वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा॑ण्यूर्जां पते । सेमं नो॑ अध्व॒रं य॑ज ॥
वसि॑ष्व । हि । मि॒ये॒ध्य॒ । वस्त्रा॑णि । ऊ॒र्जा॒म् । प॒ते॒ । सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥
वरुणेन अग्निस्तुतौ प्रेरितः शुनःशेपः एतदादिसूक्तद्वयेन अग्निमस्तौत् । तया च आम्नायते-’तं वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽग्निं तुष्टावात उत्तराभिर्द्वाविंशत्या' (ऐ. ब्रा. ७.१६ ) इति । हे मियेध्य मेधस्य यज्ञस्य योग्य ऊर्जां पते अन्नानां पालकाग्ने वस्त्राणि आच्छादकानि तेजांसि वसिष्व आच्छादय । प्रज्वलितस्तेजसा भवेत्यर्थः । हि यस्मात् प्रज्वलितः तस्मात् सः तादृशस्त्वं नः अस्मदीयम् इमम् अध्वरं यज निष्पादय ॥ वसिष्व। ‘वस आच्छादने'। लोटि ‘थासः से'।“ सवाभ्यां वामौ'। ‘छन्दस्युभयथा' इति आर्धधातुकत्वात् ‘आर्धधातुकस्येड्वलादेः' ( पा. सू. ७. २. ३५) इति इडागमः । लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘अन्येषामपि दृश्यते' इति संहितायां दीर्घः । मियेध्य । मकारैकारयोर्मध्ये इयागमश्छान्दसः । ऊर्जां पते । ‘सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितस्य समुदायस्य आष्टमिको निघातः । सेमम् । ‘सोऽचि लोपे चेत्पादपूरणम्' इति सोर्लोपः ॥
“Lord of sustenance, assume your vestments (of light) and offer this our sacrifice.”
O WORTHY of oblation, Lord of prospering powers, assume thy robes,
And offer this our sacrifice.
Clothe thyself with thy clothing (of light), o sacrificial (god), lord of all vigour; and then perform this worship for us.
Put on your garments, you partaker of the sacrificial meal and lord of nourishments,
and so perform this rite for us.
In deine Kleider hülle dich, die Opfer nehmend, Herr der Kraft, Vollziehe unser Opfer hier.
So zieh denn deine Opfergewänder an, du festlicher Herr der Kräfte, bringe du dieses Opfer für uns dar!
Облекись же, о достойный жертвенной пищи,
В (свои) одеяния, о господин подкреплений!
Отпразднуй этот наш обряд!
नि नो॒ होता॒ वरे॑ण्य॒: सदा॑ यविष्ठ॒ मन्म॑भिः । अग्ने॑ दि॒वित्म॑ता॒ वच॑: ॥
नि । नः॒ । होता॑ । वरे॑ण्यः । सदा॑ । य॒वि॒ष्ठ॒ । मन्म॑ऽभिः । अग्ने॑ । दि॒वित्म॑ता । वचः॑ ॥
सदा यविष्ठ सर्वदा युवतम हे अग्ने वरेण्यः वरणीयस्त्वं नः अस्माकं होता होमनिष्पादको भूत्वा दिवित्मता दीप्तिमता वचः वचसा स्तूयमानः सन् नि षीद इति शेषः । कीदृशस्त्वम् । मन्मभिः ज्ञापकैः तेजोभिर्युक्त इति शेषः ॥ यविष्ठ । युवशब्दात् इष्ठनि “ स्थूलदूर' ' (पा. सू. ६. ४. १५६ ) इत्यादिना यणादिपरस्य लोपः; पूर्वस्य उकारस्य गुणश्च । अवादेशः । आमन्त्रितनिघातः । मन्मभिः । ‘मन ज्ञाने'। अन्येभ्योऽपि दृश्यन्ते' इति मनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम्। दिवित्मता ।' दिवु क्रीडादौ । ‘इक्श्तिपौ धातुनिर्देशे' (पा. सू. ३. ३. १०८. २) इति इक्प्रययः। तेन च धातुवाचिना दिविशब्देन धात्वर्थो दीप्तिर्लक्ष्यते । यद्वा । औणादिको भावे किप्रत्ययः। दिविशब्दात् मतुपि तकारोपजनश्छन्दसः। यद्वा । बाहुलकात् दिवेर्भावे इतक् । मतुपि ‘तसौ मत्वर्थे ' इति भत्वात् जश्त्वाभावः । वचः। ‘सुपां सुलुक्' इति तृतीयैकवचनस्य लुक् ॥
“(Propitiated) by brilliant strains, do your, ever-youthful Agni, selected by us, become our ministrant priest, (invested) with radiance.”
