त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑ । तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥
त्वम् । अ॒ग्ने॒ । प्र॒थ॒माः । अङ्गि॑राः । ऋषिः॑ । दे॒वः । दे॒वाना॑म् । अ॒भ॒वः॒ । शि॒वः । सखा॑ । तव॑ । व्र॒ते । क॒वयः॑ । वि॒द्म॒नाऽअ॑पसः । अजा॑यन्त । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः ॥
हे अग्ने त्वं प्रथमः आद्यः आङ्गिरसानामृषीणां सर्वेषां जनकत्वात् । तादृशः अङ्गिरोनामक ऋषिः अभवः । तथा च ब्राह्मणं ---- येऽङ्गारा आसंस्तेऽङ्गिरसोऽभवन् ' (ऐ. ब्रा. ३. ३४ ) इति । तथा स्वयं देवः भूत्वा देवानाम् अन्येषां शिवः शोभनः सखा अभवः। तव व्रते त्वदीये कर्मणि कवयः मेधाविनः विद्मनापसः ज्ञानेन व्याप्नुवानाः ज्ञातकर्माणो वा भ्राजदृष्ट्यः दीप्यमानायुधाः मरुतः मरुत्संज्ञकाः देवाः अजायन्त ॥ विद्मनापसः । विद ज्ञाने'। विद्मो वेदनम् । बहुलग्रहणात् औणादिको मक्प्रत्ययः । तदस्यास्तीति पामादिलक्षणो नः ( पा. सू. ५. २. १०० )। प्रत्ययस्वरेणान्तोदात्तत्वम् । विद्मनानि अपांसि येषां ते विद्मनापसः । पूर्वपदस्य । अन्येषामपि दृश्यते इति दृशिग्रहणात् अवग्रहसमयेऽपि दीर्घत्वम् । अजायन्त । जनी प्रादुर्भावे ' । तस्य श्यनि “ ज्ञाजनोर्जा । (पा. सू. ७. ३.७९ ) इति जादेशः । भ्राजदृष्टयः । ‘भ्राजृ दीप्तौ ' । व्यत्ययेन शतृ । तस्य लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ऋषी गतौ ' इत्यस्मात् ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिजन्त ऋष्टिशब्दः । ततो बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“You, Agni, was th first Aṅgiras Ṛṣi, a divinity, you were the auspicious friend of the deities. In your rite the wise, the all-discerning, the bright-weaponed Maruts were engendered.”
Thou, Agni, wast the earliest Angiras, a Seer; thou wast, a God thyself, the Gods' auspicious Friend.
After thy holy ordinance the Maruts, sage, active through wisdom, with their glittering spears, were born.
Thou, O Agni, (who art) the first Angiras Rishi, hast become as god the kind friend of the gods. After thy law the sages, active in their wisdom 1, were born, the Maruts with brilliant spears.
You, Agni, the first Aṅgiras, the seer, the god, became a kindly comrade of the gods.
Under your commandment were born the sage poets working with their know-how—the Maruts with glinting spears.
Du, Agni, warst der erste Sänger Angiras, als Gott der Götter segnender Genosse du, In deinem Dienst entsprang der weisen Maruts Schar, die kunstvoll wirken, sie, die lanzenglänzenden.
Du Agni warst der erste Angiras und Rishi, du der Gott der Götter guter Freund. In deinem Dienste wurden die Seher, die mit Weisheit wirken, geboren, die Marut mit funkelnden Speeren.
Ты, о Агни, первый Ангирас, риши.
Ты стал богом – милым другом богов.
На службе у тебя поэты, действующие мудро,
Родились – Маруты со сверкающими копьями.
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम् । वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥
त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । अङ्गि॑रःऽतमः । क॒विः । दे॒वाना॑म् । परि॑ । भू॒ष॒सि॒ । व्र॒तम् । वि॒ऽभुः । विश्व॑स्मै । भुव॑नाय । मेधि॑रः । द्वि॒ऽमा॒ता । श॒युः । क॒ति॒धा । चि॒त् । आ॒यवे॑ ॥
हे अग्ने त्वं प्रथमः आद्यः अङ्गिरस्तमः अतिशयेन अङ्गिराः भूत्वा कविः मेधावी सन् देवानाम् अन्येषां व्रतं कर्म परि भूषसि परितः अलंकरोषि । कीदृशस्त्वम् । विश्वस्मै भुवनाय समस्तलोकानुग्रहार्थं विभुः बहुविधः । आहवनीयाद्यनेकरूपधारीत्यर्थः । मेधिरः मेधावान् द्विमाता द्वयोः अरण्योः उत्पन्नः । यद्वा । द्वयोर्लोकयोः निर्माता । आयवे मनुष्यार्थं कतिधा चित् कतिभिः प्रकारैः सर्वत्र शयुः शयानः । तत्तन्मनुष्यगृहेऽवस्थितस्य तव प्रकारा इयन्त इति न केनापि ज्ञायते इत्यर्थः ॥ भूषसि । ‘भूष अलंकारे'। भौवादिकः । विभुः । ‘विप्रसंभ्यो ड्वसंज्ञायाम् ' (पा. सू. ३. २. १८० ) इति विपूर्वात् भवतेः डुप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । भुवनाय । ‘भूदूसूभ्रस्जिभ्यश्छन्दसि' ( उ. सू. २. २३८ ) इति क्युन् । योः अनादेशे नित्स्वरेणाद्युदात्तत्वम् । मेधिरः । ‘मेधृ संगमे च ' । अस्माद्बाहुलक इरन्प्रत्ययः । नित्स्वरः । द्विमाता । द्वे मातरौ यस्यासौ द्विमाता । ‘नद्यृतश्च' (पा. सू. ५. ४. १५३ ) इति कप्प्रत्ययो न भवति, मातृमातृकयोः भेदेनोपादानात् ‘नद्यृतश्च' इति कबपि विभाष्यते इति तस्य मातृशब्दविषये पाक्षिकत्वोक्तिः । त्रिचक्रादित्वात् उत्तरपदान्तोदात्तत्वम् । यद्वा । द्वयोर्माता द्विमाता । ' समासस्य ' इत्यन्तोदात्तत्वम् । शयुः । ‘शीङ् स्वप्ने । ‘भृमृशी ' ( उ. सू. १. ७ ) इत्यादिना उप्रत्ययः । कतिधा । डत्यन्तस्य किंशब्दस्य ‘बहुगणवतुडति संख्या ' ( पा. सू. १. १. २३) इति संख्यासंज्ञायां ' संख्याया विधार्थे धा' (पा. सू. ५. ३. ४२ ) इति धाप्रत्ययः । आयवे । छन्दसीणः ' ( उ. सू. १. २ ) इति एतेः उण्प्रत्ययः ॥
“You, Agni, the first and chief Aṅgiras, grace the worship of the gods; sapient, maniforld, for the benefit of all the world, intelligent, the off-spring of two mothers, and reposing in various ways for the use of man.”
O Agni, thou, the best and earliest Angiras, fulfillest as a Sage the holy law of Gods.
Sprung from two mothers, wise, through all existence spread, resting in many a place for sake of living man.
Thou, O Agni, the first, highest Angiras, a sage, administerest the law of the gods, mighty for the whole world, wise, the son of the two mothers 1, reposing everywhere for (the use of ) the living 2.
You, Agni, first and best of the Aṅgirases, as sage poet you tend to the commandment of the gods,
extending to all creation, wise, (and though) having (just) two mothers, lying down in so many places for Āyu.
Du, Agni, als der beste, erste Angiras, verwaltest als ein Seher stets der Götter Dienst; Für alle Wesen weise und gewaltig du, für Menschen allwärts ruhend, zweier Mütter Spross.
Du Agni, der erste, der oberste Angiras, wartest als Seher des Dienstes der Götter, für die ganze Welt hinreichend, weise, zweier Mütter Kind, in vielen liegend für Ayu.
Ты, о Агни, первый, самый настоящий Ангирас,
Как поэт ты украшаешь обет богов,
Пронизывающий весь мир, мудрый,
(Сын) двух матерей, покоящийся так и сяк для Аю.
