यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम् । मि॒नी॒मसि॒ द्यवि॑द्यवि ॥
यत् । चि॒त् । हि । ते॒ । विशः॑ । य॒था॒ । प्र । दे॒व॒ । व॒रु॒ण॒ । व्र॒तम् । मि॒नी॒मसि॑ । द्यवि॑ऽद्यवि ॥
हे वरुण यथा लोके विशः प्रजाः कदाचित् प्रमादं कुर्वन्ति तथा वयमपि ते तव संबन्धि यच्चिद्धि यदेव किंचित् व्रतं कर्म द्यविद्यवि प्रतिदिनं प्र मिनीमसि प्रमादेन हिंसितवन्तः । तदपि व्रतं प्रमादपरिहारेण साङ्गं कुरु इति शेषः । यथा । लित्स्वरेण आद्युदात्तत्वे प्राप्ते यथेति पादान्ते' ( फि. सू. ८५ ) इति सर्वानुदात्तत्वम् । मिनीमसि । “ मीञ् हिंसायाम्'। 'इदन्तो मसि' । " क्र्यादिभ्यः श्ना' ।' मीनातेर्निगमे' (पा. सू. ७. ३. ८१ ) इति ह्रस्वत्वम् । ‘ई हल्यघोः ' (पा. सू. ६. ४. ११३ ) इति ईकारः । ‘सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति वचनात् तिङ एव स्वरः शिष्यते । यद्वृत्तयोगात् निघाताभावः ॥
“Inasmuch as all people commit errors, so do we, divine Varuṇa, daily disfigure your worship by imperfections.”
WHATEVER law of thine, O God, O Varuna, as we are men,
Day after day we violate.
Even if every day we confound your commandment, o god Varuṇa, as clans (do their king’s commandment),
Wie sehr wir auch, o Varuna, verletzen dein Gebot, o Gott, Nach Menschen Weise Tag für Tag,
Wenn wir gleich Tag für Tag wie die Untertanen dein Gebot übertreten, Gott Varuna,
Если, о бог Варуна,
Мы станем нарушать изо дня в день
Твой завет, как племена (- завет царя),
मा नो॑ व॒धाय॑ ह॒त्नवे॑ जिहीळा॒नस्य॑ रीरधः । मा हृ॑णा॒नस्य॑ म॒न्यवे॑ ॥
मा । नः॑ । व॒धाय॑ । ह॒त्नवे॑ । जि॒ही॒ळा॒नस्य॑ । री॒र॒धः॒ । मा । हृ॒णा॒नस्य॑ म॒न्यवे॑ ॥
हे वरुण जिहीळानस्य अनादरं कृतवतः हत्नवे हन्तुः पापिहननशीलस्य तव संबन्धिने त्वत्कर्तृकाय वधाय नः अस्मान् मा रीरधः संसिद्धान् विषयभूतान् मा कुरु । हृणानस्य हृणीयमानम्य क्रुद्धस्य तव मन्यवे क्रोधाय मा अस्मान् रीरधः ॥ वधाय ।' हनश्च वधः' (पा. सू. ३. ३. ७६) इति अबन्तो वधशब्दः । उञ्छादिषु पाठादन्तोदात्तः । हत्नवे । 'हन हिंसागत्योः । ‘कृहनिभ्यां क्नुः' ( उ. सू. ३. ३१० ) इति क्नुप्रत्ययः; धातोर्नकारस्य तकारः । जिहीळानस्य। 'हेडृ अनादरे'। अस्मात् लिटः कानच् । द्विर्भावहलादिशेषह्रस्वचुत्वजश्त्वानि। एकारस्य ईकारादेशश्छन्दसः। ‘चितः' इत्यन्तोदात्तत्वम् । रीरधः । ‘राध साध संसिद्धौ' । चङि णिलोपे उपधाह्रस्वत्वम् । द्विर्वचनहलादिशेषह्रस्वत्वसन्वद्भावेत्वाभ्यासदीर्घाः । ‘न माङयोगे' इति अडभावः । हृणानस्य । ‘हृणीङ् लज्जायम्' । अस्मात् शानचि पृषोदरादित्वात् अभिमतरूपसिद्धिः । ।
“Make us not the objects of death, through your fatal indignation, through the wrath of you so displeasured.”
give us not as a prey to death, to be destroyed by thee in wrath,
To thy fierce anger when displeased.
Do not subject us to your deadly weapon when you are enraged,
nor to your fury when you are angry.
So gib uns nicht dem Morde preis, nicht preis dem Hieb des zürnenden, Noch auch der Wuth des rasenden.
So gib uns nicht deiner tödlichen Waffe preis, wenn du ärgerlich bist, nicht deinem Zorn, wenn du unmutig bist.
Разгневанный, не выдавай нас (своему)
Смертельному оружию на убийство,
Ни ярости (своей), когда ты разгневан!
वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तम् । गी॒र्भिर्व॑रुण सीमहि ॥
वि । मृ॒ळी॒काय॑ । ते॒ । मनः॑ । र॒थीः । अश्व॑म् । न । सम्ऽदि॑तम् । गी॒भिः । व॒रु॒ण॒ । सी॒म॒हि॒ ॥
हे वरुण मृळीकाय अस्मत्सुखाय ते तव मनः गीर्भिः स्तुतिभिः वि सीमहि विशेषण बध्नीमः प्रसादयाम इत्यर्थः । तत्र दृष्टान्तः । रथीः रथस्वामी संदितं सम्यक् खण्डितं दूरगमनेन श्रान्तम् अश्व न अश्वमिव । यथा स्वामी श्रान्तमश्वं घासप्रदानादिना प्रसादयति तद्वत् ॥ रथीः । मत्वर्थीय ईकारः। संदितम् । ‘दो अवखण्डने'। निष्ठा ' इति क्तः । ‘द्यतिस्यतिमास्थाम् ' (पा. सू. ७. ४. ४०) इति इकारान्तादेशः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । गीर्भिः । ‘सावेकाचः०' इति भिस उदात्तत्वम् । सीमहि । षिवु तन्तुसताने'। व्यत्ययेनात्मनेपदम्। 'बहुलं छन्दसि' इति विकरणस्य लुक् । वलि लोपः (पा. सू. ६. १. ६६) । यद्वा । ‘षिञ् बन्धने ' इत्यस्मात् विकरणस्य लुक् । दीर्घश्छन्दसः ॥
“We soothe your mind, Varuṇa, by our praises, for our good, as a charioteer his weary steed.”