Sit ever to be chosen, as our Priest, most youthful, through our hymns,
O Agni, through our heavenly word.
Sit down, most youthful god, as our desirable Hotri, through (our prayerful) thoughts 1, O Agni, with thy word 2 that goes to heaven.
Take your seat as our Hotar, worthy to be chosen by our thoughts and heaven-bound speech, o youngest Agni.
Du lieber Priester setze dich, o jüngster, durch Gebet gelockt, Agni, durch unser glänzend Lied.
Nimm als unser auserwählter Hotri Platz, mit Dichtungen, mit glanzvoller Rede geladen, du jüngster Agni!
Сядь как наш избранный хотар,
О самый юный, (привлеченный) поэтическими мыслями
О Агни, (и) блеском речи.
आ हि ष्मा॑ सू॒नवे॑ पि॒तापिर्यज॑त्या॒पये॑ । सखा॒ सख्ये॒ वरे॑ण्यः ॥
आ । हि । स्म॒ । सू॒नवे॑ । पि॒ता । आ॒पिः । यज॑ति । आ॒पये॑ । सखा॑ । सख्ये॑ । वरे॑ण्यः ॥
हे अग्ने वरेण्यः वरणीयः पिता पितृस्थानीयः त्वं सूनवे पुत्रस्थानीयाय मह्यम् अभीष्टं देहीति शेषः । हि ष्म इति निपातद्वयं सर्वथेत्यमुमर्थमाचष्टे । अभीष्टदाने दृष्टान्तद्वयमुच्यते । यथा आपिः बन्धुः आपये बन्धवे आ यजति हि स्म । सर्वथा ददातीति शेषः। सखा प्रियः सख्ये प्रियाय अभीष्टं सर्वथा ददाति तथा त्वमपि देहि ॥ स्मा सूनवे । ‘निपातस्य च ' इति दीर्घः ॥ यजतीत्यस्य सखा सख्ये इत्यत्राप्यनुषङ्गात् तदपेक्षयेयं प्रथमा इति ‘चादिलोपे विभाषा' इति न निहन्यते । यद्वा । ‘हि च ' इति निघातप्रतिषेधः । सख्ये । समाने ख्यश्चोदात्तः' इति सखिशब्दः इण्प्रत्ययान्त आद्युदात्तः । सुपः पित्त्वादनुदात्तत्वे स एव शिष्यते ॥
“You, Agni, are verily as a loving father to a son, as a kinsman to a kinsman, as a friend to a friend.”
For here a Father for his son, Kinsman for kinsman worshippeth,
And Friend, choice-worthy, for his friend.
The father verily by sacrificing procures (blessings) for the son 1, the companion for the companion, the elect friend for the friend.
For a father always sacrifices on behalf of his son, a friend on behalf of his friend,
a comrade worth choosing on behalf of his comrade.
Der Vater opfert für den Sohn, der Bruder für den Bruder ja, Und für den Freund der liebe Freund.
Denn es bringt der Vater für den Sohn ein Bittopfer, der Freund für den Freund, der auserwählte Genosse für den Genossen.
Ведь это для сына – отец,
Для близкого друга жертвует близкий друг,
Для товарища – драгоценный товарищ.
