यत्र॒ ग्रावा॑ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
यत्र॑ । ग्रावा॑ । पृ॒थुऽबु॑ध्नः । ऊ॒र्ध्वः । भव॑ति । सोत॑वे । उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊँ॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
हे इन्द्र यत्र यस्मिन् अञ्जःसवे कर्मणि सोतवे अभिषवार्थं ग्रावा पाषाणः पृथुबुध्नः स्थूलमूलः ऊर्ध्वः उन्नतः भवति तस्मिन् कर्मणि उलूखलसुतानाम् उलूखलेनाभिषुतानां रसम् अवेत् स्वकीयत्वेनावगत्यैव जल्गुलः भक्षय ॥ पृथुबुध्नः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । भवति । ‘निपातैर्यद्यदिहन्त ' इति निघातप्रतिषेधः । सोतवे । ' षुञ् अभिषवे'। “ तुमर्थे सेसेन्” ' इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । उलूखलसुतानाम् उलूखलेन सुतानाम् । ‘तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । जल्गुलः । ‘गल अदने '। अस्मात् यङो लुकि लोण्मध्यमैकवचने लेटोऽडाटौ ' इति अडागमः । ‘इतश्च लोपः' इति इकारलोपः । उपधाया उत्वं च हलादिशेषाभावश्च पृषोदरादित्वात् ॥
“Indra, as the broad-based stone is raised to express the Soma juice, recognize and partake of the effusion of the mortar.”
THERE where the broad-based stone raised on high to press the juices out,
O Indra, drink with eager thirst the droppings which the mortar sheds.
When the pressing stone with its broad bottom becomes erect in order to press,
you, Indra, will keep gulping down the mortar-pressed (soma drops).
Dort, wo der Stein mit breitem Fuss zum Somapressen sich erhebt, Da schlinge, Indra, du hinab den Saft, den dir der Mörser presst.
Wo der Stein mit breitem Fuß zum Ausschlagen aufgerichtet wird, da mögest du Indra den im Mörser ausgeschlagenen Soma hinunterschlingen.
Где давильный камень с широкой основой
Высоко поднят для выжимания,
Глотай же (там), о Индра,
Соки, выжатые в ступке!
यत्र॒ द्वावि॑व ज॒घना॑धिषव॒ण्या॑ कृ॒ता । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
यत्र॑ । द्वौऽइ॑व । ज॒घना॑ । अ॒धि॒ऽस॒व॒न्या॑ । कृ॒ता । उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊँ॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
यत्र यस्मिन् कर्मणि अधिषवण्या उभे अधिषवणफलके द्वाविव जघना द्वौ जघनप्रदेशाविव । ‘जघनं जङ्घन्यतेः ' (निरु. ९. २०) इति यास्कः । कृता विस्तीर्णे कृते संपादिते । अन्यत् पूर्ववत् ॥ जघना ।' हन्तेः शरीरावयवे द्वे च' (उ. सु. ५, ७१०) इति हन्धातोः अच् । द्वित्वम् । कर्दमादित्वात् मध्योदात्तः (फि. सू. ५९ )। ' सुपां सुलुक्° ' इति आकारः । अधिषवण्या । ‘षुञ् अभिषवे'। ल्युट् । भवे छन्दसि ' इति यत् ।' उपसर्गात्सुनोति' इति षत्वम् । 'तिस्वरितम्' इति स्वरितः । न च ' यतोऽनावः' इस्याद्युदात्तत्वम् । तत्र हि ‘निष्ठा च द्व्यजनात् ' (पा. सू. ६. १.२०५) इत्यस्य अनुवृत्तेः द्व्यच्कस्यैव तदिति । कृता । पूर्ववत् आकारः ॥
“Indra, (in the rite) in which the two patters for containing the juice, as (broad as a woman's) hips, are employed, recognize and partake of the effusion of the mortar.”