To gain thy mercy, Varuna, with hymns we bind thy heart, as binds
The charioteer his tethered horse.
For your mercy we would unbind your thought (from such anger), like a charioteer a horse that has been tied,
by our songs, Varuṇa.
Wir lösen, Varuna, zur Huld durch Lieder deinen Sinn, o Gott, Wie Reiter das gebundne Ross.
Wir möchten mit Lobreden wie der Wagenfahrer ein angebundenes Roß so deinen Sinn vom Groll losmachen zur Barmherzigkeit, o Varuna.
Хвалебными песнями, о Варуна, мы хотим развязать
Твою мысль для милосердия,
Как колесничий – спутанного коня.
परा॒ हि मे॒ विम॑न्यव॒: पत॑न्ति॒ वस्य॑इष्टये । वयो॒ न व॑स॒तीरुप॑ ॥
परा॑ । हि । मे॒ । विऽम॑न्यवः । पत॑न्ति । वस्यः॑ऽइष्टये । वयः॑ । न । व॒स॒तीः । उप॑ ॥
हे वरुण मे मम शुनःशेपस्य विमन्यवः क्रोधरहिता बुद्धयः वस्यइष्टये वसीयसः अतिशयेन वसुमतो जीवनस्य प्राप्तये परा पतन्ति पराङ्मुखाः पुनरावृत्तिरहिताः प्रसरन्ति । हिशब्दः अस्मिन्नर्थे सर्वजनप्रसिद्धिमाह । परापतने दृष्टान्तः । वयो न । पक्षिणो यथा वसतीः निवासस्थानानि उप सामीप्येन प्राप्नुवन्ति तद्वत् ॥ पतन्ति । पादादित्वात् निघाताभावः । वस्यइष्टये । वसुमच्छब्दात् ‘विन्मतोर्लुक्' इति मतुपो लुकि टिलोपे ईयसुनो यकारलोपश्छान्दसः । वसतीः । ‘शतुरनुमः' इति ङीप उदात्तत्वम् ॥
“My tranquil (meditations) revert to the desire of life, as birds hover around their nests. = vasya iṣṭaye = vasumataḥ, precious (i.e. jīvasya, life's).”
They flee from me dispirited, bent only on obtaining wealths
As to their nests the birds of air.
For my fury-dispelling (songs) fly afar to seek a better thing,
like birds toward their nests.
Denn meine Wünsche fliegen fort zu dir, um Güter zu empfahn, Wie Vögel hin zu ihrem Nest.
Denn es fliegen meine zornablenkenden Worte fort, ihr Glück zu suchen, wie Vögel zu den Nestern.
Далеко ведь летят мои
Обезоруживающие (слова) в поисках лучшего,
Словно птицы – к гнездам!
क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे । मृ॒ळी॒कायो॑रु॒चक्ष॑सम् ॥
क॒दा । क्ष॒त्र॒ऽश्रिय॑म् । नर॑म् । आ । वरु॑णम् । क॒रा॒म॒हे॒ । मृ॒ळी॒काय॑ । उ॒रु॒ऽचक्ष॑सम् ॥
मृळीकाय अस्मत्सुखाय वरुणं कदा कस्मिन् काले आ करामहे अस्मिन् कर्मणि आगतं करवाम । कीदृशम् । क्षत्रश्रियं बलसेविनं नरं नेतारं उरुचक्षसं बहूनां द्रष्टारम् । क्षत्रश्रियम् । क्षत्राणि श्रयतीति क्षत्रश्रीः । क्विब्वचि° ' ( पा. ३. २. १७८, २) इत्यादिना क्विप् दीर्घश्च । कृदुत्तरपदप्रकृतिस्वरत्वम् । नरम् ।' ऋदोरप्' इति अबन्तः आद्युदात्तः । करामहे । करोतेः व्यत्ययेन शप्। उरुचक्षसम् । ‘चक्षेर्बहुलं शिच्च' (उ. सू. ४.६७२) इत्यसुन् । शिद्वद्भावात् ख्याञादेशाभावः ॥ ॥१६॥
“When for our happiness, shall we bring hither Varuṇa, eminent in strength, the guide (of men), the regarder of many?”
When shall we bring, to be appeased, the Hero, Lord of warrior might,
Him, the far-seeing Varuna?
When will we attract broad-gazing Varuṇa—the superior man, glorious in his rule—
to gain his mercy?
Wann werden wir den Varuna, der weithin schaut und Herrschaft schmückt, Den Helden stimmen uns zur Huld?
Wann werden wir den Herrn Varuna, der die Herrschaft zu Ehren bringt, zur Barmherzigkeit bewegen, den Weitschauenden ?
Когда же мужа, воплощающего блеск власти,
Варуну, мы побудим
К милосердию, (его,) далеко смотрящего?
