अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः । स॒म्राज॑न्तमध्व॒राणा॑म् ॥
अश्व॑म् । न । त्वा॒ । वार॑ऽवन्तम् । व॒न्दध्यै॑ । अ॒ग्निम् । नमो॑भिः । स॒म्ऽराज॑न्तम् । अ॒ध्व॒राणा॑म् ॥
अध्वराणां यज्ञानां सम्राजन्तं सम्राट्स्वरूपं स्वामिनम् अग्निं त्वां नमोभिः स्तुतिभिः वन्दध्यै वन्दितुं प्रवृत्ता इति शेषः । अत्र दृष्टान्तः । वारवन्तं वालयुक्तम् अश्वं न अश्वमिव । अश्वो यथा वालैर्बाधकान् मशकमक्षिकादीन् परिहरति तथा त्वमपि ज्वालाभिरस्मद्विरोधिनः परिहरसीत्यर्थः ॥ वारवन्तम् । मतुपः पित्त्वादनुदात्तत्वम् । घञो ञित्त्वात् आद्युदात्तो वारशब्दः । ‘कर्षात्वतः' इति अन्तोदात्तत्वं व्यत्ययेन न प्रवर्तते । वन्दध्यै । वदि अभिवादनस्तुत्योः ' । इन्दितो नुम् धातोः ' इति नुम् । तुमर्थे सेसेन्' इति अध्यैप्रत्ययः । प्रत्ययस्वरः । सम्राजन्तम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरेण स एव । अध्वराणाम् ।' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् ॥
“(I proceed) to address you, the soverign lord of sacrifice, with praises, (for you scatter our fores) like a horse (who brushes off flies with) his tail.”
WITH worship will I glorify thee, Agni, like a long-tailed steed,
Imperial Lord of sacred rites.
With reverence I shall worship thee who art long-tailed like a horse, Agni, the king of worship.
(This is) to extol you, Agni, with reverences—you bringing choice things [/long-tailed] like a horse,
ruling over the rites completely.
Den Agni rühmet andachtsvoll gleichwie ein langgeschweiftes Ross, Der über alle Opfer herrscht.
Wie ein wertvolles Roß will ich unter Verbeugungen dich, den Agni, loben, der über allen Opferhandlungen waltet.
Как коня, приносящего награды,
Надо почитать тебя, Агни, поклонениями,
(Тебя,) безраздельно властвующего над обрядами.
स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेव॑: । मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥
सः । घ॒ । नः॒ । सू॒नुः । शव॑सा । पृ॒थुऽप्र॑गामा । सु॒ऽशेवः॑ । मी॒ढ्वान् । अ॒स्माक॑म् । ब॒भू॒या॒त् ॥
सः घ स एवाग्निः नः अस्माकं सुशेवः सुसुखो भवत्विति शेषः । कीदृशः । शवसा बलस्य सूनुः पुत्रः पृथुप्रगामा पृथुप्रगमनः किंच अस्माकं मीढ्वान् कामानां वर्षिता बभूयात् भवतु ॥ घा नः । ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ' ( पा. सू. ६. ३. १३३) इति दीर्घः । शवसा । सुपां सुपो भवन्ति' इति ङसः टादेशः । पृथुप्रगामा । प्रकर्षेण गमनं प्रगामः । ‘हलश्च' इति घञ् । पृथुः प्रगामा यस्यासौ पृथुप्रगामा ।‘सुपां सुलुक्° ' इति पूर्वसवर्ण आकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुशेवः । ‘इण्शीङ्भ्यां वन्' ( उ. सू. १. १५० ) इति शेवशब्दो वन्प्रत्ययान्त आद्युदात्तः । ततो बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वे प्राप्ते ' आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । मीढ्वान् । मिह सेचने' इत्यस्मात् क्वसुप्रत्ययान्तो ‘दाश्वान् साह्वान् मीढ्वांश्च' इति निपातितः । बभूयात् । भवतेश्छान्दसस्य लिटः तिङां तिङो भवन्ति' (पा. म. ७. १. ३९ ) इति लिङादेशः । यासुट्स्थानिवद्भावात् आर्धधातुकत्वात् शबभावः । द्विर्वचने ‘भवतेरः (पा. सू. ७. ४. ७३) इति अत्वम् । तिङ्ङतिङः' इति निघातः ॥
“May he, the son of strength, who moves everywhere fleetly, be propitious to us, and shower down (blessings).”