Where, like broad hips, to hold the juice the platters of the press are laid,
O Indra, drink with eager thirst the droppings which the mortar sheds.
When the pair of pressing boards are formed like two buttocks,
you, Indra, will keep gulping down the mortar-pressed (soma drops).
Dort, wo der Presse Platten wie zwei Hüften zubereitet sind, Da schlinge, Indra, du hinab den Saft, den dir der Mörser presst.
Wo die beiden Preßbretter wie zwei Schamteile geformt sind, da mögest du Indra den im Mörser ausgeschlagenen Soma hinunterschlingen.
Где две доски для выжимания
Сделаны, как чресла,
Заглатывай же (там), о Индра,
Соки, выжатые в ступке!
यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
यत्र॑ । नारी॑ । अ॒प॒ऽच्य॒वम् । उ॒प॒ऽच्य॒वम् । च॒ । शिक्ष॑ते । उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊँ॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
यत्र यस्मिन् कर्मणि नारी पत्नी अपच्यवं शालायाः निर्गमनम् उपच्यवं च शालाप्राप्तिं च शिक्षते अभ्यासं करोति । अन्यत्पूर्ववेत् ॥ अपच्यम् । ‘च्युङ गतौ ।' ऋदोरप्' इति अप् । गुणावादेशौ । थाथादिना (पा. सू. ६. २. १४४ ) उत्तरपदान्तोदात्तस्वम् । एवम् उपच्यवम् । शिक्षते । 'शिक्ष विद्योपादाने' । अदुपदेशात् लसार्वधातुकोनुदात्तत्वे धातुस्वरः। 'निपातैर्यद्यादिहन्त इति निघातप्रतिषेधः ॥
“Indra, (in the rite) in which the housewife repeats egress from and ingress into (the sacrificial chamber), recognize and partake of the effusion of the mortar.”
There where the woman marks and leans the pestle's constant rise and fall,
O Indra, drink with eager thirst the droppings which the mortar sheds.
When the woman puts her best into thrusting back and forth,
you, Indra, will keep gulping down the mortar-pressed (soma drops).
Wo das Weib das heftige Entfernen und Herandringen kennen lernt, da schlinge, Indra, du hinab den Saft, den dir der Mörser presst.
Wo die Frau das Hinstoßen und Herstoßen einübt, da mögest du Indra den im Mörser ausgeschlagenen Soma hinunterschlingen.
Где женщина занимается
Выталкиванием-вталкиванием,
Заглатывай же (там), о Индра,
Соки, выжатые в ступке!
यत्र॒ मन्थां॑ विब॒ध्नते॑ र॒श्मीन्यमि॑त॒वा इ॑व । उ॒लूख॑लसुताना॒मवेद्वि॑न्द्र जल्गुलः ॥
यत्र॑ । मन्था॑म् । वि॒ऽब॒ध्नते॑ । र॒श्मीन् । यमि॑त॒वैऽइ॑व । उ॒लूख॑लऽसुतानाम् । अव॑ । इत् । ऊँ॒ इति॑ । इ॒न्द्र॒ । ज॒ल्गु॒लः॒ ॥
यत्र यस्मिन् कर्मणि मन्थाम् आशिरमथनहेतुं मन्थानं विबध्नन्ति । तत्र दृष्टान्तः । रश्मीन् अश्वबन्धनार्थान् प्रग्रहान् यमितवाइव नियन्तुमिव । अन्यत् पूर्ववत् ॥ मन्थाम् । 'पथिमथ्यृभुक्षामात्' (पा. सू. ७. १.८५) इति द्वितीयायामपि व्यत्ययेन आत्वम् । प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्ते ‘पथिमथोः सर्वनामस्थाने ' ( पा. सू. ६. १. १९९) इत्याद्युदात्तत्वम् । यद्वा । मथ्यतेऽनयेति मन्था । मिथि विलोडने ' इत्यस्मात् 'हलश्च' इति करणे घन् । ततः टाप् । ञित्त्वदाद्युदात्तत्वम् । विबध्नते । बन्ध बन्धने' । क्र्यादिभ्यः श्ना'।' अनिदिताम्' इति नलोपे ' आभ्यस्तयोरातः ' इति आकारलोपः । प्रत्ययस्वरः । ‘तिङि चोदात्तवति' इति गतेर्निघातः । यमितवै। ‘यम उपरमे। ‘तुमर्थे सेसेन् ' इति तवैप्रत्ययः । इडागमश्छान्दसः । यद्वा । ण्यन्तात् तवैप्रत्ययस्य इडागमे सति णिलोपश्छान्दसः ।' अन्तश्च तवै युगपत् ' (पा. सू. ६. १. २०० ) इत्याद्यन्तयोरुदात्तत्वम् ॥
“When they bind the churning-staff (with a cord), like reins to restrain (a horse), Indra, recognize and partake of the effusion of the mortar.”
