आ व॒ इन्द्रं॒ क्रिविं॑ यथा वाज॒यन्त॑: श॒तक्र॑तुम् । मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ॥
आ । वः॒ । इन्द्र॑म् । क्रिवि॑म् । य॒था॒ । वा॒ज॒ऽयन्तः॑ । श॒तऽक्र॑तुम् । मंहि॑ष्ठं सि॒ञ्चे॒ । इन्दु॑ऽभिः ॥
वाजयन्तः अन्नमिच्छन्तो वयं शुनःशेपाः हे ऋत्विग्यजमानाः वः युष्माकं संबन्धिनमिमम् इन्द्रम् इन्दुभिः सोमैः आ सिञ्चे सर्वतः सिञ्चामहे तर्पयामः । कीदृशम् । शतक्रतुं शतसंख्याककर्मोपेतं मंहिष्ठम् अतिशयेन प्रवृद्धम् । सेचने दृष्टान्तः । यथा येन प्रकारेण क्रिविम् अवटं जलेन पूरयन्ति तद्वत् । क्रिविशब्दः ‘वव्रिः काटुः' इत्यादिषु चतुर्दशसु कूपनामसु क्रिविः कूपः सूदः' (नि. ३. २३. ८ ) इति पठितम् ॥ क्रिविम् । ‘कृती छेदने । कृत्यते इति क्रित्विः । ‘क्रिविघृष्विच्छविस्थवि ' ( उ. सू. ४. ४९६ ) इत्यादौ किन्प्रत्ययान्तो निपातितः । अत एव तशब्दलोपः । नित्त्वादाद्युदात्तत्वम् । यथा । ‘यथेति पादान्ते' इति सर्वानुदात्तत्वम् । वाजयन्तः । वाजमात्मन इच्छन्तः । ‘सुप आत्मनः क्यच् । न च्छन्दस्यपुत्रस्य ' इति ईत्वदीर्घत्वयोर्निषेधः, ‘अश्वाघस्यात्' इति पुनदीर्घविधानात् ज्ञापकात् । मंहिष्ठम् । महि वृद्धौ । अतिशयेन मंहिता मंहिष्ठः । ‘तुश्छन्दसि' (पा. सू. ५, ३. ५९ ) इति तृजन्तात् इष्ठन्प्रत्ययः । तुरिष्ठेमेयःसु ' (पा. सू. ६. ४. १५४) इति तृलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । सिञ्चे । ' षिचिर् क्षरणे'। व्यत्ययेन एकवचनम् । ‘शे मुचादीनाम्' इति नुमागमः ॥
“Let us, who are desirous of food, satisfy this your Indra, who is mighty, and of a hundred sacrifices, with drops (of Soma juice), as a well (is filled)(with water).”
WE seeking strength with Soma-drops fill full your Indra like a well,
Most liberal, Lord of Hundred Powers,
As (we) seek the victory prize for you, with (soma) drops I sprinkle Indra like a blood-red (horse)—
most bounteous (Indra) of a hundred resolves.
Wie Labungsreiche einen Schlauch, netz' euren mächt'gen Indra ich, Mit Indu's ihn, der reichlich schenkt.
Indem wir euren ratreichen Indra wie einen Falben anspornen, begieße ich den Freigebigsten mit Somagüssen.
Когда для вас Индру, как рыжего (жеребца)
Мы подгоняем, стоумного,
Я поливаю самого щедрого соками сомы.
श॒तं वा॒ यः शुची॑नां स॒हस्रं॑ वा॒ समा॑शिराम् । एदु॑ नि॒म्नं न री॑यते ॥
श॒तम् । वा॒ । यः । शुची॑नाम् । स॒हस्र॑म् । वा॒ । सम्ऽआ॑शिराम् । आ । इत् । ऊँ॒ इति॑ । नि॒म्नम् । न । री॒य॒ते॒ ॥
यः इन्द्रः शुचीनां शुद्धानां सोमानां शतं वा शतसंख्याकं समूह वा समाशिरां समीचीनेन आशिराख्येन श्रपणद्रव्येणोपेतानां सोमानां सहस्रं वा सहस्रसंख्याकं समूहं वा एदु रीयते आगच्छत्येव । सोऽस्माननुगृह्णात्विति शेषः । सोमप्राप्तौ दृष्टान्तः । निम्नं न । यथा निन्नप्रदेशम् आपः आप्नुवन्ति तद्वत् ॥ समाशिराम् । ‘श्रीञ् पाके' इत्यस्य समाङ्पूर्वस्य क्विपि 'अपस्पृधेथाम् । इत्यादौ आशीरादेशो' निपातितः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । रीयते । ‘रीङ् श्रवणे'। दिवादिभ्यः श्यन्' ।
“May he who is (the recipient) of a hundred pure, and of a thousand distilled, (libations), come (to the rite), as water to low (plural ces).”
Who lets a hundred of the pure, a thousand of the milk-blent draughts
Flow, even as down a depth, to him;
The (soma), which is a hundred pure (draughts) or a thousand mixed with milk,
flows here as if into the deep.
Der hundert- oder tausendfach das Milchgebräu in sich hinein Wie in die Tiefe strömen lässt.
Der hundert Spenden des reinen oder tausend des milchgemischten Soma trinkt. Er rinnt wie Wasser in die Tiefe.
Кто – или сто чистых (струй),
Или тысяча смешанных с молоком,
(Тот) стекает, как (река), в низину.
सं यन्मदा॑य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे॑ । स॒मु॒द्रो न व्यचो॑ द॒धे ॥
सम् । यत् । मदा॑य । शु॒ष्मिणे॑ । ए॒ना । हि । अ॒स्य॒ । उ॒दरे॑ । स॒मु॒द्रः । न । व्यचः॑ । द॒धे ॥
यत् पूर्वोक्तं शतं सहस्रं वा शुष्मिणे बलवत इन्द्रस्य मदाय मदार्थं संगतं भवति । एना हि अनेनैव शतेन सहस्रेण च अस्य इन्द्रस्य उदरे व्यचः व्याप्तिः दधे धृता भवति । तत्र दृष्टान्तः । समुद्रो न समुद्र इव । यथा समुद्रमध्ये जलं व्याप्तं तद्वत् ॥ एना । ‘सुपां सुलुक्' इति तृतीयायाः डादेशः । व्यचः । व्यचेः कुटादित्वमनसि ' ( का. १. २. १. १ ) इति ङिद्वद्भावस्य प्रतिषिद्धत्वात् ' ग्रहिज्या° ' इत्यादिना संप्रसारणं न भवति । असुनो नित्त्वादाद्युदात्तत्वम् । दधे । दधातेः कर्मणि अभ्यासह्रस्वजश्त्वेषु कृतेषु ' आतो लोप इटि च' इति आकारलोपः । प्रत्ययस्वरेणान्तोदात्तत्वम् । ' हि च' इति प्रतिषेधात् निघाताभावः ॥
“All which (libations), being accusative ulated for the gratification of the powerful Indra, is contained in his belly, as water in the ocean.”