May the far-striding Son of Strength, bringer of great felicity,
Who pours his gifts like rain, be ours.
May he, our son of strength 1, proceeding on his broad way, the propitious, become bountiful to us.
Might the son (of strength) by his strength, very kindly, of broad advance, become our benefactor.
Und er, der krafterzeugte Sohn, der holde, weithinschreitende, Er möge segensreich uns sein.
Er, unser Sohn durch Kraft, der breitbahnige, freundliche sei uns ein Belohner.
Пусть же этот наш (Агни), сын (силы), с силой (своей),
Широко продвигающийся, очень благосклонный,
Щедрый, будет с нами!
स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः । पा॒हि सद॒मिद्वि॒श्वायु॑: ॥
सः । नः॒ । दू॒रात् । च॒ । आ॒सात् । च॒ । नि । मर्त्या॑त् । अ॒घ॒ऽयोः । पा॒हि । सद॑म् । इत् । वि॒श्वऽआ॑युः ॥
हे अग्ने विश्वायुः व्याप्तगमनः सः त्वं दूराच्च दूरेऽपि आसाच्च आसन्नदेशेऽपि अघायोः अघं पापमनिष्टं कर्तुमिच्छतः मर्त्यात् मनुष्यात् वैरिणः नः अस्मान् सदमित् सर्वदैव नि पाहि नितरां पालय ॥ अघायोः । ' सुप आत्मनः क्यच् '। 'अश्वाघस्यात् ' ( पा. सू. ७. ४. ३७ ) इति आत्वम् । पाहि । पादादित्वादनिघातः । विश्वायुः । ‘इण् गतौ ' इत्यस्माद्भावे ‘एतेर्णिच्च ' (उ. सू. २. २७५) इति उसिः । विश्वमयनं गमनं यस्येति बहुव्रीहिः । ‘बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् ॥
“Do you, Agni, who go everywhere, ever protect us, whether near or afar, from men seeking to do us injury.”
Lord of all life, from near; from far, do thou, O Agni evermore
Protect us from the sinful man.
Thus protect us always, thou who hast a full life, from the mortal who seeks to do us harm 1, whether near or afar.
Both from afar and from nearby, from the mortal who wishes ill
protect us always, you who last a whole lifetime.
Du schütze uns von nah und fern vor frevelhaftem Sterblichen, Du Allbeleber immerdar.
Schütze du uns fern und nah vor dem böswilligen Sterblichen, immerdar, lebenslänglich!
(Ты) нас издали и изблизи
От злоумышляющего смертного
Защищай всегда, весь срок (нашей) жизни!
इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम् । अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥
इ॒मम् । ऊँ॒ इति॑ । सु । त्वम् । अ॒स्माक॑म् । स॒निम् । गा॒य॒त्रम् । नव्यां॑सम् । अग्ने॑ । दे॒वेषु॑ । प्र । वो॒चः॒ ॥
हे अग्ने त्वम् अस्माकम् अस्मत्संबन्धिनम् इममू षु पुरोदेशे अनुष्ठीयमानमपि सनिं हविर्दानं नव्यांसं नवतरं गायत्रं स्तुतिरूपं वचोऽपि देवेषु देवानामग्रे प्र वोचः प्रबूहि ॥ ऊ षु । ‘निपातस्य च ' इति संहितायां दीर्घत्वं ।' सुञः' इति षस्वम् । नव्यांसम् । नवशब्दात् ईयसुनि ईकारलोपश्छान्दसः । ईयसुनो नित्त्वादाद्युदात्तत्वम् । वोचः । ‘छन्दसि लुङ्लङ्लिटः' इति लोडर्थे प्रार्थनायां लुङि • अत्यतिवक्ति' (पा. सू. ३. १. ५२ ) इति च्लेः अङादेशः । ‘वच उम्' (पा. सू. ७. ४. २० ) ॥
“Agni, announce to the gods this our offering, and these our newest hymns.”
