अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती । पुरु॑भुजा चन॒स्यत॑म् ॥
अश्वि॑ना । यज्व॑रीः । इषः॑ । द्रव॑त्पाणी॒ इति॒ द्रव॑त्ऽपाणी । शुभः॑ । प॒ती॒ इति॑ । पुरु॑ऽभुजा । च॒न॒स्यत॑म् ॥
हे अश्विनौ युवाम् इषः हविर्लक्षणान्यन्नानि चनस्यतम् इच्छतं भुञ्जाथामित्यर्थः । यद्यपि चनःशब्दोऽन्नवाची तथापि इषः इत्यनेन सह नास्ति पुनरुक्तिदोषः, इच्छामुपलक्षयितुं प्रयुक्तत्वात् । ‘वक्तव्यमुवाच', 'समूलकाषं कषति' इत्यादौ यथा पुनरुक्त्यभावस्तद्वत् । कीदृशीरिषः । यज्वरीः योगनिष्पादिकाः। कीदृशावश्विनौ। द्रवत्पाणी हविर्ग्रहणाय द्रवद्भ्यां धावद्यां पाणिभ्यामुपेतौ। शुभस्पती शोभनस्य कर्मणः पालकौ । पुरुभुजा विस्तीर्णभुजौ बहुभोजिनौ वा ॥ अश्विना। ‘आमन्त्रितस्य' (पा. सू. ६. १. १९८ ) इति षाष्टिकमाद्युदात्तत्वम् । यज्वरीः । यागकरणानामप्यन्नानाम् ‘असिश्छिनत्ति' इतिवत् स्वव्यापारे कर्तृत्वविवक्षया “ सुयजोर्ङ्वनिप् ' ( पा. सू. ३. २. १०३ ) इति ङ्वनिप्प्रत्ययः । ‘वनो र च' (पा. सू. ४. १. ७) इति ङीप् । तसंनियोगेन रेफादेशः । प्रत्ययद्वयस्य ‘अनुदात्तौ सुप्पितौ ' ( पा. सू. ३. १. ४ ) इत्यनुदात्तत्वात् धातुस्वर एवावशिष्यते । इषःशब्दे शसोऽनुदात्तत्वात् प्रातिपदिकस्वर एव शिष्यते । द्रवन्तौ धावन्तौ पाणी ययोस्तयोः संबोधनं द्रवत्पाणी इति । तस्यामन्त्रिताद्युदात्तत्वं न पुनराष्टमिको निघातः ‘अपादादौ इति प्रतिषेधात् । इषः इति पूर्वपदस्य ‘सुबामन्त्रिते॰ ' (पा. सू. २. १. २ ) इति पराङ्गवद्भावेन ‘मित्रावरुणावृतावृधौ' इतिवत् अपादादित्त्वमिति चेत्, न । तत्र सामानाधिकरण्येन परस्परान्वयात् । इह तु इषः इवत्पाणी इत्यनयोः सरस्वतिशुतुद्रिपदवत् असामर्थ्येन प्रयुक्तत्वात् । शुभः इति ‘शुभ शुम्भ दीप्तौ' इत्यस्य संपदादित्वात् भावे क्विबन्तस्य षष्ठ्येकवचनम् । ‘षष्ठ्याः पतिपुत्र' (पा. सू. ८. ३. ५३ ) इति विसर्जनीयस्य सत्वम् । तस्य पती इत्यामन्त्रिते परतः पराङ्गयद्भावात् आमन्त्रिताद्युदात्तत्वम् । न पुनराष्टमिको निघातः । तस्मिन् कर्तव्ये द्रवत्पाणी इति पूर्वस्यामन्त्रितस्य ‘आमन्त्रितं पूर्वमविद्यमानवत्' (पा. सू. ८. १. ७२ ) इत्यविद्यमानवद्भावेन पादादित्वात् ‘अपादादौ ' इति प्रतिषेधात् ॥ ननु • मित्रावरुणावृतावृधौ ' इतिवत् ' नामन्त्रिते समानाधिकरणे' ( पा. सू. ८. १. ७३) इत्यविद्यमानवद्भावप्रतिषेधेन भवितव्यमिति चेत्, न । मित्रावरुणपदं हि सामान्यवचनमिति युक्तः तस्याविद्यमानवत्त्वप्रतिषेधः । द्रवत्पाणी पदं तु न तथेति वैषम्यात् । पुरुभुजा पुरू विस्तीर्णौ भुजौ ययोस्तौ । आमन्त्रिताद्युदात्तत्वम् । ‘सुपां सुलुक्° ' ( पा. सू. ७. १. ३९ ) इति डादेशः । पुरु बहु भुञ्जाते इति वा । चनस्यतम् इत्यत्र ‘चायतेरन्ने ह्रस्वश्च' (उ. सू. ४.६३९) इति ' चायृ पूजानिशामनयोः इत्यस्य असुन्प्रत्यये आकारस्य ह्रस्वे चानुकृष्टे नुडागमे च ( उ. सु. ४. ६३६) 'लोपो व्योर्वलि ' (पा.सू. ६. १. ६६ ) इति यकारलोपे चनःशब्दोऽन्ननामसु पठितः (निरु० ६. १६ )। तत् आत्मनः इच्छतीति ‘सुप आत्मनः क्यप् ' (पा. सू. ३. १.८)। ‘सनाद्यन्ताः '(पा. सू. ३. १. ३२) इति धातुत्वात् लोण्मध्यमद्विवचनम् । क्यचः प्रत्ययस्वरेणोदात्तत्वम् । शपा एकादेशे कृते एका देश उदात्तेनोदात्तः ' ( पा. सू. ८. २. ५ ) इत्युदात्तः । उपर्याख्यातस्य लसार्वधातुकानुदात्तवे स्वरितत्त्वम् । न च ' तिङ्ङतिङः' (पा. सू. ८. १. २८) इति निघातः । पूर्वस्यामन्त्रितस्याविद्यमानवद्भावेन पदादपरत्वात् पादादित्वाद्वा तदप्राप्तेः ॥
“Aśvins, cherishers of pious acts, long-armed, accept with outstretched hands the sacrificial viands.”
YE Asvins, rich in treasure, Lords of splendour, having nimble hands,
Accept the sacrificial food.
O Aśvins, quick-handed lords of beauty, in the sacrificial refreshments find your delight, you two providing many enjoyments.
O Ritter, nehmet gnädig an des Opfers Tränke, Glanzesherrn, Weitwaltende, mit schneller Hand.
Asvin! Traget nach den Opfergebeten begleiteten Labsalen Verlangen, ihr flinkhändigen Meister der Schönheit, ihr Vielnützenden!
О Ашвины, возрадуйтесь
Жертвенным возлияниям,
О быстрорукие повелители красоты, многорадостные!
अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी॑रया धि॒या । धिष्ण्या॒ वन॑तं॒ गिर॑: ॥
अश्वि॑ना । पुरु॑ऽदंससा । नरा॑ । शवी॑रया । धि॒या । धिष्ण्या॑ । वन॑तम् । गिरः॑ ॥
अश्विना हे अश्विनौ युवां गिरः अस्मदीयाः स्तुतीः धिया आदरयुक्त्या बुद्ध्या वनतं संभजतं स्वीकुरुतम् । कीदृशावश्विनौ । पुरुदंससा बहुकर्माणौ । षड्विंशतिसंख्याकेषु कर्मनामसु ' दंसः ' (नि. २. १. ३ ) इति पठितम् । नरा नेतारौ । धिष्ण्या धार्ष्ट्ययुक्तौ बुद्धिमन्तौ वा । कीदृश्या धिया । शवीरया गतियुक्त्या अप्रतिहतप्रसरयेत्यर्थः । अश्विना इत्याद्यामन्त्रितचतुष्टयस्य षाष्ठिकमामन्त्रिताद्युदात्त्वम् । पादादित्वात् न आष्टमिको निघातः । पुरुदंससा इत्यपि हि पादादिरेव ‘आमन्त्रितं पूर्वमविद्यमानवत्' (पा. सू. ८. १. ७२ ) इति पूर्वस्याविद्यमानवत्वात् । ‘नामन्त्रिते समानाधिकरणे° ' ( पा. सू. ८. १. ७३ ) इति पूर्वस्य सामान्यवचनत्वेन अस्य विशेषवचनत्वेन नाविद्यमानवत्त्वमिति चेत्, न । अश्विशब्दवत् पुरुदंसःशब्दस्यापि अश्विनोरेव रूढ्या प्रयुज्यमानतया सामान्यशब्दत्वात् । सामान्यवचनं नाविद्यमानवदित्युक्तेऽर्थात् परस्य विशेषवचनत्वावगमात्। उभयोः सामान्यवचनत्वे पर्यायत्वेन पौनरुक्यात् सहाप्रयोग इति चेत्, न । गुणविशेषसंकीर्तनवत् प्रसिद्धानेकनामविशेषसंबन्धसंकीर्तनस्यापि स्तुत्युपयोगेन सप्रयोजनत्वात्; निष्प्रयोजनपुनर्वचनस्यैव पुनरुक्तत्वात् । अश्विपुरुदंसःशब्दयोरेकार्थवृत्तित्वेऽपि पर्यायत्वादेव प्रवृत्तिनिमित्तभेदाभावेन असामानाधिकरण्यादपि नाविद्यमानवत्त्वप्रतिषेधः । भिन्नप्रवृत्तिनिमित्तानामेव ह्येकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् । अश्विशब्दस्याश्वसंबन्धो निमित्तं पुरुदंसःशब्दस्य तु बहुकर्मसंबन्ध इति प्रवृत्तिनिमित्तभेद इति चेत्, न । तद्धि द्वयं व्युत्पत्तिमात्रनिमित्तं न प्रवृत्तिनिमित्तम् । व्युत्पत्तिनिमित्तभेदमात्रेणापि समानाधिकरण्याभिधाने वृक्षमहीरुहशब्दयोरपि तथात्वप्रसङ्गः । अत एव हि ‘इडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतानि ते अघ्निये नामानि ' ( तै. सं. ७. १. ६. ८) इत्यत्र सहस्रतमीप्रशंसोपयोगित्वेन इडादिशब्दानाम् ' एतानि ते अघ्निये नामानि ' इति वचनेन पर्यायाणामपि अनेकविशिष्टनामसंबन्धनिबन्धनस्तुत्यर्थत्वेनैव सहप्रयोगः । स्तुत्युपयोगेनैव व्युत्पत्तिनिमित्तभेदविवक्षायामपि पर्यायत्वेनासामानाधिकरण्यादेव' नामन्त्रिते° ' इति निषेधाभावात् ' आमन्त्रितं पूर्वमविद्यमानवत् ' इति पूर्वपूर्वस्याविद्यमानवत्त्वात् सर्वेषां षाष्ठिकमाद्युदात्तत्वम् । तद्वत् प्रकृतेऽपि । “ कॄशॄपॄकटिपटिशौटिभ्य ईरन् ' ( उ. सू. ४. ४७० ) इत्यतः ‘ईरन्' इत्यनुवृत्तौ ‘बहुलवचनादन्यत्रापि ' इत्यनेन ‘शु गतौ ' इति धातोरीरन्प्रत्यये कृते सति नित्त्वात् शवीरयाशब्द आद्युदात्तः । धियेत्यत्र ‘सावेकाचः ' ( पा. सू. ६. १. १६८ ) इति विभक्तिरुदत्ता । वनतमित्यत्र शपः पित्त्वात् लोण्मध्यमद्विवचनस्य लसार्वधातुकत्वाच्च ‘वन षण संभक्तौ ' इति धातूदात्तत्वमेव शिष्यते । न च ‘तिङ्ङतिङः' ( पा. सू. ८. १.२८) इति निघातः, पूर्वामन्त्रितस्याविद्यमानवत्वेन पादादित्वात् । गिरः । सुपोऽनुदात्तत्वे प्रातिपदिकस्वरः शिष्यते ॥
“Aśvins, abounding in mighty acts, guides (of devotion), endowed with fortitude, listen with unaverted minds to our praises.”
Ye Asvins, rich in wondrous deeds, ye heroes worthy of our praise,
Accept our songs with mighty thought.
O Aśvins of many wondrous powers, you superior men with powerful insight,
you holy ones, cherish our songs.
O thatenreiche Ritter, nehmt mit kräft'gem Geist die Lieder auf, O gabenreiche Männer ihr.
Asvin! kunstreiche Herren, mit überlegenem Verständnis nehmet die Lobesreden gut auf, ihr flinkhändigen Meister der Schönheit, ihr Vielnützenden!
О Ашвины, богатые чудесами,
О два мужа, с большим пониманием
Примите благосклонно (наши) голоса, о благоговейные!
दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः । आ या॑तं रुद्रवर्तनी ॥
दस्रा॑ । यु॒वाक॑वः । सु॒ताः । नास॑त्या । वृ॒क्तऽब॑र्हिषः । आ । या॒त॒म् । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी ॥
अत्र अश्विना इत्यनुवर्तते । हे अश्विनौ आ यातम् अस्मिन् कर्मण्यागच्छतम् । किमर्थमिति तदुच्यते । सुताः युष्मदर्थं सोमा अभिषुताः तान् स्वीकर्तुमिति शेषः । कीदृशावश्विनौ। दस्रा दस्रौ शत्रूणामुपक्षपयितारौ । यद्वा। देववैद्यत्वेन रोगाणामुपक्षपयितारौ। ‘अश्विनौ वै देवानां भिषजौ' (ऐ.बा. १. १८) इति श्रुतेः । नासत्या असत्यमनृतभाषणं तद्रहितौ । अत्र यास्कः-’सत्यावेव नासत्यावित्यौर्णवाभः । सत्यस्य प्रणेतारावित्याग्रायणः' (निरु. ६. १३ ) इति । रुद्रवर्तनी । रुद्रशब्दस्य रोदनं प्रवृत्तिनिमित्तं ' यदरोदीत्तद्रुदस्य रुद्रत्वम्' ( तै. सं. १. ५. १. १ ) इति तैत्तिरीयाः । तद्यद्रोदयन्ति तस्माद्रुद्राः' इति वाजसनेयिनः । रुद्राणां शत्रुरोदनकारिणां शूरभटानां वर्तनिर्मार्गो धाटीरूपो ययोस्तौ रुद्रवर्तनी । यथा शूरा धाटीमुखेन शत्रून् रोदयन्ति तद्वदेतावित्यर्थः । युवाकवः इत्यभिषुतसोमानां विशेषणम् । वसतीवरीभिरेकधनाभिश्चाद्भिर्मिश्रिता इत्यर्थः। वृक्तबर्हिषः। वृक्तानि मूलैर्वर्जितानि बर्हींष्यास्तरणरूपाणि येषां सोमानां ते वृक्तबर्हिषः । यद्वा । ‘भरताः' इत्यादिष्वष्टसु ऋत्विङ्नामसु ‘वृक्तबर्हिषः' ( नि. ३. १८, ४ ) इति । तदानीं तृतीयार्थे प्रथमा । ऋत्विभिरभिषुता इत्यन्वयः ॥ दस्रा। ‘आमन्त्रितस्य°' ( पा. सू. ६. १. १९८) इत्याद्युदात्तः । युवाकवः । ‘यु मिश्रणे '। युवन्ति मिश्रीभवन्ति वसतीवरीप्रभृतिभिः श्रयणद्रव्यैरिति युवाकवः । कटिकुष्यादिषु ( उ. सू. ३. ३५७ ) अगणितस्यापि यौतेः बहुलग्रहणात् काकुप्रत्ययः । तस्य कित्त्वेन गुणाभावादुबङादेशः । प्रत्ययस्वरेण आकार उदात्तः । न विद्यतेऽसत्यमनयोरिति नासत्यौ। ‘नभ्राण्नपान्नवेदानासत्या' (पा. सू. ६. ३. ७५ ) इत्यादिना प्रकृतिवद्भावात् नञो नलोपाभावः । पादादित्वेनानिघातादामन्त्रिताद्युदात्तत्वम् । वृक्तबर्हिषः । वृक्तं मूलैर्वर्जित बर्हिरास्तीर्णं येषां सोमानां ते वृक्तबर्हिषः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण क्तप्रत्ययस्वर एव शिष्यते । आ इत्यत्र ‘उपसर्गाश्चाभिवर्जम्' ( फि.सू. ८१) इत्युदात्तः । रुद्रवर्तनी । ‘आमन्त्रितस्य च ' ( पा. सू. ८.१ १९ ) इत्यामन्त्रितनिघातः ॥
“Aśvins, destroyers of foes, exempt from untruth, leaders in the van of heroes, come to the mixed libations sprinkled on the lopped sacred grass.”
Nasatyas, wonder-workers, yours are these libations with clipt grass:
Come ye whose paths are red with flame.
O wondrous Nāsatyas, the soma-pressings of the man who has twisted the ritual grass are seeking you.
Drive here, o you who follow the course of the Rudras [=Maruts].
Hülfreiche, euer ist der Trank, o treue, auf geweihter Streu, Auf lichten Pfaden kommt herbei.
Ihr Meister Nasatya´s, euch gehören die Somatränke des Opferers, der das Barhis umgelegt hat. Kommet herbei, die ihr die Bahn des Rudra wandelt!
О чудесные, для вас выжаты (соки сомы)
У того, кто разложил жертвенную солому, о Насатьи.
Придите, вы оба, следуя сверкающим путем!
इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यव॑: । अण्वी॑भि॒स्तना॑ पू॒तास॑: ॥
इन्द्र॑ । आ । या॒हि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सु॒ताः । इ॒मे । त्वा॒ऽयवः॑ । अण्वी॑भिः । तना॑ । पू॒तासः॑ ॥
चित्रभानो चित्रदीप्ते हे इन्द्र अस्मिन् कर्मणि आ याहि आगच्छ । सुताः अभिषुताः इमे सोमाः त्वायवः त्वां कामयमाना वर्तन्ते । अण्वीभिः। ‘अग्रुवः' इत्यादिषु द्वाविंशतिसंख्याकेष्वङ्गुलिनामसु ‘अण्व्यः' (नि. २. ५, २) इति पठितम्। ऋत्विजामङ्गुलिभिः सुता इत्यन्वयः । किंच एते सोमाः तना नित्यं पूतासः पूताः शुद्धा दशापवित्रेण बहुधा शोधितत्वात् । इन्द्रशब्दं यास्को बहुधा निर्वक्ति- इन्द्र इरां दृणातीति वेरां ददातीति वेरां दधातीति वेरां दारयतीति वेरां धारयतीति वेन्दवे द्रवतीति वेन्दौ रमत इति वेन्धे भूतानीति वा तद्यदेनं प्राणैः समैन्धंस्तदिंद्रस्येन्द्रत्वमिति विज्ञायत इदंकरणादिस्याग्रायण इदंदर्शनादित्यौपमन्यव इन्दतेर्वैश्वर्यकर्मण इञ्छत्रूणां दारयिता वा द्रावयिता वा दरयिता च यज्वनाम्' (निरु. १०.८ ) इति । अस्यायमर्थः । ‘दॄ विदारणे' इति धातुः । इरामन्नमुद्दिश्य तन्निष्पादकजलसिद्ध्यर्थं दृणाति मेघं विदीर्णं करोतीतीन्द्रः। ‘डुदाञ् दाने ' इति धातुः । इरामन्नं वृष्टिनिष्पादनेन ददातीतीन्द्रः । ‘धाञ् पोषणार्थः' । इरामन्नं तृप्तिकारणं' सस्यं दधाति जलप्रदानेन पुष्णातीतीन्द्रः । इरामुत्पादयितुं कर्षकमुखेन भूमिं विदारयतीतीन्द्रः। पूर्वोक्तपोषणमुखेनेरां धारयति विनाशराहित्येन स्थापयतीतीन्द्रः । इन्दुः सोमो वल्लीरसः । तदर्थं यागभूमौ द्रवति धावतीतीन्द्रः । इन्दौ यथोक्ते सोमे रमते क्रीडतीतीन्द्रः। ‘ञिइन्धी दीप्तौ ' इति धातुः । भूतानि प्राणिदेहान् इन्धे जीवचैतन्यरूपेणान्तः प्रविश्य दीपयतीतीन्द्रः । एतदेवाभिप्रेत्य वाजसनेयिन आमनन्ति-- ‘इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषः। तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते । परोक्षेण परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः' (बृ. उ. ४. २. २ ) इति । तद्यत्' इत्यादिकं ब्राह्मणान्तरवाक्यम् । तत्तत्र इन्द्रविषये निर्वचनमुच्यते इति शेषः । यद्यस्मात् कारणादेनं परमात्मरूपमिन्द्रं देवं प्राणैः वाक्चक्षुरादीन्द्रियैः प्राणापानादिवायुभिश्च सहितं समैन्धन् उपासका ध्यानेन सम्यक् प्रकाशितवन्तः, तत् तस्मात् कारणात् इन्द्रनाम संपन्नम् । अस्मिन् पक्षे इध्यते दीप्यते इति कर्मणि व्युत्पत्तिः । आग्रायणनामको मुनिः ‘इदंकरणादिन्द्रः' इति निर्वचनं मन्यते । इन्द्रो हि परमात्मरूपेणेदं जगत्करोति । औपमन्यवनामको मुनिरिदं दर्शनादिन्द्र इति निर्वचनमाह । इदम् इत्यापरोक्ष्यमुच्यते विवेकेन हि परमात्मानमापरोक्ष्येण पश्यति । एतदेवाभिप्रेत्य आरण्यकाण्डे समाम्नायते- स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमितीँ३ । तस्मादिदन्द्रो नामेन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः' ( ऐ. आ. २. ४. ३ ) इति । 