त्वम॑ग्ने प्रथ॒मो मा॑त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते । अरे॑जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ॥
त्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । मा॒त॒रिश्व॑ने । आ॒विः । भ॒व॒ । सु॒क्र॒तू॒ऽया । वि॒वस्व॑ते । अरे॑जेताम् । रोद॑सी॒ इति॑ । हो॒तृ॒ऽवूर्ये॑ । अस॑घ्नोः । भा॒रम् । अय॑जः । म॒हः । व॒सो॒ इति॑ ॥
हे अग्ने त्वं मातरिश्वने प्रथमः मुख्यो भूत्वा वर्तसे। ‘अग्निर्वायुरादित्यः' (निरु. ७.७) इति वाय्वपेक्षया सर्वत्र मुख्यत्वावगमात् । तादृशस्त्वं सुक्रतूया शोभनकर्मेच्छया विवस्वते परिचरते यजमानाय आविर्भाव प्रकटो भव । तव सामर्थ्यं दृष्ट्वा रोदसी द्यावापृथिव्यौ अरेजेताम् अकम्पेताम् । भ्यसते ऐजत इति भयवेपनयोः ' ( निरु. ३. २१ ) इति यास्कः । होतृवूयें होतृवरणयुक्ते कर्मणि भारं भरणम् असघ्नोः ऊढवानसि । हे वसो निवासहेतो वह्ने महः पूज्यान् देवान् अयजः इष्टवानसि ॥ मातरिश्वने । निर्माणहेतुत्वात् माता अन्तरिक्षम् । तत्र श्वसिति प्राणितीति मातरिश्वा वायुः । ‘श्वन्नुक्षन्' (उ. सू. १. १५७ ) इत्यादौ मातरिश्वन्शब्दः कन्प्रत्ययान्तो निपातितः । सुक्रतूया । सुक्रतुमात्मन इच्छति । ‘सुप आत्मनः क्यच् । ‘अकृत्सार्वधातुकयोः० ' ( पा. सू. ७. ४. २५) इति दीर्घः । क्यजन्तस्य धातुसंज्ञायाम् ' अ प्रत्ययात् ' ( पा. सू. ३. ३. १०२ ) इति भावे अकारप्रत्ययः । ततः टाप् ।' सुपां सुलुक् ' इति तृतीयैकवचनस्य डादेशः । टिलोपे उदात्तनिवृत्तिस्वरेण तस्य उदात्तत्वम् । संहितायाम् अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घः । विवस्वते । विवासतिः परिचरणकर्मा । अस्मात् संपदादिलक्षणः क्विप्। व्यत्ययेन उपधाह्रस्वत्वम् । तदस्यास्ति' इति मतुप् । ‘मादुपधायाः०' इति मतोः वत्वम्। 'तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावात् रुत्वाभावः। मतुपः पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते । रोदसी । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् । होतृवूर्ये । होत्रा व्रियते इति होतृवूर्यो यज्ञः। ‘वञ् वरणे'। बहुलग्रहणात् औणादिकः क्यप्। ‘उदोष्य् पूर्वस्य' इति उत्वम्। ‘हलि च' इति दीर्घः । यद्वा । वृञ् वरणे ' इत्यस्मात् एतिस्तुशास्वित्यादिना ( पा. सू. ३. १. १०९) क्यप् । ' अनित्यमागमशासनम् ' इति तुगभावः । ‘अकृत्सार्वधातुकयोः' इति दीर्घत्वे पूर्ववत् उत्वदीर्घौ । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । असघ्नोः । षघ हिंसायाम् । अत्र तु वहनार्थः । ‘स्वादिभ्यः श्नुः । पादादित्वादनिघातः । अयजः । भारम् इत्यस्य पूर्वपदस्य वाक्यान्तरगतत्वात् तदपेक्षया अस्य निघातो न भवति, समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः ' (पा. सू. ८. १. १८. ५) इति वचनात् । महः ।' मह पूजायाम् । क्विप् च ' इति क्विप् ।' सुपां सुपो भवन्ति' इति शसो ङसादेशः । ‘सावेकाचः०' इति तस्य उदात्तत्वम् । यद्वा । शसि महच्छब्दस्य अच्छब्दलोपश्छान्दसः । ‘बृहन्महतोपरुपसंख्यानम् ' इति उदात्तत्वम् ॥
“Agni, pre-eminent over the wind, become manifest to the worshipper, in approbation of his worship. Heaven and earth tremble (at your power); you have sustained the burden in the rite for which the priest was appointed; your, Vasu, has worshipped the venerable (gods).”
To Matarisvan first thou, Agni, wast disclosed, and to Vivasvan through thy noble inward power.
Heaven and Earth, Vasu! shook at the choosing of the Priest: the burthen thou didst bear, didst worship mighty Gods.
Thou, O Agni, as the first, shalt become 1 manifest to Matarisvan, through thy high wisdom, to Vivasvat. The two worlds trembled at (thy) election as Hotri. Thou hast sustained the burthen; thou, O Vasu, hast sacrificed to the great (gods) 2.
You, Agni—first become manifest to Mātariśvan; with a display of your good resolve (become manifest) to Vivasvant.
The two world-halves trembled at the choice of (you as) Hotar. You tolerated the burden; you sacrificed to the great ones, o good one.
Du hast zuerst dem Matariçvan dich gezeigt, und dem Vivasvat, Agni, durch dein schönes Werk, Es bebten Erd' und Himmel bei des Priesters Wahl, du trugst die Last, die grossen ehrtest guter du.
Du Agni, werde zuerst dem Matarisvan offenbar, mit gutem Bedacht dem Vivasvat! Es bebten beide Welten bei der Hotri-Wahl, du warst der Bürde gewachsen, du opfertest den Großen, o Guter.
Ты, о Агни, первым Матаришвану
Проявись прекрасной силою ума (и) Вивасвату!
Два мира сотрясались при выборе (Агни) хотаром:
Ты смог взвалить (на себя) это бремя. Ты почтил великих (богов), о Васу.
त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते॑ सु॒कृत्त॑रः । श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुन॑: ॥
त्वम् । अ॒ग्ने॒ । मन॑वे । द्याम् । अ॒वा॒श॒यः॒ । पु॒रू॒रव॑से । सु॒ऽकृते॑ । सु॒कृत्ऽत॑रः । श्वा॒त्रेण॑ । यत् । पि॒त्रोः । मुच्य॑से । परि॑ । आ । त्वा॒ । पूर्व॑म् । अ॒न॒य॒न् । आ । अप॑रम् । पुन॒रिति॑ ॥
हे अग्ने त्वं मनवे मनोरनुग्रहार्थं द्यां द्युलोकम् अवाशयः शब्दितवानसि । पुण्यकर्मभिः साध्यो द्युलोक इति प्रकटितवानसि । 'सुकृते तव परिचरणं कुर्वते पुरूरवसे एतन्नामकस्य राज्ञोऽनुग्रहार्थं सुकृत्तरः अतिशयेन शोभनफलकार्यभूः । यत् यदा पित्रोः अरण्योः श्वात्रेण क्षिप्रमथनेन परि मुच्यसे परितो मुक्तो भवसि उत्पद्यसे इत्यर्थः । तदानीं त्वा अरण्योरुत्पन्नं त्वां पूर्वं वेदेः पूर्वदेशम् आ अनयन् आहवनीयत्वेन स्थापितवन्तः । पुनः पश्चात् अपरं पश्चिमदेशम् आ अनयन् गार्हपत्यरूपेण प्रापितवन्तः । आहवनीयकर्मानुष्ठानादूर्ध्वं गार्हपत्यरूपेण धारितवन्त इत्यर्थः॥ अवाशयः । ‘वाशृ शब्दे ' । पुरूरवसे । पुरु रौतीति पुरूरवाः । ‘रु शब्दे '। अस्मात् औणादिके असुनि ‘पुरसि च पुरूरवाः' (उ. सू. ४. ६७१) इति पूर्वपदस्य दीर्घो निपात्यते । सुकृते । ‘सुकर्मपापमन्त्रपुण्येषु कृञः ' (पा. सू. ३. २. ८९) इति क्विप् । ततः तुक् । पित्रोः । उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । मुच्यसे । अदुपदेशात् लसार्वधातुकानुदात्तत्वम् । यद्यपि ' सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति वचनात् विकरणस्वरः सतिशिष्टोऽपि लसार्वधातुकस्वरस्य बाधको न भवति तथापि धातुस्वरं बाधते एव, ‘धातुस्वरं श्नास्वरः । इत्युक्तत्वात् । अतो यक एव स्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् ॥
“Your, Agni, has announced heaven to Manu; you have more than requited Purūravas doing homage to you. When you are set free by the attrition of your parents, they bear you first to the east, then to the west (of the altar).”
Agni thou madest heaven to thunder for mankind; thou, yet more pious, for pious Pururavas.
When thou art rapidly freed from thy parents, first eastward they bear thee round, and, after, to the west.
Thou, O Agni, hast caused the sky to roar 1 for Manu, for the well-doing Purûravas, being thyself a greater well-doer. When thou art loosened by power (?) 2 from thy parents, they led thee hither before and afterwards again.
You, Agni, made heaven bellow for Manu, for Purūravas; for him of good action [=sacrificer? priest?] you act (even) better,
when through your swelling in your two parents [=the kindling sticks] you are set free. They [=priests] have led you here to the east, then
again to the west.
Den Himmel liessest donnern du dem Manuspross Pururavas, dem frommen du, der frommere; Wenn du durch Kraft von deinen Aeltern wirst gelöst, dann führt man bald nach Osten, bald nach Westen dich.
Du Agni brachtest für Manu den Himmel zum Brüllen, für deinen Wohltäter Pururavas ein noch größerer Wohltäter. Sobald du mit Kraft in den Eltern entbunden wardst, führten sie dich her, vorwärts und wieder zurück.
Ты, о Агни, для Ману заставил небо загрохотать,
Для Пурураваса-благодетеля – еще больший благодетель.
Когда силой роста ты освобождаешься от родителей,
Тебя стали отвозить на восток, (потом) снова на запад.