O Agni, graciously announce this our oblation to the Gods,
And this our newest song of praise.
And mayest thou, O Agni, announce to the gods this our newest efficient Gâyatra song.
This, our winnings, our newer song,
you shall proclaim among the gods, o Agni.
Und künde unsre Spende schön und diesen neusten Lobgesang, o Agni, du den Göttern an.
Diese unsere neueste Gabe, das Gesangeslied, melde du, Agni, fein den Göttern!
Эту вот прекрасную нашу заслугу –
Новый гимн размером Гаятри
Ты, Агни, провозгласи среди-богов!
आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ । शिक्षा॒ वस्वो॒ अन्त॑मस्य ॥
आ । नः॑ । भ॒ज॒ । प॒र॒मेषु॑ । आ । वाजे॑षु । म॒ध्य॒मेषु॑ । शिक्षा॑ । वस्वः॑ । अन्त॑मस्य ॥
हे अग्ने परमेषु उत्कृष्टेषु द्युलोकवर्तिषु वाजेषु अन्नेषु नः अस्मान् आ भज सर्वतः प्रापय । मध्यमेषु अन्तरिक्षलोकवर्तिषु वाजेषु आ भज । अन्तमस्य अन्तिकतमस्य भूलोकस्य संबन्धीनि वस्वः वसूनि शिक्ष देहि ॥ शिक्ष। शिक्ष विद्योपादाने '। शपः पित्त्वात् धातुस्वरः । द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः । अन्तमस्य अन्तिकतमस्य । तमे तादेश्च' (पा.सू. ६.४.१४९. ९) इति तिकशब्दलोपः ॥ ॥ २२ ॥
“Procure for us the food that is in heaven and mid-air, and grant us the wealth that is on earth.”
Give us a share of strength most high, a share of strength that is below,
A share of strength that is between.
Let us partake of all booty that is highest and that is middle (i. e. that dwells in the highest and in the middle world); help us to the wealth that is nearest.
Give us a share in the furthest prizes, in the midmost ones;
seek mastery over the closest good thing (for us).
Die höchsten Gaben theil uns zu und theil uns zu die mittleren, Beschenk uns mit dem nächsten Gut.
Gib uns Anteil an den höchsten Siegerpreisen, an den mittleren, bemühe dich um das nächste Gut!
Надели нас высшими (наградами),
На (дели) средними наградами!
Позаботься о ближайшем имуществе!
वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ । स॒द्यो दा॒शुषे॑ क्षरसि ॥
वि॒ऽभ॒क्ता । अ॒सि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सिन्धोः॑ । ऊ॒र्मौ । उ॒पा॒के । आ । स॒द्यः । दा॒शुषे॑ । क्ष॒र॒सि॒ ॥
हे चित्रभानो विचित्ररश्मियुक्ताग्ने विभक्ता विशिष्टस्य धनस्य प्रापयिता असि। तत्र दृष्टान्त उच्यते। आकार उपमार्थः। यथा सिन्धोः नद्याः उपाके समीपे ऊर्मौ ऊर्मिं तरङ्गोपलक्षितं कुल्यादिप्रवाहं विभजन्ति तद्वत् । दाशुषे हविर्दत्तवते यजमानाय सद्यः तदानीमेव क्षरसि कर्मफलभूतां वृष्टिं करोषि ॥ सिन्धोः ।' स्यन्दू प्रस्रवणे'।' स्यन्देः संप्रसारणं धश्च' (उ. सू. १. ११ ) इति उप्रत्ययः । नित्' इत्यनुवृत्तेः आद्युदात्तत्वम् । ऊर्मिः ।“ अर्तेरूच्च (उ. सू. ४. ४८४) इति मिः । प्रत्ययस्वरः । दाशुषे ।' धृतव्रताय दाशुषे ' (ऋ. सं. १. २५. ६ ) इत्यत्रोक्तम् ॥
“You, Citrabhānu, are the distributor of riches, as the waves of a river are parted by interjacent (islets); you ever pour (rewards) upon the giver (of oblations).”