'इदि परमैश्वर्ये' इति धातुः । स्वमायया जगद्रूपत्वं परमैश्वर्यम् । तद्योगादिन्द्रः। अनेनाभिप्रायेण श्रूयते---‘इन्द्रो मायाभिः पुरुरूप ईयते' (ऋ. सं. ६. ४७. १८) इति । इनशब्दस्येश्वरवाचकस्य अकारलोप सति नकारान्तम् इन् इति पदं भवति । 'दॄ भये' इति धातुः । स च परमेश्वरः शत्रूणां दारयिता भीषयितेतीन्द्रः। द्रु गतौ ' इति धातुः । शत्रूणां द्रावयिता पलायनं प्रापयितेतीन्द्रः । यज्वनां यागानुष्ठायिनामादरयिता भयस्य परिहर्ता । एवमेतानि निर्वचनानि द्रष्टव्यानीति ॥ इन्द्र इत्यत्र आमन्त्रिताद्युदात्तत्वम् । आ इत्यत्र निपातत्वेनाद्युदात्तः । चित्रभानो। पदात् परत्वादामन्त्रितनिघातः । त्वामिच्छन्तीत्यर्थे युष्मच्छब्दात् ‘सुप आत्मनः क्यच्' (पा. सू. ३.१.८)। ' प्रत्ययोत्तरपदयोश्च' (पा. सू. ७. २. ९८ ) इति मपर्यन्तस्यत्वादेशः । ‘क्याच्छन्दसि ' (पा. सू. ३. २. १७० ) इति क्यजन्तात् उप्रत्ययः । त्वद्यव इति प्राप्तौ ' युष्मदस्मदोरनादेशे' (पा. सू. ७. २. ८६ ) इत्यविभक्तावपि हलादौ व्यत्ययेन आत्वम् । उकारः प्रत्ययस्वरेणाद्युदात्तः । अणुशब्दः सौक्ष्म्यवाचकः तद्योगात् प्रकृतेऽङ्गलीषु वर्तते । वोतो गुणवचनात् ' (पा. सू. ४. १. ४४ ) इति ङीषि प्राप्ते व्यत्ययेन ङीन् । नित्त्वादाद्युदात्तः । तना इत्ययं निपातो नित्यमित्यर्थे निपातत्वादाद्युदात्तः । पूतासः । ‘आज्जसेरसुक्' (पा. सू. ७. १. ५० ) इत्यसुक् ॥
“Indra, of wonderful splendour, come hither; these libations, ever pure, expressed by the fingers (of the priests) are desirous of you.”
O Indra marvellously bright, come, these libations long for thee,
Thus by fine fingers purified.
O Indra, drive here!—you of bright radiance. These soma-pressings here are seeking you,
the ones purifed in full measure by delicate (fingers).
O Indra komme glänzendhell, die Tränke sehnen sich nach dir, Durch zarte Finger wohl geklärt.
Indra! Komm her, du prachtglänzender; nach dir verlangen diese Somatränke, die von den zarten Fingern in einem Zuge geläutert werden.
О Индра, приди, ярко блистающий!
Эти выжатые (соки сомы) стремятся к тебе,
Очищенные в один прием тонкими (пальцами).
इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः । उप॒ ब्रह्मा॑णि वा॒घत॑: ॥
इन्द्र॑ । आ । या॒हि॒ । धि॒या । इ॒षि॒तः । विप्र॑ऽजूतः । सु॒तऽव॑तः । उप॑ । ब्रह्मा॑णि । वा॒घतः॑ ॥
हे इन्द्र त्वम् आ याहि अस्मिन् कर्मण्यागच्छ। किमर्थम् । 'वाघतः ऋत्विजः ब्रह्माणि वेदरूपाणि स्तोत्राण्युपैतुम्। कीदृशस्त्वम् । धिया अस्मदीयया प्रज्ञया इषितः प्राप्तः अस्मद्भक्त्या प्रेरित इत्यर्थः । विप्रजूतः । यथा यजमानभक्त्या प्रेरितस्तथान्यैरपि विप्रैर्मेधाविभिर्ऋत्विग्भिः प्रेरितः । कीदृशस्य वाघतः । 'सुतावतः अभिषुतसोमयुक्तस्य ॥ ‘केतः' इत्यादिष्वेकादशसु प्रज्ञानामसु ‘धीः ' (नि.३. ९. ७) इति पठितम् । चतुर्विशतिसंख्याकेषु मेधाविनामसु ‘ विप्रः धीरः ' ( नि. ३. १५. १) इति पठितम् । ‘भरताः' इत्यादिष्वष्टसु ऋत्विज्ञामसु ‘वाघतः ' ( नि. ३. १८. ३) इति पठितम् । इषित इत्यत्र ‘इष गतौ' इत्यस्मान्निष्ठायामिडागमः । ‘आगमा अनुदात्ताः' ( पा. म. ३. १.३.७ ) इति इटः अनुदातत्वात् क्तस्वरः शिष्यते । विप्रजूतः । डुवप् बीजसंताने' इति धातोः ‘ऋज्रेन्द्राग्रवज्रविप्र' ( उ. सू. २.१८६ ) इत्यादिना रन्प्रत्ययान्तो विप्रशब्दो निपातितः । निपातनदुपधाया इकारो लघूपधगुणाभावश्च । नित्वादाद्युदात्तः । तैर्जूतः प्राप्तः । ‘जू'(!) इति सौत्रो धातुर्गत्यर्थः ( पा. सू. ३. २. १५० )। ‘श्र्युकः किति' (पा. सू. ७. २. ११) इति इट्प्रतिषेधः। तृतीया कर्मणि' ( पा. सू. ६. २. ४८) इति पूर्वपदप्रकृतिस्वरत्वम् । सुतावतः । छान्दसं दीर्घत्वम् । मतुपोऽनुदात्तत्वात् क्तप्रत्ययस्वर एव शिष्यते । ब्रह्माणि । ‘नब्विषयस्यानिसन्तस्य (फि. सू. २६ ) इत्याद्युदात्तः । वाघच्छब्द ऋत्विङ्नामसु पठितः । प्रातिपदिकस्वरः ॥
“Indra, apprehended by the understanding and appreciated by the wise, approach and accept the prayers of the priest as he offers the libation.”
Urged by the holy singer, sped by song, come, Indra, to the prayers,
Of the libation-pouring priest.
O Indra, drive here!—roused by our insight, sped by our inspired poets, to the sacred formulations of the cantor who has the pressed soma.
Komm, Indra, durch Gebet gelockt, beeilt vom Sänger zu dem Spruch Des somareichen Opferers.
Indra! Komm her, durch unsere Dichtung angespornt, von den Redekundigen zur Eile getrieben, zu den erbaulichen Worten des Priesters, der Soma bereitet hat!
О Индра, приди, поощренный (нашей) мыслью,
Возбужденный вдохновенными (поэтами) на молитвы
Устроителя жертвы, выжавшего (сому)!
इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः । सु॒ते द॑धिष्व न॒श्चन॑: ॥
इन्द्र॑ । आ । या॒हि॒ । तूतु॑जानः । उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ । सु॒ते । द॒धि॒ष्व॒ । नः॒ । चनः॑ ॥
हरिशब्दः इन्द्रसंबन्धिनोरश्वयोर्नामधेयं ‘हरी इन्द्रस्य रोहितोऽग्नेः ' (नि. १. १५, १ ) इति तदीयाश्वनामत्वेन पठितत्वात् । हे हरिवः अश्वयुक्त इन्द्र त्वं ब्रह्माणि उपैतुम् आ याहि। कीदृशस्त्वम्। तूतुजानः त्वरमाणः । आगत्य च अस्मिन् सुते सोमाभिषवयुक्ते कर्मणि नः अस्मदीयं चनः अन्नं हविर्लक्षणं दधिष्व धारय स्वीकुर्वित्यर्थः ॥ तूतुजानः । तुजेर्लिंटि' लिटः कानज्वा' (पा.सू. ३. २. १०६ ) इति कानजादेशः । 'तुजादीनां दीर्घोऽभ्यासस्य ' ( पा. सू. ६. १. ७) इत्यभ्यासस्य दीर्घत्वम् । अभ्यस्तानामादिः (पा. सू. ६. १. १८९ ) इत्याद्युदात्तत्वम् । हरिव इत्यत्र हरयोऽस्य सन्तीति मतुपि ‘छन्दसीरः ' ( पा. सू. ८. २. १५) इति मकारस्य वत्वम् । संबुद्धौ ‘ उगिदचाम् ' ( पा. सू. ७. १. ७० ) इति नुम् । संयोगान्तलोपे ( पा. सू. ८. २. २३ ) नकारस्य ‘मतुवसो रु संबुद्धौ छन्दसि ' ( पा. सू. ८. ३. १ ) इति रुत्वम् । आष्टमिको निघातः । ब्रह्माणीत्यस्य हरिव इत्यनेनासामर्थ्यात् ' समर्थः पदविधिः (पा. सू. २. १. १ ) इति नियमात् सुबामन्त्रितपराङ्गवद्भावाभावेन आमन्त्रितनिघाताभावात् आद्युदात्तत्वे सति उप इति अकारस्य सन्नतरः । दधिष्व इत्यत्र दधातेर्लोटि थास् । ‘थासः से' ( पा. सू. ३. ४. ८० ) ।' सवाभ्यां वामौ ' (पा. सू. ३. ४. ९१ ) इत्येकारस्य वादेशः । छन्दस्युभयथा ' ( पा. सू. ३. ४. ११७ ) इति सार्वधातुकार्धधातुकसंज्ञयोः सत्योः सार्वधातुकत्वेन शपि ( पा. सू. ३ १.६८) तस्य श्लौ च द्विर्भावः ( पा. सू. ६. १. १० ), अर्धधातुकत्वेन इडागमश्च ( पा. सू. ७. २. ३५ ) । “ आतो लोप इटि च' (पा. सू. ६ ४. ६४) इत्याकारलोपः । चनः । 'चायतेरन्ने ह्रस्वश्च ' (उ. सू. ४. ६३९) इत्यसुनन्तः । चकारात् नुडागमे यलोपः ॥ ॥ ५॥
“Fleet Indra with the tawny coursers, come hither to the prayer (of the priest), and in this libation accept our (proffered) food.”
Approach, O Indra, hasting thee, Lord of Bay Horses, to the prayers.
In our libation take delight.
O Indra, drive here!—thrusting yourself onward to the sacred
formulations, o possessor of fallow bays.
Take delight in our pressed soma.
Komm eilend zu den Sprüchen her, o Indra, mit den Füchsen dein, An unserm Soma labe dich.
Indra! Komm her, dich beeilend, zu den erbaulichen Worten, du Falbenlenker, trage nach unserem Soma Verlangen.
О Индра, приди, поспешая
На молитвы, о хозяин буланых коней!
Одобри нашего выжатого (сому)!
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वांसो॑ दा॒शुष॑: सु॒तम् ॥
ओमा॑सः । च॒र्ष॒णि॒ऽधृतः॒ । विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । दा॒श्वांसः॑ । दा॒शुषः॑ । सु॒तम् ॥
हे विश्वे देवासः एतन्नामका देवविशेषाः दाशुषः हविर्दत्तवतो यजमानस्य सुतम् अभिषुतं सोमं प्रति आ गत आगच्छत । ते च देवाः ओमासः रक्षकाः चर्षणीधृतः मनुष्याणां धारकाः दाश्वांसः फलस्य दातारः । ‘मनुष्याः' इत्यादिषु पञ्चविंशतिसंख्याकेषु मनुष्यनामसु चर्षणिशब्दः ( नि. २. ३. ८) पठितः । ‘अश्विनौ' इत्यादिष्वेकत्रिंशत्संख्याकेषु देवविशेषनामसु • विश्वेदेवाः साध्याः' (नि, ५. ६. २७ ) इति पठितम् । एतामृचं यास्क एवं व्याख्यातवान्-‘ अवितारो वावनीया वा मनुष्यधृतः सर्वे च देवा इहागच्छत दत्तवन्तो दत्तवतः सुतमिति तदेतदेकमेव वैश्वदेवं गायत्रं तृचं दशतयीषु विद्यते यत्तु किंचिद्बहुदैवतं तद्वैश्वदेवानां स्थाने युज्यते यदेव विश्वलिङ्गमिति शाकपूणिः । (निरु. १२. ४० ) इति । अत्र विश्वशब्दः सर्वशब्दपर्याय इति यास्कस्य मतम् । देवविशेषस्यैवासधारणं लिङ्गमिति शाकपूणेर्मतम् । अवन्ति इति ओमासः देवाः । ‘मन् ' इत्यनुवृत्तौ ‘अविसिवि सिशुषिभ्यः कित्' (उ. सू. १. १४१ ) इति मन्प्रत्ययः । ज्वरत्वरस्रिव्यविभवामुपधायाश्च' (पा. सू. ६. ४. २०) इति ऊठ् । मनः कित्त्वेऽपि बाहुलकत्वाद्गुणः । ‘आज्ज़सेरसुक्’ (पा. सू. ७. १.५०) इति जसेः असुगागमः। आमन्त्रिताद्युदात्तत्वम्। चर्षणयो मनुष्याः। तान् वृष्टिदानादिना धारयन्तीति चर्षणीधृतः देवाः । पूर्वस्यामन्त्रितस्य सामान्यवचनस्य ‘विभाषितं विशेषवचने बहुवचनम् ' ( पा. सू. ८. १, ७४ ) इति अविद्यमानवत्वप्रतिषेधात् अपादादित्वेन निघातः । ननु अत एव विद्यमानवत्वात् ‘सुबामन्त्रिते°' ( पा. सू. २. १. २) इति पराङ्गवत्वेनैकपदीभावात् पदादपरत्वेन कथं निघात इति चेत् , न । ‘वत्करणं स्वाश्रयमपि यथा स्यात् ' ( पा. म. ८. १.