When for the strong, the rapturous joy he in this manner hath made room
Within his belly, like the sea.
When they come together for the exhilaration of the tempestuous one, just by that in his belly
he acquires an expanse like the sea.
Wenn sie zusammenströmen dann in seinen Bauch zu kräft'gen Rausch, Dann wird sein Umfang wie ein Meer.
Wenn sie zu heftigem Rausche zusammenströmen, so bekommt er ja dadurch in seinem Bauch einen Umfang wie das Meer.
Когда эти (соки) с(ливаются)
Для мощного опьянения у него в животе,
(Индра) становится широким, как океан.
अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् । वच॒स्तच्चि॑न्न ओहसे ॥
अ॒यम् । ऊँम् इति॑ । ते॒ । सम् । अ॒त॒सि॒ । क॒पोतः॑ऽइव । ग॒र्भ॒ऽधिम् । वचः॑ । तत् । चि॒त् । नः॒ । ओ॒ह॒से॒ ॥
हे इन्द्र अयमु अयमपि दृश्यमानः सोमः ते त्वदर्थं संपादितः । यं सोमं समतसि सम्यक् सातत्येन प्राप्नोषि । तत्र दृष्टान्तः । कपोतइव। यथा कपोताख्यः पक्षी गर्भधिं गर्भधारिणीं कपोतीं प्राप्नोति तद्वत् । तच्चित् तस्मादेव कारणात् नः अस्मदीयं वचः ओहसे प्राप्नोषि ॥ अतसि। ‘अत सातत्यगमने '। कपोतइव । 'कबेरोतच् पश्च' ( उ. सू. १. ६२ ) इति ओतच् । व्यत्ययेन मध्योदात्तः । गर्भधिम् । गर्भोऽस्यां धीयते इति गर्भधिः । 'कर्मण्यधिकरणे च' (पा. सू. ३. ३. ३९ ) इति किप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ओहसे । ‘तुहिर् दुहिर् उहिर् अर्दने' । व्यत्ययेन आत्मनेपदम् ॥
“This libation is (prepared) for you; you approach it as a pigeon his pregnant (mate), for on that account do you accept our prayer.”
This is thine own. Thou drawest near, as turns a pigeon to his mate:
Thou carest too for this our prayer.
This (soma) here is yours: you rush to it like a dove to its nest.
I shall also solemnly proclaim this speech of ours.
Hier steht der Trank, du gehst drauf los, gleich wie der Täubrich auf sein Nest; Beachte recht dies unser Wort.
Dieser Soma ist dein. Du schießest darauf los wie der Täuberich auf sein Weibchen. Diese Rede von uns weißt du gewiß zu würdigen.
Вот он твой. Ты кидаешься (к нему),
Как голубь – к гнезду.
Эту речь нашу ты, конечно, заметишь.
स्तो॒त्रं रा॑धानां पते॒ गिर्वा॑हो वीर॒ यस्य॑ ते । विभू॑तिरस्तु सू॒नृता॑ ॥
स्तो॒त्रम् । रा॒धा॒ना॒म् । प॒ते॒ । गिर्वा॑हः । वी॒र॒ । यस्य॑ । ते॒ । विऽभू॑तिः । अ॒स्तु॒ । सु॒नृता॑ ॥
हे इन्द्र राधानां पते धनानां पालक गिर्वाहः गीर्भिरुह्यमान वीर शौर्योपेत यस्य ते तव स्तोत्रम् ईदृशं भवति तस्य तव विभूतिः लक्ष्मीः सूनृता प्रियसत्यरूपा अस्तु ॥ स्तोत्रम् । दाम्नीशस ' ( पा. सू. ३. २. १८२ ) इति ष्ट्रन् । पश्चात् अर्शआद्यच् । अथवा स्तोतुरिदमित्यर्थे अण् । ‘संज्ञापूर्वको विधिरनित्यः' इति वृद्धिर्न । राधानां पते । राध्नुवन्ति एभिरिति राधानि धनानि । ‘सुबामन्त्रिते' ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य निघातः । गिर्वाहः । वह प्रापणे'। ‘वहिहाधाञ्भ्यश्छन्दसि' इति कारकपूर्वस्यापि वहतेः असुन्प्रत्ययः, ‘गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं' च इति उक्तत्वात् । णित्' इत्यनुवृत्तेः उपधावृद्धिः । पूर्वपदस्य • र्वोरुपधायाः' (पा. सू. ८. २. ७६ ) इति दीर्घस्याभावश्छान्दसः । षाष्ठिकम् आमन्त्रिताद्युदात्तत्वम् । विभूतिः । ‘तादौ च निति° ' इति गतेः प्रकृतिस्वरत्वम् ॥ ॥ २८ ॥
“Hero, Indra, lord of affluence, accepter of praise, may genitive ine prosperity be (the reward of him) who offers you laudation.”
O Hero, Lord of Bounties, praised in hymns, may power and joyfulness
Be his who sings the laud to thee.
You whose praise song it is—o lord of bounties, o hero whose vehicle is songs—
let your liberality be extensive.
Wer dir, o liedumtönter Held, o Herr der Schätze, Lieder singt, Dem werde hohes Glück zu Theil.
Du Held, für den das Preislied ist, du Herr der Gaben, für den die Lobrede eine Anziehung ist, deine Großmut soll ausgiebig sein.
(О ты,) кому восхваление, о господин дарений,
О герой, взнуздывающий хвалебную песнь,
Да будет обширным твое благоволение!
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे॑ शतक्रतो । सम॒न्येषु॑ ब्रवावहै ॥
ऊ॒र्ध्वः । ति॒ष्ठ॒ । नः॒ । ऊ॒तये॑ । अ॒स्मिन् । वाजे॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । सम् । अ॒न्येषु॑ । ब्र॒वा॒व॒है॒ ॥
हे शतक्रतो शतसंख्याककर्मोपेत अस्मिन् प्रसक्ते वाजे संग्रामे नः अस्माकम् ऊतये रक्षणाय ऊर्ध्वः उन्नतः उत्सुकः तिष्ठ भव । त्वं च अहं च मिलित्वा अन्येषु कार्यान्तरेषु सं ब्रवावहै। सम्यक् विचारयावः ॥ तिष्ठ । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः। ऊतये । ‘ऊतियूति इत्यादिना क्तिन उदात्तत्वम् । अस्मिन् ।' उडिदम्' इत्यादिना सप्तम्या उदात्तत्वम् ॥
“Rise up, Śatakratu, for our defence in this conflict; we will talk together in other matters.”
Lord of a Hundred Powers, stand up to lend us succour in this fight
In others too let us agree.
Stand erect to help us at this prize-contest, o you of a hundred resolves. Let us make pledge to each other at the other (contests).
Erhebe dich zu unserm Schutz in dieser Schlacht, vielwirkender, In andern auch gesell dich mir.
Steh aufrecht uns zum Beistand bei diesem Entscheidungskampf, du Ratreicher ! Über die andern wollen wir beide uns noch verständigen.
Стой прямо нам для помощи
В состязании за эту награду, о стоумный!