Where, as with reins to guide a horse, they bind the churning-staff with cords,
O Indra, drink with eager thirst the droppings which the mortar sheds.
When they bind the churning stick on both sides like reins to
control it,
you, Indra, will keep gulping down the mortar-pressed (soma drops).
Dort, wo den Quirl man rings umfasst, wie Zügel, wenn man Rosse lenkt, Da schlinge, Indra, du hinab den Saft, den dir der Mörser presst.
Wo sie den Stößel festbinden wie Zügel zum Lenken, da mögest du Indra den im Mörser ausgeschlagenen Soma hinunterschlingen.
Где привязывают пестик,
Как поводья, чтобы править,
Заглатывай же (там), о Индра,
Соки, выжатые в ступке!
यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू॑खलक यु॒ज्यसे॑ । इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ॥
यत् । चि॒त् । हि । त्वम् । गृ॒हेऽगृ॑हे । उलू॑खलक । यु॒ज्यसे॑ । इ॒ह । द्यु॒मत्ऽत॑मम् । व॒द॒ । जय॑ताम्ऽइव । दु॒न्दु॒भिः ॥
हे उलूखलक यच्चिद्धि यद्यपि त्वमवघातार्थं गृहेगृहे युज्यसे तथापि इह वैदिके कर्मणि तीवमुसलप्रहारेण द्युमत्तमम् अतिशयेन दीप्तं प्रभूतध्वनियुक्तं शब्दं वद । तत्र दृष्टान्तः । जयतामिव दुन्दुभिः । यथा युद्धे जयं प्राप्नुवतां राज्ञां दुन्दुभिः महान्तं ध्वनिं करोति तद्वत् । उलूखलशब्दं यास्क एवं व्याख्यातवान्-' उलूखलमुरुकरं वोर्ध्वखं वोर्क्करं वोरु मे कुर्वित्यब्रवीत्तदुलूखलमभवदुरुकरं वै तत्तदुलूखलमित्याचक्षते परोक्षेणेति च ब्राह्मणम् ' ( निरु. ९ २० ) इति ॥ उलूखलक। ‘°अपादादौ' इति पर्युदासात् आष्टमिकनिघाताभावे पाष्ठिकमाद्युदात्तत्वम् । युज्यसे । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक्स्वरः शिष्यते । न च ' तिङ्ङतिङः' इति निघातः । ‘निपातैर्यद्यदिहन्त' इति प्रतिषेधात्। द्युमत्तमम् । दीव्यतेर्दीप्त्यर्थस्य संपदादिलक्षणः क्विप् । ‘दिव उत्' ( पा. सू. ६. १. १३१) इति उत्वम् । यणादेशे ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । ननु ‘दिव उत्' इत्यत्र प्रातिपदिकं गृह्यते न धातुरित्युक्तत्वात् अक्षद्यूः इत्यादाविव अत्रापि ऊठा भवितव्यम् ( पा. सू. ६. ४. १९)। एवं तर्हि दीप्तिमत्स्वर्गवाचकेन दिव्प्रातिपदिकेन दीप्तिर्लक्ष्यते इत्युत्वं भविष्यति ॥ ॥ २५ ॥
“If indeed, O Mortar, you are present in every house, give forth (in this rite) a lusty sound, like the drum of a victorious host.”