७२ ) इति वचनात् पदभेदप्रयुक्तस्य । निघातस्याप्युपपत्तेः । ऐकपद्येऽप्याद्युदात्तत्वे ' अनुदात्तं पदमेकवर्जम् ' (पा. सू. ६. १. १५८ ) इति सुतरामेव निघातो भविष्यति। इत्थमेव तर्हि द्रवत्पाणी शुभस्पती' इत्यत्रापि पराङ्गवत्त्वेनैकपद्यादुत्तरस्य शेषनिघातप्रसङ्ग इति चेत्, न । तत्र पराङ्गवद्भावस्य परेण ' आमन्त्रितं पूर्वमविद्यमानवत् ' ( पा. सू. ८. १. ७२ ) इत्यविद्यमानवद्भावेन बाधितत्वात् । इह पुनः ‘विभाषितं विशेषवचने बहुवचनम् । इत्यविद्यमानवत्त्वस्य निषेधात् । पूर्वस्याप्यामन्त्रितस्य विद्यमानवत्वात् पराङ्गवत्त्वं स्वीकृतमिति वैषम्यम् । विश्वे । पादादित्वादाद्युदात्तः । गणदेवतावचनश्चात्र विश्वशब्दो न सर्वं शब्दपर्याय इति विशेष्यपरतया सामान्यवचनत्वात् ओमासः इत्यनेन न सामानाधिकरण्यम् । सामानाधिकरण्ये हि पूर्वस्य पादस्य पराङ्गवद्भावे सति ‘मित्रावरुणावृतावृधौ ' इत्यादाविव अत्राप्यामन्त्रिताद्युदात्तता न स्यात् । विश्वे इत्यस्य विशेषणं देवासः इति । दीव्यन्तीति देवाः प्रकाशवन्तः । ननु अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी' (परिभा° ९८) इति रूढ एवार्थों देवशब्दस्य ग्राह्यो न यौगिकः । यौगिकत्वे ह्यवयवार्थानुसंधानव्यवधानेन प्रतिपत्तिर्विक्षिप्ता स्यात् । समुदायप्रसिद्धौ तु न विक्षेप इति चेत्, न । समुदायप्रसिद्धौ हि देवशब्दस्य सामान्यपरतया विशेषवचनत्वाभावात् ‘विभाषितं विशेषवचने बहुवचनम्' इत्यनेनानिषिद्धत्वात् विश्वे इत्यस्याविद्यमानवत्वेन शुभस्पती इति पदवत् देवासः इत्यस्यापि आद्युदात्तत्वं स्यात् । स्वरानुसारेण च रूढित्यागेनापि देवशब्दस्य योगस्वीकारो युक्त एव । आ गत आगच्छत । ‘बहुलं छन्दसि' (पा. सू. २. ४. ७३) इति शपो लुकि सति ‘अनुदात्तोपदेश' (पा. सू. ६. ४. ३७ ) इत्यादिना मकारलोपः । आङः पदात्परत्वात् निघातः । दाश्वांसः । ‘दाशृ दाने ' इत्यस्य क्वसौ “ दाश्वान् साह्वान् मीढ्वांश्च ' (पा. सू. ६. १. १२ ) इति निपातनात् क्रादिनियमप्राप्तः इडागमो (पा. सू. ७. २. १३) द्विर्वचनं च न भवति । प्रत्ययस्वरेण क्वसोरुदात्तत्वम् । दाशुष इत्यत्र ‘वसोः संप्रसारणम् ' ( पा. सू. ६. ४. १३१ ) इति संप्रसारणम् । ‘ संप्रसारणाच्च' (पा. सू. ६ १. १०८) इति पूर्वरूपत्वम् । “ आदेशप्रत्यययोः' (पा. सू. ८. ३. ५९ ) इति षत्वम् ॥
“Universal Gods, protectors and supporters of men, bestowers (of rewards) come to the libation of the worshipper.”
Ye Visvedevas, who protect, reward, and cherish men, approach
Your worshipper's drink-offering.
Ye dread ones, guardians of men,
O All-gods, come ye,
Generous, to the pressed drink of the generous one.
O helpers, supporters of the peoples, you All Gods—come here as pious ones to the pressed soma of the pious man.
Vereint, o menschenschirmende, ihr Götter alle, kommt herbei, Ihr frommen, in des frommen Haus.
Schützende Völker-Erhalter, Allgötter, kommet her, als Spender zum Soma des Spenders!
Помощники, охраняющие людей,
О Все-Боги, придите
Милостивыми к выжатому (соме) жертвователя!
विश्वे॑ दे॒वासो॑ अ॒प्तुर॑: सु॒तमा ग॑न्त॒ तूर्ण॑यः । उ॒स्रा इ॑व॒ स्वस॑राणि ॥
विश्वे॑ । दे॒वासः॑ । अ॒प्ऽतुरः॑ । सु॒तम् । आ । ग॒न्त॒ । तूर्ण॑यः । उ॒स्राःऽइ॑व । स्वस॑राणि ॥
विश्वे देवासः एतन्नामकगणरूपा देवविशेषाः सुतं सोमम् आ गन्त आगच्छन्तु । कीदृशाः। अप्तुरः तत्तत्काले वृष्टिप्रदा इत्यर्थः। तूर्णयः त्वरायुक्ताः यजमानमनुग्रहीतुमालस्यरहिता इत्यर्थः । विश्वेषां देवानां सोमं प्रति आगमने उस्रा इत्यादिर्दृष्टान्तः । उस्राः सूर्यरश्मयः स्वसराणि अहानि प्रति आलस्यरहिता यथा समागच्छन्ति तद्वत् ।' खेदयः' इत्यादिषु पञ्चदशसु रश्मिनामसु उस्रा वसवः (नि. १. ५.९) इति पठितम् । वस्तोः' इत्यादिषु द्वादशस्वहर्नामसु ‘स्वसराणि घ्रंसः घर्मः' (नि. १. ९. ५) इति पठितम् । तच्च पदं यास्केन व्याख्यातं- स्वसराण्यहानि भवन्ति स्वयंसारीण्यपि वा स्वरादित्यो भवति स एनानि सारयति । उस्रा इव स्वसराणीत्यपि निगमो भवति । ( निरु. ५. ४ ) इति ॥ देवासः । पचाद्यजन्तः ( पा. सू. ३. १. १३४ ) चित्त्वादन्तोदात्तः । अप्तुरः ‘तुर त्वरणे' श्लुविकरणी । तुतुरति त्वरयन्तीत्यर्थे 'क्विप् च ' ( पा. सू. ३. २. ७६) इति क्विप् । ‘गतिकारकोपपदात्कृत्' (पा. सू. ६. २. १३९) इत्युत्तरपदप्रकृतिस्वरत्वम् । आ गन्त । आगच्छन्तु इत्यर्थे व्यत्ययेन मध्यमपुरुषबहुवचनम् ।' बहुलं छन्दसि' (पा. सू. २, ४, ७३) इति शपो लुक् । तस्य ‘तप्तनप्तनथनाश्च ' ( पा. सु. ७. १. ४५ ) इति तबादेशे ‘°अपित् ' ( पा. सू. १. २. ४ ) इति प्रतिषेधात् अङित्वात् अनुनासिकलोपाभावः । तिङ्ङतिङः' इति निघातः । ‘ञित्वरा संभ्रमे इति धातोः त्वरन्ते इति तूर्णयः। ‘निः' इत्यनुवृत्तौ ‘वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्’ (उ.सू.४.४९१) इति निप्रत्ययः । नित्त्वादाद्युदात्तः। उस्रा इव इत्यत्र ‘इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च ' ( पा. सू. २. १. ४. २) इति समासे पूर्वपदप्रकृतिस्वरत्वं नित्यम् । सरतीति सरः सूर्यः । पचाद्यच् । स्वः सरो येषां तानि स्वसराणि अहानि ।' बहुव्रीहौ प्रकृत्या पूर्वपदम्' (पा. सू. ६. २. १) इति स्वशब्द आद्युदात्तः ॥
“May the swift-moving universal Gods, the shedders of rain, come to the libation, as the solar rays come diligently tot he days.”