Thou dealest gifts, resplendent One; nigh, as with waves of Sindhu, thou
Swift streamest to the worshipper.
O god with bright splendour, thou art the distributor. Thou instantly flowest for the liberal giver in the wave of the river, near at hand.
You are the apportioner, o bright-beamed one. (As if) on the wave of a river, in the nearness
and all at once you stream for the pious man.
Vertheiler bist du, strahlender, in Stromes Wogen fliessest du Sogleich dem Frommen nah herbei.
Du bist der Verteiler, du Buntglänzender. Wie auf der Sindhu Woge strömest du alsbald in nächste Nähe dem Spender zu.
Ты – распределитель (благ), о яркопламенный.
(Как) на волне Синдху (принесенный) совсем близко,
Ты изливаешь вдруг (блага) почитающему (тебя).
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः । स यन्ता॒ शश्व॑ती॒रिष॑: ॥
यम् । अ॒ग्ने॒ । पृ॒त्ऽसु । मर्त्य॑म् । अवाः॑ । वाजे॑षु । यम् । जु॒नाः । सः । यन्ता॑ । शश्व॑तीः । इषः॑ ॥
हे अग्ने पृत्सु संग्रामेषु यं मर्त्यं यजमानम् अवाः अवसि रक्षसि । यं पुरुषं वाजेषु संग्रामेषु जुनाः प्रेरयसि । सः नरो यजमानः शश्वतीरिषः नित्यान्यन्नानि यन्ता नियन्तुं समर्थो भवति ॥ पृत्सु । ' पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ' ( पा. सू. ६. १. ६३. १ ) इति पृतनाशब्दस्य पृदादेशः । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । अवाः आवः । अकाराकारयोर्विपर्ययः । यद्वा । लेटि अडागमः । ‘इतश्च० ' इति सिप इकारस्य लोपः । जुनाः । जू इति गत्यर्थः सौत्रो धातुः । लङः सिप् । ‘क्र्यादिभ्यः श्ना । ‘बहुलं छन्दस्यमाङ्योगेऽपि' इति अडागमाभावः । यद्वृत्तयोगादनिघातः । यन्ता । तृनो नित्त्वादाद्युदात्तत्वम् । शश्वतीः । ‘उगितश्च' इति ङीप् ॥
“The mortal whom you, Agni, protect in battle, whom you incite to combat, will always command (food).”
That man is lord of endless strength whom thou protectest in the fight,
Agni, or urgest to the fray.
The mortal, O Agni, whom thou protectest in battles, whom thou speedest in the races 1, he will command constant nourishment:
Rudra, king of the sacrifice,
True offerer, priest of both worlds,
Agni before the dreadful thunder,'
Of golden colour, win ye for help.
The mortal whom you will help in battles, o Agni, whom you will spur on to the prizes,
he will hold fast to unfailing refreshments.
Der Sterbliche, den, Agni, du in Schlachten schützest und beeilst, Erlanget stete Labungen.
Welchen Sterblichen du, Agni, in den Schlachten begünstigen wirst, wen du in den Kämpfen um die Preise anspornst, der wird alle Genüsse in der Hand halten.
Какого смертного, о Агни, в сражениях
Ты поддержишь, кого поторопишь к наградам,
Тот удержит непрерывные подкрепления.
नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् । वाजो॑ अस्ति श्र॒वाय्य॑: ॥
नकिः॑ । अ॒स्य॒ । स॒ह॒न्त्य॒ । प॒रि॒ऽए॒ता । कय॑स्य । चि॒त् । वाजः॑ । अ॒स्ति॒ । श्र॒वाय्यः॑ ॥
हे सहन्त्य शत्रूणामभिभवनशीलाग्ने अस्य त्वद्भक्तस्य यजमानस्य कयस्य चित् कस्यापि पर्येता नकिः आक्रमिता नास्ति । किंच अस्य यजमानस्य श्रवाय्यः श्रवणीयः वाजः अस्ति बलविशेषोऽस्ति ॥ कयस्य । यकारोपजनश्छान्दसः । श्रवाय्यः । ‘श्रुदक्षिस्पृहिगृहिभ्य आय्यः । (उ. सू. ३. ३७६) इति आय्यप्रत्ययः ॥
“No one will ever be the vanquisher of this your worshipper, subduer of enemies, for notorious in his prowess.”