If of a truth in every house, O Mortar thou art set for work,
Here give thou forth thy clearest sound, loud as the drum of conquerors.
For even though you are hitched up in house after house, little mortar, here speak most brilliantly, like the drum of victors.
Wenn du in jedem Hause auch, o Mörserchen, wirst angeschirrt, So töne doch am hellsten hier, gleichwie der Sieger Paukenschlag.
Wenngleich du Mörserchen in jedem Hause angespannt wirst, so erklinge hier am hellsten wie die Pauke der Sieger!
А когда уж тебя, ступочка,
В каждом доме впрягают,
Здесь звучи громче всего,
Как барабан у победителей!
उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् । अथो॒ इन्द्रा॑य॒ पात॑वे सु॒नु सोम॑मुलूखल ॥
उ॒त । स्म॒ । ते॒ । व॒न॒स्प॒ते॒ । वातः॑ । वि । वा॒ति॒ । अग्र॑म् । इत् । अथो॒ इति॑ । इन्द्रा॑य । पात॑वे । सु॒नु । सोम॑म् । उ॒लू॒ख॒ल॒ ॥
उत अपि च हे वनस्पते उलूखलरूप वृक्ष ते अग्रमित् तव पुरत एवं वातो वि वाति स्म । त्वरोपेतमुसलप्रहारैर्वायुर्विशेषेण प्रसरति खलु । अथो अनन्तरं हे उलूखल इन्द्राय इन्द्रोपकारार्थं पातवे पातुं सोमं सुनु सोमाभिषवं कुरु ॥ वनस्पते । पारस्करादित्वात् सुट् । कार्ये कारणशब्दः । पातवे । 'पा पाने '। तुमर्थे सेसेन् ' इति तवेन्प्रत्ययः । ‘ञ्नित्यादिर्नित्यम् ' इत्याद्युदात्तत्वम् । सुनु । ' उतश्च प्रत्ययादसंयोगपूर्वात्' इति हेर्लक्। विकरणस्वरेणान्तोदात्तत्वम् । पादादिवादनिघातः । उलूखल । उर्ध्वं खम् अस्य इति उलूखलः । पृषोदरादिः ॥
“Lorf of the forest, as the wind genitive ly blows before you, so do thou, O Mortar, prepare the Soma juice for the beverage of Indra.”
O Sovran of the Forest, as the wind blows soft in front of thee,
Mortar, for Indra press thou forth the Soma juice that he may drink.
And, o lord of the wood [=pestle?], the wind blows through your top. So then, press the soma for Indra to drink, o mortar.
Und dir, o Mörserkeule, weht der Wind vor deinem Angesicht; Dem Indra presse nun zum Trunk den Soma aus, o Mörser du.
Und um deine Spitze, o Holz, wehte der Wind. Nun schlag den Soma für Indra zum Trinken aus, du Mörser!
А самую твою верхушку,
О дерево, ветер обвевает.
Так выжимай же сому, ступка,
Индре для питья!