तदित्स॑मा॒नमा॑शाते॒ वेन॑न्ता॒ न प्र यु॑च्छतः । धृ॒तव्र॑ताय दा॒शुषे॑ ॥
तत् । इत् । स॒मा॒नम् । आ॒शा॒ते॒ इति॑ । वेन॑न्ता । न । प्र । यु॒च्छ॒तः॒ । धृ॒तऽव्र॑ताय । दा॒शुषे॑ ॥
धृतव्रताय अनुष्ठितकर्मणे दाशुषे हविर्दत्तवते यजमानाय वेनन्तौ कामयमानौ मित्रावरुणाविति शेषः । तावुभौ समानं साधारणं तदित् अस्माभिर्दत्तं तदेव हविः आशाते अश्नुवाते। न प्र युच्छतः कदाचिदपि प्रमादं न कुरुतः ॥ आशाते । अश्नोतेर्लिटि द्विर्भावहलादिशेषौ । ‘अत आदेः ' (पा. सू. ७. ४. ७० ) इति आत्वम् । ‘अनित्यमागमशासनम्' इति वचनात् “ अश्नोतेश्च ' ( पा. सू. ७. ४. ७२ ) इति नुडभावः । वेनन्ता। वेनतिः कान्तिकर्मा ।' सुपां सुलुक् ' इति आकारः। प्र युच्छतः । 'युच्छ प्रमादे'। दाशुषे ।' दाशृ दाने' इत्यस्मात् दाश्वान् साह्वान्' इति क्वसुप्रत्ययो निपातितः । वसोः संप्रसारणम्' इति संप्रसारणम् । शासिवसिघसीनां च ' इति षत्वम् ॥
“Partake, (Mitra and Varuṇa), of the common (oblation), being propitious to the giver and celebrator of this pious rite.”
This, this with joy they both accept in common: never do they fail
The ever-faithful worshipper.
The two [=Mitra and Varuṇa] have attained just that (rule) in common. Keeping watch, they do not keep to a distance
for the pious man who upholds their commandments.
Sie beide nehmen liebend an das Opfer und entziehn sich nicht dem Frommen, welcher treu verbleibt.
Diese Herrschaft haben beide gemeinsam inne. Sorgend werden sie nicht gleichgültig gegen den Opferspender, der die Gebote hält.
Той самой (власти) равно они двое достигли.
Любя, не пренебрегают они
Почитателем, чьи обеты крепки.
वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् । वेद॑ ना॒वः स॑मु॒द्रिय॑: ॥
वेद॑ । यः । वी॒नाम् । प॒दम् । अ॒न्तरि॑क्षेण । पत॑ताम् । वेद॑ । ना॒वः । स॒मु॒द्रियः॑ ॥
अन्तरिक्षेण पतताम् आकाशमार्गेण गच्छतां वीनां पक्षिणां पदं यः वरुणः वेद । तथा समुद्रियः समुद्रेऽवस्थितः वरुणः नावः जले गच्छन्त्याः पदं वेद जानाति सोऽस्मान् बन्धनान्मोचयत्विति शेषः ॥ वेद । ‘विद ज्ञाने'। ‘विदो लटो वा ' ( पा. सू. ३. ४. ८३ ) इति तिपो णल् । लित्स्वरेणाद्युदात्तत्वम् । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः। वीनाम् । ' नामन्यतरस्याम् ' इति नाम उदात्तत्वम् । पतताम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः । नावः। सावेकाचः' इति षष्ठ्या उदात्तत्वम् । समुद्रियः । भवार्थे ' समुद्राभ्राद्धः' (पा. सू. ४. ४. ११८) इति घप्रत्ययः ॥
“He, who knows the path of the birds flying through the air; he, abiding in the ocean, knows (also) the course of ships.”
He knows the path of birds that fly through heaven, and, Sovran of the sea,
He knows the ships that are thereon.
He who knows the track of birds flying through the midspace,
knows the (courses of the) boats, since he belongs to the sea.
Er, der den Pfad der Vögel kennt, die durch die weiten Lüfte ziehn, Und auf dem Meer die Schiffe kennt,
Der die Spur der Vögel weiß, die in der Luft fliegen, er weiß die des Schiffes als Meeresgott.
Кто знает след птиц,
Летающих по воздуху,
Знает челны морские.
वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः । वेदा॒ य उ॑प॒जाय॑ते ॥
वेद॑ । मा॒सः । धृ॒तऽव्र॑तः । द्वाद॑श । प्र॒जाऽव॑तः । वेद॑ । यः । उ॒प॒ऽजाय॑ते ॥
धृतव्रतः स्वीकृतकर्मविशेषो यथोक्तमहिमोपेतो वरुणः प्रजावतः तदा तदोत्पद्यमानप्रजायुक्तान् द्वादश मासः चैत्रादीन् फाल्गुनान्तान् वेद जानाति । यः त्रयोदशोऽधिकमासः उपजायते संवत्सरसमीपे स्वयमेवोत्पद्यते तमपि वेद। वाक्यशेषः पूर्ववत् ॥ मासः।‘पद्दन्°' (पा. सू. ६. १.६३) इत्यादिना मासशब्दस्य मास् इति आदेशः । ऊडिदम्' इत्यादिना शस उदात्तत्वम् । द्वादश। द्वौ च दश च इति द्वन्द्वः । 'द्व्यष्टनः संख्यायाम् ' (पा. सू. ६. ३. ४७) इति आत्वम् । ‘संख्या' (पा. सू. ६.२.३५) इति सूत्रेण पूर्वपदप्रकृतिस्वरत्वम् । प्रजावतः । जनी प्रादुर्भावे'। प्रपूर्वात् जनसनखनक्रमगमो विट्प्रत्ययः (पा. सू. ३. २. ६७)। *विड्वनोः०' (पा. सू. ६. ४. ४१) इति आत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रजा एषां सन्तीति तदस्यास्त्यस्मिन्निति मतुप्' (पा. सू. ५. ३. ९४ )। मादुपधायाः० ' ( पा. सू. ८. २. ९) इति मतुपो वत्वम् । उपजायते । जनेः कर्मकर्तरि लट् । कर्मवद्भावात् आत्मनेपदं यक् (पा. सू. ३. १. ८७ )। जनादीनामुपदेश एवात्वं वक्तव्यम् ' ( पा. सू. ६. १. १९५. ३) इति वचनात् “ अचः कर्तृयकि' (पा. सू. ६. १. १९५ ) इत्याद्युदात्तत्वम् । ‘तिङि चोदात्तवति' (पा. सू. ८. १. ७१ ) इति उपसर्गस्य निघातः । न च ‘तिङ्ङतिङः' इति निघातः, “ यद्वृत्तान्नित्यम्' इति प्रतिषेधात् ॥
“He, who accepting the rites (dedicated to him) knows the twelve months and their productions and that which is supplementarily engendered.”