Мы хотим сговориться (и) об остальных!
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
योगे॑ऽयोगे । त॒वःऽत॑रम् । वाजे॑ऽवाजे । ह॒वा॒म॒हे॒ । सखा॑यः । इन्द्र॑म् । ऊ॒तये॑ ॥
योगेयोगे प्रवेशेप्रवेशे तत्तत्कर्मोपक्रमे वाजेवाजे कर्मविघातिनि तस्मिंस्तस्मिन् संग्रामे तवस्तरम् अतिशयेन बलिनम् इन्द्रमूतये रक्षार्थं सखायः सखिवत् प्रिया वयं हवामहे आह्वयामः ॥ योगेयोगे ।' युजिर् योगे'। हलश्च ' इति घञ् । 'चजोः कु घिण्ण्यतोः ( पा. सू. ७. ३.५२) इति कुत्वम् । घञो ञित्त्वादाद्युदात्तत्वम् । नित्यवीप्सयोः' इति वीप्सायां द्विर्भावे सति आम्रेडितानुदात्तत्वम् । तवस्तरम्। तवसः शब्दात् ‘ अस्मायामेधा° ' ( पा. सू. ५, २. १२१ ) इति मत्वर्थीयो विनिः । तस्य च्छान्दसो लोपः ॥
“On every occasion, in every engagement, we invoke as friends the most powerful Indra for our defence.”
In every need, in every fray we call as friends to succour us
Indra the mightiest of all.
At every hitching up (for battle), at every prize-contest we call to the more powerful one—
as his comrades (we call) to Indra for help.
In jeder Arbeit, jedem Kampf, o Freunde, rufen Indra wir, Den kräftigsten zur Hülfe her.
Indra, der bei jedem Unternehmen der Stärkere ist, bei jedem Entscheidungskampf, ihn rufen wir Genossen zum Beistand.
В каждом деле все более сильного, в каждом (состязании) за награду,
Индру мы призываем
Как друзья – на помощь.
आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभि॑: । वाजे॑भि॒रुप॑ नो॒ हव॑म् ॥
आ । घ॒ । ग॒म॒त् । यदि॑ । श्रव॑त् । स॒ह॒स्रिणी॑भिः । ऊ॒तिऽभिः॑ । वाजे॑भिः । उप॑ । नः॒ । हव॑म् ॥
यदि श्रवत् यद्ययम् इन्द्रः नः अस्मदीयं हवम् आह्वानं शृणुयात् तदानीं स्वयमेव सहस्रिणीभिरूतिभिः बहुभिः पालनैः वाजेभिः अन्नैश्च सह उप समीपे आ घ अवश्यम् आगमत आगच्छेत् ॥ घ।' ऋचि तुनुघ' ' इत्यादिना संहितायां दीर्घः । गमत् । ‘लिङर्थे लेट् । 'लेटोऽडाटौ' इतिअडागमः। इतश्च लोपः०' इति इकारलोपः। यद्वा । छान्दसे लुङि • पुषादिद्युताद्यलृदितः परस्मैपदेषु (पा. सू. ३. १. ५५) इति च्लेः अङादेशः । ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडभावः । श्रवत् । ‘श्रु श्रवणे' । पूर्ववत् लेटि अडागमः। वाजेभिः । ‘बहुलं छन्दसि' इति भिस ऐसादेशाभावः । हवम् । ‘भावेऽनुपसर्गस्य' इति हृयतेः अप् संप्रसारणं च । अपः पित्त्वानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् ॥
“If he hear our invocation, let him indeed come to us with numerous bounties, and with (abundant) food.”
If he will hear us let him come with succour of a thousand kinds,
And all that strengthens, to our call.
Surely he will come—when he will hear it—with his thousandfold forms of help,
with the victory prizes, to our call.
Er komme, wenn er auf uns hört, mit tausendfachen Hülfen her, Mit Kräften her auf unsern Ruf.
Er komme doch, wenn er es hört, mit seinen tausendfältigen Hilfen, mit den Siegergewinnen auf unseren Ruf.
Пусть же придет он, если услышит,
С поддержками тысячи родов,
С наградами на наш зов.
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म् । यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥
अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । हु॒वे । तु॒वि॒ऽप्र॒तिम् । नर॑म् । यम् । ते॒ । पूर्व॑म् । पि॒ता । हु॒वे ॥
प्रत्नस्य पुरातनस्य ओकसः स्थानस्य स्वर्गरूपस्य सकाशात् तुविप्रतिं बहून् यजमानान् प्रतिगन्तारं नरं पुरुषम् इन्द्रम् अनु हुवे अनुक्रमेण कर्मसु आह्वयामि । यं ते त्वाम् इन्द्रं पिता अस्मदीयो जनकः पूर्वं पुरा स्वकीयानुष्ठानकाले हुवे आहूतवान् । तम् आह्वयामीति पूर्वत्रान्वयः॥ ओकसः । ‘नब्विषयस्य' इत्याद्युदात्तत्वम् । हुवे । ह्वेञ् स्पर्धायां शब्दे च'। इटि ‘बहुलं छन्दसि' इति संप्रसारणं परपूर्वत्वम् । गुणे प्राप्ते ‘क्ङिति च ' इति प्रतिषेधः । उवङादेशः । प्रत्ययस्वरेणान्तोदात्तत्वम् । पादादित्वादनिघातः । तुविप्रतिम् । तुवीनां बहूनां प्रतिगन्तारम् । अत्र प्रतिशब्दो भीमसेनो भीम इतिवत् प्रतिगन्तृशब्दं लक्षयित्वा तद्द्वारा तदर्थं लक्षयति । अतः ‘प्रतिः प्रतिनिधिप्रतिदानयोः' (पा. सू. १. ४. ९२ ) इतिवत् सत्ववचनत्वेन अनिपातत्वात् अनन्ययत्वे ‘पूरणगुण' (पा. सू. २. २. ११) इत्यादिना न षष्ठीसमासनिषेधः । हुवे । ह्वेञो लिटि ‘बहुलं छन्दसि' इति पूर्ववत् संप्रसारणपरपूर्वत्वे। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् ' ( पा. सू. ६. १. ८. २ ) इति द्विर्वचनाभावः । यद्वृत्तयोगादनिघातः ॥
“I invoke the man (Indra), who visits many worshippers from his ancient dwelling-plural ce--you, Indra, whom my father formerly invoked.”
I call him mighty to resist, the Hero of our ancient home,
Thee whom my sire invoked of old.
Following the (custom) of your ancient house, I call upon the excellent man, powerful in opposition,
upon whom your father before called.
Dich Herrn der alten Heimat ruf' ich an, der vielen widersteht, Und den zuvor mein Vater rief.
Ich rufe nach alter Gewohnheit den Herrn, der viel aufwiegt, den früher dein Vater rief.
По давней привычке
Зову я мужа, сильного сопротивлением,
Кого раньше звал твой отец.