त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्य॑: । य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका॑यु॒रग्रे॒ विश॑ आ॒विवा॑ससि ॥
त्वम् । अ॒ग्ने॒ । वृ॒ष॒भः । पु॑ष्टि॒ऽवर्ध॑नः । उद्य॑तऽस्रुचे । भ॒व॒सि॒ । श्र॒वाय्यः॑ । यः । आऽहु॑तिम् । परि॑ । वेद॑ । वष॑ट्ऽकृतिम् । एक॑ऽआयुः । अग्ने॑ । विशः॑ । आ॒ऽविवा॑ससि ॥
हे अग्ने त्वं वृषभः कामानां वर्षिता पुष्टिवर्धनः यजमानस्य धनादिपोषाभिवृद्धिहेतुः उद्यतस्रुचे उद्धृतया स्रुचा युक्ताय यजमानाय तदनुग्रहार्थं श्रवाय्यः मन्त्रैः श्रवणीयः भवसि । यः यजमानः वषट्कृतिं वषट्कारयुक्ताम् आहुतिं परि वेद परितो जानाति समर्पयतीत्यर्थः । एकायुः मुख्यान्नः त्वम् अग्रे प्रथमं तं यजमानं विशः तदनुकूलाः प्रजाः अविवाससि सर्वतः प्रकाशयसि॥ पुष्टिवर्धनः । ‘वृधु वृद्धौ'। अस्मात् णिजन्तात् नन्द्यादित्वात् ल्युः । लित्स्वरेणोत्तरपदस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । उद्यतस्रुचे। यम उपरमे '। अस्मात् उत्पूर्वात् ‘निष्ठा ' इति क्तप्रत्यये ‘ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । उद्यता स्रुक् येनेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वेद । द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम् ॥ ॥ ३२ ॥
“Your, Agni, are the showerer (of desires), the augmenter of the prosperity (of your worshipper); you are to be called upon as the ladle is lifted up; upon him who fully understands the invocation and makes the oblation, you, the provider of sustenance, first bestow light, and then upon all men.”
Thou, Agni, art a Bull who makes our store increase, to be invoked by him who lifts the ladle up.
Well knowing the oblation with the hallowing word, uniting all who live, thou lightenest first our folk
Thou, O Agni, the bull, the augmenter of prosperity, art to be praised by the sacrificer who raises the Spoon, who knows all about the offering 1 and (the sacrifice performed with) the word Vashat. Thou (god) of unique vigour art the first to invite 2 the clans.
You, Agni, a bull increasing prosperity, should be celebrated by the (priest) who holds up the offering spoon,
who knows his way around the poured offering and the vaṣaṭ-cry—you who, throughout your single lifetime, seek to attract the (divine) clans at the beginning (of the sacrifice).
Ein Stier bist du, o Agni, mehrst die Nahrung uns, bist anzurufen dem, der dir den Löffel reicht; Dem, der das Opfer kennet und den Opferruf, erfreust du, Herr der Menschen, alles Volk.
Du Agni bist ein Stier, der die Aufzucht mehrt, ruhmbringend wirst du dem, der den Opferlöffel hebt, der die Opferung, den Vasatruf genau kennt, der du im Anfang im Alleinbesitz des Ayu die Stämme zu gewinnen suchst.
Ты о Агни, бык, увеличивающий процветание.
Ты бываешь достойным славы у поднимающего жертвенную ложку,
(Ты тот,) кто знает точно жертвенное возлияние (и) провозглашение Вашат!
(Бог,) принадлежащий одному Аю, с (самого) начала ты стремишься покорить племена.
त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म॑न्पिपर्षि वि॒दथे॑ विचर्षणे । यः शूर॑साता॒ परि॑तक्म्ये॒ धने॑ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः ॥
त्वम् । अ॒ग्ने॒ । वृ॒जि॒नऽव॑र्तनिम् । नर॑म् । सक्म॑न् । पि॒प॒र्षि॒ । वि॒दथे॑ । वि॒ऽच॒र्ष॒णे॒ । यः । शूर॑ऽसाता । परि॑ऽतक्म्ये । धने॑ । द॒भ्रेभिः॑ । चि॒त् । सम्ऽऋ॑ता । हंसि॑ । भूय॑सः ॥
हे विचर्षणे विशिष्टज्ञानयुक्त अग्ने त्वं वृजिनवर्तनिं विप्लुतमार्गं सदाचाररहितं नरं पुरुषं सक्मन् सचनीये समवेतुं योग्ये विदथे कर्मणि पिपर्षि पालयसि पूरयसि वा । सत्कर्मानुष्ठानयुक्तं करोषीत्यर्थः। यः त्वं परितक्म्ये परितो गन्तव्ये धने धनवत् शूराणां प्रियतमे शूरसाता शूरैः संभजनीये युद्धे दभ्रेभिश्चित् अल्पैरपि शौर्यरहितैः पुरुषैः। ‘दभ्रमर्भकमित्यल्पस्य' (निरु. ३.२०) इति यास्कः । समृता सम्यक् योद्धुं प्राप्ते सति तदनुग्रहार्थं भूयसः प्रौढान् प्रतिपक्षिणः शत्रून् हंसि मारयसि । ईदृशस्तव महिमेत्यर्थः ॥ वृजिनवर्तनिम्। वृजिना वर्तनिर्यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सक्मन् । ‘षच समवाये'। अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । 'नेड्वशि कृति' इति इट्प्रतिषेधः। न्यङ्क्वादित्वात् (पा. सू. ७. ३. ५३) कुत्वम् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । पिपर्षि। ‘पॄ पालनपूरणयोः । सिपि श्लौ द्विर्भावस्वोरदत्वहलादिशेषाः। ‘अर्तिपिपर्त्योश्च' इति अभ्यासस्य इत्वम् । शूरसाता । ‘शु गतौ'। 'शुषिचिमीनां दीर्घश्च' (उ. सू. २. १८३) इति शूरशब्दो रन्प्रत्ययान्त आद्युदात्तः । वन षण संभक्तौ ' इत्यस्मात् क्तिनन्तः सातिशब्दः । ‘जनसनखनां सञ्झलोः' इति आत्वम् । शूराणां सातिः संभजनमत्रेति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्' इति सप्तम्या डादेशः । परितक्म्ये । ‘तक हसने ' । अस्मात् औणादिको भावे मक् । तर्ह्आतीति ‘छन्दसि च ' ( पा. सू. ५. १. ६७ ) इति यः । ‘प्रादयो गताद्यर्थे प्रथमया' (पा. म. २. २. १८. ४ ) इति समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । दभ्रेभिः । ‘दभु दम्भे'। ‘स्फायितञ्चि°' इत्यादिना रक् । ‘बहुलं छन्दसि' इति भिस ऐसादेशाभावः । समृता । गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । पूर्ववत् आकारः । हंसि । हन्तेः सिपि ‘नश्चापदान्तस्य झलि' (पा. सू. ८. ३. २४ ) इति अनुस्वारः। यद्वृत्तयोगादनिघातः । भूयसः । ‘बहोर्लोपो भू च बहोः ' (पा. सू. ६. ४. १५८) इति बहुशब्दात् उत्तरस्य ईयसुनः ईकोरलोपो बहोः भूभावश्च । नित्त्वादाद्युदात्तत्वम् ॥
“Agni, excellently wise, you direct the man who follows improper paths, to acts that are fitted to reclaim him; you who, in the strife of heroes, (grateful to them) as widely- scattered wealth, destryed in the combat the mighty by the feeble.”
Agni, thou savest in the synod when pursued e'en him, farseeing One! who walks in evil ways.
Thou, when the heroes fight for spoil which men rush, round, slayest in war the many by the hands of few.
Thou, O Agni, leadest forward the man who follows crooked ways 1, in thy company at the sacrifice 2, O god dwelling among all tribes, who in the strife of heroes, in the decisive moment for the obtainment of the prize 3, even with few companions killest many foes in the battle 4.
You, Agni, in fellowship at the ceremony safely bring the man
on the twisting turns (of the ritual “racecourse”) to the end, o
unbounded one,
you who—at the contest of champions, at the crucial turn, when the stake (is set)—even with just a few you smash the greater in the clash.
Den Mann auch, Agni, der auf bösem Wege wallt, geleitest gnädig, weiser, du zum Opferfest, Der du im Streit der Helden, im Entscheidungskampf, mit wen'gen auch im Treffen schlägst die Ueberzahl.
Du Agni, hilfst dem in der Freundschaft, im Opfer auf krumme Wege geratenen Mann heraus, du ausgezeichneter, der du im Kampfe um den Tapferen, um den umstrittenen Siegerpreis, in der Schlacht selbst mit Wenigen die Überzahl schlägst.
Ты, о Агни, спасаешь мужа, следующего кривыми путями
В общении (с другими) в жертвенном собрании, о (ты,) очень подвижный,
(Ты,) что в решающей битве героев, (в борьбе) за богатство,
В столкновении даже с немногими побиваешь более многочисленных(врагов).
त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं॑ दधासि॒ श्रव॑से दि॒वेदि॑वे । यस्ता॑तृषा॒ण उ॒भया॑य॒ जन्म॑ने॒ मय॑: कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये॑ ॥
त्वम् । तम् । अ॒ग्ने॒ । अ॒मृ॒त॒ऽत्वे । उ॒त्ऽत॒मे । मर्त॑म् । द॒धा॒सि॒ । श्रव॑से । दि॒वेऽदि॑वे । यः । त॒तृ॒षा॒णः । उ॒भया॑य । जन्म॑ने । मयः॑ । कृ॒णोषि॑ । प्रयः॑ । आ । च॒ । सू॒रये॑ ॥
हे अग्ने त्वं तं मर्तं तथाविधं त्वत्सेविनं मनुष्यं दिवेदिवे प्रतिदिनं श्रवसे अन्नार्थम् उत्तमे अमृतत्वे उत्कृष्टमरणरहिते पदे दधासि धारयसि। यः यजमानः उभयाय जन्मने द्विविधजन्मार्थं द्विपदां चतुष्पदां च लाभायेत्यर्थः । ततृषाणः अतिशयेन तृष्णायुक्तो भवति तस्मै 'सूरये अभिज्ञाय यजमानाय मयः सुखं, यद्वै सुखं तन्मयः' इति श्रुत्यन्तरात् । प्रयः च अन्नमपि आ कृणोषि सर्वतः करोषि ॥ ततृषाणः । ‘ञितृषा पिपासायाम्। लिटः कानच् । चित्त्वादन्तोदात्तत्वम् । संहितायां दीर्घश्छन्दसः । कृणोषि । ‘कृधि हिंसाकरणयोश्च । ‘धिन्विकृण्व्योर च' इति उप्रत्ययः । ‘चादिलोपे विभाषा ' इति निघातप्रतिषेधः ॥
“You sustain, Agni, that mortal (who worships you), in the best immortality by daily food; you bestow on the sage, who is desirous (of creatures) of both kinds of birth, happiness and sustenance.”
