यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
यत् । चि॒त् । हि । स॒त्य॒ । सो॒म॒ऽपा॒ । अ॒ना॒श॒स्ताःऽइ॑व । स्मसि॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वी॒ऽम॒घ॒ ॥
विश्वैर्देवैः प्रेरितः शुनःशेपः एतदादिकाभिः द्वाविंशतिसंख्याकाभिः ऋग्भिः इन्द्रं तुष्टाव। तथा च ब्राह्मणं-' तं विश्वे देवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स इन्द्रं तुष्टाव यच्चिद्धि सत्य सोमपा इत्येतेन सूक्तेनोत्तरस्य च पञ्चदशभिः' (ऐ. ब्रा. ७. १६) इति । हे सोमपाः सोमस्य पातः सत्य सत्यवादिन् इन्द्र यच्चिद्धि यद्यपि वयम् अनाशस्ताइव स्मसि अप्रशस्ता इव भवामः, तथापि हे तुवीमघ बहुधन इन्द्र त्वं गोषु अश्वेषु शुभ्रिषु शोभनेषु सहस्रेषु सहस्रसंख्याकेषु च निमित्तभूतेषु नः अस्मान् आ शंसय सर्वतः प्रशस्तान् कुरु । अस्मद्दोषमनपेक्ष्य गवादीन् प्रयच्छेत्यर्थः ॥ सोमपाः । विजन्तः । आमन्त्रितनिघातः । अनाशस्ताइव । ‘शंसु स्तुतौ ' । ' निष्ठा ' इति भावे क्तः । ‘यस्य विभाषा ' इति इट्प्रतिषेधः । नञा बहुव्रीहौ ‘नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । स्मसि । 'इदन्तो मसि' । तू नः । ‘ऋचि तुनुघ' इत्यादिना दीर्घः। गोषु। ‘सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘न गोश्वन्साववर्ण' इति प्रतिषेधः । अश्वेषु । अश्नुतेऽध्वानमित्यश्वः ।' अशिप्रुषि' इत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम्। शुभ्रिषु । शुभ दीप्तौ ।
“Veracious drinker of the Soma juice, although we be unworthy, do your, Indra, of boundless wealth enrich us with thousands of excellent cows and horses.”
O SOMA DRINKER, ever true, utterly hopeless though we be,
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Even when we are devoid of hope, as it were, o you true drinker of soma,
give us hope for resplendent cows and horses in the thousands, o
powerfully generous Indra.
Wenn, wahrer Somatrinker, wir auch sind wie ungepriesene, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Wenn wir auch wie Hoffnungslose sind, du bewährter Somatrinker, so mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Если уж так (случилось), о истинный, о пьющий сому,
(Что) мы живем, словно без надежды,
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
शिप्रि॑न् । वा॒जा॒ना॒म् । प॒ते॒ । शची॑ऽवः । तव॑ । दं॒सना॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वी॒ऽम॒घ॒ ॥
हे शचीवः शक्तिमन् शिप्रिन् शोभनहनूयुक्त वाजानां पते अन्नानां पालक तव दंसना कर्मविशेषोऽनुग्रहरूपः सर्वदा वर्तते । अन्यत् पूर्ववत् ॥ शिप्रिन् । शिप्रे हनू नासिके वा' (निरु. ६. १७) इति यास्कः । अत इनिठनौ' इति मत्वर्थीय इनिः । आमन्त्रिताद्युदात्तत्वम् । वाजानां पते। ‘सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायनिघातः । न च “ आमन्त्रितं पूर्वमविद्यमानवत् ' इति शिप्रिन् इत्यस्य अविद्यमानवत्त्वेन पदादपरत्वात् पादादित्वाच्च न निघातः; ‘नामन्त्रिते समानाधिकरणे सामान्यवचनम्' इति अविद्यमानवत्त्वप्रतिषेधात्। शचीवः । छन्दसीरः' इति मतुपो वत्वम्। ‘मतुवसो रुः' इति रुत्वे ' खरवसानयोर्विसर्जनीयः' (पा. सू. ८. ३. १५)। पादादित्वात् आमन्त्रितनिघाताभावः ॥
“Your benevolence, handsome and mighty lord of food, endures for ever; therefore, Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
O Lord of Strength, whose jaws are strong, great deeds are thine, the powerful:
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
O you of the (lovely) lips, you potent lord of prizes—with your
wondrous skill
give us hope for resplendent cows and horses in the thousands, o
powerfully generous Indra.
O schöner Herr der Labungen, dein ist, o starker, Wunderkraft, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Du lippenöffnender Meister der Gewinne, du Kraftbegabter, du hast ja die Machtvollkommenheit; mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
О прекрасногубый, господин наград,
Могучий, у тебя – чудесная сила.