Him, whosoever he may be, no man may vanquish, mighty One:
Nay, very glorious power is his.
Whosoever he may be, no one will overtake him, O conqueror (Agni)! His strength 2 is glorious.
No one will circumscribe anything of his, o overpowering one:
there is a prize worthy of fame (for him).
Wer er auch sei, o mächtiger, den überwältigt keiner je, Und rühmenswerth ist seine Kraft.
Keiner überholt ihn, wer er auch sei, o Gewaltiger. Ruhmbringender Gewinn ist sein.
Никто не возьмет верх над ним,
Кем бы он ни был, о одолевающий!
Награда, достойная славы, – (его доля).
स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता । विप्रे॑भिरस्तु॒ सनि॑ता ॥
सः । वाज॑म् । वि॒श्वऽच॑र्षणिः । अर्व॑त्ऽभिः । अ॒स्तु॒ । तरु॑ता । विप्रे॑भिः । अ॒स्तु॒ । सनि॑ता ॥
विश्वचर्षणिः सर्वैर्मनुष्यैरुपेतः सः अग्निः अर्वद्भिः अश्वैः वाजं संग्रामं तरुता तारयिता अस्तु । विप्रेभिः मेधाविभिः ऋत्विग्भिः सहितः तुष्टोऽग्निः सनिता फलस्य दाता अस्तु ॥ विश्वचर्षणिः । विश्वे चर्षणयो यस्य । ‘बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । अर्वद्भिः । ‘‘ऋ गतौ'। ‘अन्येभ्योऽपि दृश्यन्ते' इति वनिप् । भिसि ' अर्वणस्त्रसावनञः ' ( पा. सू. ६. ४. १२७ ) इति नकारस्य तृ इत्ययमादेशः । तरुता । तॄ प्लवनतरणयोः । अस्मात् ' ग्रसितस्कभित' (पा. सू. ७. २. ३४ ) इत्यादौ तृनन्तो निपातितः । निपातनादेव इकारस्य उत्वम् ॥
“May he who is worshipped by all men, convey us with horses through the battle; may he, (propitiated) by the priests, be the bestower (of bounties).”
May he who dwells with all mankind bear us with war-steeds through the fight,
And with the singers win the spoil.
May he (the man), known among all tribes 3, Win the race with his horses; may he with the help of his priests become a gainer.
Let him, belonging to all domains, be the one who overtakes the prize with his steeds.
Together with the inspired poets let him be the winner.
Der mög', in aller Welt berühmt, den Preis erringen sich zu Ross, Gewinnen mit der Sänger Schar.
Er soll, in allen Landen bekannt, mit seinen Rennpferden den Siegerpreis erringen, durch seine Wortführer soll er den Preis gewinnen.
Да будет он, принадлежащий всем народам,
Завоевателем награды с помощью (своих) скакунов!
Да будет он завоевателем награды с помощью вдохновенных (поэтов)!
जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया॑य । स्तोमं॑ रु॒द्राय॒ दृशी॑कम् ॥
जरा॑ऽबोध । तत् । वि॒वि॒ड्ढि॒ । वि॒शेऽवि॑शे । य॒ज्ञिया॑य । स्तोम॑म् । रु॒द्राय॑ । दृशी॑कम् ॥
हे जराबोध जरया स्तुत्या बोधमानाग्ने विशेविशे तत्तद्यजमानरूपप्रजानुग्रहार्थं यज्ञियाय यज्ञसंबन्ध्यनुष्ठानसिद्धयर्थं तत् देवयजन विविड्ढि' प्रविश । यजमानोऽपि रुद्राय क्रूरायाग्नये तुभ्यं दृशीकं दर्शनीयं समीचीनं स्तोमं स्तोत्रं करोतीति शेषः । अत्र यास्क एवं व्याख्यातवान्–' जरा स्तुतिर्जरतेः स्तुतिकर्मणस्तां बोध तथा बोधयितरिति वा तद्विविड्ढि तत्कुरु मनुष्यस्य मनुष्यस्य यजनाय स्तोमं रुद्राय दर्शनीयम् ' ( निरु. १०. ८) इति ॥ जराबोध ।' जॄष् वयोहानौ' । अत्र तु स्तुत्यर्थः। ‘षिद्भिदादिभ्योऽङ्' (पा. सू. ३. ३. १०४ ) इति अङ्प्रत्ययः । ततः टाप् । जरया स्तुत्या बोधो यस्यासौ जराबोधः । यद्वा । जरया बोध्यते इति जराबोधः । कर्मणि घञ्। आमन्त्रिताद्युदात्तत्वम् । विविड्ढि। ‘विश प्रवेशने'। लोटो हि । ‘बहुलं छन्दसि' इति शपः श्लुः । अभ्यासहलादिशेषौ । ‘हुझल्भ्यो हेर्धिः' इति हेर्धिरादेशः । षत्वष्टुत्वे । यद्वा । ‘विष्लृ व्याप्तौ ' इत्यस्मात् लोण्मध्यमैकवचने अभ्यासस्य गुणाभावः । विशेविशे। ‘सावेकाचः' इति चतुर्थ्या उदात्तत्वम् । ‘अनुदात्तं च' इति आम्रेडितानुदात्तत्वम् । यज्ञियाय । ‘यज्ञर्त्विग्भ्यां घखञौ ' ( पा. सू. ५. १. ७१ ) इति घः । दृशीकम् । “ अनिदृशिभ्यां च' (दश. पा. ३) इति कीकन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ॥ २३ ॥
“Jarābodha, enter into the oblation for the completion of the sacrifice that benefits all mankind; the worshipper offers agreeable laudation to the terrible (Agni).”
Help, thou who knowest lauds, this work, this eulogy to Rudra, him
Adorable in every house.
O Garabodha 1! Accomplish this (task) for every house 2: a beautiful song of praise for worshipful Rudra 3.
Awake and sing! Bring this about: for the one worthy of sacrifice for every clan,
for Rudra [=Agni], a praise song that is beauty to be seen.
Sangkundiger, so stimme an, dem glänzenden, der jedem Stamm Zu ehren ist, ein schönes Lied.
Du Frühwacher, bring das zustande: ein schönes Loblied auf Rudra, der für jeden Clan verehrungswürdig ist!
О бодрствующий при пробуждении (Агни), сложи это:
Восхваление, прекрасное на вид, для блистающего (Агни),
Достойного жертв у всех племен.
स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः । धि॒ये वाजा॑य हिन्वतु ॥
सः । नः॑ । म॒हान् । अ॒नि॒ऽमा॒नः । धू॒मऽके॑तुः । पु॒रु॒ऽच॒न्द्रः । धि॒ये । वाजा॑य । हि॒न्व॒तु॒ ॥
सः अग्निः नः अस्मान् धिये कर्मणे वाजाय अन्नाय च हिन्वतु प्रीणयतु । कीदृशः । महान् गुणाधिकः अनिमानः निमानवर्जितः अपरिच्छिन्न इत्यर्थः । धूमकेतुः धूमेन ज्ञाप्यमानः पुरुश्चन्द्रः बहुदीप्तिः ॥ महाँ अनि इत्यत्र संहितायां नकारस्य रुत्वानुनासिकावुक्तौ । अनिमानः । न विद्यते निमानोऽस्येति बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । धूमकेतुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पुरुश्चन्द्रः । चदि आह्लादने दीप्तौ च । अस्मात् ' स्फायितञ्चि°' इत्यादिना कर्तरि रक् । पुरुश्चासौ चन्द्रश्चेति समासान्तोदात्तत्वम् । ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे' (पा. सू. ६. १. १५१ ) इति सुट् । तस्य श्चुत्वेन शकारः । धिये । 'सावेकाचः' इति चतुर्थ्या उदात्तत्वम् । हिन्वतु। हिवि प्रीणनार्थः । इदितो नुम् धातोः' इति नुम् ॥
“May the vast, illimitable, smoke- bannered, resplendent Agni be plural ased with our rite, and grant us food.”