आ॒य॒जी वा॑ज॒सात॑मा॒ ता ह्यु१॒॑च्चा वि॑जर्भृ॒तः । हरी॑ इ॒वान्धां॑सि॒ बप्स॑ता ॥
आ॒य॒जी इत्या॑ऽय॒जी । वा॒ज॒ऽसात॑मा । ता । हि । उ॒च्चा । वि॒ऽज॒र्भृ॒तः । हरी॑ इ॒वेति॒ हरी॑ऽइव । अन्धां॑सि । बप्स॑ता ॥
ये उलूखलमुसले आयजी सर्वतो यज्ञसाधने वाजसातमा अतिशयेन अन्नप्रदे ता हि ते खलु उच्चा प्रौढध्वनिर्यथा भवति तथा विजर्भृतः विशेषेण पुनःपुनर्विहारं कुरुतः । तत्र दृष्टान्तः । अन्धांसि अन्नानि चणकादीनि खाद्यानि बप्सता भक्षयन्तौ हरीइव इन्द्रस्याश्वाविव । अत्र यास्क एवं व्याचख्यौ-आयजी आयष्टव्ये अन्नानां संभक्तृतमे ते ह्युच्चैर्विह्रियेते हरी इवान्नानि भुञ्जाने' (निरु. ९. ३६) इति ॥ आयजी। यजेः औणादिकः करणे इप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वाजसातमा । वाजं सनोतीति वाजसाः ।' षणु दाने '। जनसन' इत्यादिना विट्प्रत्ययः । ‘विड्वनोरनुनासिक स्यात्' इति आत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आतिशायनिकस्तमप् । ‘सुपां सुलुक्' इति पूर्वसवर्णदीर्घः । विजर्भृतः । हृञ् हरणे' । अस्मात् यङ्लुकि अभ्यासहलादिशेषोरत्जश्त्वेषु कृतेषु ‘रुग्रिकौ च लुकि' ( पा. सू. ७. ४. ९१ ) इति रुगागमः । ततः प्रत्ययलक्षणेन धातुसंज्ञायां लिटि द्विवचनं तस् ।' अदादिवच्च' इति वचनात् शपो लुक् । गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । ‘हृग्रहोर्भश्छन्दसि ' इति भत्वम् । प्रत्ययस्वरः । ‘हि च ' इति निघातप्रतिषेधः । बप्सता । ‘भस भक्षणदीप्त्योः '। लटः शतृ । ‘जुहोत्यादिभ्यः श्लुः ' । 'घसिभसोर्हलि च' (पा. सू. ६. ४. १००) इति उपधालोपः । नाभ्यस्ताच्छतुः ' ( पा. सू. ७. १. ७८ ) इति नुम्प्रतिषेधः ।“ अभ्यस्तानामादिः ' इत्याद्युदात्तत्वम् ।
“Implements of sacrifice, bestowers of food, loud-sounding, sport like the horses of Indra champing the grain.”
Best strength-givers, ye stretch wide jaws, O Sacrificial Implements,
Like two bay horses champing herbs.
These two [=mortar and pestle? / jaws of the soma press?] gain by sacrifice and are the best prizewinners, since they keep pulling
apart above,
chewing the stalks like a pair of fallow bays.
Die opfernd reichlich Kraft verleihn, sie sperren weit den Rachen auf, Wie Rosse, welche Kräuter kaun.
Bittopfer vollziehend, vielen Gewinn einbringend, sperren ja beide den Rachen nach oben auf, die Somapflanzen schlampfend wie Indra´s Falben.
Приобретающие жертвой, добывающие самую большую награду,
Эти двое громко мечутся туда-сюда,
Пожирая растения сомы, подобно паре буланых коней (Индры).
ता नो॑ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभि॑: सो॒तृभि॑: । इन्द्रा॑य॒ मधु॑मत्सुतम् ॥
ता । नः॒ । अ॒द्य । व॒न॒स्पती॒ इति॑ । ऋ॒ष्वौ । ऋ॒ष्वेभिः॑ । सो॒तृऽभिः॑ । इन्द्रा॑य । मधु॑ऽमत् । सु॒त॒म् ॥
अद्य अस्मिन् कर्मणि हे वनस्पती उलूखलमुसलरूपौ तौ युवाम् 'ऋष्वेभिः दर्शनीयैः सोतृभिः अभिषवहेतुभिः सह ऋष्वौ दर्शनीयौ भूत्वा इन्द्राय इन्द्रार्थं मधुमत् माधुर्योपेतं सोमद्रव्यं नः अस्मदीयं सुतं अभिषुणुतम् ॥ ता । ‘सुपां सुलुक्' इति आकारः । नो अद्य । ' प्रकृत्यान्तःपादम्” ' इति प्रकृतिभावः । वनस्पती । उभयपदप्रकृतिस्वरे प्राप्ते आमन्त्रितस्य ' इति सर्वानुदात्तत्वम् । ‘प्लुतप्रगृह्या अचि (पा. सू. ६. १. १२५) इति प्रकृतिभावः । सुतम् । ' षुञ् अभिषवे'। ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । निघातः ॥ ।
“Do you two forest lords, of plural asing form, prepare with agreeable libations our sweet (Soma) juices for Indra.”
