श्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । निर्ऋतिम् । तादौ च ' इति गतेः प्रकृतिस्वरत्वम् । मुमुग्धि । 'मुच्लृ मोक्षणे ' ।' बहुलं छन्दसि ' इति श्लुः । ‘हुझल्भ्यो हेर्धिः' (पा. सू. ६. ४. १०१ )। तस्य अपित्त्वेन ङित्त्वाद्गुणाभावः। ‘चोः कुः' (पा. सू. ८. २. ३०) इति कुत्वम्॥
“Yours, O king, are a hundred and a thousand medicaments; may your favour, comprehensive and profound, be (with us); keep afar from us Nirṛti, with unfriendly looks, and liberate us from whatever sin we may have committed.”
A hundred balms are thine, O King, a thousand; deep and wide-reaching also be thy favours.
Far from us, far away drive thou Destruction. Put from us e'en the sin we have committed.
A hundred remedies are thine, O king, a thousand;
Broad and deep be thy loving kindness.
Overcome the enmity, the hostility;
Remove from us whatever sin hath been committed.
A hundred healers are yours, o king, a thousand. Let your favor be broad and deep.
Drive dissolution far away into the distance. Release from us even the guilt we have created.
Du hast an hundert, tausend Arzeneien, o König, weit und tief ist deine Güte; Verderben stosse fort in weite Ferne, auch von begangner Sünde mache frei uns,
Du hast, o König, hundert, tausend Ärzte. Weit, unergründlich soll deine Gnade sein. Jage weit in die Ferne die Todesgöttin ! Auch die getane Sünde nimm von uns !
Сотня, о царь, у тебя целебных средств, тысяча.
Широким (и) глубоким пусть будет благоволение твое!
Прогони далеко прочь Гибель!
Даже содеянный грех сними с нас!
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥
अ॒मी इति॑ । ये । ऋक्षाः॑ । निऽहि॑तासः । उ॒च्चा । नक्त॑म् । ददृ॑श्रे । कुह॑ । चि॒त् । दिवा॑ । ई॒युः॒ । अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । वि॒ऽचाक॑शत् । च॒न्द्रमाः॑ । नक्त॑म् । ए॒ति॒ ॥
अमी रात्रावस्माभिर्दृश्यमानाः ऋक्षाः सप्त ऋषयः । तथा च वाजसनेयिन अमनन्ति-- ’ऋक्षा इति ह स्म वै पुरा सप्त ऋषीनाचक्षते ' इति । यद्वा । ऋक्षाः सर्वेऽपि नक्षत्रविशेषाः । ‘ऋक्षाः स्तुभिरिति नक्षत्राणाम् ' ( निरु. ३. २०) इति यास्केन उक्तत्वात् । उच्चा उच्चैः उपरि द्युप्रदेशे निहितासः स्थापिताः ये सन्ति ते ऋक्षाः नक्तं रात्रौ ददृश्रे सर्वैरपि दृश्यन्ते । दिवा अहनि कुह चित् ईयुः क्वापि गच्छेयुः । न दृश्यन्ते इत्यर्थः । वरुणस्य राज्ञः व्रतानि कर्माणि नक्षत्रदर्शनादिरूपाणि अदब्धानि केनापि अहिंसितानि । किंच वरुणस्य आज्ञयैव चन्द्रमाः नक्तं रात्रौ विचाकशत् विशेषेण दीप्यमानः एति गच्छति ॥ निहितासः । ‘आज्जसेरसुक्' । थाथादिस्वरेणोत्तरपदान्तोदात्तत्वे प्राप्ते ( पा. सू. ६. २. १४४ ) ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । ददृशे । दृशेर्लिटि ‘इरयो रे' (पा. सू. ६. ४. ७६ ) इति रेआदेशः । व्यत्ययेनाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । कुह । ‘वा ह च च्छन्दसि' ( पा. सू. ५. ३. १३) इति किंशब्दादुत्तरस्य त्रलो हादेशः । ‘कु तिहोः ' ( पा. सू. ७. २. १०४ ) इति किंशब्दस्य कुआदेशः । स्थानिवद्भावात् लित्स्वरेणाद्युदात्तत्वम् । विचाकशत् । कशेर्दीप्त्यर्थात् यङ्लुगन्तात् शतृप्रत्ययः । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । समासे कृत्स्वरः । यद्वा । काशतेर्वा व्यत्ययेन उपधाह्रस्वत्वम्। चन्द्रमाः। ‘चन्द्रे माङो डित् ' ( उ. सू. ४. ६६७ ) इति. असिप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १४ ॥
“These constellations plural ced on high, which are visible by night, and go elsewhere by day, are the undisturbed holy acts of Varuṇa (and by his command) the moon moves resplendent by night.”