True to his holy law, he knows the twelve moons with their progeny:
He knows the moon of later birth.
He whose commandments are upheld knows the twelve months and their offspring [=the half-months];
he knows the one that is born afterward [=the thirteenth month].
Der Ordnungschirmer, der die zwölf an Kindern reichen Monde kennt, Und auch den nachgebornen Mond,
Er kennt die zwölf Monate mit ihrem Nachwuchs, der Gesetzvollstrecker; er kennt den, der nachgeboren wird.
Знает тот, чей завет крепок, двенадцать
Месяцев с (их) потомством.
Он знает (того,) кто рождается в придачу.
वेद॒ वात॑स्य वर्त॒निमु॒रोॠ॒ष्वस्य॑ बृह॒तः । वेदा॒ ये अ॒ध्यास॑ते ॥
वेद॑ । वात॑स्य । व॒र्त॒निम् । उ॒रोः । ऋ॒ष्वस्य॑ । बृ॒ह॒तः । वेद॑ । ये । अ॒धि॒ऽआस॑ते ॥
उरोः, विस्तीर्णस्य ऋष्वस्य दर्शनीयस्य बृहतः गुणैरधिकस्य वातस्य वायोः वर्तनिं मार्गं वेद वरुणो जानाति । ये देवाः अध्यासते उपरि तिष्ठन्ति तानपि वेद जानाति ॥ वातस्य । ‘असिहसि' इत्यादिना तन्प्रत्ययान्तो वातशब्दो नित्त्वादाद्युदात्तः । वर्तनिम्। वर्ततेऽनेनेति । ‘वर्तनिः स्तोत्रे (पा. सू. ६.१.१६०.ग.) इति स्तोत्रवाचकस्य वर्तनिशब्दस्य अन्तोदात्तत्वसिद्ध्यर्थम् उञ्छादिषु पाठात् अस्य प्रत्ययस्वरेण मध्योदात्तत्वे प्राप्ते व्यत्ययेनान्तोदात्तत्वम् । बृहतः । बृहन्महतोरुपसंख्यानम् ' इति ङस उदात्तत्वम् । अध्यासते । लसार्वधातुकानुदात्तत्वे सति धातुस्वरः ॥
“He, who knows the path of the vast, the graceful, and the excellent wind, and who knows those who reside above.”
He knows the pathway of the wind, the spreading, high, and mighty wind:
He knows the Gods who dwell above.
He knows the trail of the wind—of the broad, towering, and lofty (wind);
he knows those [=the Maruts] who sit upon it.
Er, der die Bahn des Windes kennt, des weiten, hohen, mächtigen, Und die darüber thronenden,
Er kennt die Bahn des Windes, des breiten, hohen, großen; er kennt die welche darüber thronen.
Он знает путь ветра,
Широкого, высокого, сильного.
Он знает тех, кто восседает.
नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॒॑स्वा । साम्रा॑ज्याय सु॒क्रतु॑: ॥
नि । स॒सा॒द॒ । धृ॒तऽव्र॑तः । वरु॑णः । प॒स्त्या॑सु । आ । साम्ऽरा॑ज्याय । सु॒ऽक्रतुः॑ ॥
धृतव्रतः पूर्वोक्तः वरुणः पस्त्यासु दैवीषु प्रजासु आ नि षसाद आगत्य निषण्णवान् । किमर्थम् । प्रजानां साम्राज्यसिद्ध्यर्थं सुक्रतुः शोभनकर्मा ॥ नि षसाद । सदिरप्रतेः ' ( पा. सू. ८. ३. ६६ ) इति षत्वम् । साम्राज्याय । सम्राजो भावः साम्राज्यम् । ‘गुणवचनब्राह्मणादिभ्यः (पा. सू. ५. १. १२४ ) इति ष्यञ् । ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् । सुक्रतुः । ‘क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ १७ ॥
“He, Varuṇa, the acceptor of holy rites, the doer of good deeds, has sat down amongs the (divine) progeny, to exercise supreme dominion (over them).”
Varuna, true to holy law, sits down among his people; he,
Most wise, sits there to govern all.
He whose commandments are upheld, Varuṇa sat down among the dwelling places,
for the sake of his universal kingship—he whose resolve is strong.
In seinem Palast sitzet er, Gesetz beschirmend Varuna, Zur Herrschaft der allmächtige.
Varuna, der Gesetzvollstrecker, hat sich in den Gewässern niedergelassen zur Ausübung der Herrschaft, der Umsichtige.
Варуна, чей завет крепок,
Расположился в водах
Для безраздельной власти, (он,) очень умный.
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति । कृ॒तानि॒ या च॒ कर्त्वा॑ ॥
अतः॑ । विश्वा॑नि । अद्भु॑ता । चि॒कि॒त्वान् । अ॒भि । प॒श्य॒ति॒ । कृ॒तानि॑ । या । च॒ । कर्त्वा॑ ॥
अतः अस्मात् वरुणात् विश्वानि अद्भुता सर्वाण्याश्चर्याणि चिकित्वान् प्रज्ञावान् अभि पश्यति सर्वतोऽवलोकयति या कृतानि यान्याश्चर्याणि पूर्वं वरुणेन संपादितानि । चकारात् अन्यानि यान्याश्चर्याणि कर्त्वा इतः परं कर्तव्यानि तानि सर्वाण्यभिपश्यतीति पूर्वत्रान्वयः ॥ अद्भुता । ‘शेश्छन्दसि बहुलम् ' ( पा. सू. ६. १. ७० ) इति शेर्लोपः । प्रत्ययलक्षणेन ‘ नपुंसकस्य झलचः (पा. सू. ७. १. ७२ ) इति नुम् । नलोपः । चिकित्वान् । कित ज्ञाने'। लिटः क्वसुः । अभ्यासहलादिशेषचुत्वानि ।' वेस्वेकाजाद्धसाम्' इति नियमात् इडभावः । रुत्वानुनासिकावुक्तौ संहितायाम् । पश्यति । पाघ्रा ' इत्यादिना दृशेः पश्यादेशः । कर्त्वा । ‘कृत्यार्थे तवैकेन्केन्यत्वनः' (पा. सू. ३. ४. १४ ) इति करोतेः त्वन् । नित्त्वादाद्युदात्तत्वम् । पूर्ववत् शेर्लोपः ॥
“Through him, the sage beholds all the marvels that hav ebeen or will be wrought.”
