इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्र वो॑चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री । अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त्पर्व॑तानाम् ॥
इन्द्र॑स्य । नु । वी॒र्या॑णि । प्र । वो॒च॒म् । यानि॑ । च॒कार॑ । प्र॒थ॒मानि॑ । व॒ज्री । अह॑न् । अहि॑म् । अनु॑ । अ॒पः । त॒त॒र्द॒ । प्र । व॒क्षणा॑आः॑ । अ॒भि॒न॒त् । पर्व॑तानाम् ॥
वज्री वज्रयुक्तः इन्द्रः प्रथमानि पूर्वसिद्धानि मुख्यानि वा यानि वीर्याणि पराक्रमयुक्तानि कर्माणि चकार तस्य इन्द्रस्य तानि वीर्याणि नु क्षिप्रं प्रब्रवीमि । कानि वीर्याणीति तदुच्यते । अहिं मेघम् अहन् हतवान् । तदेतदेकं वीर्यम् । अनु पश्चात् अपः जलानि ततर्द हिंसितवान् भूमौ पातितवानित्यर्थः । इदं द्वितीयं वीर्यम् । पर्वतानां संबन्धिनीः वक्षणाः प्रवहणशीलाः नदीः प्र अभिनत् भिन्नवान् कूलद्वयकर्षणेन प्रवाहितवानित्यर्थः । इदं तृतीयं वीर्यम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ वीर्याणि । ‘ शूर वीर विक्रान्तौ । ण्यन्तात् ' अचो यत्' इति यत् ।' णेरनिटि ' इति णिलोपः । तित्स्वरितम्' इति स्वरितत्वम् । यतोऽनावः' इत्याद्युदात्तत्वं न भवति । आद्युदात्तत्वे हि सुशब्देन बहुव्रीहौ ‘आद्युदात्तं द्व्यच्छन्दसि' इत्यनेनैवोत्तरपदाद्युदात्तत्वस्य सिद्धत्वात् ' वीरवीर्यौ च इति पुनस्तद्विधानमनर्थकं स्यात् । अतोऽवगम्यते यतोऽनावः' इत्याद्युदात्तत्वं वीरशब्दे न प्रवर्तते । इति । अतः परिशेषात् “ तित्स्वरितम्' इति प्रत्ययस्य स्वरितत्वमेव । वोचम् । अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेः अङादेशः । ‘बहुलं छन्दस्यमाङयोगेऽपि' इति अडभावः । चकार । णलि लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । अहन् । लङि ‘इतश्च' इति इकारलोपे ‘ हल्ङ्याब्भ्यः' इति तकारलोपः । अहिम् । आङ्पूर्वात् हन्तेः ‘आङि श्रिहनिभ्यां ह्रस्वश्च' (उ. सू. ४. ५७७ ) इति इप्रत्ययः; आङो ह्रस्वत्वं च । चशब्देन ‘वेञो डित् , समाने ख्यश्चोदात्तः' इति डित्त्वं पूर्वपदोदात्तत्वं चानुकृष्यते। ततः टिलोपे पूर्वपदस्योदात्तत्वम् । ततर्द। ‘ उतृदिर् हिंसानादरयोः । ‘ तिङ्ङतिङः' इति निघातः । वक्षणाः । वक्ष रोषे'। ‘क्रुधमण्डार्थेभ्यश्च' (पा. सू. ३. २. १५१) इति युच् । चित्स्वरं बाधित्वा व्यत्ययेन प्रत्ययस्वरः ॥
“I declare the former valorous deeds of Indra, which the thunderer has achieved; he clove the cloud; he cast the waters down (to earth); he broke (a way) for the torrents of the mountain.”
I WILL declare the manly deeds of Indra, the first that he achieved, the Thunder-wielder.
He slew the Dragon, then disclosed the waters, and cleft the channels of the mountain torrents.
I will proclaim the manly deeds of Indra, The first that he performed, the lightning-wielder. He slew the serpent, then discharged the waters, And cleft the caverns of the lofty mountains.
Now I shall proclaim the heroic deeds of Indra, those foremost deeds that the mace-wielder performed:
He smashed the serpent. He bored out the waters. He split the bellies of the mountains.