For glory, Agni, day by day, thou liftest up the mortal man to highest immortality,
Even thou who yearning for both races givest them great bliss, and to the prince grantest abundant food.
Thou, O Agni, keepest that mortal 1 in the highest immortality, in glory day by day, (thou) who being thirsty thyself 2 givest happiness to both races (gods and men), and joy to the rich.
You, Agni, establish that mortal in highest immortality for fame day after day,
you who, yourself thirsting, create refreshment for both breeds [=men and gods] and a pleasurable meal here for the patron.
Du, Agni, führst den Menschen zur Unsterblichkeit zur höchsten, schaffest grossen Ruhm ihm Tag für Tag, Der du begierig Göttern und dem Menschenstamm Vergnügen schaffst und auch dem Fürsten Huld gewährst.
Du Agni bringst den Sterblichen zur höchsten Unsterblichkeit, zu Ruhm Tag für Tag, der du selbst durstig beiderlei Volk Erquickung schaffst und dem freigebigen Patron ein Labsal.
Ты, о Агни, смертного переносишь
В высшее бессмертие, в славу, (длящуюся) день за днем
(Ты,) который, сам (того) взыскуя, обоим родам
Даешь утешение и вознаграждение покровителю.
त्वं नो॑ अग्ने स॒नये॒ धना॑नां य॒शसं॑ का॒रुं कृ॑णुहि॒ स्तवा॑नः । ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे॑न दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
त्वम् । नः॒ । अ॒ग्ने॒ । स॒नये॑ । धना॑नाम् । य॒शस॑म् । का॒रुम् । कृ॒णु॒हि॒ । स्तवा॑नः । ऋ॒ध्याम॑ । कर्म॑ । अ॒पसा॑ । नवे॑न । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥
हे अग्ने स्तवानः स्तूयमानः त्वं नः अस्माकं धनानां सनये दानार्थं यशसं यशोयुक्तं कारुं कर्मणां कर्तारं पुत्रं कृणुहि कुरु । नवेन नूतनेन अपसा प्राप्तेन त्वद्दत्तेन पुत्रेण कर्म यागदानादिरूपम् ऋध्याम वर्धयाम । हे द्यावापृथिवी उभे देवते देवैः अन्यैः सह नः अस्मान् प्रावतं प्रकर्षेण रक्षतम् ॥ यशसम् । अर्शआदित्वात् अच्प्रत्ययः । व्यत्ययेन प्रत्ययात् पूर्वस्योदात्तत्वम् । यद्वा ‘सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः' ( पा. म. ३. १. ११. ३) इति यशस्शब्दात् क्विप् । तस्य प्रत्ययान्तस्य सनाद्यन्तत्वात् धातुसंज्ञायां ‘क्विप् च' इति क्विप्प्रत्ययान्तधातोः सतिशिष्टत्वात् ‘धातोः' इत्यन्तोदात्तत्वम् । कृणुहि । ‘उतश्च प्रत्ययाच्छन्दोवावचनम् ' (पा. सू. ६. ४. १०६. १) इति हेर्लुगभावः । स्तवानः । ‘सम्यानच् स्तुवः' ( उ. सू. २. २४६ ) इति बहुलवचनात् केवलस्यापि स्तौतेः आनच्प्रत्ययः । वृषादित्वादाद्युदात्तत्वम् । ऋध्याम ।' ऋधु वृद्धौ'। 'बहुलं छन्दसि ' इति विकरणस्य लुक् । यासुट उदात्तत्वम् । द्यावापृथिवी । ‘दिवो द्यावा' (पा. सू. ६. ३. २९ ) इति द्यावादेशः । आमन्त्रितानुदात्तत्वम् ॥
“Agni, who are praised by us for the sake of wealth, render illustrious the performer of the rite; may we improve the act by a new offspring (given by you). Preserve us, heaven and earth, along with the gods.”
O Agni, highly lauded, make our singer famous that he may win us store of riches:
May we improve the rite with new performance. O Earth and Heaven, with all the Gods, protect us.
Thou, O Agni, praised by us, help the glorious singer to gain prizes. May we accomplish our work with the help of the young active (Agni). O Heaven and Earth! Bless us together with the gods.
You, Agni—for us to win the stakes, make our bard glorious while you are being praised.
Might we bring to fulfillment the (ritual) act through a new (poetic) worker. O Heaven and Earth, along with the gods—help us.
O Agni, mache unsern Sänger herrlich, dass Schätze er gewinne, o gepriesner; Gelingen lass durch neuen Fleiss das Werk uns und mit den Göttern schützt uns, Erd' und Himmel!
Du Agni mach, gepriesen, unseren Dichter geehrt, daß er Reichtümer gewinne! Möchte uns durch das neue Machwerk die Opferhandlung gelingen. Himmel und Erde, helfet uns mit den Göttern weiter!
Ты, о Агни, прославленный, сделай нашего –
Певца уважаемым и чтобы он добыл богатства!
Пусть добьемся мы процветания обряда новым (жертвенным) трудом!
О Небо и Земля, помогайте нам вместе с богами!
त्वं नो॑ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः । त॒नू॒कृद्बो॑धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क॑ल्याण॒ वसु॒ विश्व॒मोपि॑षे ॥
त्वम् । नः॒ । अ॒ग्ने॒ । पि॒त्रोः । उ॒पऽस्थे॑ । आ । दे॒वः । दे॒वेषु॑ । अ॒न॒व॒द्य॒ । जागृ॑विः । त॒नू॒ऽकृत् । बो॒धि॒ । प्रऽम॑तिः । च॒ । का॒रवे॑ । त्वम् । क॒ल्या॒ण॒ । वसु॑ । विश्व॑म् । आ । ऊ॒पि॒षे॒ ॥
हे अनवद्य दोषरहित अग्ने देवेषु सर्वेषु मध्ये जागृविः जागरूकः त्वं पित्रोः मातृपितृरूपयोः(?) द्यावापृथिव्योः उपस्थे समीपस्थाने वर्तमानः सन् नः अस्माकं तनूकृत् पुत्ररूपशरीरकारी भूत्वा बोधि बुध्यस्व । अनुगृहाणेत्यर्थः । तथा कारवे कर्मकर्त्रे यजमानाय प्रमतिश्च अनुग्रहरूपप्रकृष्टमतियुक्तश्च भवेति शेषः । हे कल्याण मङ्गलरूप अग्ने त्वं विश्वं वसु सर्वमपि धनम् ओपिषे यजमानार्थमावपसि ॥ उपस्थे । ‘सुपि स्थः ' (पा. सू. ३. २, ४ ) इति तिष्ठतेः कः प्रत्ययः । ‘आतो लोप इटि च' इति आकारलोपः । ‘मरुद्वृधादीनां छन्दस्युपसंख्यानम् ' ( पा. सू. ६. २. १०६. २ ) इति पूर्वपदान्तोदात्तत्वम् । जागृविः । ‘जागृ निद्राक्षये '। 'जॄशॄस्तजागृभ्यः क्विन्' ( उ. सू. ४. ४९४ ) इति क्विन् । नित्वादाद्युदात्तत्वम् । बोधि । ‘बुध अवगमने '।' बहुलं छन्दसि' इति शपो लुक् । “ वा छन्दसि ' इति हेः अपित्त्वस्य विकल्पितत्वेन पित्त्वात् अङित्वे सति ‘ अङितश्च ' ( पा. सू. ६. ४. १०३ ) इति हेर्धिरादेशः । लघूपधगुणः । धातोरन्त्यलोपश्छान्दसः । प्रमतिः । ‘मन ज्ञाने'। क्तिनि “ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । प्रकृष्टा मतिः यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ऊपिषे । ‘डुवप् बीजसन्ताने '। छान्दसे लिटि ‘थासः से'। वजिस्वपि ' इत्यादिना संप्रसारणपरपूर्वत्वे । द्विर्भावहलादिशेषौ । क्रादिनियमात् इट् ॥
“Irreproachable Agni, a vigilant god amongst the gods, (abiding) in the proximity of (your) parents, and bestowing upon us embodied (progeny), aweke us. Be well disposed to the offerer of the oblation; for you, auspicious Agni, grant all riches.”
O blameless Agni lying in thy Parents' lap, a God among the Gods, be watchful for our good.
Former of bodies, be the singer's Providence: all good things hast thou sown for him, auspicious One!
Thou, O Agni, in the lap of thy parents, a god among gods, O blameless one, always watchful, be the body’s creator and guardian to the singer. Thou, O beautiful one, pourest forth all wealth.
You, Agni, in the lap of your two parents, the god wakeful among the gods, o faultless one—
become body-creator [=father] and (fatherly) solicitude for our bard. You, lovely one, have strewn every good thing here.
Sei wachsam uns, o Agni, in der Aeltern Schooss, und bei den Göttern, tadelloser, du als Gott, Bewahr des Dichters Leben, sei ihm hold gesinnt; du hast, o schöner, alles Gute ausgesät.
Du Agni sei uns im Schoße der Eltern als Gott über die Götter wachend, du Untadeliger! Sei dem Dichter leiblicher Erzeuger und Vorsehung. Du Glückbringender hast alles Gute ausgeschüttet.