तं त्वा॑ व॒यं वि॑श्ववा॒रा शा॑स्महे पुरुहूत । सखे॑ वसो जरि॒तृभ्य॑: ॥
तम् । त्वा॒ । व॒यम् । वि॒श्व॒ऽवा॒र॒ । आ । शा॒स्म॒हे॒ । पु॒रु॒ऽहू॒त॒ । सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥
हे विश्ववार सर्वैर्वरणीय पुरुहूत बहुभिः स्वस्वकर्मण्याहूत सखे सखिवत् प्रिय वसो निवासहेतो इन्द्र तं पूर्वोक्तगुणयुक्तं त्वां जरितृभ्यः स्तोतॄणामनुग्रहार्थम् आ शास्महे प्रार्थयामहे ॥ आ शास्महे । ‘आङः शासु इच्छायाम्'। ‘अदिप्रभृतिभ्यः शपः' इति शपो लुक् । वसो । ‘नामन्त्रिते समानाधिकरणे ' इति पूर्वस्य अविद्यमानवत्त्वनिषेधात् पराङ्गवद्भावे सति शेषनिघातेन वा आमन्त्रितस्य च ' इति वा सर्वानुदात्तत्वम् । जरितृभ्यः । जरतिः स्तुतिकर्मा । तृचश्चित्त्वादन्तोदात्तत्वम् ॥ ॥ २९ ॥
“We implore you as our friend, who are preferred and invoked by all, (to be favourable) to your worshippers, protector of dwellings.”
We pray to thee, O much-invoked, rich in all precious gifts, O Friend,
Kind God to those who sing thy praise.
We hope for you, o much-called-upon granter of all requests, o good comrade for the singers—
Dich flehn wir, vielgerufener, an allen Gaben reicher, an, Den Sängern du ein holder Freund.
Dich erbitten wir, du allbegehrter, vielgerufener, guter Genosse der Sänger;
К тебе мы обращаемся,
О обладатель всего лучшего, о многопризываемый,
О друг, о Васу, – с нашими певцами.
अ॒स्माकं॑ शि॒प्रिणी॑नां॒ सोम॑पाः सोम॒पाव्ना॑म् । सखे॑ वज्रि॒न्त्सखी॑नाम् ॥
अ॒स्माक॑म् । शि॒प्रिणी॑नाम् । सोम॑ऽपाः । सो॒म॒ऽपाव्ना॑म् । सखे॑ । व॒ज्रि॒न् । सखी॑नाम् ॥
हे सोमपाः सोमस्य पातः सखे सखिवत् प्रिय वज्रिन् वज्रयुक्तेन्द्र सखीनां सखिवत् प्रियाणां सोमपाव्नां सोमस्य पातॄणाम् अस्माकं शिप्रिणीनां दीर्घाभ्यां हनूभ्यां नासिकाभ्यां वा युक्तानां गवां समूहः स्वरप्रसादादस्त्विति शेषः ॥ शिप्रिणीनाम् ।' ऋन्नेभ्यो ङीप्' इति ङीप् । तस्य पित्वादनुदात्तत्वे सति प्रत्ययस्वरः शिष्यते । सोमपाः। आमन्त्रितस्य सतिशिष्टत्वात् आमन्त्रिताद्युदात्तत्वम्। सोमपाव्नाम् । ‘आतो मनिन् ' इत्यादिना वनिप् ।' अल्लोपोऽनः ' ( पा. सू. ६. ४. १३४ ) इति अनः अकारस्य लोपः ॥
“Drinker of Soma juice, wielder of the thunderbolt, O friend, (bestow upon) us, your friends, and drinkers of the Soma juice, (abundance of cows) with projecting jaws. (śipirṇīnām, genitive plural of the feminine nine śipriṇī, having a nose of a jaw; hence gavām and samūha (of cows and a herd) are added].”
O Soma-drinker, Thunder-armed, Friend of our lovely-featured dames
And of our Soma-drinking friends.
O soma-drinker among us (well-)lipped soma-drinkers,
o mace-wielding comrade among (us, your) comrades.
Du Freund der Freunde, blitzbewehrt, und unsrer schönen Frauen auch, der du mit Somatrinkern trinkst,
Du Genosse von uns Genossen, den lippenöffnenden Somatrinkern, du Somatrinker, Keulenträger.
У нас, губастых,
Пьющий сому, у питухов сомы,
О друг, о громовержец, у друзей...
तथा॒ तद॑स्तु सोमपा॒: सखे॑ वज्रि॒न्तथा॑ कृणु । यथा॑ त उ॒श्मसी॒ष्टये॑ ॥
तथा॑ । तत् । अ॒स्तु॒ । सो॒म॒ऽपाः॒ । सखे॑ । व॒ज्रि॒न् । तथा॑ । कृ॒णु॒ । यथा॑ । ते॒ । उ॒श्मसि॑ । इ॒ष्टये॑ ॥
हे सोमपाः सखे वज्रिन् इष्टये अभिलषितार्थं ते तव अनुग्रहं यथा येन प्रकारेण उश्मसि वयं कामयामहे त्वं तथा कुरु । त्वत्प्रसादात् तत् अभीष्टं तथा अस्तु ॥ कृणु । कृवि हिंसाकरणयोश्च । इदित्त्वात् नुम् । ‘धिन्विकृण्व्योर च ' इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारः । ‘अतो लोपः' इति तस्य लोपः। तस्य स्थानिवद्भावात् लघूपधगुणाभावः। उतश्च प्रत्ययादसंयोगपूर्वात् इति हेर्लुक् । उश्मसि । ‘वश कान्तौ । ‘इदन्तो मसि'। अदादित्वात् शपो लुक् । ग्रहिज्यादिना संप्रसारणम् । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । इष्टये । इषु इच्छायाम् ' । क्तिनि ‘तितुत्र° ' इत्यादिना इट्प्रतिषेधः । यद्वा । यजतेः क्तिनि ‘वचिस्वपि ' ( पा. सू. ६. १. १५) इत्यादिना संप्रसारणम् । व्रश्चादिना षत्वे ष्टुत्वम् । पूर्वस्मिन् पक्षे ‘मन्त्रे वृष° 'इति क्तिन उदात्तत्वम्। द्वितीये तु व्यत्ययेन ॥
“So be it, drinker of the Soma juice, wielder of the thunderbolt, our friend, that you will do, through your favour, whatever we desire.”
Thus, Soma-drinker, may it be; thus, Friend, who wieldest thunder, act
To aid each wish as we desire.
Just so let it be, o soma-drinker; o mace-wielding comrade, make it just so as we wish for you to want it.
So mög es, Somatrinker, sein so thu, o blitzbewehrter Freund, Wie wir's begehren, recht nach Wunsch.
So soll es sein, du Somatrinker, Genosse und Keulenträger, so richte es ein, daß du rasch kommst, wie wir von dir wünschen!
Да сбудется это, о пьющий сому,
О друг, громовержец. Сделай так,
Как мы хотим от тебя: чтобы ты искал (добычу для нас)!
रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥
रे॒वतीः॑ । नः॒ । स॒ध॒ऽमादे॑ । इन्द्रे॑ । स॒न्तु॒ । तु॒विऽवा॑जाः । क्षु॒ऽमन्तः॑ । याभिः॑ । मदे॑म ॥
क्षुमन्तः अन्नवन्तो वयं याभिः गोभिः सह मदेम हृष्येम इन्द्र सधमादे अस्माभिः सह हर्षयुक्ते सति नः अस्माकं ता गावः रेवतीः क्षीराज्यादिधनवत्यः तुविवाजाः प्रभूतबलाश्च सन्तु ॥ रेवतीः । रयिशब्दात् मतुपि ‘रयेर्मतौ बहुलम् ' इति संप्रसारणं परपूर्वत्वम् । छन्दसीरः' इति मतुपो वत्वम् ।' वा छन्दसि ' इति पूर्वसवर्णदीर्घः । ‘आरेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्' इति
रेशब्दात उत्तरस्यापि भवतीति पूर्वमेवोक्तम् । सधमादे । ‘मद तृप्तियोगे । चौरादिकः । सह मादयतीति सधमादः । पचाद्यच् । सध मादस्थयोश्छन्दसि ' ( पा. सु. ६. ३. ९६ ) इति सहशब्दस्य सधादेशः । थाथादिना उत्तरपदान्तोदात्तत्वे प्राप्ते • परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । तुविवाजाः । ‘तु ' इति सौत्रो धातुर्वृद्ध्यर्थः । ‘अच इः ' इति इः । संज्ञापूर्वकत्वात् गुणो न भवति । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । क्षुमन्तः । ‘टुक्षु शब्दे ' । अस्मात् क्विपि तुगभावश्छान्दसः । ‘ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । मदेम । मदी हर्षे'। व्यत्ययेन शप् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । ततो धातुस्वरः शिष्यते ॥
“So, Indra, rejoicing along with us, we may have (abundant food) and cows may be ours, robust and rich in milk, with which we may be happy.”
With Indra splendid feasts be ours, rich in all strengthening things wherewith,
Wealthy in food, we may rejoice.
Let there be rich (refreshments?) bringing powerful prizes for us for our joint exhilaration in company with Indra—
(refreshments) with which we, rich in livestock, might reach
exhilaration.
Reich sei uns an Gut und Nahrung jedes Mahl, dem Indra beiwohnt, Das wir labungsreich geniessen.
Reiche Geschenke sollen uns bei dem Mahlgenossen Indra werden, lohnvolle, an denen wir im Besitz von Vieh uns gütlich tun können.
Пусть будут нам для совместного пира
У Индры богатые (милости), сильные награды,
Обильные питанием, которым мы бы радовались!
आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो॑ धृष्णविया॒नः । ऋ॒णोरक्षं॒ न च॒क्र्यो॑: ॥
आ । घ॒ । त्वाऽवा॑न् । त्मना॑ । आ॒प्तः । स्तो॒तृऽभ्यः॑ । धृ॒ष्णो॒ इति॑ । इ॒या॒नः । ऋ॒णोः । अक्ष॑म् । न । च॒क्र्योः॑ ॥
हे धृष्णो धार्ष्ट्ययुक्त इन्द्र त्वावान् त्वत्सदृशो देवताविशेषः त्मनाप्तः त्वदनुग्रहवशात् स्वयमेव आप्तः सन् इयानः अस्माभिर्याच्यमानः स्तोतृभ्यः स्तोतॄणामनुग्रहाय तदभीष्टमर्थं घ अवश्यम् आ ऋणोः आनीय प्रक्षिपतु । तत्र दृष्टान्तः । चक्र्योः रथस्य चक्रयोः अक्षं न । यथा अक्षं प्रक्षिपन्ति तद्वत् ॥ त्वावान् ।' वतुप्प्रकरणे युष्मदस्मद्यांनः छन्दसि सादृश्य उपसंख्यानम् ' ( पा. सू. ५. २. ३९. १ ) इति वतुप् ।' प्रत्ययोत्तरपदयोश्च ' इति मपर्यन्तस्य त्वादेशः । ‘आ सर्वनाम्नः ' ( पा. सू. ६. ३. ९१ ) इति दकारस्य आत्वम् । वतुपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः शिष्यते । त्मना । ‘मन्त्रेष्वाङ्यादेरात्मनः' (पा. सू. ६. ४. १४१) इति आकारलोपः । धृष्णो ।' ञिधृषा प्रागल्भ्ये'।' त्रसिगृधिधृषिक्षिपेः क्नुः ' (पा. सू. ३. २. १४०)। आमन्त्रितानुदात्तत्वम् । इयानः । 'ईङ् गतौ'। 'छन्दसि लिट्' (पा. सू, ३. २. १०५ )। तस्य ‘लिटः कानज्वा' ( पा. सू. ३. २. १०६ ) इति कानजादेशः ।“ अचि श्नुधातु ' ( पा. सू. ६. ४. ७७) इत्यादिना इयङादेशः । ‘द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्' इति वचनात् अभ्यासो न क्रियते । ‘चितः' इत्यन्तोदात्तत्वम् । ऋणोः । ‘ऋण गतौ । लङि व्यत्ययेन तिपः सिपि ' इतश्च ' ( पा. सू. ३. ४. १००) इति इकारलोपः । ‘तनादिकृञ्भ्य उः ' ( पा. सू. ३. १. ७९ )। सार्वधातुकगुणः । ‘बहुलं छन्दस्यमाङयोगेऽपि ' इति अडागमाभावः। विकरणस्वरेणान्तोदात्तत्वम् । अक्षम्। ‘अक्षस्यादेवनस्य' (फि. सू. ३५) इत्याद्युदात्तत्वम् । चक्र्योः । अकारस्य इकारश्छान्दसः ॥
“O Dhṛṣnu, let some such divinity as you are, self-presented, promptly bestow, when solicited, (bounties) upon your praisers, as (they whirl) the axle of the wheels (of a car).”
Like thee, thyself, the singers' Friend, thou movest, as it were, besought,
Bold One, the axle of the car.
As one like you, o bold one, obtained in person for the praisers, being implored (by them),
you fit out (the refreshments) (as you) fit an axle between two wheels,
Du ja selbst ein Freund der Sänger, kühner, fügst wie in die Räder Ein die Achse, angeflehter,
Wenn einer wie du, Mutiger, der den Sängern persönlich bekannt ist, darum gebeten wird, solltest du gleichsam die Achse in die Räder einfügen.
Конечно, такой, как ты, о доступный сам по себе
Певцам, когда тебя просят, о храбрый,
Ты (исполняешь) желание, (подобно тому,) как ось вставляешь в два колеса!