Whither by day depart the constellations that shine at night, set high in heaven above us?
Varuna's holy laws remain unweakened, and through the night the Moon moves on in splendor
Yonder Bears [=stars of Ursa Major], set on high, are visible at night; they have gone somewhere else by day.
The commandments of Varuṇa cannot be cheated: the moon goes at night, earnestly looking around.
Die Sterne dort hoch oben, die sich zeigen des Nachts, wohin doch gehen sie am Tage? Doch Varuna's Gesetz ist unverletzlich, und leuchtend schreitet durch die Nacht der Mond hin.
Jene Sterne, die oben befestigt des Nachts erschienen sind, sie sind am Tag irgendwohin gegangen. Unverletzlich sind Varuna´s Gesetze: Des Nachts wandelt Umschau haltend der Mond.
Вон те звезды, что вверху укреплены –
Ночью они видны. Куда же днем уходят?
Непреложны обеты Варуны:
Озирая (все вокруг,) бродит ночью луна.
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भि॑: । अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयु॒: प्र मो॑षीः ॥
तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ । अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस । मा । नः॒ । आयुः॑ । प्र । मो॒षीः॒ ॥
हे वरुण मुमूर्षुरहं त्वां प्रति तत् आयुः यामि याचे । कीदृशः । ब्रह्मणा प्रौढेन स्तोत्रेण वन्दमानः स्तुवन् । सर्वत्र यजमानः अपि हविर्भिः तत् आयुः आ शास्ते प्रार्थयते। त्वं च इह कर्मणि अहेळमानः अनादरमकुर्वन् बोधि अस्मदपेक्षितं बुध्यस्व । हे उरुशंस बहुभिः स्तुत्य नः अस्मदीयम् आयुः मा प्र मोषीः प्रमुषितं मा कुरु । सप्तदशसंख्याकेषु याञ्चाकर्मसु ' ईमहे यामि ' ( नि. ३.१९. १) इति पठितम् । चाशब्दलोपश्छान्दसः ॥ अहेळमानः । ' हेडृ अनादरे ' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे सति धातुस्वरः शिष्यते । ततो नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधि । ' बुध अवगमने ' । लोटः सेर्हिः । ' बहुलं छन्दसि ' इति विकरणस्य लुक् । ' वा छन्दसि ' ( पा सू ३.४. ८८) इति अपित्त्वाभावेन ङित्त्वाभावात् लघू- पधगुणः । ' हुझल्म्यो हेर्धिः ' इति हेर्धिरादेशः । धातोरन्त्यलोपश्छान्दसः । मोषीः । ' मुष स्तेये ' । लोडर्थे छान्दसो लुङ् । ' वदव्रज' ' ( पा. सू ७.२. ३) इति प्राप्ताया वृद्धेः ' नेटि ' ( पा. सू ७ २. ४) इति प्रतिषेधे सति लघूपधगुणः । ' बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः ॥
“Praising you with (devout) prayer, I implore you for that (life) which the instrumental tutor of the sacrifice solicits with oblations; Varuṇa, undisdainful, bestow a thought upon us; much-lauded, take not away our existence.”
I ask this of thee with my prayer adoring; thy worshipper craves this with his oblation.
Varuna, stay thou here and be not angry; steal not our life from us, O thou Wide-Ruler.
Extolling you with my formulation, I implore this of you; with his offerings the sacrificer hopes for this:
Become no longer angry now, Varuṇa! O you of wide fame, do not steal away our lifetime!
Dies bitt' ich dich, verehrend mit Gebeten, und darum wirbt mit Opfertrank der Opfrer: O Varuna, sei bei uns ohne Zürnen, weitherrschender, verkürz nicht unser Leben.
Das erbitte ich, mit beschwörendem Worte freundlich zuredend, das wünscht sich der Opfernde mit seinen Opferspenden: Sei hier ohne Groll, Varuna! Du, dessen Worte weithin gelten, raub uns nicht das Leben!
Вот зачем я иду к тебе, почитая (тебя) молитвой,
Вот чего хочет для себя жертвователь с жертвенными возлияниями:
Будь здесь, Варуна, не гневающимся!
О ты с широкой славой, не отними у нас срок жизни!
तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे । शुन॒:शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥
तत् । इत् । नक्त॑म् । तत् । दिवा॑ । मह्य॑म् । आ॒हुः॒ । तत् । अ॒यम् । केतः॑ । हृ॒दः । आ । वि । च॒ष्टे॒ । शुनः॒शेपः॑ । यम् । अह्व॑त् । गृ॒भी॒तः । सः । अ॒स्मान् । राजा॑ । वरु॑णः । मु॒मो॒क्तु॒ ॥
तदित् तदेव वरुणविषयं स्तोत्रं नक्तं रात्रौ मह्यं शुनःशेपाय आहुः कर्तव्यत्वेनाभिज्ञाः कथयन्ति। तथा दिवा अपि तत् एव आहुः। हृदः मदीयमनसो निष्पन्नः अयं केतः प्रज्ञाविशेषोऽपि तत् एव कर्तव्यत्वेन आ वि चष्टे सर्वतो विशेषेण प्रकाशयति । गृभीतः गृहीतः यूपे बद्धः शुनःशेपः एतन्नामको जनः यं वरुणम् अह्वत् आहूतवान् सः वरुणः राजा अस्मान् शुनःशेपान् मुमोक्तु बन्धात् मुक्तं करोतु ॥ मह्यम् । ‘ङयि च' इत्याद्युदात्तत्वम् । आहुः । ‘ब्रुवः पञ्चानाम् ' (पा. सू. ३. ४. ८४ ) इति ब्रूञो लटि झेः उसादेशः, धातोः आहादेशश्च । हृदः । ‘पद्दन्' ( पा. सू. ६. १. ६३ ) इत्यादिना हृदयशब्दस्य हृदादेशः । ‘उडिदंपदादिः' इति पञ्चम्या उदात्तत्वम् । शुनःशेपः । शुन इव शेपो यस्य इति समासे शुनः शेपपुच्छलाङ्गूलेषु संज्ञायां षष्ठ्या अलुग्वक्तव्यः' (पा. सू. ६. ३. २१. ४) इति अलुक् । पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ' उभे वनस्पत्यादिषु ' (पा. सू. ६. २. १४०) इति पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरत्वम् । अह्वत् । ह्वेञो लुङि ‘लिपिसिचिह्वश्च' (पा. सू. ३. १. ५३ ) इति च्लेः अङादेशः । ‘आतो लोप इटि च' ( पा. सू. ६. ४. ६४ ) इति आकारलोपः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । गृभीतः । ‘हृग्रहोर्भः' इति भत्वम् । सो अस्मान् ।' प्रकृत्यान्तःपादम्' इति प्रकृतिभावः । मुमोक्तु । ‘बहुलं छन्दसि' इति विकरणस्य श्लुः ॥
“This (your praise) they repeat to me by night and by day; this knowledge speaks to my heart; may he whom the fettered Śunahśepas has invoked, may the regal Varuṇa set us free.”
Nightly and daily this one thing they tell me, this too the thought of mine own heart repeateth.
May he to whom prayed fettered Sunahsepa, may he the Sovran Varuna release us.
They say to me just this at night, this by day; my intuition looks out here from my heart toward this:
The one whom Śunaḥśepa called upon when he was seized, let him, King Varuṇa, release us!
Das sagt man mir des Nachts und das bei Tage, das kündet mir des eignen Herzens Stimme: Es wird befrein uns Varuna der König, den einst gefangen Çunasçepa anrief.
Das versichern sie mir bei Nacht, das am Tag, das sagt mir aus dem Herzen die Erwartung: Er, den der in Bande geschlagene Sunahsepa angerufen hat, der König Varuna muß uns freilassen.
О том ночью, о том днем мне твердят,
О том этот знак явлен из сердца:
К кому воззвал закованный Шунахшепа,
Тот царь Варуна должен освободить нас!