Ты для нас, о Агни, в лоне родителей –
Бог среди богов, о безупречный, бодрствующий.
Стань певцу родителем и заступничеством!
Ты, несущий счастье, посеял все доброе.
त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो॑ व॒यम् । सं त्वा॒ राय॑: श॒तिन॒: सं स॑ह॒स्रिण॑: सु॒वीरं॑ यन्ति व्रत॒पाम॑दाभ्य ॥
त्वम् । अ॒ग्ने॒ । प्रऽम॑तिः । त्वम् । पि॒ता । अ॒सि॒ । नः॒ । त्वम् । व॒यः॒ऽकृत् । तव॑ जा॒मयः॑ । व॒यम् । सम् । त्वा॒ । रायः॑ । श॒तिनः॒ । सम् । स॒ह॒स्रिणः॑ । सु॒वीर॑म् । य॒न्ति॒ । व्र॒त॒ऽपाम् । अ॒दा॒भ्य॒ ॥
हे अग्ने त्वं प्रमतिः अस्मदनुग्रहरूपप्रकृष्टमतियुक्तोऽसि । तथा त्वं नः अस्माकं पिता पालकः असि । तथा त्वं वयस्कृत् आयुष्यप्रदोऽसि । वयम् अनुष्ठातारः तव जामयः बन्धवः । हे अदाभ्य केनापि अहिंसनीय अग्ने सुवीरं शोभनपुरुषयुक्तं व्रतपां कर्मणः पालकं त्वां शतिनः शतसंख्यायुक्ताः रायः धनानि सं यन्ति सम्यक् प्राप्नुवन्ति । तथा सहस्रिणः सहस्रसंख्याकाः रायः सं यन्ति ॥ सुवीरम् । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वे प्राप्ते ‘वीरवीर्यौ च' (पा. सू. ६. २. १२० ) इत्युत्तरपदाद्युदात्तत्वम् । अदाभ्य । दभिः प्रकृत्यन्तरमस्तीति केचिदाहुः । ‘दभेश्चेति वक्तव्यम्' (पा. सू. ३. १. १२४. ३ ) इति ण्यत् ॥ ॥ ३३ ॥
“You, Agni, are well disposed to us, you are our protector, you are the giver of life to us; we are your kinsmen. Uninjurable Agni, hundreds and thousands of treasures belong to you, who are the defender of pious acts and attended by good men.”
Agni, thou art our Providence, our Father thou: we are thy brethren and thou art our spring of life.
In thee, rich in good heroes, guard of high decrees, meet hundred, thousand treasures, O infallible!
Thou, O Agni, art our guardian, thou art our father. Thou art the giver of strength; we are thy kinsmen. Hundredfold, thousandfold treasures come together in thee, who art rich in heroes, the guardian of the law, O undeceivable one.
You, Agni, are (fatherly) solicitude, you a father to us. You are creator of vitality; we are your kin.
Riches in hundreds, in thousands converge on you, the well-heroed
protector of the commandment, o undeceivable one.
Fürsorger bist du, Agni, und ein Vater uns, du Jugend schaffend, deine Blutsverwandten wir; Es sammeln hundert, tausend Schätze sich bei dir, Untrüglicher, dem starken Ordnungschirmenden.
Du Agni bist uns Vorsehung und Vater, du bist der Ernährer, wir sind deine Verwandten. Zu dir kommen die Reichtümer hundertfältig, tausendfältig zusammen, zu dem Meister, dem Gesetzeshüter, du Untrüglicher.
Ты, о Агни, заступничество, ты – отец наш,
Ты – создатель жизненной силы; мы – твои родные.
К тебе богатства сотенные, тысячные
Собираются – к очень сильному, к защитнику обета, о неподдающийся обману.
त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे॑ दे॒वा अ॑कृण्व॒न्नहु॑षस्य वि॒श्पति॑म् । इळा॑मकृण्व॒न्मनु॑षस्य॒ शास॑नीं पि॒तुर्यत्पु॒त्रो मम॑कस्य॒ जाय॑ते ॥
त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । आ॒युम् । आ॒यवे॑ । दे॒वाः । अ॒कृ॒ण्व॒न् । नहु॑षस्य । वि॒श्पति॑म् । इळा॑म् । अ॒कृ॒ण्व॒न् । मनु॑षस्य । शास॑नीम् । पि॒तुः । यत् । पु॒त्रः । मम॑कस्य । जाय॑ते ॥
हे अग्ने त्वां प्रथमं पुरा देवाः आयवे आयोः मनुष्यरूपस्य नहुषस्य एतन्नामकराजविशेषस्य आयुं मनुष्यरूपं विश्पतिं सेनापतिम् अकृण्वन् कृतवन्तः । तथा मनुषस्य मनोः इळाम् एतन्नामधेयां पुत्रीं शासनीं धर्मोपदेशकर्त्रीम् अकृण्वन् कृतवन्तः । तथा च तैत्तिरीयैराम्नायते-’इडा वै मानवी यज्ञानूकाशिन्यासीत् ' ( तै. ब्रा. १. १. ४. ४ ) इति । वाजसनेयिनोऽप्येवमामनन्ति-- ‘प्रयाजानुयाजानां मध्ये मामवकल्पय मया सर्वानवाप्स्यसि कामानिति सा मनुमन्वशादिति यत् शात् ' इति । यत् यदा ममकस्य मदीयस्य हिरण्यस्तूपसंबन्धिनः यः पिता अङ्गिराः तस्य पितुः पुत्रः जायते । तदानीं हे अग्ने त्वमेव पुत्ररूप आसीरिति शेषः ॥ आयवे। षष्ठ्यर्थे चतुर्थी वक्तव्या' ( पा. सू. २. ३. ६२. १ ) इति चतुर्थी । नहुषस्य । णह बन्धने '। ‘नहिकलिहन्यर्तिलसिभ्य उषत्त ' ( उ. सू. ४. ५१५)। वृषादित्वादाद्युदात्तत्वम् । विश्पतिम् । • परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम् । मनुषस्य । ‘मनेर्नित्' इति उषच् । नित्त्वादाद्युदात्तत्वम् । शासनीम् । शिष्यतेऽनयेति शासनी । करणाधिकरणयोश्च' इति ल्युट् ।' टिडाढाणञ् ' ( पा. सू. ४. १. १५ ) इत्यादिना ङीप् । लित्स्वरेणाद्युदात्तत्वम् । ममकस्य । ममेदमित्यर्थे ' तस्येदम् ' ( पा. सू. ४. ३. १२०) इति अणि ' तवकममकावेकवचने ' ( पा. सू. ४. ३. ३ ) इति अस्मच्छब्दस्य ममकादेशः । ‘संज्ञापूर्वको विधिरनित्यः' इति वृद्ध्यभावः । व्यत्ययेनाद्युदात्तत्वम् ॥
“The gods formerly made you, Agni, the living genitive ral of the mortal Nahuṣa; they made Iḷā, the instrumental uctress of Manu, when the son of my father was born.”
Thee, Agni, have the Gods made the first living One for living man, Lord of the house of Nahusa.
Ila they made the teacher of the sons of men, what time a Son was born to the father of my race.
Thee, O Agni, the gods have made for the living as the first living 1, the clan-lord of the Nahusha 2. They have made (the goddess) Ilâ the teacher of men (manusha), when a son of my father is born 3.
You, Agni, did the gods create as the first Āyu for Āyu, as the clanlord of Nahuṣa.
Iḍā they created as instructress of mankind: that the son [=Agni] is
born of a father as trifling as me [=sacrificer].
Die Götter machten zu der Menschheit Fürsten dich, zum ersten Wandrer, Agni, dich den Wandernden, Sie machten Iḍa zu der Menschen Lehrerin zur Zeit, da meines Ahnherrn Sohn geboren ward.
Dich Agni machten die Götter zum ersten Ayu für den Ayu, zum Stammesfürsten des Nahusa. Sie machten die Ila zur Lehrmeisterin des Menschen, wenn meiner Wenigkeit als dem Vater der Sohn Agni geboren wird.
Тебя, о Агни, первым Аю для Аю
Сделали боги, господином племени Нахуши.
Иду они сделали наставницей человека,
Чтобы от меня-отца сын (-Агни) рождался.
त्वं नो॑ अग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्व॑श्च वन्द्य । त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव॑ व्र॒ते ॥
त्वम् । नः॒ । अ॒ग्ने॒ । तव॑ । दे॒व॒ । पा॒युऽभिः॑ । म॒घोनः॑ । र॒क्ष॒ । त॒न्वः॑ । च॒ । व॒न्द्य॒ । त्रा॒ता । तो॒कस्य॑ । तन॑ये । गवा॑म् । अ॒सि॒ । अनि॑ऽमेषम् । रक्ष॑माणः । तव॑ । व्र॒ते ॥
हे वन्द्य वन्दनीय अग्ने देव त्वं तव पायुभिः त्वदीयैः पालनैः मघोनः धनयुक्तान् नः अस्मान् रक्ष । तथा तन्वश्च तनूः पुत्रदेहानपि रक्ष । तोकस्य अस्मदीयस्य पुत्रस्य यः तनयोऽस्मत्पौत्रादिः तव व्रते त्वदीये कर्मणि अनिमेषं निरन्तरं रक्षमाणः सावधानो वर्तते तस्मिन् या गावः सन्ति तासां गवां त्राता रक्षकः असि । ईदृशस्य तव अस्मद्रक्षणे किमु वक्तव्यमित्यर्थः ॥ मघोनः । शसि • श्वयुवमघोनामतद्धिते ' (पा. सू. ६. ४. १३३ ) इति संप्रसारणम् । तन्वः । ‘सुपां सुपो भवन्ति ' इति शसो जसादेशः । पूर्वसवर्णदीर्घस्य दीर्घाञ्जसि च ' इति प्रतिषेधः । ‘उदात्तस्वरित योर्यण: ' इति स्वरितत्वम् । शसि हि ‘उदात्तयणो हल्पूर्वात्' इति विभक्त्युदात्तत्वं स्यात् ॥
“Agni, who are worthy to be praised, preserve us who are opulent with your bounties, and also the person ns (of our sons); you are the defender of cattle for the son of my son, who is ever assiduous in your worship.”