आ नो॑ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । सीद॑न्तु॒ मनु॑षो यथा ॥
आ । नः॒ । ब॒र्हिः । रि॒शाद॑सः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । सीद॑न्तु । मनु॑षः । य॒था॒ ॥
हे अग्ने वरुणादयो देवाः त्वद्बन्धवः त्वया प्रेरिताः रिशादसः हिंसकानदन्तः नः अस्मदीयं बर्हिः यज्ञम् आ सीदन्तु । तत्र दृष्टान्तः । यथा मनुषः प्रजापतेर्यज्ञमासीदन्ति तद्वत् ॥ बर्ही रिशादसः । विसर्जनीयस्य रुत्वे कृते ‘रो रि' (पा. सू. ८. ३. १४ ) इति रेफलोपः। ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः ' (पा. सू. ६. ३. १११ ) इति इकारस्य दीर्घत्वम् । रिशादसः । ‘रिश हिंसायाम्'। रिशन्ति हिंसन्तीति रिशाः शत्रवः । ‘इगुपधज्ञाप्रीकिरः कः । तानदन्तीति रिशादसः । ‘सर्वधातुभ्योऽसुन् ' कृदुत्तरपदप्रकृतिस्वरत्वम् । सीदन्तु । ‘षद्लृ विशरणगत्यवसादनेषु । ‘पाघ्रा० ) इत्यादिना सीदादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसावधातुकस्वरेण धातुस्वरः शिष्यते । मनुषः । ‘मन ज्ञाने । मन्यते जानातीति मनुः प्रजापतिः । ‘जनेरुसिः, निच्च' इत्यनुवृत्तौ ' बहुलमन्यत्रापि ' ( उ. सू. २. २७८ ) इति औणादिकः उसिप्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यथा । यथेति पादान्ते' (फि. सू. ८५) इति सर्वानुदात्तत्वम् ॥
“Let Varuṇa, Mitra and Āryaman, sit down upon our sacred grass, as they did at the sacrifice of Manu.”
Here let the foe-destroyers sit, Varuna, Mitra, Aryaman,
Like men, upon our sacred grass.
May Varuna, Mitra, Aryaman, triumphant with riches (?) 1, sit down on our sacrificial grass as they did on Manu’s.
Let Varuṇa, Mitra, and Aryaman, who care for the stranger, take their seats here on our ritual grass, as if (on that) of Manu.
Die Feindverzehrer mögen sich wie Menschen setzen auf die Streu, Varuna, Mitra, Arjaman.
Auf unser Barhis sollen sich Varuna, Mitra, Aryaman, die herrenstolzen, setzen wie auf das des Manu.
Да усядутся у нас на жертвенную солому
Заботящиеся о чужом (?) Варуна, Митра, Арьяман,
Как (это было у) Мануса.
पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च । इ॒मा उ॒ षु श्रु॑धी॒ गिर॑: ॥
पूर्व्य॑ । हो॒तः॒ । अ॒स्य । नः॒ । मन्द॑स्व । स॒ख्यस्य॑ । च॒ । इ॒माः । ऊँ॒ इति॑ । सु । श्रु॒धी॒ । गिरः॑ ॥
हे पूर्व्य अस्मदादेः पूर्वमुत्पन्न होतः होमनिष्पादकाग्ने नः अस्मदीयस्य अस्य प्रवर्तमानस्य यज्ञस्य सख्यस्य च अस्मदनुग्रहस्य च सिद्ध्यर्थं मन्दस्व त्वं हृष्टो भव । इमाः अस्माभिः प्रयुज्यमानाः गिरः उ षु स्तुतिरूपा वाचोऽपि श्रुधि शृणु ॥ पूर्व्य । आमन्त्रिताद्युदात्तत्वम् । होतः इत्यस्य • नामन्त्रिते समानाधिकरणे' इति पूर्वस्य विद्यमानत्वात् आष्टमिको निघातः । अस्य । ऊडिदम्' इति षष्ठ्या उदात्तत्वम् । मन्दस्व । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु ' । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । ‘अपादादौ ' इति पर्युदासात् आष्टमिकनिघाताभावः । सख्यस्य । सख्युः कर्म सख्यम् । सख्युर्यः' (पा. सू. ५. १. १२६) इति यप्रत्ययः । ‘यस्य' इति लोपे प्रत्ययस्वरः । उ षु । ' सुञः ' (पा. सू. ८. ३. १०७) इति षत्वम् । श्रुधि । ‘श्रु श्रवणे' । ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि ' इति हेर्धिरादेशः । ‘बहुलं छन्दसि ' इति शपो लुक् ॥ ॥ २० ॥
“Preceding sacrificer, be plural ased with this our sacrifice and with our friendship, and listen to these your praises.”