May this our God, great, limitless, smoke-bannered excellently bright,
Urge us to strength and holy thought.
May he, the great, the immeasurable, the smoke-bannered, rich in splendour, incite us to (pious) thoughts and to strength.
Let him who is great without measure, much glittering but possessing a beacon of smoke,
urge us on to insight and to the prize.
Er, welcher unermessen gross, sehr hell des Rauches Fahne schwingt, Zu Kraft und Einsicht führ' er uns.
Er, der Große ohnegleichen, mit dem Rauch als Banner, der Glanzreiche soll uns zu frommem Gedanken und Sieg anspornen.
Он, великий, безграничный,
С дымом-знаменем, многояркий,
Пусть подгонит нас к вдохновению, к награде!
स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्य॑: के॒तुः शृ॑णोतु नः । उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥
सः । रे॒वान्ऽइ॑व । वि॒श्पतिः॑ । दैव्यः॑ । के॒तुः । शृ॒णो॒तु॒ । नः॒ । उ॒क्थैः । अ॒ग्निः । बृ॒हत्ऽभा॑नुः ॥
सः अग्निः उक्थैः स्तोत्रैर्युक्तान् नः अस्मान् शृणोतु । तत्र दृष्टान्तः। रेवानिव। यथा लोके धनवान् राजा वन्दिनां स्तोत्रं शृणोति तद्वत् । कीदृशः । विश्पतिः प्रजापालकः दैव्यः देवानां संबन्धी । अग्निर्वै देवानां होता' (ऐ. ब्रा. ३. १४ ) इति श्रुत्यन्तरात् । केतुः दूतवत् ज्ञापकः । ‘अग्निर्वै देवानां दूत आसीत् ' (तै. सं. २. ५. ८. ५) इति श्रुतेः । बृहद्भानुः प्रौढरश्मिः ॥ स रेवान् । एतत्तदोः ' (पा. सू. ६. १. १३२ ) इति सोर्लोपः । ‘रयेर्मतौ बहुलम्' इति संप्रसारणम् । परपूर्वत्वम् ।' आद्गुणः । छन्दसीरः' इति मतुपो वत्वम् । आरेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्' ( पा. सू. ६. १. १७६. १) इति मतुप उदात्तत्वम् । विश्पतिः । ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । बृहद्भानुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“May Agni, the lord of men, the invoker and messenger of the gods, the brilliant-rayed, hear us with our hymns, as a prince (listens to the bards).”
Like some rich Lord of men may he, Agni the banner of the Gods,
Refulgent, hear us through our lauds.
May he hear us, like the rich lord of a clan, the banner of the gods, on behalf of our hymns, Agni with bright light.
Like a rich clanlord, let the divine beacon listen to us
along with our hymns—Agni of lofty radiance.
Als reicher Stammfürst höre er, der Götter hohes Banner, uns, Agni, der hell durch Spruch erglänzt.
Er soll wie ein reicher Clanherr auf uns hören, das göttliche Banner, Agni, der bei unseren Lobliedern hell erglänzt.
Он, как богатый глава рода,
Божественное знамя, пусть слушает нас
С (нашими) песнями – Агни с высокими лучами!
नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्य॑: । यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑स॒: शंस॒मा वृ॑क्षि देवाः ॥
नमः॑ । म॒हत्ऽभ्यः॑ । नमः॑ । अ॒र्भ॒केभ्यः॑ । नमः॑ । युव॑भ्यः । नमः॑ । आ॒शि॒नेभ्यः॑ । यजा॑म । दे॒वान् । यदि॑ । श॒क्नवा॑म । मा । ज्याय॑सः॒ । शंस॑म् । आ । वृ॒क्षि॒ । दे॒वाः॒ ॥
अग्निना प्रेरितः शुनःशेपो विश्वान् देवान् अनया तुष्टाव। तथा च आम्नायते- तमग्निरुवाच विश्वान्नु देवान् स्तुह्यथ त्वोत्स्रक्ष्याम इति स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नमो अर्भकेभ्य इत्येतयर्चा' (ऐ. ब्रा. ७. १६ ) इति । महान्तो गुणैरधिकाः । अर्भका गुणैर्न्यूनाः। युवानः तरुणाः । आशिनाः वयसा व्याप्ता वृद्धाः । यथोक्तचतुर्विधदेहयुक्तेभ्यो देवेभ्यो नमोऽस्तु । यदि शक्नवाम कथंचित् धनादिसंपत्त्या शक्ताश्चेत् तदानीं देवान् यजाम । हे देवाः ज्यायसः ज्येष्ठस्य देवताविशेषस्य आ सर्वतः प्रसृतं शंसं स्तोत्रं मा वृक्षि अहं विच्छिन्नं मा कार्षम् ॥ आशिनेभ्यः। ‘अशू व्याप्तौ'। 'बहुलमन्यत्रापि ' ( उ. सू. २. २०७ ) इति औणादिकः इनच्प्रत्ययः । ‘चितः' इत्यन्तोदात्तत्वम् । यजाम । शपः पित्त्वानुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । शक्नवाम। ‘शक्लृ शक्तौ'। ‘आडुत्तमस्य पिच्च' इति तिङः पिद्वद्भावात् अनुदात्तत्वे सति विकरणस्वरः । ‘निपातैर्यद्यदिहन्त° ' इति निघातप्रतिषेधः । ज्यायसः । प्रशस्यशब्दात् ईयसुनि ‘ज्य च' (पा. सू. ५. ३. ६१ ) इति ज्यादेशः । ज्यादादीयसः ' (पा. सू. ६. ४. १६० ) इति ईयसुन ईकारस्य आत्वम् । 'नित्त्वादाद्युदात्तत्वम् । शंसम् ।' हलश्च ' इति घञ्। वृक्षि ।' ओव्रश्चू छेदने'। व्यत्ययेन आत्मनेपदोत्तमपुरुषैकवचनम् इट् । च्लेः सिच् ।' स्वरतिसूति' इत्यादिना इडभावः । ‘स्कोः संयोगाद्योः' इति उपधासकारलोपः । व्रश्चादिना षत्वम् । षढोः कः सि' इति कत्वम् । आदेशप्रत्यययोः' इति षत्वम् ।' न माङयोगे' इति अडभावः ॥ ॥ २४ ॥
“Veneration to the great gods, veneration to the lesser, veneration to the young, veneration to the old we worship (all) the gods as well as we are able; may I not omit the praise of the elder divinities.”
Glory to Gods, the mighty and the lesser glory to Gods the younger and the elder!
Let us, if we have power, pay the God worship: no better prayer than this, ye Gods, acknowledge.
Reverence to the great ones, reverence to the lesser ones! Reverence to the young, reverence to the old 1! I Let us sacrifice to the gods, if we can. May I not, O gods, fall as a victim to the curse of my better 2.
Reverence to the great ones and reverence to the small; reverence to the young and reverence to those advanced (in years).
Let us offer sacrifice to the gods if we will be able. Let me not twist
away the laud for one more powerful in my direction, o gods.
Anbetung sei den grossen, Anbetung den kleinen, Anbetung den jungen, Anbetung den alten; wir wollen die Götter verehren, so gut wir es vermögen; nicht möchte ich zurückbleiben hinter dem Preise eines angeseheneren.
Verneigung vor den Großen, Verneigung vor den Kleinen, Verneigung vor den Jungen, Verneigung vor den Betagten! Wir wollen die Götter verehren, wenn wir es vermögen. Nicht möchte ich die Rede eines Höheren vorwegnehmen, ihr Götter.
Поклон великим, поклон малым,
Поклон юным, поклон достигшим (старости)!
Мы хотим почитать богов, если мы сумеем!
Да не помешаю я речи лучшего (певца), о боги!