Worthy to be revered, O Agni, God, preserve our wealthy patrons with thy succours, and ourselves.
Guard of our seed art thou, aiding our cows to bear, incessantly protecting in thy holy way.
Thou, O Agni, protect with thy guardians, O god, our liberal givers and ourselves, O venerable one! Thou art the protector of kith and kin 1 and of the cows, unremittingly watching over thy law.
You, god Agni—along with your protectors, watch over our benefactors and ourselves, o you to be extolled.
You are the guardian over the lineage of offspring and cattle,
unblinkingly watchful in accord with your commandment.
Beschirm durch deine Hüter, Agni, uns, o Gott, die Opfergeber und uns selbst, o preislicher, Du schützest Kinder, Enkel, Rinder uns, sie schlummerlos bewachend stets bei deinem Werk.
Du Agni beschütze mit deinen Wächtern, o Gott, die Lohnherren und uns selbst, du Löblicher! Du bist der Schirmer des Samens in der leiblichen Nachkommenschaft und der Rinder, wachsam, ohne in deinem Dienste die Augen zu schließen.
Ты, о Агни, с помощью твоих хранителей, о бог,
Защищай наших щедрых (покровителей) и нас самих, о достойный восхваления!
Ты – спаситель потомства – чтобы оно длилось – (и) коров,
Охраняющий, не смыкая глаз, (все что есть) в твоем завете.
त्वम॑ग्ने॒ यज्य॑वे पा॒युरन्त॑रोऽनिष॒ङ्गाय॑ चतुर॒क्ष इ॑ध्यसे । यो रा॒तह॑व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न्मन्त्रं॒ मन॑सा व॒नोषि॒ तम् ॥
त्वम् । अ॒ग्ने॒ । यज्य॑वे । पा॒युः । अन्त॑रः । अ॒नि॒ष॒ङ्गाय॑ । च॒तुः॒ऽअ॒क्षः । इ॒ध्य॒से॒ । यः । रा॒तऽह॑व्यः । अ॒वृ॒काय॑ । धाय॑से । की॒रेः । चि॒त् । मन्त्र॑म् । मन॑सा । व॒नोषि॑ । तम् ॥
हे अग्ने त्वं यज्यवे यज्योः' यजमानस्य पायुः पालकः अन्तरः समीपवर्ती सन् अनिषङ्गाय रक्षोभिरसंबद्धाय यज्ञाय चतुरक्षः दिक्चतुष्टयेऽपि इन्द्रियस्थानीयज्वालायुक्तः इध्यसे दीप्यसे । अवृकाय अहिंसकाय धायसे पोषकाय तुभ्यं रातहव्यः दत्तहविष्कः यः यजमानोऽस्ति कीरेश्चित् स्तोतुरेव सतः तस्य संबन्धिनं मन्त्रं त्वदीयस्तोत्ररूपं मनसा त्वदीयेन चित्तेन वनोषि याचसि ॥ यज्यवे । यजिमनिशुन्धि ' ( उ. सू. ३. ३००) इत्यादिना यजतेः युप्रत्ययः । पायुः । ‘कृवापाजि° ' इत्यादिना उण् । ' आतो युक् चिण्कृतोः' (पा. सू. ७. ३. ३३ ) इति युगागमः । अनिषङ्गाय । ‘पञ्ज संगे'। न विद्यते निषङ्गोऽस्येति बहुव्रीहौ ' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । चतुरक्षः । चत्वार्यक्षीणि ज्वालारूपाणि यस्यासौ चतुरक्षः । ‘बहुव्रीहौ सक्थ्यक्ष्णोः ' (पा. सू. ५. ४. ११३ ) इति समासान्तः षच्प्रत्ययः । ‘चितः' इत्यन्तोदात्तत्वम् । धायसे । ' वहि हाधाभ्यश्छन्दसि' इति असुन् । णित् ' इत्यनुवृत्तेः ' आतो युक् चिण्कृतोः' इति युगागमः । कीरेः । ‘कृत संशब्दने' । अस्मात् ण्यन्तात् ‘अच इः' इति इप्रत्यये णिलोपे धातोरन्त्यलोपश्छान्दसः । मन्त्रम् ।' मत्रि गुप्तभाषणे'। पचाद्यचि वृषादिषु पाठादाद्युदात्तत्वम् । वनोषि । वनु याचने'। ‘तनादिकृञ्भ्य उः' । प्रत्ययस्वरः ॥
“Your, four-eyed Agni, blaze as the protector of the worshipper, who are at hand for the (security of the) uninterrupted (rite); you cherish in your mind the prayer of your adorer, who offers the oblation to you, the harmless, the benevolent.”
Agni, thou art a guard close to the pious man; kindled art thou, four-eyed! for him who is unarmed.
With fond heart thou acceptest e'en the poor man's prayer, when he hath brought his gift to gain security.
1 Thou, O Agni, art kindled four-eyed, as the closest guardian for the sacrificer who is without (even) a quiver 2. Thou acceptest in thy mind the hymn even of the poor 3 who has made offerings 4, that he may prosper without danger.
You, Agni, are kindled as intimate protector, four-eyed, for the
worshipful one who lacks even a quiver,
you who, with the bestowed oblation, for nourishment safe from wolves even for the weak, win this mental spell (for him) with your mind.
Dem Frommen bist der nächste Hüter, Agni, du, vieräugig wirst dem unbewehrten du entflammt; Du nimmst den Spruch des Sängers gerne an, der dir mit Opfern naht, zu nähren den, der nie verletzt.
Du, Agni, wirst entzündet als der vertraute vieräugige Wächter für den unbewehrten Opferer. Wer Opfer spendet, um sich Sicherheit zu schaffen - auch des an Geist Armen Dichterspruch - den begehrst du.
Ты, о Агни, как ближайший защитник для жертвователя
Безоружного, зажигаешься, четырехглазый.
Кто принес жертву, чтоб обеспечить безопасность,
Тот стих (его) – даже если он слаб – ты возлюбишь сердцем.
त्वम॑ग्न उरु॒शंसा॑य वा॒घते॑ स्पा॒र्हं यद्रेक्ण॑: पर॒मं व॒नोषि॒ तत् । आ॒ध्रस्य॑ चि॒त्प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो॑ वि॒दुष्ट॑रः ॥
त्वम् । अ॒ग्ने॒ । उ॒रु॒ऽशंसा॑य । वा॒घते॑ । स्पा॒र्हम् । यत् । रेक्णः॑ । प॒र॒मम् । व॒नोषि॑ । तत् । आ॒ध्रस्य॑ । चि॒त् । प्रऽम॑तिः । उ॒च्य॒से॒ । पि॒ता । प्र । पाक॑म् । शास्सि॑ । प्र । दिशः॑ । वि॒दुःऽट॑रः ॥
हे अग्ने त्वम् ऊरुशंसाय बहुभिः स्तोतव्याय वाघते ऋत्विजे तदुपकारार्थं स्पार्ह स्पृहणीयं परमम् उत्तमं यद्रेक्णः धनमस्ति तत् धनं वनोषि अनुष्ठाता लभताम् इति कामयसे । तथा त्वम् आध्रस्य चित् सर्वतो धारणीयस्य पोषणीयस्य दुर्बलस्य यजमानस्यापि प्रमतिः प्रकृष्टबुद्धियुक्तः पिता पालकः इत्यभिज्ञैः उच्यसे । तथा विदुष्टरः अतिशयेनाभिज्ञस्त्वं पाकं शिशुम् । “ पोतः पाकोऽर्भको डिम्भः' (अम. २. ५. ३८) इत्यभिधानात् । यास्कोऽप्येवमाह-’पाकः पक्तव्यो भवति' (निरु. ३. १२)। तथाविधं यजमानं प्र शास्सि प्रकर्षेण अनुशिष्टं करोषि । तथा दिशः प्राच्यादिकाः प्रशास्सि । त्वदीयशासनाभावे अनुष्ठातॄणां विभ्रमः स्यात् । तथा च श्रूयते- देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्' इति । स भ्रमो दक्षिणादिग्गत अग्निना निवर्तते । तदपि तत्रैवाम्नातं ’पथ्यां स्वस्तिमयजन् प्राचीमेव तया दिशं प्राजानन्नग्निना दक्षिणा' (तै. सं. ६. १. ५. १-२ ) इति । ऐतरेयिणापि तथैवाम्नातम्--’अथो एतं वरमवृणीत मयैव प्राची दिशं प्रजानाथाग्निना दक्षिणाम् ' ( ऐ. ब्रा. १. ७) इति ॥ उरुशंसाय । ‘शंसु स्तुतौ ' । शस्यते इति शंसः । कर्मणि घञ् । ञित्स्वरेणाद्युदात्तत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते। स्पार्हम् । स्पृहासंबन्धि । तस्येदम्' इति अण् । रेक्णः ।' रिचिर् विरेचने '। ‘रिचेर्धने घिच्च' (उ. सू. ४. ६३८) इति असुन् । चकारात् नुडागमः । ‘चजोः कु घिण्ण्यतोः ' ( पा. सू. ७. ३. ५२ ) इति कुत्वम् । आध्रस्य । ‘ ध्रे तृप्तौ ।' आदेच उपदेशेऽशिति' (पा. सू. ६. १.४५) इति आत्वम् । आतश्चेोपसर्गे ' ( पा. सू. ३.१.३६) इति कप्रत्ययः । शास्सि। शासु अनुशिष्टौ । अदादित्वात् शपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः । पाकं च प्रशास्सि दिशश्च प्रशास्सि इत्यत्र चार्थो गम्यते । अतः ‘चादिलोपे विभाषा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । विदुष्टरः । विद्वच्छब्दात् तरपि ‘अयस्मयादीनि च्छन्दसि' (पा. सू. १. ४. २०) इति भसंज्ञायां ‘ वसोः संप्रसारणम्' इति संप्रसारणं परपूर्वत्वम् । 'शासिवसि' इति षत्वम् । तरपः पित्त्वादनुदात्तत्वे वसोः स्वरेण उकार उदात्तः ॥
“You, Agni, desire (that the worshipper may acquire) that excellent wealth which is reqquisite for the many-commended priest; you are called the well-intentioned protector. You, who are all-wise, instrumental ucted the disciple, and (define) the points of the horizon.”