O ancient Herald, be thou glad in this our rite and fellowship:
Hearken thou well to these our songs.
O ancient Hotri, be pleased with this our friendship also, and hear these prayers.
O ancient Hotar, rejoice in this (ritual grass) and in our comradeship; listen well to these songs here.
Erfreu, du alter Priester, dich an unserm Opfer, unserm Bund, Und höre diese Lieder gern.
Du erster Hotri freue dich auch dieser Freundschaft mit uns, hör fein auf diese Lobrede!
О древний хотар, радуйся же
Этой дружбе с нами!
Услышь и эти хвалебные песни!
यच्चि॒द्धि शश्व॑ता॒ तना॑ दे॒वंदे॑वं॒ यजा॑महे । त्वे इद्धू॑यते ह॒विः ॥
यत् । चि॒त् । हि । शश्व॑ता । तना॑ । दे॒वम्ऽदे॑वम् । यजा॑महे । त्वे इति॑ । इत् । हू॒य॒ते॒ । ह॒विः ॥
हे अग्ने यच्चिद्धि यद्यपि शश्वता शाश्वतेन नित्येन तना विस्तृतेन हविषा देवंदेवम् अन्यमन्यं वरुणेन्द्रादिरूपं नानाविधं देवताविशेषं यजामहे तथापि तत् हविः सर्वं त्वे इत् त्वय्येव हूयते । अतो देवतान्तरविषयो यागोऽपि त्वदीयैव सेवेत्यर्थः ॥ तना। तनु विस्तारे'। क्विप् च ' इति क्विप् । यद्वा । पचाद्यच् ।' सुपां सुलुक् ' इति तृतीयाया आकारः । देवंदेवम् ।' नित्यवीप्सयोः' इति द्विर्भावः । तस्य परमाम्रेडितम् । इत्युत्तरस्य आम्रेडितसंज्ञायाम् ' अनुदात्तं च' इति सर्वानुदात्तत्वम् । यजामहे । ‘निपातैयद्यदिहन्त° ' इति निघातप्रतिषेधः । त्वे । युष्मच्छब्दात् सप्तम्येकवचनस्य ‘सुपां सुलुक् ' इति शेआदेशः । ‘त्वमावेकवचने' इति मपर्यन्तस्य त्वादेशः । शेषलोपे ' अतो गुणे ' इति परपूर्वत्वम् । ‘शे' (पा. सू. १. १. १३) इति प्रगृह्यसंज्ञायां ‘प्लुतप्रगृह्या अचि ' ( पा. सू. ६. १. १२५ ) इति प्रकृतिभावः । हूयते । अकृत्सार्वधातुकयोः (पा. सू. ७. ४. २५) इति दीर्घः ॥
“Whatever we offer in repeated and plural ntiful oblation to any other deity, is assuredly offered to you.”
Whate'er in this perpetual course we sacrifice to God and God,
That gift is offered up in thee
For whenever we sacrifice constantly 1 to this or to that god, in thee alone the sacrificial food is offered.
For even when we sacrifice to god after god in unbroken succession, it is just in you that the oblation is poured.
Denn wenn im stetigen Verlauf auch Gott für Gott wir ehren hoch, In dich nur giesst man Opfertrank.
Wenn wir gleich in vollständiger Reihenfolge Gott um Gott verehren, so wird nur in dir die Spende geopfert.
А когда мы непрерывной чередой
Приносим жертвы то одному, то другому богу,
Это в тебя вливается жертвенное возлияние.