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
नि । स्वा॒प॒य॒ । मि॒थु॒ऽदृशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ इति॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वी॒ऽम॒घ॒ ॥
मिथूदृशा परस्परं संगतत्वेन दृश्यमाने यमदूत्यौ नि ष्वापय नितरां सुप्ते कुरु । ते च अस्मान् मारयितुम् अबुध्यमाने सत्यौ सस्तां निद्रां प्राप्नुताम् । अन्यत् पूर्ववत् ॥ नि ष्वापय । सुषामादित्वात् षत्वम् ( पा. सू. ८. ३. ९८ )। ‘अन्येषामपि दृश्यते ' इति दीर्घः । मिथुनतया युगलरूपेण पश्यतः इति मिथूदृशा । क्विप् च ' इति दृशेः कर्तरि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । पूर्ववत् पूर्वपदस्य दीर्घः । ‘सुपां सुलुक्' इति विभक्तेः आकारः। सस्ताम् । ‘षस स्वप्ने '। लोटि तसस्ताम् । ‘अदिप्रभृतिभ्यः' इति शपो लुक् । प्रत्ययस्वरः । पादादित्वात् निघाताभावः । अबुध्यमाने । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ।
“Cast asleep (the two feminine le messengers of Yama); looking at each other, let them sleep, never waking; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Lull thou asleep, to wake no more, the pair who on each other look
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Put to sleep the two of opposite appearance [=birds of ill-omen?]; let those two females sleep unawakening.
– Give us hope for resplendent cows and horses in the thousands, o
powerfully generous Indra.
Die wechselnd wachen, schläfre ein, lass schlafen, nie erwachen sie, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Schläfere die beiden verschieden Aussehenden ein; ohne zu erwachen sollen beide schlafen. Mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Усыпи тех двух с обманчивым взглядом!
Пусть спят они беспробудно!
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तय॑: । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स॒सन्तु॑ । त्याः । अरा॑तयः । बोध॑न्तु । शू॒र॒ । रा॒तयः॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वी॒ऽम॒घ॒ ॥
त्याः अस्माभिरदृश्यमानाः परोक्षास्ताः अरातयः अदानशीलाः शत्रवः ससन्तु निद्रां कुर्वन्तु । हे शूर शौर्ययुक्तेन्द्र रातयः दानशीलाः बन्धवः बोधन्तु अस्मान् बुध्यन्ताम् । अन्यत् पूर्ववत् ॥ ससन्तु । प्रत्ययस्वरः । अरातयः । ‘रा दाने '। ‘मन्त्रे वृष° ' इत्यादिना भावे क्तिन् । न विद्यते रातिः एष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नञ्सुभ्याम् ' इति तु ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते' इति न भवति । यद्वा । ‘क्तिच्क्तौ च संज्ञायाम् ' इति कर्तरि क्तिच् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधन्तु । पादादित्वात् “ तिङ्ङतिङः' इति निघाताभावः ॥
“May those who are our enemies, slumber, and those, O hero, who are our friends, be awake; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Hero, let hostile spirits sleep, and every gentler genius wake:
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Let them sleep who offer no gifts, but let your gifts be awake, o
champion.
– Give us hope for resplendent cows and horses in the thousands, o powerfully generous Indra.
Lass schlafen alle geizigen, lass wachen Held die gebenden, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Schlafen sollen jene Unholdinnen, wachen sollen die Huldinnen, du Held. Mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Пусть заснут те недоброжелатели!
Пусть бодрствуют, о герой, доброжелатели!
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मृ॒ण॒ । नु॒वन्त॑म् । पा॒पया॑ । अ॒मु॒या । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वी॒ऽम॒घ॒ ॥
हे इन्द्र अमुया अनया अस्माभिः श्रूयमाणया पापया निन्दारूपया वाचा नुवन्तं स्तुवन्तम् अपकीर्तिं प्रकटयन्तमित्यर्थः । तादृशं गर्दभं गर्दभसमानवैरिणं सं मृण सम्यक् मारय । यथा गर्दभः श्रोतुमशक्यं परुषं शब्दं करोति तथा शत्रुरपि । अन्यत् पूर्ववत् ॥ गर्दभम् । ‘नर्द गर्द शब्दे । ‘कॄगॄशॄशलिगर्दिभ्योऽभच्' ( उ. सू. ३. ४०२ )। ‘चितः' इत्यन्तोदात्तत्वम् । मृण । ' मृण हिंसायाम् ' । तौदादिकः । शस्य ङित्त्वात् गुणाभावः । नुवन्तम् । ‘णु स्तुतौ ' । शतरि अदिप्रभृतित्वात् शपो लुक् । शतुर्ङित्त्वात् गुणाभावे उवङादेशः । प्रत्ययाद्युदात्तत्वम् ॥
“Indra, destroy this ass, (our adversary), praising you with such discordant speech; and do your, Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Destroy this ass, O Indra, who in tones discordant brays to thee:
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Pulverize the donkey braying in that evil way, o Indra.