Jetzt will ich Indra's Heldenthaten singen, die ersten, die des Blitzes Herr vollbracht hat; Er schlug den Drachen, liess die Wasser strömen und spaltete der Wolkenberge Bäuche.
Des Indra Heldentaten will ich nun verkünden, die ersten, die der Keulenträger getan hat: Er erschlug den Drachen, erbrach die Gewässer; er spaltete die Weichen der Berge.
Индры героические деяния сейчас я хочу провозгласить:
Те первые, что совершил громовержец,
Он убил змея, он просверлил (русла) вод,
Он рассек недра гор.
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष । वा॒श्रा इ॑व धे॒नव॒: स्यन्द॑माना॒ अञ्ज॑: समु॒द्रमव॑ जग्मु॒राप॑: ॥
अह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य॑म् । त॒त॒क्ष॒ । वा॒श्राःऽइ॑व । धे॒नवः॑ । स्यन्द॑मानाः । अञ्जः॑ । स॒मु॒द्रम् । अव॑ । ज॒ग्मुः॒ । आपः॑ ॥
पर्वते शिश्रियाणम् आश्रितम् अहिं मेघम् अहन् हतवान् । अस्मै इन्द्राय स्वर्यं सुष्ठु प्रेरणीयं यद्वा शब्दनीयं स्तुत्यं त्वष्टा विश्वकर्मा वज्रं ततक्ष तनूकृतवान् । तेन वज्रेण मेघे भिन्ने सति स्यन्दमानाः प्रस्रवणयुक्ताः आपः समुद्रम् अञ्जः सम्यक् अव जग्मुः प्राप्ताः । तत्र दृष्टान्तः । वाश्राः वत्सान्प्रति हम्भारवोपेताः धेनवः इव । यथा धेनवः सहसा वत्सगृहे गच्छन्ति तद्वत् ॥ शिश्रियाणम् ।' श्रिञ् सेवायाम्'। लिटः कानच् । द्विर्भावहलादिशेषेयङादेशाः । 'चितः ' इत्यन्तोदात्तत्वम् । स्वर्यम् । ऋ गतौ ' । अस्मात् सुपूर्वात् ‘ ऋहलोर्ण्यत्' इति ण्यत् ।' संज्ञापूर्वको विधिरनित्यः' इति वृद्ध्यभावः । यद्वा । ' स्वृ शब्दोपतापयोः' इत्यस्मात् ण्यति पूर्ववत् वृद्धयभावः । ‘ तित्स्वरितम्' इति स्वरितत्वम् । वाश्यन्ते इति वाश्राः। ‘वाशृ शब्दे'। ‘ स्फायितञ्चि°! इत्यादिना रक् । जग्मुः । उसि • गमहन ' इति उपधालोपः ॥
“He clove the cloud, seeking refuge on the mountain; Tvaṣṭa) sharpened his far-whirling bolt; the flowing waters quickly hastened to the ocean, like cows (hastening) to their calves.”
He slew the Dragon lying on the mountain: his heavenly bolt of thunder Tvastar fashioned.
Like lowing kine in rapid flow descending the waters glided downward to the ocean.
He slew the serpent lying on the mountain: For him the whizzing bolt has Tvaṣṭar fashioned. Like lowing cows, with rapid current flowing, The waters to the ocean down have glided.
He smashed the serpent resting on the mountain—for him Tvaṣṭar had fashioned the resounding [/sunlike] mace. Like bellowing milk-cows, streaming out, the waters went straight down to the sea.
Er schlug den Drachen, welcher auf dem Berg lag; die Waffe saust, die Tvaschtar ihm gezimmert, Wie Kühe brüllend eilten flugs die Wasser in Fluten strömend zu dem Meere nieder.
Er erschlug den Drachen, der sich auf dem Berge gelagert hatte. Tvastri hatte ihm die sausende Keule geschmiedet. Wie die brüllenden Kühe zu den Kälbern eilend liefen die Gewässer stracks zum Meere.
Он убил, змея, покоившегося на горе.
Тваштар ему выточил шумную дубину.
Как мычащие коровы, устремившись (к телятам),
Прямо к морю сбегают воды.
वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ । आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥
वृ॒ष॒ऽयमा॑णः । अ॒वृ॒णी॒त॒ । सोम॑म् । त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । आ । साय॑कम् । म॒घवा॑ । अ॒द॒त्त॒ । वज्र॑म् । अह॑न् । ए॒न॒म् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् ॥
वृषायमाणः वृष इवाचरन् इन्द्रः सोमम् अवृणीत वृतवान् । त्रिकद्रुकेषु ज्योतिः गौः आयुः इत्येतन्नामकाः त्रयो यागाः त्रिकद्रुकाः उच्यन्ते । तेषु सुतस्य अभिषुतस्य सोमस्यांशम् अपिबत् पीतवान् । मघवा धनवान् इन्द्रः सायकं बन्धकं वज्रम् आ अदत्त स्वीकृतवान् । तेन च वज्रेण अहीनां मेघानां मध्ये प्रथमजां प्रथमोत्पन्नं मेघम् अहन् हतवान् ॥ वृषायमाणः । वृष इवाचरन् । ‘ कर्तुः क्यङ् सलोपश्च' (पा. सू. ३. १. ११ ) इति क्यङ्। ‘ अकृत्सार्वधातुकयोः' इति दीर्घः । अदुपदेशात् धातोः अन्तोदात्तत्वे क्यङन्तात् धातोः अन्तोदात्तत्वम् (?)। सायकम् ।' षिञ् बन्धने । सिनोतीति सायकः । ण्वुल्। लित्स्वरेणाद्युदात्तत्वम् । प्रथमजाम् । प्रथमं जायते इति प्रथमजाः । ‘ जनसनखनक्रमगमो विट्'। विड्वनोः' इति आत्वम् ॥
“Impetuous as a bull, he quaffed the Soma juice, he drank of the libation at the triple sacrifice. Maghvan took his shaft, the thunderbolt, and with it struck the first born of the clouds.”
Impetuous as a bull, he chose the Soma and in three sacred beakers drank the juices.
Maghavan grasped the thunder for his weapon, and smote to death this firstborn of the dragons.
Impetuous like a bull he chose the Soma, And drank in threefold vessels of its juices. The bounteous god grasped lightning for his missile; He struck down dead that first-born of the serpents.
Acting the bull, he chose for his own the soma. He drank of the pressed soma among the Trikadrukas [=the Maruts?].
The generous one took up his missile, the mace. He smashed him, the first-born of serpents.
Als brünst'ger Stier ersah er sich den Soma, aus den drei Eimern trank er den gebrauten, Als Waffe nahm den Blitz der allgewalt'ge, und tödtete der Drachen erstgebornen.
Gierig wie ein Stier erwählte er sich den Soma; in den Trikadruka´s trank er vom ausgepreßten. Der Gabenreiche ergriff das Wurfgeschoß, die Keule; er erschlug ihn, den Erstgeborenen der Drachen.
Разъяренный, как бык, он выбрал себе сому,
Он напился (сомы), выжатого в трех сосудах.
Щедрый схватил метательный снаряд – ваджру.
Он убил его, перворожденного из змеев.
यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑ना॒: प्रोत मा॒याः । आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥
यत् । इ॒न्द्र॒ । अह॑न् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् । आत् । मा॒यिना॑म् । अमि॑नाः । प्र । उ॒त । मा॒याः । आत् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षास॑म् । ता॒दीत्ना॑ । शत्रु॑म् । न । किला॑ । वि॒वि॒त्से॒ ॥
उत अपि च हे इन्द्र यत् यदा अहीनां मेघान मध्ये प्रथमजां प्रथमोत्पन्नं मेघम् अहन् हतवानसि आत् तदनन्तरं मायिनां मायोपेतानामसुराणां संबन्धिनीः मायाः प्र अमिनाः प्रकर्षेण नाशितवानसि । अनन्तरं सूर्यम् उषसम् उषःकालं द्याम् आकाशं च जनयन् उत्पादयन् अवरकमेघनिवारणेन प्रकाशयन् वर्तसे । तादीत्ना तदानीम् आवरकान्धकाराभावात् 'शत्रुं घातकं वैरिणं न विवित्से किल त्वं न लब्धवान् खलु ॥ अहन् । हन्तेः लङि • हल्ड्याब्भ्यः' इति सिलोपः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । मायिनाम् । मायाशब्दस्य व्रीह्यादिषु पाठात् ‘व्रीह्यादिभ्यश्च ' ( पा. सू. ५, २. ११६) इति मत्वर्थीय इनिः । अमिनाः ।' मीञ् हिंसायाम् । क्रैयादिकः । ‘ मीनातेर्निगमे ' (पा. सू. ७. ३. ८१) इति ह्रस्वत्वम् । तादीत्ना। तदानीम् इत्यस्य पृषोदरादित्वात् वर्णविपर्ययः । किल ।' निपातस्य ' इति दीर्घत्वम् । विवित्से। • विद्लृ लाभे' । क्रादिनियमात् प्राप्तः इट् व्यत्ययेन न भवति ॥
“Inasmuch, Indra, as you have divided the first-born of the clouds, you have destroyed the delusions of the deluders, and then engendering the sun, the dawn, the firmament, you have not left an enemy (to oppose you).”
When, Indra, thou hadst slain the dragon's firstborn, and overcome the charms of the enchanters,
Then, giving life to Sun and Dawn and Heaven, thou foundest not one foe to stand against thee.
When thou hadst slain the first-born of the serpents, And thwarted all the wiles of crafty schemers, Anon disclosing sun, and dawn, and heaven, Thou truly foundest not a foe, O Indra.
When you, Indra, smashed the first-born of serpents and then beguiled the wiles of the wily ones,
then, giving birth to the sun, the heaven, and the dawn, since that time you have surely never found a rival.
Als, Indra, du der Drachen erstgebornen erschlugst, da tilgtest du der List'gen Listen, Und Sonne, Tag und Morgenröthe zeugend hast keinen Feind du damals mehr gefunden.
Als du, Indra, den Erstgeborenen der Drachen erschlugst und da die Listen der Listigen noch überlistetest, da du Sonne, Himmel, Morgenröte zum Vorschein brachtest, da hast du fortab nimmer deinen Meister gefunden.
Когда ты, Индра, убил перворожденного из змеев
И перехитрил хитрости хитрецов,
И породил солнце, небо, утреннюю зарю,
С тех пор ты уже в самом деле не находил противника.
अह॑न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं॑स॒मिन्द्रो॒ वज्रे॑ण मह॒ता व॒धेन॑ । स्कन्धां॑सीव॒ कुलि॑शेना॒ विवृ॒क्णाहि॑: शयत उप॒पृक्पृ॑थि॒व्याः ॥
अह॑न् । वृ॒त्र॑म् । वृ॒त्र॒ऽतर॑म् । विऽअं॑सम् । इन्द्रः॑ । वज्रे॑ण । म॒ह॒ता । व॒धेन॑ । स्कन्धां॑सिऽइव । कुलि॑शेन । विऽवृ॑क्णा । अहिः॑ । श॒य॒ते॒ । उ॒प॒ऽपृक् । पृ॒थि॒व्याः ॥