प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो वरे॑ण्यः । प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥
प्रि॒यः । नः॒ । अ॒स्तु॒ । वि॒श्पतिः॑ । होता॑म् । म॒न्द्रः । वरे॑ण्यः । प्रि॒याः । सु॒ऽअ॒ग्नयः॑ । व॒यम् ॥
विश्पतिः विशां प्रजानां पालकः होता होमनिष्पादकः मन्द्रः हृष्टः वरेण्यः वरणीयोऽग्निः नः अस्माकं प्रियः अस्तु । वयम् अपि स्वग्नयः शोभनाग्नियुक्ताः सन्तः तव प्रियाः भूयास्मेति शेषः ॥ विश्पतिः ।' पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरे प्राप्ते ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । वरेण्यः । ‘वृञ एण्यः' ( उ. सू. ३. ३७८ )। वृषादित्वादाद्युदात्तत्वम् । स्वग्नयः । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥
“May the lord of men, the sacrificing priest, the gracious, the chosen, be kind to us; may we, possessed of holy fires, be loved of you.”
May he be our dear household Lord, Priest, pleasant and, choice-worthy may
We, with bright fires, be dear to him.
May he be dear to us, the lord of the clan, the joy-giving, elect Hotri; may we be clear (to him), possessed of a good Agni (i. e. of good fire).
Let him be our dear clanlord—the delighting Hotar worthy to be chosen;
let us be dear (to him) and (so) possess good fires.
Uns möge hold der Hausherr sein, der liebe Priester, der erfreut, Und lieb wir feuerreiche ihm.
Er soll uns ein lieber Clanherr sein, der wohlredende, auserwählte Hotri; auch wir möchten lieb sein, die wir ein gutes Opferfeuer haben.
Да будет дорог нам господин племен,
Хотар, радостный, избранный!
(Да будем) дороги ему мы, у кого есть прекрасный Агни!
स्व॒ग्नयो॒ हि वार्यं॑ दे॒वासो॑ दधि॒रे च॑ नः । स्व॒ग्नयो॑ मनामहे ॥
सु॒ऽअ॒ग्नयः॑ । हि । वार्य॑म् । दे॒वासः॑ । द॒धि॒रे । च॒ । नः॒ । सु॒ऽअ॒ग्नयः॑ । म॒ना॒म॒हे॒ ॥
स्वग्नयः शोभनाग्नियुक्ताः देवासः दीप्यमाना ऋत्विजः नः अस्मदीयं वार्यं वरणीयं हविः हि यस्मात् दधिरे धृतवन्तः तस्माद्वयं स्वग्नयः शोभनाग्नियुक्ताः सन्तः मनामहे त्वां याचामहे ॥ वार्यम् । वृञ् वरणे'।' वृङ् संभक्तौ ।' ऋहलोर्ण्यत्' । ईडवन्द' इत्यादिनाद्युदात्तत्वम् । दधिरे । इरेचः चित्त्वादन्तोदात्तत्वम् । ‘हि च ' इति निघातप्रतिषेधः । मनामहे ।' मन ज्ञाने'। व्यत्ययेन शप् ॥
“As the brilliant (priests), possessed of holy fires, have taken charge of our oblations, so we, with holy fires, pray to you.”
The Gods, adored with brilliant fires. have granted precious wealth to us
So, with bright fires, we pray to thee.
For the gods, when possessed of a good Agni, have given us excellent wealth, and we think ourselves possessed of a good Agni.
Since the gods have good Agni (among them) and established him as a choice thing for us,
we consider ourselves to possess good fires [/Agni].
Denn reich an Feuern haben uns die Götter schönes Gut geschenkt, Und reich an Feuern beten wir.
Denn wenn die Götter ein gutes Opferfeuer haben, so bringen sie auch uns Erwünschtes. Wir glauben ein gutes Opferfeuer zu haben.
Ведь если у богов есть прекрасный Агни,
Они дают нам лучший дар.
Мы хотим считать, что у нас есть прекрасный Агни!