– Give us hope for resplendent cows and horses in the thousands, o powerfully generous Indra.
Den Esel, Indra, schlage todt, der auf so üble Weise brüllt, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Zerdrisch den Esel, Indra, der gar so übel schreit ! Mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Сокруши, о Индра, осла,
Так гадко ревущего!
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
पता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वातः॑ । वना॑त् । अधि॑ । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वी॒ऽम॒घ॒ ॥
वातः अस्मत्प्रतिकूलो वायुः कुण्डृणाच्या कुटिलगत्या स त्वस्मान्परित्यज्य वनादधि अरण्यादप्यधिकं दूरं देशं पताति पततु । अन्यत् पूर्ववत् ॥ पतति । लेटि आडागमः। कुण्डृणाच्या । 'कुडि दाहे ' । अस्मात् ल्युडन्ते कुण्डनशब्दे डकारात् परस्य अकारस्य ऋकारश्छान्दसः । ‘ऋवर्णाच्चेति वक्तव्यम् ' इति णत्वम् । तत् अञ्चतीति कुण्डृणाची ।' ऋत्विक् ' इत्यादिना क्विन् । अनिदिताम् । इति नलोपे ' अञ्चतेश्चेति वक्तव्यम् ' ( पा. सू. ४. १. ६. २) इति ङीप् । ' अचः ' ( पा. सू. ६. ४. १३८ ) इति अकारलोपः । चौ ' ( पा. सू. ६. ३. १३८ ) इति पूर्वपदस्य दीर्घत्वम् । ‘चौ ' ( पा. सू. ६. १. २२२ ) इति आकारस्योदात्तत्वम् ॥
“Let us (adverse) breeze, with crooked course, alight afar off on the forest; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Far distant on the forest fall the tempest in a circling course!
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Along with the female kuṇḍr̥ṇācī [=bird of ill-omen?] the wind will fly far away from the woods.
– Give us hope for resplendent cows and horses in the thousands, o powerfully generous Indra.
Weit treibe über Wälder weg der Wind den Aar, der uns umkreist, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Mit der Kundrinaci fliege der Wind weit weg vom Baum. Mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Пусть улетит со зловещей птицей
Далеко от дерева ветер!
Дай же нам, о Индра, надежду
(В виде) коров, копей, тысячи прекрасных (благ), о (ты) очень богатый!
सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म् । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्व॑म् । आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वी॒ऽम॒घ॒ ॥
परिक्रोशम् अस्मद्विषये सर्वतः आक्रोशकर्तारं सर्वं पुरुषं जहि मारय । कृकदाश्वम् अस्मद्विषये हिंसाप्रदं शत्रुं जम्भय मारय । अन्यत् पूर्ववत् ॥ परिक्रोशम् । ‘क्रुश आह्वाने ' । परितः क्रोशयतीति परिक्रोशः । पचाद्यच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जहि ।' हन हिंसागत्योः '। हन्तेर्जः ' (पा. सू. ६. ४. ३६ ) इति जादेशः । तस्य ‘असिद्धवदत्रा भात् ' इति असिद्धत्वात् । अतो हेः । इति हेर्लुक् न भवति । जम्भय । जभि नाशने ' । चुरादित्वात् स्वार्थिको णिच् । शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते । कृकदाश्वम् । ‘कृञ् हिंसायाम्'। ‘कृदाधारार्चिकलिभ्यः कन् । ( उ. सू. ३. ३२० ) इति भावे कन्प्रत्ययः । ‘कित्' इत्यनुवृत्तेः गुणाभावः । तथा च कृको हिंसा तां दाशति प्रयच्छतीति कृकदाशुः । बहुलग्रहणात् दाशतेरपि कृके उपपदे ‘कृके वचः कश्च' ( उ. सू. १. ६ ) इति उण् । प्रत्ययस्वरेणोदात्तः । द्वितीयायाम् अमिपूर्वत्वे प्राप्ते ' वा छन्दसि' इति तस्य बाधितत्वात् यणादेशः । ‘उदात्तस्वरितयोर्यणः ' इति विभक्तेः स्वरितत्वम् ॥ ॥ २७ ॥
“Destroy every one that reviles us; slay every one that does us injury; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Slay each reviler, and destroy him who in secret injures us:
Do thou, O Indra, give us hope of beauteous horses and of kine
In thousands, O most wealthy One.
Smash every howler; crush the female kr̥kadāśū [=another bird of ill-omen?]. – Give us hope for resplendent cows and horses in the thousands, o powerfully generous Indra.
Erschlage jeden, welcher schmäht, zermalm den Dämon, welcher kreischt, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Erschlag jeden Beschreier, erwürge den Krikadasu. Mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Убей всякого крикуна!
Загрызи Крикадашу!
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!