अयम् इन्द्रः वज्रेण संपादितो यो महान् वधः तेन वज्रेण वृत्रतरम् अतिशयेन लोकानाम् आवरकम् अन्धकाररूपम्। यद्वा । वृत्रैः आवरणैः सर्वान् शत्रून् तरति तं वृत्रम् एतन्नामकमसुरं व्यंसं विगतांसं छिन्नबाहुः यथा भवति तथा अहन् हतवान् । अंसच्छेदे दृष्टान्तः । कुलिशेन कुठारेण विवृक्णा विशेषतश्छिन्नानि 'स्कन्धांसीव । यथा वृक्षस्कन्धाश्छिन्ना भवन्ति तद्वत्। तथा सति अहिः वृत्रः पृथिव्याः उपरि उपपृक् सामीप्येन संपृक्तः शयते शयनं करोति छिन्नकाष्ठवत् भूमौ पततीत्यर्थः ॥ वृत्रतरम् । ‘ वृतु वर्तने । 'स्फायितञ्चि°' इत्यादिना भावे रक्प्रत्ययान्तो वृत्रशब्दः । वृत्रेण आवरणेन सर्वं तरतीति वृत्रतरः । तरतेः पचाद्यच् । ‘परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् । तरपि तु व्यत्ययेन । व्यंसम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे ‘ उदात्तस्वरितयोर्यणः' इति स्वरितत्वम् । वधेन । ‘ हनश्च वधः' इति भावे अप्; तत्संनियोगेन धातोः वधादेशः । स च अन्तोदात्तः । अन्त्यस्य अकारस्य ‘ अतो लोपः ' इति लोपः । उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् । विवृक्णा । ‘ ओव्रश्चू छेदने । कर्मणि निष्ठा । 'यस्य विभाषा' इति इट्प्रतिषेधः । ‘ ओदितश्च' (पा. सू. ८. २. ४५ ) इति परत्वात् निष्ठानत्वम् । ततो ‘व्रश्चभ्रस्ज° ' इति षत्वे प्राप्ते ‘ निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वक्तव्यः' (पा. सू. ८. २. ६. ७) इति नत्वस्य सिद्धत्वेन झल्परत्वाभावात् षत्वं न भवति । कुत्वे तु कर्तव्ये तदसिद्धमेव (पा. सू. ८. २. १ ) इति ‘चोः कुः' इति कुत्वम् । ‘शेश्छन्दसि बहुलम् इति शेर्लोपः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । शयते । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । पृथिव्याः । ‘उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् ॥ ॥ ३६ ॥
“With his vast destroying thunderbolt, Indra struck the darkling mutilated Vṛtra; as the trunks of trees are felled by the axe, so lies Ahi prostrate on the earth.”
Indra with his own great and deadly thunder smote into pieces Vrtra, worst of Vrtras.
As trunks of trees, what time the axe hath felled them, low on the earth so lies the prostrate Dragon.
Indra slew Vṛtra and one worse than Vṛtra, Vyaṃsa, with lightning, his resistless weapon: Like trunks of trees, with axes hewn in pieces, The serpent clinging to the earth lay prostrate.
Indra smashed Vr̥tra [/Obstacle] the very great obstacle, whose
shoulders were spread apart, with his mace, his great weapon.
Like logs hewn apart by an axe, the serpent would lie, embracing the earth [/soaking the earth (with his blood)].
Den Vritra und den schlimmeren Viansa schlug Indra mit dem Blitz, mit mächt'gem Hiebe, Wie Baumgeäst vom Beile abgehauen, liegt hingestreckt der Drache auf der Erde.
Indra erschlug den Vritra, den größten Feind, den Schulterlosen mit der Keule, seiner großen Waffe. Wie Baumstämme, die mit der Axt gefällt sind, liegt der Drache platt auf der Erde.
Он убил Вритру, самого (страшного) врага, бесплечего,
Индра – дубиной, великим оружием.
Как ветви топором обрубленные,
Змей лежит, прильнув к земле.
अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् । नाता॑रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जाना॑: पिपिष॒ इन्द्र॑शत्रुः ॥
अ॒यो॒द्धाऽइ॑व॑ । दुः॒ऽमदः॑ । आ । हि । जु॒ह्वे । म॒हा॒ऽवी॒रम् । तु॒वि॒ऽबा॒धम् । ऋ॒जी॒षम् । न । अ॒ता॒री॒त् । अ॒स्य॒ । सम्ऽऋ॑तिम् । व॒धाना॑म् । सम् । रु॒जानाः॑ । पि॒पि॒षे॒ । इन्द्र॑ऽशत्रुः ॥
दुर्मदः दुष्टमदोपेतो दर्पयुक्तो वृत्रः अयोद्धेव योद्धृरहित इव इन्द्रम् आ जुह्वे हि आहूतवान् खलु । कीदृशमिन्द्रम्। महावीरं गुणैः महान् भूत्वा शौयाँपेतं तुविबाधं बहूनां बाधकं ऋजीषं शत्रूणामपार्जकम्। अस्य ईदृशस्य इन्द्रस्य संबन्धिनो ये शत्रुवधाः सन्ति तेषां वधानां समृतिं संगमं नातारीत् पूर्वोक्तो दुर्मदः तरीतुं नाशक्नोत् । इन्द्रशत्रुः इन्द्रः शत्रुर्घातको यस्य वृत्रस्य तादृशो वृत्रः इन्द्रेण हतो नदीषु पतितः सन् रुजानाः नदीः सं पिपिषे सम्यक् पिष्टवान् । सर्वान् लोकानावृण्वतो वृत्रदेहस्य पातेन नदीनां कूलानि तत्रत्यपाषाणादिकं च चूर्णीभूतमित्यर्थः ॥ अयोद्धा इव । न विद्यते योद्धास्येति बहुव्रीहौ' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । समासान्तविधेरनित्यत्वात् (परिभा. ८४ ) ‘नद्यृतश्च' ( पा. सू. ५. ४. १५३) इति कबभावः । जुह्वे । ह्वेञ् स्पर्धायां शब्दे च'। ‘ अभ्यस्तस्य च' (पा. सू. ६. १. ३३) इति संप्रसारणम् । उवङादेशाभावश्छान्दसः । यद्वा । ‘ छन्दस्युभयथा' इति सार्वधातुकसंज्ञायां ‘हुश्नुवोः सार्वधातुके' (पा. सू. ६. ४.८७) इति यणादेशः । अत्र लक्षणप्रतिपदोक्तपरिभाषा ( परिभा. १०५ ) लक्ष्यानुरोधान्नाश्रीयते । इतरथा हि आजुह्वानः इत्यादिषु यणादेशो न स्यात् । न चैवं सति ‘ सातये हुवे वाम् ' ( ऋ. सं. ६. ६०. १३ ) इत्यादावपि तथा स्यादिति वाच्यं अनेकाच्त्वाभावात् । अनेकाच इति हि तत्रानुवर्तते । प्रत्ययस्वरेणान्तोदात्तत्वम् ।' हि च ' इति निघातप्रतिषेधः । महावीरम् । महांश्चासौ वीरश्च महावीरः । ‘ आन्महतः० ' ( पा. सू. ६. ३. ४६ ) इति आत्वम् । तुविबाधम् । बाधृ विलोडने ' । तुवीन् प्रभूतान् बाधते इति तुविबाधः । पचाद्यच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । समृतिम् । तादौ च ' इति गतेः प्रकृतिस्वरत्वम्। रुजानाः। ‘रुजो भङ्गे'। रुजन्ति कूलानीति रुजाना नद्यः। ‘रुजाना नद्यो भवन्ति रुजन्ति कूलानि' (निरु. ६. ४) इति यास्कः । व्यत्ययेन शानच् । तुदादिभ्यः शः '। नुमभावश्छान्दसः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः । पिपिषे । पिष्लृ संचूर्णने '। व्यत्ययेन लिट् । इन्द्रशत्रुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“The arrogant Vṛtra, as if unequaled, defied Indra, the mighty hero, the destroyer of many, the scatterer of foes; he has not escaped the contact of the fate (Indra's) enemies. The foe of Indra has crushed the (banks of the) rivers.”
He, like a mad weak warrior, challenged Indra, the great impetuous many-slaying Hero.
He, brooking not the clashing of the weapons, crushed--Indra's foe--the shattered forts in falling.
He like a drunken coward challenged Indra, The headlong, many-crushing, mighty hero. He parried not the onset of the weapons: The foe of Indra, falling, crushed the channels.
For, like a drunken non-warrior, he challenged the hard-pressing great hero whose is the silvery drink [=soma].
(Vr̥tra) did not withstand the attack of his weapons. His mouth
destroyed by the shattering blow, he whose rival was Indra was
completely crushed.
Denn wie ein trunkner Feigling hatt' den Helden den tilgenden, gewalt'gen er gefordert, Er hielt nicht aus den Andrang seiner Hiebe, im Sturz zerbrach der Indrafeind die Klüfte.
Denn er hatte wie ein des Kämpfens Unkundiger in trunkenem Übermut den großen Helden, den Starkbedrängenden, Trestersomatrinkenden herausgefordert. Er hat den Anprall seiner Waffen nicht ausgehalten; der Nasenbrecher wurde zerschmettert, als er in Indra seinen Meister fand.