Ye Visvedevas, swift at work, come hither quickly to the draught,
As milch-kine hasten to their stalls.
The All Gods crossing the waters—come here to the pressed soma!— like ruddy (cows) to good pastures.
Ihr Götter alle, rasch im Werk, kommt eilend zu dem Soma her, Wie Kühe in die Ställe gehn.
Ihr Allgötter, kommet die Gewässer überschreitend eilig zum Soma wie die Kühe zur Frühweide!
О Все-Боги, пересекающие воды,
Придите, быстрые, к выжатому (соме),
Как коровы – на пастбища!
विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुह॑: । मेधं॑ जुषन्त॒ वह्न॑यः ॥
विश्वे॑ । दे॒वासः॑ । अ॒स्रिधः॑ । एहि॑ऽमायासः । अ॒द्रुहः॑ । मेध॑म् । जु॒ष॒न्त॒ । वह्न॑यः ॥
विश्वे देवासः एतन्नामका देवविशेषाः मेधं हविर्यज्ञसंबद्धं जुषन्त सेवन्ताम् । कीदृशाः । अस्रिधः क्षयरहिताः शोषरहिता वा। एहिमायासः सर्वतो व्याप्तप्रज्ञाः। यद्वा । सौचीकमग्निमप्सु प्रविष्टम् ‘एहि मा यासीः' इति यदवोचन् तदनुकरणहेतुकोऽयं विश्वेषां देवानां व्यपदेश एहिमायास इति । अद्रुहः द्रोहरहिताः वह्नयः वोढारो धनानां प्रापयितारः ॥ अस्रिधः। स्रिधेः क्षयार्थस्य शोषणार्थस्य वा संपदादिभ्यो भावे क्विपि (पा. सू. ३. ३. १०८. ९) नञा बहुव्रीहिः पूर्वपदप्रकृतिस्वरं बाधित्वा ‘नञ्सुभ्याम् ' (पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । एहिमायासः । ‘ईह चेष्टायाम् ॥ आ समन्तात् ईहते इति एहिः । ‘इन् ' ( उ. सू. ४. ५५७ ) इति सर्वधातुसाधारण इन्प्रत्ययो नित्त्वादाद्युदात्तः । एहिः माया प्रज्ञा येषामिति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अथवा । आङ उदात्तादुत्तरस्य इहीति लोण्मध्यमैकवचनस्य ‘तिङ्ङतिङः' इति निघातः । ‘एकादेश उदात्तेनोदात्तः ' ( पा. सू. ८, २. ५) इत्येकार उदात्तः । एहीत्येतत् पदयुक्तं ‘मा यासीः' इत्यत्र ‘माया' इत्यक्षरद्वयं येषां ते एहिमायासः । पूर्वपदप्रकृतिस्वरः। अद्रुहः । द्रुह जिघांसायाम् । संपदादित्वाद्भावे क्विपि बहुव्रीहौ ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । मेधम् । ‘मेधृ संगमे च । मेध्यते देवैः संगम्यते इति मेधं हविः। कर्मणि घञ् । ञित्वादाद्युदात्तः । जुषन्त। सेवन्तामित्यर्थे ‘छन्दसि लुङ्लङ्लिटः ' ( पा. सू. ३. ४. ६) इति धातुसंबन्धे लङ् । यत उक्तरूपा विश्वे देवा अतो जुषन्त इति द्रुहादिधात्वर्थैः संबन्धात् ‘बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा. सू. ६. ४.७५) इत्यडागमाभावः । वह्नयः। ‘निः' इत्यनुवृत्तौ ‘वहिश्रि' इत्यादिना विहितस्य निप्रत्ययस्य नित्त्वादाद्युदात्तत्वम् ॥
“May the universal Gods, who are exempt from decay, omniscient, devoid of malice, and bearers of (riches), accept the sacrifice.”
The Visvedevas, changing shape like serpents, fearless, void of guile,
Bearers, accept the sacred draught
The All Gods—unfailing, undeceiving, (with the byword) “come, don’t go!”—
enjoy the ritual offering as its conveyors.
Die vielgestalt'gen Götter all, die holden, treuen, fahrenden, Sie mögen nehmen nun den Trank.
Ihr Allgötter, ohne Fehl, willkommen und ungern fortgelassen, ohne Falsch, sollen den Lebenssaft genießen, die Wagenführer.
Все-Боги, беспорочные,
Желанные, благосклонные,
Пусть насладятся возницы жертвенным напитком!
पा॒व॒का न॒: सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥
पा॒व॒का । नः॒ । सर॑स्वती । वाजे॑भिः । वा॒जिनी॑ऽवती । य॒ज्ञम् । व॒ष्टु॒ । धि॒याऽव॑सुः ॥
सरस्वती देवी वाजेभिः हविर्लक्षणैरन्नैर्निमित्तभूतैः । यद्वा । यजमानेभ्यो दातव्यैरन्नैर्निमित्तभूतैः । नः अस्मदीयं यज्ञं वष्टु कामयताम् । कामयित्वा च निर्वहत्वित्यर्थः । तथा चारण्यककाण्डे श्रुत्यैव व्याख्यातं -- यज्ञं वष्ट्विति यदाह यज्ञं वहत्वित्येव तदाह' (ऐ. आ. १. १. ४ ) इति । कीदृशी सरस्वती ।“पावका शोधयित्री वाजिनीवती अन्नवत्क्रियावती 'धियावसुः कर्मप्राप्यधननिमित्तभूता । वाग्देवतायास्तथाविधं धननिमित्तत्वमारण्यककाण्डे श्रुत्या व्याख्यातं-यज्ञं वष्टु धियावसुरिति वाग्वै धियावसुः । ( ऐ. आ. १. १. ४ ) इति । ‘श्येनः सोमः' इत्यादिषु पञ्चत्रिंशत्संख्याकेषु देवताविशेषवाचिषु पदेषु ‘सरमा सरस्वती ' (नि. ५. ५. १८) इति पठितम् । एतामृचं यास्क एवं व्याचष्टे- पावका नः सरस्वत्यन्नैरन्नवती यज्ञं वष्टु धियावसुः कर्मवसुः' (निरु. ११.२६ ) इति॥ पवनं पावः शुद्धिः । पावं कायतीति पावका । ‘कै गै रै शब्दे ' । 'आतोऽनुपसर्गे कः' (पा. सू. ३. २, ३) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वेनान्तोदात्तत्वम् । यद्वा । पुनातीत्यर्थे ष्वुलि ‘प्रत्ययस्थात्कारपूर्वस्यात इदाप्यसुपः ' (पा. सू. ७. ३. ४४ ) इति इत्वस्याभावोऽन्तोदात्तत्वं च छान्दसं द्रष्टव्यम् । सरःशब्द सर्तेः असुनन्तत्वादाद्युदात्तः । मतुप्ङीपोः पित्त्वादनुदात्तत्वम् । वाजेभिः । वाजशब्दो वृषादित्वात् (पा. सू. ६. १. २०३ ) आद्युदात्तः । स हि अवृत्कृतत्वात् आकृतिगणः । वाजोऽन्नमास्विति वाजिन्यः क्रियाः । अत इनिठनौ ' ( पा. सू. ५. २. ११५) इति इनिप्रत्ययः । ताः क्रिया यस्याः सन्ति सा सरस्वती वाजिनीवती । ‘छन्दसीरः ' (पा. सू. ८. २. १५) इति मतुपो वत्वम् । मतुप्ङीपोः पित्त्वेनानुदात्तत्वात् इनेः प्रत्ययाद्युदात्तत्वमेव शिष्यते । यज्ञम् ।' यजयाच' (पा. सू. ३. ३. ९० ) इत्यादिना नङ्प्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । वष्टु ।' वश कान्तौ । कान्तिरभिलाषः । ‘अदिप्रभृतिभ्यः शपः' (पा. सू. २. ४. ७२ ) इति शपो लुक् । निघातः । धियावसुः । धिया कर्मणा वसु यस्याः सकाशाद्भवति सा धियावसुः । ‘सावेकाचः०' (पा. सू. ६. १. १६८) इति विभक्तिरुदात्ता । ‘ बहुव्रीहौ प्रकृत्या पूर्वपदम् ' (पा. सू. ६. २. १) इति विभक्तिस्वर एव शिष्यते । छन्दसस्तृतीयाया अलुक् ॥
“May Sarasvatī, the purifier, the bestower of food, the recompenser of worship with wealth, be attracted by our offered viands to our rite.”