Thou, Agni gainest for the loudly-praising priest the highest wealth, the object of a man's desire.
Thou art called Father, caring even for the weak, and wisest, to the simple one thou teachest lore.
Thou, O Agni, gainest 1 for the widely-renowned worshipper that property which is desirable and excellent. Thou art called the guardian and father even of the weak 2; thou instructest the simple, thou, the greatest sage, the quarters of the world 3.
You, Agni, (are kindled as protector) for the cantor chanting far and wide. What is the highest legacy worth seeking—that you win
(for him).
Even of the feeble you are called (fatherly) solicitude and father. You
instruct the simple, (instruct) the quarters, as the one who knows better.
Du, Agni, schenkst dem Beter, welcher laut dich ruft,den besten Reichthum, der von vielen, wird begehrt, Des Armen Vater und Versorger heissest du, den Thoren strafst und lehrest du, o weisester.
Du Agni gewinnst für den Sänger, dessen Worte weit reichen, das was wünschenswerter höchster Besitz ist. Du heißest die Vorsehung, der Vater auch des Armen. Du belehrest den Unerfahrenen, du gibst Weisungen als der Kundigere.
Ты, о Агни, для жреца, чьи слова разносятся далеко,
Добываешь то, что (есть) высшее вожделенное богатство,
Ты зовешься заступничеством даже для несчастного, отцом (его).
Ты наставляешь простака, на(зываешь ему) направления как более сведущий.
त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे॑व स्यू॒तं परि॑ पासि वि॒श्वत॑: । स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो॑न॒कृज्जी॑वया॒जं यज॑ते॒ सोप॒मा दि॒वः ॥
त्वम् । अ॒ग्ने॒ । प्रय॑तऽदक्षिणम् । नर॑म् । वर्म॑ऽइव । स्यू॒तम् । परि॑ । पा॒सि॒ । वि॒श्वतः॑ । स्वा॒दु॒ऽक्षद्मा॑ । यः । व॒स॒तौ । स्यो॒न॒ऽकृत् । जी॒व॒ऽया॒जम् । यज॑ते । सः । उ॒प॒ऽमा । दि॒वः ॥
हे अग्ने त्वं प्रयतदक्षिणं येन यजमानेन ऋत्विग्भ्यो दक्षिणा दत्ता तादृशं नरं पुरुषं यजमानं विश्वतः सर्वतः परि पासि सम्यक् पालयसि । तत्र दृष्टान्तः । स्यूतं निश्छिद्रत्वेन सूचीभिः सम्यक् निष्पादितं वर्मेव यथा कवचं युद्धे पालयति तद्वत् । स्वादुक्षद्मा स्वाद्वन्नः वंसतौ निवासभूते स्वगृहे स्योनकृत् अतिथीनां सुखकारी यः यजमानः जीवयाजं जीवयजनसहितं यज्ञं यद्वा जीवनिष्पाद्यं यजते अनुतिष्ठति सः यजमानः 'दिवः स्वर्गस्य उपमा दृष्टान्तो भवति । यथा स्वर्गोऽनुष्ठातॄन् सुखयति तथा त्वमपि ऋत्विगादीनित्यर्थः ॥ स्यूतम् ।' षिवु तन्तुसंताने '।' निष्ठा ' इति क्तः। 'यस्य विभाषा ' इति इट्प्रतिषेधः । ‘छ्वोः शूडनुनासिके च' ( पा. सू. ६. ४. १९) इति वकारस्य ऊडादेशः । स्वादून् क्षदतीति स्वादुक्षद्मा । क्षदतिः अत्तिकर्मा । अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । नित्त्वादाद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । बहुव्रीहौ तु व्यत्ययेन । जीवयाजम् । जीवाः ऋत्विजः इज्यन्ते दक्षिणाभिः पूज्यन्ते अत्रेति अधिकरणे घञ् । कुत्वाभावश्छान्दसः । यद्वा । जीवैः पशुभिः योजनं जीवयाजः । याजयतेर्घञ् । ' णेरनिटि' इति णिलोपस्य ‘ अचः परस्मिन् ' इति स्थानिवद्भावात् “ चजोः कु घिण्ण्यतोः' इति कुत्वाभावः । थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । सोपमा । ‘सोऽचि लोपे चेत्पादपूरणम्' इति संहितायां सोर्लोपः । दिवः । ‘ऊडिदम्' इति विभक्तेरुदात्तत्वम् ॥ ॥ ३४ ॥
“Agni, you dend the man who gives presents (to the priests) on every side, like well-stitched armour. The man who keeps choice viands in his dwelling, and with them entertains (his guests), performs the sacrifice of life, and is the likeness of heaven.”
Agni, the man who giveth guerdon to the priests, like well-sewn armour thou guardest on every side.
He who with grateful food shows kindness in his house, an offerer to the living, is the type of heaven.
Thou, O Agni, protectest on every side like well-stitched armour the man who gives sacrificial fees. He who puts sweet food (before the priests), who makes them comfortable in his dwelling, who kills living (victims), he (will reside) high in heaven 1.
You, Agni, like (well-)stitched armor, protect all around the man whose priestly gift has been proffered.
Whoever (as host), serving sweet food, providing a comfortable place in his dwelling, performs the sacrifice of a living thing, he is the very measure of heaven.
Den Mann, o Agni, der die Opfergabe schenkt, umschirmst du wie ein festgefügter Panzer rings; Wer Süsses zutheilt, holdes wirkend in dem Haus, Lebend'ges opfert, der ist nah dem Himmel schon.
Du Agni schützest den Mann, der Dichtersold gewährt, nach allen Seiten wie ein fest genähter Panzer. Wer süße Speise vorsetzt, in seiner Wohnung ein gutes Lager bereitet und ein lebendes Tier opfert, der kommt zuoberst im Himmel.
Ты, о Агни, мужа, получившего жертвенное вознаграждение,
Охраняешь со всех сторон, как (хорошо) сшитый щит.
Кто подает сладкое блюдо, готовит мягкое ложе в жилище (своем),
Жертвует живое жертвенное животное, тот попадает в высшую часть неба.
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो न इ॒ममध्वा॑नं॒ यमगा॑म दू॒रात् । आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या॑नाम् ॥
इ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒षः॒ । नः॒ । इ॒मम् । अध्वा॑नम् । यम् । अगा॑म । दू॒रात् । आ॒पिः । पि॒ता । प्रऽम॑तिः । सो॒म्याना॑म् । भृमिः॑ । अ॒सि॒ । ऋ॒षि॒ऽकृत् । मर्त्या॑नाम् ॥
हे अग्ने त्वं नः अस्मत्संबन्धिनीम् इमाम् इदानीम् संपादितां शरणिं हिंसां व्रतलोपरूपां मीमृषः क्षमस्व । तथा त्वदीयसेवाम् अग्निहोत्रादिरूपां परित्यज्य दूरात् दूरदेशं यम् इममध्वानम् अगाम वयं गतवन्तः तमपि क्षमस्वेति शेषः। सोम्यानां सोमार्हाणामनुष्ठातॄणां मर्यानां त्वम् आप्यादिगुणयुक्तः असि । आपिः प्रापणीयः पिता पालकः प्रमतिः प्रकृष्टमननयुक्तः भृमिः भ्रामकः कर्मनिर्वाहक इत्यर्थः । ऋषिकृत् दर्शनकारी । अनुजिघृक्षया प्रत्यक्षो भवसीत्यर्थः ॥ शरणिम् । ‘शॄ हिंसायाम्' इत्यस्मात् औणादिकः अनिप्रत्ययः । मीमृषः । “ मृष तितिक्षायाम् ' । अस्मात् णौ चङि गुणे प्राप्ते ‘ नित्यं छन्दसि' ( पा. सू. ७. ४. ८) इति उपधर्कारस्य ऋकारादेशः । णिलोपद्विर्भावहलादिशेषोरदत्वसन्वद्भावेत्वदीर्घत्वानि । तिङ्ङतिङः' इति निघातः। अगाम । इण् गतौ'। ‘इणो गा लुङि' ( पा. सू. २. ४. ४५) इति गादेशः । गातिस्था ' इति सिचो लुक् । अडागम उदात्तः । भृमिः । ‘भ्रम अनवस्थाने ' ।' भ्रमेः संप्रसारणं च ' (उ. सू. ४. ५६०) इति इन्प्रत्ययः । संप्रसारणे परपूर्वत्वम्। ' इगुपधात्कित्' इत्यनुवृत्तेः कित्वाद्गुणप्रतिषेधः । नित्त्वादाद्युदात्तत्वम् ॥
“Agni, forgive us this our negligence, this path in which we have gone astray; you are to be sought as the protector and encourager of those who offer suitable libations; you are the fulfiller (of the end of rites), you make yourself visible to mortals.”