आ यद्दुव॑: शतक्रत॒वा कामं॑ जरितॄ॒णाम् । ऋ॒णोरक्षं॒ न शची॑भिः ॥
आ । यत् । दुवः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । आ । काम॑म् । ज॒रि॒तॄ॒णाम् । ऋ॒णोः । अक्ष॑म् । न । शची॑भिः ॥
हे शतक्रतो इन्द्र यद्दुवः धनं कामितार्थरूपम् आ स्तोतृभिराप्तव्यमस्ति तं कामं जरितॄणां स्तोतॄणामनुग्रहाय आ ऋणोः आनीय प्रक्षिपसि । तत्र दृष्टान्तः । शचीभिः कर्मभिः शकटोचितव्यापारविशेषैः अक्षं न यथा अक्षं प्रक्षिपन्ति तद्वत् ॥ शचीभिः । शचीशब्दः शार्ङ्गरवादिङीनन्तः (पा. सू. ४. १. ७३ ) आद्युदात्तः ॥ ॥ ३० ॥
“Such wealth, Śatakratu, as your praisers desire, you bestow upon them, as the axle (revolves) with the movements (of the wagon).”
That, Satakratu, thou to grace and please thy praisers, as it were,
Stirrest the axle with thy strength.
When you fit out your friendship and fit out the desire of the singers, o you of a hundred resolves,
with your abilities, (as you fit) the axle.
Wenn du Gaben, vielgewalt'ger kräftig in den Wunsch der Sänger, Wie ins Rad die Achse einfügst.
Indem du, Ratreicher, auf den Eifer, auf den Wunsch der Sänger eingehst, fügst du nach Kräften gleichsam die Achse in die Räder.
Когда же, о стоумный, (ты оказываешь) почтение -
Ты (исполняешь) желание певцов,
(Подобно тому,) как ты вставляешь (в два колеса) - из всех сил.
शश्व॒दिन्द्र॒: पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भि॒: शाश्व॑सद्भि॒र्धना॑नि । स नो॑ हिरण्यर॒थं दं॒सना॑वा॒न्त्स न॑: सनि॒ता स॒नये॒ स नो॑ऽदात् ॥
शश्व॑त् । इन्द्रः॑ । पोप्रु॑थत्ऽभिः । ज॒गा॒य॒ । नान॑दत्ऽभिः । शाश्व॑सत्ऽभिः । धना॑नि । सः । नः॒ । हि॒र॒ण्य॒ऽर॒थम् । दं॒सना॑ऽ वान् । सः । नः॒ । स॒नि॒ता । स॒नये॑ । सः । नः॒ । अ॒दा॒त् ॥
तुष्टेन इन्द्रेण दत्तं हिरण्यरथम् अनया प्रतिजग्राह । तथा च ब्राह्मणं- तस्मा इन्द्रः स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ तमेतया प्रतीयाय शश्वदिन्द्र इति ' ( ऐ. ब्रा. ७. १६ ) इति । इन्द्रः शश्वत् सर्वदा धनानि वैरिसंबन्धीनि जिगाय जितवान् अश्वैरिति शेषः । कीदृशैः । पोप्रुथद्भिः घासभक्षणानन्तरभाविनम् ओष्ठशब्दं कुर्वद्भिः नानदद्भिः नादम् आस्यगतं हेषाशब्दं कुर्वद्भिः शाश्वसद्भिः पुनःपुनर्भृशं वा श्वसद्भिः । दंसनावान् कर्मवान् सनिता दाता सः इन्द्रः नः अस्माकं सनये संभजनार्थं हिरण्यरथं सुवर्णेन निर्मितं रथम् अदात् दत्तवान् । ' स नः स नः' इति द्विरुक्तिरादरार्थम् ॥ पोप्रुथद्भिः । ‘प्रोथृ पर्याप्तौ । अस्मात् यङ्लुकि अभ्यासहलादिशेषौ । हस्वः । (पा. सू. ७. ४. ५९ ) इति ह्रस्वत्वे कृते ‘ गुणो यङ्लुकोः ' ( पा. सू. ७. ४. ८२ ) इति गुणः । धातोरुपधाया उत्वं छान्दसम् । अस्मात् यङ्लुगन्तात् शतरि ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । जिगाय । जि जये । लिटो णलि वृद्धिः । ‘द्विर्वचनेऽचि' इति स्थानिवद्भावात् जि इत्यस्य द्विर्वचनम् ।' सन्लिटोर्जेः ' ( पा. सू. ७. ३. ५७ ) इति अभ्यासादुत्तरस्य कुत्वम् । नानदद्भिः। ‘णद अव्यक्ते शब्दे'। पूर्ववत् यङ्लुकि दीर्घोऽकितः' इति अभ्यासस्य दीर्घः । पूर्ववदाद्युदात्तत्वम् । शाश्वसद्धिः । ‘श्वस प्राणने ' । अन्यत् सर्वं पूर्ववत् । हिरण्यरथम् । ‘समासस्य ' इत्यन्तोदात्तत्वम् । अदात् । गातिस्था° ' इति सिचो लुक् । दंसनावान्। दंसशब्दः अप्नः दंसः वेषः' (नि. २. १. ३ ) इति कर्मनामसु पठितः । दंस एव दंसना । ‘तदस्यास्ति' इति मतुप् । दस्यते अनेनेति दंसना ॥
“Indra has ever won riches (from his foes), with his champing, neighing, and snorting (steeds); he, the abounding in acts, the bountiful, has given us as a gift a golden chariot.”
With champing, neighing loudly-snorting horses Indra hath ever won himself great treasures
A car of gold hath he whose deeds are wondrous received from us, and let us too receive it.
With his (horses) constantly snorting, bellowing, and panting, again and again Indra has conquered the stakes.
He of wondrous skill (has given) us a golden chariot—he the winner for us to win (it)—he has given it to us.
Stets hat Indra mit den schnaubenden, tobenden, stark athmenden Rossen Schätze erbeutet; er hat uns, der wunderthätige, einen goldbeladenen Wagen gegeben, er, der schenkende, uns zum Geschenk gegeben.
Immer wieder hat Indra mit den prustenden, wiehernden, schnaubenden Rossen Reichtümer erobert. Der Meisterkünstler hat uns einen Wagen voll Gold geschenkt, er als unser Lohner zum Lohn, er hat ihn uns geschenkt.
Всегда завоевывал Индра со (своими) храпящими,
Ржущими, фыркающими (конями) богатства.
Он, обладатель чудесной силы, (дал) нам золотую колесницу
Он наш добытчик, чтоб добывали (мы), он нам дал.