अथा॑ न उ॒भये॑षा॒ममृ॑त॒ मर्त्या॑नाम् । मि॒थः स॑न्तु॒ प्रश॑स्तयः ॥
अथ॑ । नः॒ । उ॒भये॑षाम् । अमृ॑त । मर्त्या॑नाम् । मि॒थः । स॒न्तु॒ । प्रऽश॑स्तयः ॥
हे अग्ने अमृत मरणरहिताग्ने अथ कर्मानुष्ठानमन्तरं मर्त्यानां मनुष्याणां नः अस्माकम् अस्मत्स्वामिनस्तव च उभयेषां मिथः परस्परं प्रशस्तयः प्रशंसारूपा वाचः सन्तु । सम्यगनुष्ठितमिति यजमानविषया प्रशंसा सम्यगनुगृहीतमित्यग्निविषया ॥ अथ ।' निपातस्य च ' इति संहितायां दीर्घः । अमृत । 'अपादादौ' इति पर्युदासात् षाष्ठिकमाद्युदात्तत्वम् । मर्त्यानाम् । ‘मृङ् प्राणत्यागे । ‘असिहसि' (उ. सू. ३ ३६६ ) इत्यादिना तन्प्रत्ययान्तो मर्तशब्दः । तस्मात् ‘भवे छन्दसि' (पा. सू. ४. ४. ११०) इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । सन्तु । ' श्नसोरल्लोपः ' । प्रशस्तयः । ‘तादौ च ' इति गतेः प्रकृतिस्वरत्वम् ॥
“Immortal Agni, may the praises of mankind be henceforth mutually (the sources of happiness) to both, (to ourselves and to you).”
And, O Immortal One, so may the eulogies of mortal men
Belong to us and thee alike.
And may there be among us mutual praises of both the mortals, O immortal one, (and the immortals) 1.
So then, of us both, mortals (and immortals), o immortal one,
let there be encomia each for the other.
Dann werde dir, unsterblicher, und uns, den Sterblichen, zugleich Von beiden Seiten Ruhm zu Theil.
So soll zwischen uns beiden, du Unsterblicher, zwischen den Unsterblichen und den Sterblichen, gegenseitig Anerkennung sein.
Так пусть же будут взаимными признания
Обоих наших (родов):
(Бессмертных,) о бессмертный, (и) смертных!
विश्वे॑भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वच॑: । चनो॑ धाः सहसो यहो ॥
विश्वे॑भिः । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः॑ । चनः॑ । धाः॒ । स॒ह॒स॒ । य॒हो॒ इति॑ ॥
सहसः बलस्य यहो पुत्र हे देवतारूप अग्ने विश्वेभिः अग्निभिः सर्वैराहवनीयादिभिर्युक्तस्त्वम् इमम् अस्मदीयं यज्ञम् इदम् अस्मदीयं वचः स्तोत्रं च सेवमानः चनः अन्नं धाः अस्मभ्यं धेहि ॥ विश्वेभिः । ‘बहुलं छन्दसि' इति भिस ऐसादेशाभावः । चनः। चायृ पूजानिशामनयोः । ‘चायेरन्ने ह्रस्वश्च' ( उ. सू. ४. ६३९ ) इति असुन्; तसंनियोगेन नुडागमश्च । नित्त्वादाद्युदात्तत्वम् । धाः । लुङि • गातिस्था' इति सिचो लुक् ।' बहुलं छन्दस्यमाङ्योगेऽपि इति अडभावः । सहसो यहो इति ‘सुबामन्त्रिते' इति पराङ्गवद्भावात् ' आमन्त्रितस्य च इति षष्ठ्यामन्त्रितसमुदायो निहन्यते ॥ ॥ २१ ॥
“Agni, son of strength, (accept) this sacrifice, and this our praise, with all your fires, and grant us (abundant) food.”
With all thy fires, O Agni, find pleasure in this our sacrifice,
And this our speech, O Son of Strength.
With all Agnis (i. e. with all thy fires), O Agni, accept this sacrifice and this prayer, O young (son) of strength 1.
O Agni, along with all the fires, take delight in this sacrifice and in this speech,
o young (son) of strength.
Mit allen Feuern, Agni, nimm dies Opfer an und dieses Lied Mit Wohlgefallen, Sohn der Kraft!
Mit allen anderen Agni´s nimm, Agni, dieses Opfer, dieses Wort gern an, jüngster Sohn der Kraft!
Вместе со всеми Агни, о Агни,
Прими благосклонно, о юный (сын) силы,
Эту жертву, эту речь!