Как плохой боец в пьяном угаре он вызвал
Великого героя, покоряющего силой, пьющего выжимки сомы.
Он не выдержал натиска его оружия:
Безликий от пролома, он раздавлен – тот, кому Индра враг.
अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान । वृष्णो॒ वध्रि॑: प्रति॒मानं॒ बुभू॑षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ॥
अ॒पात् । अ॒ह॒स्तः । अ॒पृ॒त॒न्य॒त् । इन्द्र॑म् । आ । अ॒स्य॒ । वज्र॑म् । अधि॑ । सानौ॑ । ज॒घा॒न॒ । वृष्णः॑ । वध्रिः॑ । प्र॒ति॒ऽमान॑म् । बुभू॑षन् । पु॒रु॒ऽत्रा । वृ॒त्रः । अ॒श॒य॒त् । विऽअ॑स्तः ॥
अपात् वज्रेण च्छिन्नत्वात् पादरहितः अहस्तः हस्तरहितः वृत्रः इन्द्रम् उद्दिश्य अपृतन्यत् पृतनां युद्धम् ऐच्छत् । द्वेषाधिक्येन बहुधा विद्धोऽपि युद्धं न परित्यक्तवानित्यर्थः। अस्य हस्तपादहीनस्य वृत्रस्य सानौ पर्वतसानुसदृशे प्रौढस्कन्धे अधि उपरि वज्रम् आ जघान इन्द्रः आभिमुख्येन प्रक्षिप्तवान् । अशक्तस्यापि युद्धेच्छायां दृष्टान्तः। वध्रिः छिन्नमुष्कः पुरुषः वृष्णः रेतसेचनसमर्थस्य पुरुषान्तरस्य प्रतिमानं सादृश्यं बुभूषन् प्राप्तुमिच्छन् यथा न शक्नोति तद्वदयमिति शेषः । सः वृत्रः पुरुत्रा बहुष्ववयवेषु व्यस्तः विविधं क्षिप्तः ताडितः सन् अशयत् भूमौ पतितवान् ॥ अपात् । बहुव्रीहौ पादशब्दस्य अन्त्यलोपश्छान्दसः । अहस्तः । बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम्। अपृतन्यत् । सुप आत्मनः क्यच् '। 'कव्यध्वरपृतनस्य ' इति अन्त्यलोपः । बुभूषन् । सनि ग्रहगुहोश्च' (पा. सू. ७. २. १२) इति इट्प्रतिषेधः । पुरुत्रा ।' देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ' (पा. सू. ५. ४. ५६) इति सप्तम्यर्थे त्राप्रत्ययः । अशयत् । व्यत्ययेन परस्मैपदम् । ‘ बहुलं छन्दसि ' इति शपो लुगभावः । व्यस्तः । असु क्षेपणे ' इत्यस्मात् कर्मणि क्तः । ' यस्य विभाषा ' इति इट्प्रतिषेधः। ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम्। संहितायाम् ‘ उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् ॥
“Having neither hand nor foot, he defied Indra, who struck him with the thunderbolt upon his mountain-like shoulder, like one emasculated who pretends to virility; then Vṛtra, mutilated of many members, slept.”
Footless and handless still he challenged Indra, who smote him with his bolt between the shoulders.
Emasculate yet claiming manly vigour, thus Vrtra lay with scattered limbs dissevered.
Footless and handless he with Indra battled, Who smote him then upon his back with lightning. But, impotent, he strove to match the hero: He lay with scattered limbs in many places.
Handless and footless, he gave battle to Indra. (Indra) smashed his mace upon his back.
A steer who tried to be the measure of a bull, Vr̥tra lay there, flung
apart in many places.
Fusslos und handlos stritt er wider Indra; der schleuderte den Blitz auf seinen Rücken, Der mit dem Stier sich messen wollt', der Hämmling, Vritra lag da zerstückt an vielen Orten.
Ohne Hand und Fuß kämpfte er gegen Indra. Er schlug ihm die Keule in den Nacken. Der verschnittene Stier, der dem Bullen gewachsen sein wollte, der Vritra lag zerstückt an vielen Stellen da.