आश्वि॑ना॒वश्वा॑वत्ये॒षा या॑तं॒ शवी॑रया । गोम॑द्दस्रा॒ हिर॑ण्यवत् ॥
आ । अ॒श्वि॒नौ॒ । अश्व॑ऽवत्या । इ॒षा । या॒त॒म् । शवी॑रया । गोऽम॑त् । द॒स्रा॒ । हिर॑ण्यऽवत् ॥
इन्द्रेण प्रेरितः शुनःशेपः अश्विनौ तुष्टाव । तथा च ब्राह्मणं- तमिन्द्र उवाचाश्विनौ नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽश्विनौ तुष्टावात उत्तरेण तृचेन' (ऐ. ब्रा. ७. १६) इति ॥ हे अश्विनौ अश्वावत्या बहुभिरश्वैर्युक्तया शवीरया प्रेर्यमाणया इषा अन्नेन सह आ यातम् अस्मिन् कर्मणि आगच्छतम् । हे दस्रा अश्विनौ युवयोः प्रसादात् गोमत् बहुभिर्गोभिर्युक्तं हिरण्यवत् बहुना हिरण्येन युक्तम् अस्मदीयं गृहमस्त्विति शेषः ॥ अश्वावत्या । ‘मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ' (पा. सू. ६. ३. १३१) इति दीर्घत्वम् । इषा । ‘सावेकाचः' इति तृतीयाया उदात्तत्वम् । यातम् । ' या प्रापणे'। लोटि तसः तम् । अदादित्वात् शपो लुक् । शवीरया । 'शु गतौ'। कॄशॄपॄकटिपटिशौटिभ्य ईरन्' (उ. सू. ४. ४७०) इति ईरन्प्रत्ययो बहुलवचनात् अस्मादपि भवति । नित्त्वादाद्युदात्तत्वम् ॥
“Aśvins, come hither, with viands borne or many steeds. Dasrās, (let our dwelling) be filled with cattle and with gold.”
Come, Asvins, with enduring strength wealthy in horses and in kine,
And gold, O ye of wondrous deeds.
O Aśvins, drive here with your drink providing powerful refreshment and accompanied by horses
(along your circuit) that brings cows and gold, o wondrous ones.
Mit rossereicher Labung kommt und starker, kräft'ge Ritter, her An Rindern und an Golde reich.
Ihr Asvin, kommt mit überlegenem Gut an Rossen ! Rinderbesitz, ihr Meister, Goldbesitz sei uns!
О Ашвины, с подкреплением в виде коней,
Преисполненным силы, приезжайте (на колеснице),
(Привозя) богатство из коров, богатство из золота,
О удивительные!
स॒मा॒नयो॑जनो॒ हि वां॒ रथो॑ दस्रा॒वम॑र्त्यः । स॒मु॒द्रे अ॑श्वि॒नेय॑ते ॥
स॒मा॒नऽयो॑जनः । हि । वा॒म् । रथः॑ । द॒स्रौ॒ । अम॑र्त्यः । स॒मु॒द्रे । अ॒श्वि॒ना॒ । ईय॑ते ॥
हे दस्रौ अश्विनौ वां युवयोः संबन्धी रथः समानयोजनः तुल्ययोजनः युवयोर्द्वयोरेकरथारूढत्वात् उभयार्थं सकृदेव युज्यते । युक्तः स रथः अमर्त्यः विनाशरहितः अप्रतिहतगतिरित्यर्थः । अत एव हे अश्विनौ हि यस्मात् समुद्रे अन्तरिक्षे ईयते गच्छति । अन्तरिक्षनामसु पठितं समुद्रशब्दं यास्क एवं व्याचख्यौ-‘समुद्रः कस्मात्समुद्द्रवन्त्यस्मादापः समभिद्रवन्त्येनमापः संमोदन्तेऽस्मिन्भूतानि
समुदको भवति समुनत्तीति वा' (निरु. २. १०) इति । समानयोजनः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अमर्त्यः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ईयते । ‘ईङ गतौ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । हि च ' इति निघातप्रतिषेधः ॥
“Dasrās, your chariot, harnessed for both alike, is imperishable; it travels, Aśvins, through the air.”
Your chariot yoked for both alike, immortal, ye of mighty acts,
Travels, O Asvins, in the sea.
For your immortal chariot, (always) taking the same route,
speeds upon the sea, o wondrous Aśvins.
Denn euer ew'ger Wagen kommt der gleichgeschirrte durch die Luft, O wunderstarke Ritter ihr!
Denn euer unsterblicher Wagen fährt in einer Fahrt auf dem Meere, ihr Meister Asvin.
Ведь у вас двоих колесница, о удивительные,
С общей упряжью, бессмертная,
Едет по морю, о Ашвины!
न्य१॒॑घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः । परि॒ द्याम॒न्यदी॑यते ॥
नि । अ॒घ्न्यस्य॑ । मू॒र्धनि॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ । परि॑ । द्याम् । अ॒न्यत् । ई॒य॒ते॒ ॥
हे अश्विनौ युवाम् अघ्न्यस्य हन्तुं विनाशयितुमशक्यस्य दृढस्य पर्वतस्य मूर्धनि उपरि चक्र भवदीयरथसंबन्ध्येकं चक्रं नि येमथुः नियमितवन्तौ । अन्यत् चक्रं परि द्यां द्युलोकस्य परितः ईयते गच्छति ॥ अघ्न्यस्य । अहननम् अघ्नः । ‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् ' (पा. सू. ३. ३. ५८. ४ ) इति हन्तेः कप्रत्ययः । अघ्नमर्हति अघ्न्यः । छन्दसि च ' ( पा. सू. ५. १. ६७ ) इति यप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तत्वम् । येमथुः । ‘यम उपरमे '। किति लिटि • अत एकहल्मध्ये° ' ( पा. सू. ६. ४. १२०) इति एत्वाभ्यासलोपौ ॥
“You have one wheel on the top of the solid (mountain), while the other revolves in the sky.”
High on the forehead of the Bull one chariot wheel ye ever keep,
The other round the sky revolves.
You two anchored (one) wheel of your chariot on the head of the inviolable (bull);
the other speeds around heaven.
Denn auf des Stiers, der Erde, Haupt lenkt ihr des Wagens eines Rad, Das andre läuft am Himmel um.
Ihr hieltet das Rad des Wagens auf dem Haupte des Stiers an; das andere fährt um den Himmel.
На голове быка
Вы удерживали колесо колесницы.
Другое катится вокруг неба.