शुन॒:शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः । अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥
शुनः॒शेपः॑ । हि । अह्व॑त् । गृ॒भी॒तः । त्रि॒षु । आ॒दि॒त्यम् । द्रु॒ऽप॒देषु॑ । ब॒द्धः । अव॑ । ए॒न॒म् । राजा॑ । वरु॑णः । स॒सृ॒ज्या॒त् । वि॒द्वान् । अद॑ब्धः । वि । मु॒मो॒क्तु॒ । पासा॑न् ॥
गृभीतः बन्धनाय गृहीतः त्रिसंख्याकेषु दुपदेषु द्रोः काष्ठस्य यूपस्य पदेषु प्रदेशविशेषेषु बद्धः शुनःशेपः आदित्यम् अदितेः पुत्रं यं वरुणम् अह्वत् आहूतवान् हि यस्मादेवं तस्मात् सः वरुणः राजा एनं शुनःशेपम् अव ससृज्यात् अवसृष्टं बन्धनात् विमुक्तं करोतु । विमोकप्रकार एव स्पष्टीक्रियते । विद्वान् विमोकप्रकाराभिज्ञः अदब्धः केनाप्यहिंसितः वरुणः पाशान् बन्धनरज्जुविशेषान् वि मुमोक्तु विच्छिद्यैनं मुक्तं करोतु ॥ त्रिषु ।' षट्त्रिचतुर्भ्यो हलादिः' (पा. सू. ६. १. १७९ ) इति विभक्तेरुदात्तत्वं । संहितायाम् ' उदात्तस्वरितयोर्यणः' इति परः आकारः स्वर्यते । ससृज्यात् ।' सृज विसर्गे '। प्रार्थनायां लिङ्। बहुलं छन्दसि ' इति विकरणस्य श्लुः । विद्वान् ॥ ‘विद ज्ञाने'।' विदेः शतुर्वसुः' (पा. सू. ७. १. ३६)।' उगिदचाम्' इति नुम् । हल्ड्यादिसंयोगान्तलोपौ । संहितायां: दीर्घादटि समानपादे ' इति नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः। अदब्धः। ‘दम्भु दम्भे' । निष्ठायाम् “ अनिदिताम्' इति नलोपे ‘झषस्तथोर्धोऽधः' (पा. सू. ८. २. ४० ) इति धत्वम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“Śunahśepas, seized and bound to the three-footed tree, has invoked the son of Aditi; may the regal Varuṇa, wise and irresistible, liberate him; may he let loose his bonds.”
Bound to three pillars captured Sunahsepa thus to the Aditya made his supplication.
Him may the Sovran Varuna deliver, wise, ne'er deceived, loosen the bonds that bind him.
Since Śunaḥśepa, seized and bound in three stocks, called upon the Āditya,
King Varuṇa should set him loose. Let him—the knowing one, never cheated—release the fetters.
Denn der gefangne Çunasçepa rief einst gebunden an drei Pfosten den Aditja; Auch diesen löse Varuna der König, der weise, treue löse ihm die Stricke.
Denn Sunahsepa hat in Bande geschlagen, an drei Blöcke gebunden den Aditisohn angerufen, König Varuna möge ihn freigeben. Der Kundige, Untrügliche soll die Schlingen lösen.
Ведь Шунахшепа воззвал, закованный,
К трем колодам привязанный, – к Адитье,
Чтоб освободил его царь Варуна.
Ведун, которого не обмануть, да отпустит он петли!
अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भि॑: । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥
अव॑ । ते॒ । हेळः॑ । व॒रु॒ण॒ । नमः॑ऽभिः । अव॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विःऽभिः॑ । क्षय॑न् । अ॒स्मभ्य॑म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । राज॑न् । एनां॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥
अवभृथे - "ऽव ते हेळ" इति द्वे ऋचौ वारुणस्य हविषो याज्यानुवाक्ये । पत्नीसंयाजैश् चरित्वेति खण्डे सूत्रितम् - अव ते हेळो वरुण नमोभिरिति द्वे (आ ६-१३) इति ॥
हे वरुण ते तव हेळः क्रोधं नमोभिर् नमस्कारैर् अवेमहे - अवनयामः ।
तथा यज्ञैः साङ्गानुष्ठानेन पूज्यैर् हविर्भिर् अवेमहे । वरुणं परितोष्य क्रोधम् अपनयामः ।
हे असुर +अनिष्व् अक्षेपणशील प्रचेतः प्रकर्षेण प्रज्ञायुक्त राजन् दीप्यमान वरुण +अस्मभ्यम् अस्मदर्थं क्षयन्न् अस्मिन् कर्मणि निवसन् कृतान्य् अस्माभिर् अनुष्ठितान्य् एनांसि पापानि शिश्रथः । श्रथितानि शिथिलानि कुरु ॥ हेळः । असुनो नित्त्वादाद्युदात्तत्वम् । यज्ञेभिः । बहुलं छन्दसीत्यैसभावः । ईमहे । ईङ् गतौ । विकरणस्य लुक् । क्षयन् । क्षिनिवासगत्योः । लटः शतृ । व्यत्ययेन शप् । आमन्त्रिताद्युदात्तत्वम् । असुर । असेरुरन् (उ १-४३) आमन्त्रितनिघातः । शिश्रथः । श्रथ दौर्बल्ये । चुरादिरदन्तः । छान्दसे लुङि णिश्रिद्रुस्रुभ्यः (पा ३-१-४८) इति च्लेश्चङ् । द्विर्भावहलादिशेषौ । अग्लोपित्त्वात् सन्वद्भावाभावेऽपि (पा ७-४-९३) बहुलं छन्दसि (पा ७-४-७८) इत्यभ्यासस्येत्वम् । पूर्ववदडभावः ॥ १४ ॥
“Varuṇa, we deprecate your wrath with prostrations, with sacrifices, with oblations; averter of misfortune, wise and illustrious, be present amongst us, and mitigate the evils we have committed.”