Wealthy in spoil, enriched with hymns, may bright Sarasvati desire,
With eager love, our sacrifice.
Let pure Sarasvatī, providing prize mares along with prizes,
be eager for our sacrifice, bringing goods through her insight.
Die glänzende Sarasvati, durch unsre Labung labungsreich, Begehr das Opfer eifervolL
Die lautere Sarasvati, an Belohnungen reiche, soll nach unserem Opfer verlangen, die durch Weisheit Schätze gewinnt.
Чистая Сарасвати,
Награждающая наградами,
Да возжелает жертвы нашей, мыслью добывающая богатство!
चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती ॥
चो॒द॒यि॒त्री । सू॒नृता॑नाम् । चेत॑न्ती । सु॒ऽम॒ती॒नाम् । य॒ज्ञम् । द॒धे॒ । सर॑स्वती ॥
या सरस्वती सेयमिमं यज्ञं दधे धारितवती । कीदृशी । सूनृतानां प्रियाणां सत्यवाक्यानां चोदयित्री प्रेरयित्री । सुमतीनां शोभनबुद्धियुक्तानामनुष्ठातॄणां चेतन्ती तदीयमनुष्ठेयं ज्ञापयन्ती ॥ चोदयित्री।चुद प्रेरणे'। ण्यन्तात् तृच् । चित्त्वादन्तोदात्तः । ‘ऋन्नेभ्यो ङीप्' (पा. सू. ४. १.५) इति ङीप् । तस्य ‘ उदात्तयणो हल्पूर्वात् ' (पा. सू. ६. १. १७४ ) इत्युदात्तत्वम् । सूनृतानाम् ।' उने परिहाणे' इत्यतः ‘ क्विप् च' (पा. सू. ३. २. ७६ ) इति क्विपि सुतराम् ऊनयति अप्रियम् इति सून् इति प्रियमुच्यते । तच्च तदृतं सत्यं चेति सूनृतम् । परादिश्छन्दसि बहुलम्' (पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वम् । चेतन्ती । ‘चिती संज्ञाने '। अत्र शपो ङीपश्च पित्त्वादनुदात्तत्वम् । शतुश्च अदुपदेशात् लसार्वधातुकस्वरेणानुदात्तत्वम् । धात्वन्तस्वर एव शिष्यते । सुमतिशब्दस्य मतुपि ह्रस्वत्वात् “ नामन्यतरस्याम् ' (प. सू. ६. १. १७७ ) इति विभक्तेरुदात्तत्वम् ॥
“Sarasvatī, the inspirer of those who delight in truth, the instrumental uctress of the right-minded, has accepted our sacrifice.”
Inciter of all pleasant songs, inspirer o all gracious thought,
Sarasvati accept our rite
The impeller of liberal gifts, taking note of good thoughts,
Sarasvatī has received our sacrifice.
Sarasvati, die Lieder weckt und achtet anf den Lobgesang, Nahm unser Opfer gnädig an.
Schenkungen anregend, auf Wohlwollen bedacht, hat Sarasvati das Opfer angenommen.
Побуждающая к богатым дарам,
Настроенная на благодеяния,
Сарасвати приняла жертву.
म॒हो अर्ण॒: सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ । धियो॒ विश्वा॒ वि रा॑जति ॥
म॒हः । अर्णः॑ । सर॑स्वती । प्र । चे॒त॒य॒ति॒ । के॒तुना॑ । धियः॑ । विश्वाः॑ । वि । रा॒ज॒ति॒ ॥
द्विविधा हि सरस्वती विग्रहवद्देवता नदीरूपा च । तत्र पूर्वाभ्यामृग्भ्यां विग्रहवती प्रतिपादिता । अनया तु नदीरूपा प्रतिपाद्यते। तादृशी सरस्वती केतुना कर्मणा प्रवाहरूपेण महो अर्णः प्रभूतमुदकं प्र चेतयति प्रकर्षेण ज्ञापयति । किं च स्वकीयेन देवतारूपेण विश्वाः धियः सर्वाण्यनुष्ठातृप्रज्ञानानि वि राजति विशेषेण दीपयति । अनुष्ठानविषया बुद्धीः सर्वदोत्पादयतीत्यर्थः । सरस्वत्या द्विरूपत्वं यास्को दर्शयति-’तत्र सरस्वतीत्येतस्य नदीवद्देवतावच्च निगमा भवन्ति' ( निरु. २. २३ ) इति । एकशतसंख्याकेषूदकनामसु ' अर्णः क्षोदः ' ( नि. १. १२. १ ) इति पठितम् । एतामृचं यास्को व्याचष्ट--’महदर्णः सरस्वती प्रचेतयति प्रज्ञापयति केतुना कर्मणा प्रज्ञया वेमानि च सर्वाणि प्रज्ञानान्यभिविराजति' (निरु. ११. २७ ) इति ॥ महो अर्णः। महदिति तकारस्य व्यत्ययेन सकारः। तस्य रुत्वोत्वगुणाः। प्रातिपदिकस्वरेणान्तोदात्तः । ‘एङः पदान्तादति ' ( पा. सू. ६. १. १०९ ) इति पूर्वरूपे प्राप्ते ‘प्रकृत्यान्तःपादमव्यपरे' (पा. सू. ६. १. ११५) इति प्रकृतिभावः । अर्ति इत्यर्णः । ‘उदके नुट् च ' ( उ. सू. ४. ६३६ ) इत्यसुन्प्रत्ययो नुडागमश्च । केतुना । प्रातिपदिकस्वरेणान्तोदात्तः । विश्वाः । विश्वशब्दः क्वन्प्रत्ययान्त आद्युदात्तः ॥ ॥ ६ ॥ ॥ १ ॥
“Sarasvatī, makes manifest by her acts a mighty river, and (in her own form) enlightens all understandings.”
Sarasvati, the mighty flood,--she with be light illuminates,
She brightens every pious thought.
Her great flood does Sarasvatī reveal with her beacon.
She rules over all insights.
Die grosse Meeresflut erhellt Sarasvati mit ihrem Licht, Und lenket jedes Andachtswerk.
Mit ihrem Banner offenbart Sarasvati ihr große Wasserflut; sie beherrscht alle frommen Gedanken.
Великий поток освещает
Сарасвати (своим) знаменем.
Она господствует надо всеми молитвами.