From thence percerving he beholds all wondrous things, both what hath been,
And what hereafter will be done.
From there, watchful, he looks upon all (deeds), unmistakable
(to him)—
both those done and those that must be done.
Von dort aus blickt er achtsam hin auf alles, was verborgen ist, Was schon gethan und noch zu thun.
Von dort überschaut er aufmerksam alles Verborgene, was geschah und was geschehen soll.
Оттуда все сокрытое
Наблюдает внимательный,
Сотворенное и что будет сотворено.
स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् । प्र ण॒ आयूं॑षि तारिषत् ॥
सः । नः॒ । वि॒श्वाहा॑ । सु॒ऽक्रतुः॑ । आ॒दि॒त्यः । सु॒ऽपथा॑ । क॒र॒त् । प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥
सुक्रतुः शोभनप्रज्ञः सः आदित्यः वरुणः विश्वाहा सर्वेष्वहःसु नः अस्मान् सुपथा शोभनमार्गेण सहितान् करत् करोतु । किं च नः अस्माकम् आयूंषि प्र तारिषत् प्रवर्धयतु ॥ सुपथा । ‘स्वती पूजायाम्' (पा. म. २. २. १८. ४) इति समासे ‘न पूजनात्' (पा. सू. ५. ४. ६९) इति समासान्तप्रतिषेधः । अव्ययपूर्वपदप्रकृतिस्वरे प्राप्ते • परादिश्छन्दसि बहुलम् ' इस्युत्तरपदाद्युदात्तत्वम् । ‘क्रत्वादयश्च' (पा.सू. ६.२.११८) इत्येतन्न भवति अबहुव्रीहित्वात् । बहुव्रीहौ हि तद्विधीयते । आद्युदात्तं द्व्यच्छन्दसि' (पा. सू. ६. २. ११९) इत्येतदपि न भवति, पथिन्शब्दस्य अन्तोदात्तत्वात् । करत् । करोतेर्लेटि व्यत्ययेन शप् । शपो लुकि ‘लेटोऽडाटौ' इति अडागमः । इतश्च लोपः' इति इकारलोपः । यद्वा । छान्दसे लुङि ‘कृमृदृरुहिभ्यः' (पा. सू. ३. १. ५९ ) इति च्लेः अङ्। 'ऋदृशोऽङि गुणः ' (पा. सू. ७. ४. १६ ) इति गुणः । ‘बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । प्र णः । ' उपसर्गाद्बहुलम्' (पा. सू. ८.४.२८ ) इति नसो णत्वम् । तारिषत् । तारयतेः लेटि अडागमः । ‘सिब्बहुलं लेटि' इति सिप् ।' आदेशप्रत्यययोः' इति षत्वम् ॥
“May that very wise son of Aditi, keep us all our days in the right path, and prolong our lives.”
May that Aditya, very wise, make fair paths for us all our days:
May he prolong our lives for us.
Of strong resolve, the Āditya will make for us easy paths throughout the days.
He will extend our lifetimes.
Mög Aditi's allweiser Sohn tagtäglich segnen unsern Pfad, Verlängern unsers Lebens Lauf.
Dieser umsichtige Sohn der Aditi möge uns jederzeit gute Wege bereiten; er möge unsere Lebenstage verlängern.
Пусть вседневно очень умный
Адитья создает нам прекрасные пути!
Пусть продлит он сроки наших жизней!
बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिज॑म् । परि॒ स्पशो॒ नि षे॑दिरे ॥
बिभ्र॑त् । द्रा॒पिम् । हि॒र॒ण्यय॑म् । वरु॑णः । व॒स्त॒ । निः॒ऽनिज॑म् । परि॑ । स्पशः॑ । नि । से॒दि॒रे॒ ॥
हिरण्ययं सुवर्णमयं द्रापिं कवचं बिभ्रत् धारयन् वरुणः निर्णिजं पुष्टं स्वशरीरं वस्त आच्छादयति । स्पशः हिरण्यस्पर्शिनो रश्मयः परि नि षेदिरे सर्वतो निषण्णाः॥ बिभ्रत् । बिभर्तेः शतरि ‘नाभ्यस्ताच्छतुः ' ( पा. सू. ७. १. ७८ ) इति नुमभावः । ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । द्रापिम् । द्रा कुत्सायां गतौ । द्रापयति इषून् कुत्सितां गतिं प्रापयतीति द्रापिः कवचम् । ‘अर्तिही '( पा. सू. ७. ३. ३६) इत्यादिना षुगागमः । औणादिके इप्रत्यये णिलोपः। हिरण्ययम् । ‘ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ' ( पा. सू. ६. ४. १७५) इति हिरण्यशब्दात् विकारार्थे विहितस्य मयटो मशब्दलोपो निपातितः । वस्त । वस आच्छादने । लङि अदादित्वात् शपो लुक् । पूर्ववत् अडभावः । निर्णिजम् । ‘णिजिर् शौचपोषणयोः' । स्पशः । ‘स्पश बाधनस्पर्शनयोः'। ‘क्विप् च' इति क्विप् । नि षेदिरे । षद्लृ विशरणगत्यवसादनेषु'। अस्मात् गत्यर्थात् कर्मणि लिटि एत्वाभ्यासलोपौ ।' सदिरप्रतेः' इति षत्वम् ॥
“Varuṇa clothes his well-nourished (person n), wearing golden armour, whence the (reflected) rays are spread around.”
Varuna, wearing golden mail, hath clad him in a shining robe.
His spies are seated found about.
Wearing a golden mantle, Varuṇa dons his cloak.
His spies have seated themselves all around.