With bending down, oblations, sacrifices, O Varuna, we deprecate thine anger:
Wise Asura, thou King of wide dominion, loosen the bonds of sins by us committed.
Thine anger, O Varuna, would we avert with reverence,
With sacrifices, with oblations
Ruling, O wise Asura, O king,
Do thou unloose the sins we have committed.
We beg to appease your anger by our acts of reverence, Varuṇa, appease it by our sacrifices and offerings.
Holding sway, o attentive lord and king, you will loosen for us the guilt we have created.
O Varuna, wir wenden deinen Zorn ab, durch Opfer, durch Gebet, durch Trankesspenden, Der du die Macht hast, weiser, ew'ger König, erlasse uns die Sünden, die wir thaten.
Wir bitten dir den Groll ab, Varuna, mit Verbeugungen, mit Gebeten, mit Opferspenden. Du, der die Macht hat, einsichtsvoller Asura, König, erlaß uns die getanen Sünden!
Мы смягчаем твой гнев, о Варуна,
Поклонениями, жертвами, возлияниями.
О власть имеющий Асура-провидец,
О царь, сними с нас содеянные грехи!
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥
उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒यमम् । श्र॒थ॒य॒ । अथ॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥
हे वरुण उत्तमम् उत्कृष्टं शिरसि बद्धं पाशम् अस्मत् अस्मत्तः उत् श्रथाय उत्कृष्य शिथिलं कुरु । अधमं निकृष्टं पादेऽवस्थितं पाशम् अव श्रथाय अधस्तादवकृष्य शिथिलीकुरु । मध्यमं नाभिप्रदेशगतं पाशं वि श्रथाय वियुज्य शिथिलीकुरु । अथ अनन्तरं हे आदित्य अदितेः पुत्र वरुण वयं शुनःशेपाः तव व्रते त्वदीये कर्मणि अदितये खण्डनराहित्याय अनागसः अपराधरहिताः स्याम भवेम ॥ उत्तमम् । तमपः पित्त्वादनुदात्तत्वेन आद्युदात्तत्वे प्राप्ते उत्तमशश्वत्तमौ सर्वत्र' (पा. सू. ६. १. १६० ग. ) इति उञ्छादिषु पाठादन्तोदात्तत्वम् । अधमम् । अवद्यावमाधमार्वरेफाः कुत्सिते' (उ. सू. ५. ७३२ ) इति अवतेः अमच्; वस्य धः। श्रथाय। श्रथ दौर्बल्ये'। संहितायां छान्दसो दीर्घः । तव । युष्मदस्मदोर्ङसि' इत्याद्युदात्तत्वम् । अनागसः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ‘नञ्सुभ्याम्' इति तु व्यत्ययेन प्रवर्तते । यद्वा । आगस्शब्दात् ‘अस्मायामेधा ' ( पा. सू. ५, २. १२१ ) इति मत्वर्थीयो विनिः । तस्य ‘विन्मतोर्लुक्' ( पा. सू. ५. ३. ६५) इति लुक् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १५ ॥
“Varuṇa, loosen for me the upper, the middle, the lower band; so, son of Aditi, shall we, through faultlessness in the worship, become freed from siṇ”
Loosen the bonds, O Varuna, that hold me, loosen the bonds above, between, and under.
So in thy holy law may we made sinless belong to Aditi, O thou Aditya.
Unloose from us, O Varuna, the highest,
The lowest, the midmost knot;
Then may we, O Aditya [3], in thy rule,
Be guiltless before Aditi.
Loosen above the uppermost fetter from us, o Varuṇa, below the lowest, away the midmost.
Then under your commandment, o Āditya, we would be without
offense for Aditi [/Guiltlessness].
O Varuna, lös' ab von uns die Stricke, den untersten, den mittelsten und höchsten, Dann mögen wir in deinem Dienst, Aditja, von Schuld befreit, der Aditi gehören.
Löse die oberste Schlinge von uns, o Varuna, löse die unterste ab, löse die mittlere auf! Dann wollen wir, Sohn der Aditi, in deinem Dienste vor Aditi sündlos sein.
Вверх – верхнюю петлю с нас, о Варуна,
Вниз – нижнюю, посреди среднюю сними!
Тогда сможем мы, о Адитья, пребывать
В твоем завете безгрешные перед Несвязанностью!