Pardon, we pray, this sin of ours, O Agni,--the path which we have trodden, widely straying,
Dear Friend and Father, caring for the pious, who speedest nigh and who inspirest mortals.
Forgive, O Agni, this our fault (?) 1, (look graciously at) this way which we have wandered from afar. Thou art the companion, the guardian, the father of those who offer Soma; thou art the quick one 2 who makes the mortals Rishis 3.
This (ritual) breach of ours, Agni—make it forgotten; make us forget this way which we have come on from afar.
You are friend, father, solicitude for those offering soma, a whirling creator of seers for mortals.
Verzeih, o Agni, diese unsre Sünde, den Weg, den wir entfernt von dir gegangen, Du bist der Frommen Vater, Freund, Versorger, bist eifriger Begeisterer der Menschen.
Verzeih uns, Agni, diesen Ungehorsam, den Weg, den wir von Ferne gekommen sind! Du bist Freund, Vater, Vorsehung der Somapfleger, du bist der eifrige Rishimacher der Sterblichen.
Это, о Агни, прегрешение прости нам,
Это путь, которым мы пришли издалека.
Ты друг, отец, заступничество для приносящих сому,
Ты ревностный создатель риши для смертных.
म॒नु॒ष्वद॑ग्ने अङ्गिर॒स्वद॑ङ्गिरो ययाति॒वत्सद॑ने पूर्व॒वच्छु॑चे । अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा॑दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यम् ॥
म॒नु॒ष्वत् । अ॒ग्ने॒ । अ॒ङ्गि॒र॒स्वत् । अ॒ङ्गि॒रः॒ । य॒या॒ति॒ऽवत् । सद॑ने । पू॒र्व॒ऽवत् । शु॒चे॒ । अच्छ॑ । या॒हि॒ । आ । व॒ह॒ । दैव्य॑म् । जन॑म् । आ । सा॒द॒य॒ । ब॒र्हिषि॑ । यक्षि॑ । च॒ । प्रि॒यम् ॥
हे शुचे शुद्धियुक्त अङ्गिरः अङ्गनशील हविरादानाय तत्र तत्र गमनशील अग्ने अच्छ आभिमुख्येन सदने देवयजनदेशे याहि गच्छ । तत्र चत्वारो दृष्टान्ताः । मनुष्वत् यथा मनुः अनुष्ठानदेशे गच्छति, अङ्गिरस्वत् यथा च अङ्गिराः गच्छति, ययातिवत् यथा ययातिर्नाम राजा गच्छति, पूर्ववत् अन्ये च पूर्वपुरुषाः यथा गच्छन्ति । यथा मन्वादयो यज्ञे गच्छन्ति तद्वत् । अथवा मन्वादीनां यज्ञे यथा त्वं गच्छसि तद्वत् । गत्वा च दैव्यं देवतासमूहरूपं जनम् आ वह अस्मिन् कर्मणि आनय । आनीय च बर्हिषि आस्तीर्णे दर्भे आ सादय तान् देवान् उपवेशय । उपवेश्य च प्रियम् अभीष्टं हविः यक्षि च देहि ॥ मनुष्वत् । तेन तुल्यम्° ' इति प्रथमार्थे वा ‘तत्र तस्येव ' इति षष्ठ्यर्थे वा वतिः ( पा. सू. ५. १. ११५-११६ ) । अयस्मयादित्वेन भत्वात् रुत्वाद्यभावः । प्रत्ययस्वरः । एवम् अङ्गिरस्वत् इत्यादिषु । वह । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । यक्षि । लोटि • बहुलं छन्दसि ' इति शपो लुक् । सेर्ह्यपिच्च ' इति हेः अभावश्छान्दसः । षत्वकत्वे ॥
“Pure Agni, who goes about (to receive oblations), go in your presence to the halll of sacrifice, as did Manu, and Aṅgiras, and Yayāti, and others of old; bring hither the divine person nages, seat them on the sacred grass, and offer them grateful (sacrifice).”
As erst to Manus, to Yayati, Angiras, so Angiras! pure Agni! come thou to our hall
Bring hither the celestial host and seat them here upon the sacred grass, and offer what they love.
As thou didst for Manus, O Agni, for Angiras, O Angiras, for Yayâti on thy (priestly) seat, as for the ancients, O brilliant one, come hither, conduct hither the host of the gods, seat them on the sacrificial grass, and sacrifice to the beloved (host).
As (you did) for Manu, o Agni, as for Aṅgiras, o Aṅgiras, as for Yayāti, as (you did) earlier, o flame,
drive here to your seat; convey hither the heavenly folk; make them sit on the ritual grass and, you, perform sacrifice to the beloved.
Wie früher einst bei Manus, wie bei Angiras, Jajati, nah dich, Agni, Bote, unserm Sitz, O reiner, fahre her das göttliche Geschlecht, setz auf die Streu das liebe und verehre es.
Wie bei Manu, o Agni, wie bei Angiras, du Angiras, wie bei Yayati, wie früher an deinem Sitze, du Reiner- komm herbei, fahre das göttliche Volk her, laß es sich auf das Barhis setzen und opfere dem lieben!
Как у Ману, о Агни, как у Ангираса, о Ангирас,
Как у Яяти, как прежде, на свое место, о чистый, –
Приди, привези божественный род,
Усади на жертвенную солому, принеси жертву милому (их роду)!
ए॒तेना॑ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती॑ वा॒ यत्ते॑ चकृ॒मा वि॒दा वा॑ । उ॒त प्र णे॑ष्य॒भि वस्यो॑ अ॒स्मान्त्सं न॑: सृज सुम॒त्या वाज॑वत्या ॥
ए॒तेन॑ । अ॒ग्ने॒ । ब्रह्म॑णा । व॒वृ॒ध॒स्व॒ । शक्ती॑ । वा॒ । यत् । ते॒ । च॒कृ॒म । वि॒दा । वा॒ । उ॒त । प्र । ने॒षि॒ । अ॒भि । वस्यः॑ । अ॒स्मान् । सम् । नः॒ । सृ॒ज॒ । सु॒ऽम॒त्या । वाज॑ऽवत्या ॥
हे अग्ने एतेन अस्मत्प्रयुक्तेन ब्रह्मणा मन्त्रेण ववृधस्व अभिवृद्धो भव । शक्ती वा विदा वा अस्मदीयशक्त्या च अस्मदीयज्ञानेन च ते तव यत् स्तोत्रं चकृम वयं कृतवन्तः । एतेन ब्रह्मणा इति पूर्वत्रान्वयः। उत अपि च अस्मान् अनुष्ठातॄन् वस्यः वसुमत्तरत्वलक्षणं श्रेयः प्र णेषि प्रकर्षेण प्रापय । नः अस्मान् वाजवत्या प्रभूतान्नयुक्तया सुमत्या अनुष्ठानविषयया शोभनबुद्ध्या
“सं सृज संयोजय ॥ ववृधस्व ।' वृधु वृद्धौ'। लेटि अडागमः । ‘बहुलं छन्दसि ' इति शपः श्लुः । द्विर्भावहलादिशेषोरदत्वानि । अभ्यासस्य संहितायां दीर्घश्छान्दसः । शक्ती । ‘सुपां सुलुक् ' इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । क्तिनो नित्त्वादाद्युदात्तत्वम् । विदा । ‘सावेकाचः' इति तृतीयाया उदात्तत्वम् । नेषि । ‘णीञ् प्रापणे '। ‘बहुलं छन्दसि ' इति शपो लुक् । ‘उपसर्गदसमासे इति णत्वम् । सुमत्या ।' मन्क्तिन् ' इत्यादिनोत्तरपदान्तोदात्तत्वं प्रथमाध्याये प्रपञ्चितम् ( ऋ. सं. १. ७. ७ )। उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् ॥ ॥ ३५ ॥
“. Agni, do your thrive through this our prayer, which we make according to our ability, according to our knowledge; do you, therefore, lead us to opulence, and endow us with right understanding securing (abundant) food.”
By this our prayer be thou, O Agni, strengthened, prayer made by us after our power and knowledge.
Lead thou us, therefore, to increasing riches; endow us with thy strength-bestowing favour.
Be magnified, O Agni, through this spell which we have made for thee with our skill or with our knowledge. And lead us forward to better things. Let us be united with thy favour, which bestows strength.
Through this sacred formulation, o Agni, keep growing strong—the one that we have made for you by skill or by knowledge.
And lead us forth toward a better state; join us with your benevolence conferring prizes.134 I.32
Durch dies Gebet, o Agni, lass dich stärken, das wir gemacht nach Wissen und Vermögen Und führe uns zu höherm Glücke vorwärts, beströme uns mit gabenreicher Güte.
Erbaue dich an dieser Beschwörung, o Agni, die wir dir nach bestem Können oder Wissen gemacht haben. Und geleite uns zum Glück, begabe uns mit lohnbringender Gnade!
Укрепи себя, о Агни, этой молитвой,
Что мы тебе сотворили, или силой нашей, или знанием!
Привези нас также к лучшему!
Одари нас благосклонностью, дающей награду!