Ye Sovrans of the Forest, both swift, with swift pressers press to-day
Sweet Soma juice for Indra's drink.
Today, you two lords of the wood, towering, with the towering pressers press our honeyed (drink) for Indra.
Ihr Bretter, presset beide heut dem Indra süssen Somasaft, Durch hohe Presser ihr erhöht.
Ihr zwei Hölzer, presset uns heute aufgerichtet mit den aufgerichteten Auspressern den süßen Saft für Indra aus!
О вы, два дерева, сегодня,
Высокие с высокими (жрецами-) выжимателями,
Выжимайте сладкий (сок) для Индры!
उच्छि॒ष्टं च॒म्वो॑र्भर॒ सोमं॑ प॒वित्र॒ आ सृ॑ज । नि धे॑हि॒ गोरधि॑ त्व॒चि ॥
उत् । शि॒ष्टम् । च॒म्वोः॑ । भ॒र॒ । सोम॑म् । प॒वित्रे॑ । आ । सृ॒ज॒ । नि । धे॒हि॒ । गोः । अधि॑ । त्व॒चि ॥
हे ऋत्विग्विशेष हरिश्चन्द्रदेवतापक्षे हे हरिश्चन्द्र इति वा चम्वोः सोमस्य भक्षत्वसंपादकयोः अधिषवणफलकयोः शिष्टम् अभिषवराहित्येन अवशिष्टं सोमम् उत् भर शकटस्योपरि हर । सोमम् अभिषुतं सोमं पवित्रे दशापवित्रे आ सृज आनीय प्रक्षिप। प्रक्षेपे सति अवशिष्टं सोमं गोः त्वचि आनडुहे चर्मणि अधि नि धेहि अध्यारोप्य स्थापय ॥ चम्वोः । ‘चमु अदने' । चम्यते भक्ष्यतेऽत्रेति चमूः । ‘कृपिचमि' ( उ. सू. १.८१ ) इत्यादिना औणादिक उप्रत्ययः । प्रत्ययस्वरः । सप्तमीद्विवचनस्य ‘उदात्तस्वरितयोर्यणः स्वरितः' इति स्वरितत्वम् । ‘उदात्तयणो हल्पूर्वात्' इति व्यत्ययेन न भवति । भर । ' हृग्रहोर्भः' । धेहि । ध्वसोरेद्धावभ्यासलोपश्च' (पा. सू. ६. ४. ११९ ) इति एत्वाभ्यासलोपौ । निघातः । त्वचि । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् ॥ ॥ २६ ॥
“Bring the remains of the Soma juice upon the plural tters, sprinkle it upon the blades of kuśa grass and plural ce the reminder upon the cow-hide.”
Take up in beakers what remains: the Soma on the filter pour,
and on the ox-hide set the dregs.
Bring what is leftover up into the two wooden cups. Send the soma surging into the filter.
Put it down upon the hide of the cow.
Nimm, was noch in den Schalen bleibt, den Soma giesse auf das Sieb, Und bring ihn in den Lederschlauch.
Nimm den Rest in der Somapresse heraus, schütte den Soma auf die Seihe, leg den Rest auf die Rindshaut nieder!
Вынь остаток из выжималки,
Пропусти сому через цедилку
Положи (остаток) на коровью шкуру!