Mit goldnem Mantel angethan hüllt er sich in sein Prachtgewand, Und Späher sitzen um ihn her,
Ein goldenes Gewand trägt Varuna und legt ein Prachtkleid an. Rings herum sitzen seine Späher.
Нося золотой покров,
Варуна одет в праздничный наряд.
Вокруг сидят соглядатаи.
न यं दिप्स॑न्ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नाम् । न दे॒वम॒भिमा॑तयः ॥
न । यम् । दिप्स॑न्ति । दि॒प्सवः । न । द्रुह्वा॑णः । जना॑नाम् । न । दे॒वम् । अ॒भिऽमा॑तयः ॥
दिप्सवः हिंसितुमिच्छन्तो वैरिणः यं वरुणं न दिप्सन्ति भीताः सन्तो हिंसितुमिच्छां परित्यजन्ति । जनानां प्राणिनां द्रुह्वाणः द्रोग्धारोऽपि यं वरुणं प्रति न द्रुह्यन्ति । अभिमातयः पाप्मानः । ‘पाप्मा वा अभिमातिः' (तै. सं. २. १. ३. ५) इति श्रुत्यन्तरात् । देवं तं वरुणं न स्पृशन्ति ॥ दिप्सन्ति । ‘दम्भु दम्भे' । अस्मात् सनि ' सनीवन्तर्ध° ' (पा. सू. ७. २. ४९ ) इत्यादिना इडभावः । ‘हलन्ताच्च ' ( पा. सू. १. २. १०) इत्यत्र हल्ग्रहणस्य जातिवाचित्वात् सनः कित्वात् “ दम्भ इच्च ' ( पा. सू. ७. ४. ५६ ) इति दकारात् परस्य अकारस्य इकारः । ‘अनिदिताम्' इति नलोपः । भष्भावाभावश्छन्दसः ( पा. सू. ८. २. ३७ )। ‘अत्र लोपोऽभ्यासस्य ' ( पा. सू. ७. ४. ५८ ) इति अभ्यासलोपः । शपः पित्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण सनो नित्त्वात् नित्स्वरेणाद्युदात्तत्वम् । यद्वृत्तयोगात् अनिघातः । दिप्सवः । सनन्तात् दम्भेः ‘सनाशंसभिक्ष उः ' ( पा. सू. ३. २. १६८) इति उप्रत्ययः । प्रत्ययस्वरः । द्रुह्वाणः । ‘द्रुह जिघांसायाम् । अन्येभ्योऽपि दृश्यन्ते' इति क्वनिप् । प्रत्ययस्य पित्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् ॥
“A divine (being), whom enemies dare not to offend; nor the oppressors of mankind, nor the iniquitous, (venture to displease).”
The God whom enemies threaten not, nor those who tyrannize o'er men,
Nor those whose minds are bent on wrong.
The god whom those inclined to deceit do not try to deceive, nor do the deceitful ones among men,
nor do the hostile plotters,
Der Gott, dem kein Verletzer naht, den nie ein frecher Lügner täuscht, Noch Hinterlist der Männerschar,
Den weder die Schadenfrohen noch die Arglistigen unter den Menschen zu schädigen Wünschen, noch die Nachsteller ihn den Gott.
(Он тот,) кого не стремятся обмануть ни любители обманов,
Ни вредители среди людей,
Ни злоумышленники, – (его,) бога,
उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या । अ॒स्माक॑मु॒दरे॒ष्वा ॥
उ॒त । यः । मानु॑षेषु । आ । यशः॑ । च॒क्रे । असा॑मि । आ । अ॒स्माक॑म् । उ॒दरे॑षु । आ ॥
उत अपि च यः वरुणः मानुषेषु यशः अन्नम् आ चक्रे सर्वतः कृतवान् स वरुणः कुर्वन्नपि आ सर्वतः असामि संपूर्णं चक्रे न तु न्यूनं कृतवान् । विशेषतः अस्माकम् उदरेषु “॥ सर्वतः चक्रे ॥ मानुषेषु । ‘मनोर्जातावन्यतौ षुक् च' (पा. सू. ४. १. १६१ ) इति अन् । ‘ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् । चक्रे । प्रत्ययस्वरः । असामि । अव्यये नञ्कुनिपातानामिति वक्तव्यम्' (पा. सू. ६. २. २. ३) इति अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यशः । अशेर्युट् च' (उ. सू. ४. ६३० ) इति असुन् । उदरेषु ।' उदि दृणातेरजलौ पूर्वपदान्त्यलोपश्च ' ( उ. सू. ५. ६९७) इति अल् । लित्स्वरः । ‘गतिकारकोपपदात्' इत्युत्तरपदप्रकृतिस्वरत्वम् ॥ ॥ १८ ॥
“Who has distributed unlimited food to mankind, and especially to us.”
He who gives glory to mankind, not glory that is incomplete,
To our own bodies giving it.
And who has created glory here for himself—and not by halves!— among the sons of Manu,
right here within our bellies.
Und der den Menschen Herrlichkeit verleiht, die ganz vollkommen ist, Und selbst an unsern Leibern auch.
Und der sich bei den Menschen ganz ungeteilten Respekt verschafft hat und in unseren Leibern.
А также тот, кто среди людей
Создал себе безраздельное величие,
(Как и) в утробах наших.
परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ । इ॒च्छन्ती॑रुरु॒चक्ष॑सम् ॥
पराः॑ । मे॒ । य॒न्ति॒ । धी॒तयः । गावः॑ । न । गव्यू॑तीः । अनु॑ । इ॒च्छन्तीः॑ । उ॒रु॒ऽचक्ष॑सम् ॥
उरुचक्षसं बहुभिर्द्रष्टव्यं वरुणम् इच्छन्तीः मे धीतयः शुनःशेपस्य बुद्धयः परा यन्ति पराङ्मुखा निवृत्तिरहिता गच्छन्ति । तत्र दृष्टान्तः । गावो न । यथा गावः गव्यूतीरनु गोष्ठानि अनुलक्ष्य गच्छन्ति तद्वत् ॥ गव्यूतीः । गावोऽत्र यूयन्ते इति अधिकरणे क्तिन् । गोर्यूतौ छन्दसि । (पा. सू. ६. १. ७९. २) इति अवादेशः । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । यूतिः यवनम् । गवां यवनमत्रेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इच्छन्तीः । इषु इच्छायाम्'। लटः शतृ । ‘तुदादिभ्यः शः'। इषुगमियमां छः ' ( पा. सू. ७. ३. ७७ ) इति छत्वम् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते ॥
“My thoughts ever turn back to him who is beheld of many, as the kine return to the pastures.”