कस्त॑ उषः कधप्रिये भु॒जे मर्तो॑ अमर्त्ये । कं न॑क्षसे विभावरि ॥
कः । ते॒ । उ॒षः॒ । क॒ध॒ऽप्रि॒ये॒ । भु॒जे । मर्तः॑ । अ॒म॒र्त्ये॒ । कम् । न॒क्ष॒से॒ । वि॒भा॒ऽव॒रि॒ ॥
अश्विभ्यां प्रेरितः शुनःशेपः उषसं तुष्टाव । तथा च ब्राह्मणं-- तमश्विना ऊचतुरुषसं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स उषसं तुष्टावात उत्तरेण तृचेन तस्य ह स्मर्च्यृच्युक्तायां वि पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्युत्तमस्यामेवर्च्युक्तायां वि पाशो मुमुचेऽगद ऐक्ष्वाक आस ' ( ऐ. ब्रा. ७. १६) इति । हे कधप्रिये स्तुतिप्रिये अमर्त्ये मरणरहिते उषः एतच्छब्दाभिधेये उषःकालाभिमानिनि देवते भुजे तव भोगाय मर्तः मनुष्यः कः विद्यते । हे विभावरि विशेषप्रभावयुक्ते उषो देवि कं पुरुषं नक्षसे प्राप्तोषि तवोचितं भोगं दातुं न कोऽपि मनुष्यः समर्थः । अत एव त्वं कमपि पुरुषं भोगापेक्षया न प्राप्नोषि । ईदृशस्तव महिमेत्यर्थः । ते । तेमयावेकवचनस्य' (पा. सू. ८. १.२२) इति युष्मच्छब्दस्य तेआदेशः सर्वानुदात्तः । कधप्रिये। कथ वाक्यप्रबन्धे'। चुरादिरदन्तः । णौ अतो लोपस्य स्थानिवद्भावात् उपधावृद्ध्यभावः । ‘चिन्तिपूजिकथिकुम्बिचर्चश्च' ( पा. सू. ३. ३. १०५) इति अङ्प्रत्ययः । ‘णेरनिटि ' इति णिलोपः । ततः टाप् । षष्ठीसमासे ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ' ( पा. सू. ६. ३. ६३ ) इति ह्रस्वत्वम् । थकारस्य धकारश्छान्दसः । आमन्त्रितानुदात्तत्वम् । भुजे । ‘भुज पालनाभ्यवहारयोः '। संपदादिलक्षणः क्विप् । ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । मर्तः । ‘असिहसि ' इत्यादिना तन्प्रत्ययान्त आद्युदात्तः । नक्षसे। ‘तृक्ष ष्टृक्ष णक्ष गतौ। विभावरि । ‘भा दीप्तौ । विपूर्वात् अस्मात् ‘आतो मनिन्क्वनिब्वनिपश्च' इति वनिप् । 'वनो र च' ( पा. सू. ४. १. ७ ) इति ङीप्; तत्संनियोगेन नकारस्य रेफादेशः । ‘अम्बार्थनद्योर्ह्रस्वः ' ( पा. सू. ७. ३. १०७ ) इति ह्रस्वत्वम् ।
“Uṣas, who are plural ased by praise, what mortal enjoy you, immortal? Whom, mighty one, do your affect?”
What mortal, O immortal Dawn, enjoyeth thee? Where lovest thou?
To whom, O radiant, dost thou go?
Which mortal is to enjoy you, o immortal Dawn, you fair-weather friend? To whom will you come near, far-radiant one?
Welch Sterblicher, Unsterbliche, ist lieb dir, Uschas, zum Genuss? Zu wem gehst hin du, strahlende?
Welcher Sterbliche soll deinen Genuß haben, unsterbliche, freundesuchende Usas? Zu wem kommst du Erglänzende?
О Ушас, о та, которой (неизвестно) как понравиться,
Какой смертный насладится тобой, о бессмертная?
К кому ты приближаешься, о озаряющая?
व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् । अश्वे॒ न चि॑त्रे अरुषि ॥
व॒यम् । हि । ते॒ । अम॑न्महि । आ । अन्ता॑त् । आ । प॒रा॒कात् । अश्वे॑ । न । चि॒त्रे॒ । अ॒रु॒षि॒ ॥
अश्वे व्यापनशीले चित्रे चायनीये अरुषि आरोचमाने उषःकालाभिमानिनि देवते तव स्वरूपम् आन्तात् समीपपर्यन्तम् आ पराकात् दूरपर्यन्तं वयं मनुष्याः न अमन्महि न बोद्धुं समर्थाः । हिशब्दः प्रसिद्धौ । देवतामहिम्नः पारावारयोरज्ञानमस्मासु प्रसिद्धमित्यर्थः ॥ अमन्महि। ‘मन ज्ञाने'। ‘बहुलं छन्दसि ' इति बहुलवचनात् श्यनो लुक् । 'लुङ्लङ्लृङ्क्ष्वडुदात्तः । ‘हि च ' इति निघातप्रतिषेधः । अश्वे। ‘ अशू व्याप्तौ । ‘अशिप्रुषि' इत्यादिना क्वन्प्रत्ययः । आमन्त्रिताद्युदात्तत्वम्॥
“Diffusive, many-tinted, brilliant (Uṣas), we know not (your limits), whether they be nigh or remote.”
For we have had thee in our thoughts whether anear or far away,
Red-hued and like a dappled mare.
For we have brought you to mind from both near and far,
o you, dappled bright and ruddy like a mare.
Denn in der Ferne, in der Näh gedenken dein wir, Morgenroth, Die du wie eine Stute strahlst.
Denn wir haben nah und fern deiner gedacht, wie du eine Stute Prangende, Rötliche.
Ведь мы подумали о тебе
Изблизи (и) издалека,
О яркая, как пламенная кобылица!
त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः । अ॒स्मे र॒यिं नि धा॑रय ॥
त्वम् । त्येभिः॑ । आ । ग॒हि॒ । वाजे॑भिः । दु॒हि॒तः॒ । दि॒वः॒ । अ॒स्मे इति॑ । र॒यिम् । नि । धा॒र॒य॒ ॥
हे दिवः दुहितः द्युदेवतायाः पुत्रि उषो देवि त्येभिः वाजेभिः तैरन्नैः सह त्वम् आ गहि अत्रागच्छ । अस्मे अस्मासु रयिं धनं नि धारय नितरां स्थापय ॥ त्येभिः । 'बहुलं छन्दसि' इति त्यशब्दात् भिस ऐसादेशाभावः । गहि । असकृदुक्तम् । दुहितर्दिवः । परस्यापि दिव इत्यस्य दिवः दुहितः इत्यन्वये सति पूर्वत्वात् ‘सुबामन्त्रिते' इति पराङ्गवद्भावेन षष्ठ्यामन्त्रितसमुदायस्य सर्वानुदात्तत्वम् । यद्वा । ‘कार्यकालं हि संज्ञापरिभाषम् ' ( परिभा. ३ ) इति न्यायेन ‘सुबामन्त्रिते॰ ' इत्यस्य ‘आमन्त्रिस्य च ' इति आष्टमिकेन योगेनैकवाक्यत्वे सति परत्वात् पराङ्गवद्भावे सति सर्वानुदात्तत्वम्। कृतस्वरयोः षष्ठ्यामन्त्रितयोः पश्चात् ‘व्यत्ययो बहुलम्' इति व्यत्यस्तप्रयोगः । अस्मे । “ सुपां सुलुक् ' इति सप्तम्याः शेआदेशः ॥ ३१ ॥ ॥ ६ ॥
“Daughter of heaven, approach with these viands, and perpetuate our wealth.”
Hither, O Daughter of the Sky, come thou with these thy strengthenings,
And send thou riches down to us.
Come here with these prizes, o daughter of heaven.
Lay wealth as a foundation for us.
The next five hymns (31–35) are attributed to Hiraṇyastūpa Āṅgirasa, and include one of the most famous hymns in the R̥gveda, I.32, the great Indra-Vr̥tra hymn, and several that deserve more fame than they have, especially I.33, a mirror-image companion piece to I.32.
O komm mit diesen Labungen, du Himmelstochter, zu uns her Und schenk uns Güter zum Besitz.
Komm du mit jenen Belohnungen her, Tochter des Himmels; hinterlaß bei uns den Reichtum!
Приди ты с этими
Наградами, о дочь неба!
Оставь у нас богатство!