Yearning for the wide-seeing One, my thoughts move onward unto him,
As kine unto their pastures move.
My insights go afar, like cows going after pasture-lands,
seeking him of broad gaze.
Zu ihm, dem weithinschaueuden, gehn wünschend meine Lieder hin, Wie Kühe auf die Weide gehn.
Meine Gedanken ziehen fort wie Kühe den Weidwege entlang, den Weitschauenden suchend.
Прочь уходят мои молитвы,
Как коровы по пастбищам,
В поисках далеко смотрящего.
सं नु वो॑चावहै॒ पुन॒र्यतो॑ मे॒ मध्वाभृ॑तम् । होते॑व॒ क्षद॑से प्रि॒यम् ॥
सम् । नु । वो॒चा॒व॒है॒ । पुनः॑ । यतः॑ । मे॒ । मधु॑ । आऽभृ॑तम् । होता॑ऽइव । क्षद॑से । प्रि॒यम् ॥
यतः यस्मात् कारणात् मे मज्जीवनार्थं मधुरं हविः आभृतं अञ्जःसवाख्ये कर्मणि संपादितं अतः कारणात् होतेव होमकर्तेव त्वमपि प्रियं हविः क्षदसे अश्नासि । पुनः हविःस्वीकारादूर्ध्वं तृप्तस्त्वं जीवन्नहं च नु अवश्यं सं वोचावहै संभूय प्रियवार्तां करवावहै ॥ वोचावहै । लोडर्थे छान्दसे लुङि ब्रुवो वचिः । अस्यतिवक्ति' इति च्लेः अङादेशः । ‘वच उम्' इति उमागमे गुणः । व्यत्ययेन टेः ऐत्वम् । यद्वा । लोट एव लुङादेशः । स्थानिवद्भावात् ऐत्वम् । आभृतम् । ‘ह्रग्रहोर्भः०'। गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥
“Let us together proclaim that my offering has been prepared, and that you, as if the offerer, accept the valued (oblation).”
Once more together let us speak, because my meath is brought: priest-like
Thou eatest what is dear to thee.
Let us two now again come to an agreement as soon as (your) honey has been brought here to me,
(for me) to serve up my own dear (honey) like a Hotar.
Lass miteinander reden uns jetzt, da ich lieben Meth gebracht, Dass wie ein Priester du ihn schlürfst.
Wir wollen jetzt beide abermals miteinander darüber reden, da mir der Süßtrank gebracht ist, um wie der Hotri den lieben vorzukosten:
Поговорим же мы вдвоем сейчас снова,
Поскольку принесен мне сладкий напиток,
Чтобы (его), прекрасного, ты пробовал как хотар.
दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ । ए॒ता जु॑षत मे॒ गिर॑: ॥
दर्श॑म् । नु । वि॒श्वऽद॑र्शतम् । दर्श॑म् । रथ॑म् । अधि॑ । क्षमि॑ । ए॒ताः । जु॒ष॒त॒ । मे॒ । गिरः॑ ॥
विश्वदर्शतं सर्वैर्दर्शनीयम् अस्मदनुग्रहार्थमत्राविर्भूतं वरुणं दर्शं नु अहं दृष्टवान् खलु । क्षमि क्षमायां भूमौ रथं वरुणसंबन्धिनम् अधि दर्शम् आधिक्येन दृष्टवानस्मि । एताः उच्यमानाः मे गिरः मदीयाः स्तुतीः जुषत वरुणः सेवितवान् ॥ दर्शम् । दृशेः ‘इरितो वा ' (पा. सू. ३. १. ५७ ) इति चेः अङादेशः । ‘ऋदृशोऽङि गुणः' (पा. सू. ७. ४. १६ ) इति गुणः । विश्वदर्शतम् । दृशेः ‘ भृमृदृशि° ' ( उ. सू. ३. ३९० ) इत्यादिना अतच्प्रत्ययान्तो दर्शतशब्दः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ( पा. सू. ६. २. १०६. २ )। यद्वा । विश्वं दर्शनीयमस्येति बहुव्रीहिः । ‘बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । क्षमि । आतो धातोः ' (पा. सू. ६. ४. १४०) इत्यत्र आतः इति योगविभागात् आकारलोपः ॥
“I have seen him whose appearance is grateful to all; I have beheld his chariot upon earth; he has accepted these my praiseṣ”
Now saw I him whom all may see, I saw his car above the earth:
He hath accepted these my songs.
Now I see him, lovely for all to see; I see his chariot upon the earth. He enjoys these songs of mine.124 I.26
O säh' ich ihn allsichtbar nun und seinen Wagen auf der Flur; Vernähm' er gerne dies mein Lied!
Sehen möchte ich jetzt den von allen gern gesehenen, sehen seinen Wagen auf Erden; er möge an diesen Lobreden von mir Gefallen haben.
Вот бы мне сейчас увидеть того, кого хотят увидеть все!
Вот бы мне увидеть (его) колесницу (, спускающуюся) на землю!
Пусть возрадуется он моим хвалебным песням!
इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥
इ॒मम् । मे॒ । व॒रु॒ण॒ । श्रुधि॑ । हव॑म् । अ॒द्य । च॒ । मृ॒ळ॒य॒ । त्वाम् । अ॒व॒स्युः । आ । च॒क्रे॒ ॥
हे वरुण मे मदीयम् इमं हवम् आह्वानं श्रुधि ऋणु । किं च अद्य अस्मिन् दिने मृळय अस्मान् सुखय । अवस्युः रक्षणेच्छुः अहं त्वां वरुणम् आभिमुख्येन चके शब्दयामि स्तौमीत्यर्थः ॥ श्रुधि । ‘श्रु श्रवणे '। लोटो हिः । ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि ' इति हेर्धिरादेशः । ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । अन्येषामपि दृश्यते ' इति संहितायां दीर्घः । अवस्युः । अवस् शब्दात् ‘सुप आत्मनः क्यच् । ‘क्याच्छन्दसि' इति उप्रत्ययः । आ चके । ‘कै गै शब्दे ' । अस्मात् लिटि ‘आदेचः' (पा. सू. ६. १. ४५ ) इति आत्वम् । द्विर्भावचुत्वे । ‘आतो लोप इटि च । ( पा. सू. ६. ४. ६४ ) इति आकारलोपः। ‘तिङ्ङतिङः' इति निघातः ॥
“Hear, Varuṇa, this my invocation; make us this day happy; I have appealed to you, hoping for protection.”
Varuna, hear this call of mine: be gracious unto us this day
Longing for help I cried to thee.
Now hear my call, Varuṇa, and today have mercy.
It is you whom I desire, seeking help.
O höre heute meinen Ruf und sei mir gnädig, Varuna; Schutzsuchend sehn' ich mich nach dir.
Erhör, o Varuna, diesen Ruf von mir und sei heut barmherzig! Nach dir verlange ich hilfesuchend.
Услышь, о Варуна, этот зов мой
И будь милостив сегодня!
К тебе я стремлюсь в поисках помощи.
त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि । स याम॑नि॒ प्रति॑ श्रुधि ॥
त्वम् । विश्व॑स्य । मे॒धि॒र॒ । दि॒वः । च॒ । ग्मः । च॒ । रा॒ज॒सि॒ । सः याम॑नि॒ । प्रति॑ । श्रु॒धि॒ ॥
हे मेधिर मेधाविन वरुण त्वं दिवश्च द्युलोकस्यापि ग्मश्च भूलोकस्यापि एवमात्मकस्य विश्वस्य सर्वस्य जगतो मध्ये राजसि दीप्यसे । सः तादृशः त्वं यामनि क्षेमप्रापणे अस्मदीये प्रति श्रुधि प्रतिश्रवणम् आज्ञापनं कुरु । रक्षिष्यामि इति प्रत्युत्तरं देहीत्यर्थः ॥ दिवः । ऊडिदम् । इत्यादिना षष्ठ्या उदात्तत्वम् । ग्मः । ‘ग्मा ' (नि. १. १. २) इत्येतत् भूनामसु पठितम् । ‘आतो धातोः' इत्यत्र आतः इति योगविभागात् ' आतो लोपः' इति प्रतिषेधेऽपि (?) व्यत्ययेन आकारलोपः। उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । यामनि । ‘या प्रापणे '। 'आतो मनिन्क्वनिब्बनिपश्च' इति मनिन् । नित्त्वादाद्युदात्तत्वम् । श्रुधि । उक्तम् ॥
“You, who are possessed of wisdom, shine over heaven and earth, and all the world; do you hear and reply (to my prayers), with (promise of) prosperity.”
Thou, O wise God, art Lord of all, thou art the King of earth and heaven
Hear, as thou goest on thy way.
You, wise one, rule over all, both heaven and earth.
Listen in response to my entreaty.
Du, weiser, bist der Herr des Alls, des Himmels und der Erde auch, Drum höre mich auf deinem Pfad.
Du Weiser gebeutst über das All, über Himmel und Erde. Schenk also Gehör auf deiner Fahrt!
Ты царишь надо всем,
О мудрый: над небом и землей.
Обрати слух к (моей) молитве!
उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं॑ मध्य॒मं चृ॑त । अवा॑ध॒मानि॑ जी॒वसे॑ ॥
उत् । उ॒त्ऽत॒मम् । मु॒मु॒ग्धि॒ । नः॒ । वि । पाश॑म् । म॒ध्य॒मञ् चृ॒त॒ । अव॑ । अ॒ध॒मानि॑ । जी॒वसे॑ ॥
नः अस्माकम् उत्तमं शिरोगतं पाशम् उत् मुमुग्धि उत्कृष्य मोचय । मध्यमम् उदरगतं पाशं वि चृत वियुज्य नाशय । जीवसे जीवितुम् अधमानि मदीयान् पादगतान् पाशान् अव चृत अवकृष्य नाशय ॥ उत्तमम् । उञ्छादिषु पाठादन्तोदात्तत्वम् । मुमुग्धि ।' मुच्लृ मोक्षणे ' । ‘बहुलं छन्दसि ' इति विकरणस्य श्लुः । द्विर्भावः । हलादिशेषः । ‘हुझल्भ्यो हेर्धिः' ( पा. सू. ६. ४. १०१ ) इति हेर्धिरादेशः । ‘तिङ्ङतिङः' इति निघातः । चृत । चृती हिंसाग्रन्थनयोः '। लोटो हिः । ‘तुदादिभ्यः शः । अतो हेः' इति हेर्लुक्। जीवसे । ‘जीव प्राणधारणे' । ‘तुमर्थे सेसेन्' इति असेप्रत्ययः । प्रत्ययस्वरः ॥ ॥ १९ ॥
“Loose us from the upper bonds, untie the centre and the lower, that we may live.”
Release us from the upper bond, untie the bond between, and loose
The bonds below, that I may live.
Release above the uppermost fetter from us, unbind away the midmost, (loosen) below those lowest, in order for us to live.
Lös' ab von uns das höchste Band, reiss mitten durch das mittelste, Zum Leben lös' die untersten.
Löse die oberste Schlinge von uns auf, mach die mittlere los, streif die unterste Schlinge ab, damit ich lebe!
Вверх – верхнюю отпусти нам,
Посреди среднюю петлю расслабь,
Вниз – нижние, чтобы мы жили!