Безногий, безрукий боролся он против Индры.
Тот ударил его дубиной по спине.
Вол, хотевший стать противником быка,
Вритра лежал, разбросанный по разным местам.
न॒दं न भि॒न्नम॑मु॒या शया॑नं॒ मनो॒ रुहा॑णा॒ अति॑ य॒न्त्याप॑: । याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महि॑: पत्सुत॒:शीर्ब॑भूव ॥
न॒दम् । न । भि॒न्नम् । अ॒मु॒या । शया॑नम् । मनः॑ । रुहा॑णाः । अति॑ । य॒न्ति॒ । आपः॑ । याः । चि॒त् । वृ॒त्रः । म॒हि॒ना । प॒रि॒ऽअति॑ष्ठत् । तासा॑म् । अहिः॑ । प॒त्सु॒तः॒शीः । ब॒भू॒व॒ ॥
अमुया अमुष्यां पृथिव्यां शयानं पतितं मृतं वृत्रम् आपः जलानि अति यन्ति अतिक्रम्य गच्छन्ति । तत्र दृष्टान्तः । भिन्नं बहुधाभिन्नकूलं नदं न सिन्धुमिव । यथा वृष्टिकाले प्रभूता आपो नद्याः कुलं भित्त्वा अतिक्रम्य गच्छन्ति तद्वत् । कीदृश्य आपः। मनो रुहाणा चित्तमारोहन्त्यः । पुरा वृत्रे जीवति सति तेन निरुद्धा मेघस्थिता आपो भूमौ वृष्टा न भवन्ति तदानीं नॄणां मनः खिद्यते । मृते तु वृत्रे निरोधरहिता आपो वृत्रशरीरमुल्लङ्घ्य प्रवहन्ति। तदा वृष्टिलाभेन मनुष्यास्तुष्यन्तीत्यर्थः। तदेतदुत्तरार्धेन स्पष्टीक्रियते । वृत्रः जीवनदशायां महिना स्वकीयेन महिम्ना याश्चित् या एव मेघगताः अपः पर्यतिष्ठत् परिवृत्य स्थितवान्, अहिः वृत्रो मेघः तासाम् अपां पत्सुतःशीः पादस्याधःशयानः बभूव । यद्यप्यपां पादो नास्ति तथाप्यद्भिर्वृत्रस्य अभिलङ्घितत्वात् पादस्याधःशयनमुपपद्यते ॥ मिन्नम् ।' रदाभ्यां निष्ठातो नः° ' (पा. सू. ८. २. ४२) इति नत्वम् । अमुया। ‘सुपां सुलुक्° इति सप्तम्या याजादेशः । शयानम् ।' शीङः सार्वधातुके गुणः ' ( पा. सू. ७. ४. २१ )। धातोर्ङित्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । रुहाणाः। ‘रुह बीजजन्मनि प्रादुर्भावे'। व्यत्ययेन शानच् । कर्तरि शपि प्राप्ते व्यत्ययेन शः । ‘अनित्यमागमशासनम् ' इति वचनात् मुगभावः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरे प्राप्ते व्यत्ययेन धातुस्वरः । महिना । ‘ मह पूजायाम्'। ‘ इन्सर्वधातुभ्यः' इति इन्प्रत्ययः । व्यत्ययेन विभक्तेरुदात्तत्वम् । यद्वा । महिना महिम्ना । महच्छब्दस्य पृथ्वादिषु पाठात् ‘ तस्य भावः' इत्येतस्मिन्नर्थे ' पृथ्वादिभ्य इमनिज्वा' (पा. सू. ५. १.१२२) इति इमनिच्प्रत्ययः । ‘ टेः' इति टिलोपः । ‘ चितः' इत्यन्तोदात्तत्वम् । तृतीयैकवचने अल्लोपे सति उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । मकालोपश्छान्दसः। पत्सुतःशीः । पादस्याधः शेते इति पत्सुतःशीः । ‘ क्विप् च ' इति क्विप् । तसि ‘पद्दन् ' इत्यादिना पादशब्दस्य पदादेशः । ‘ शस्प्रभृतिषु' इति प्रभृतिशब्दः प्रकारवचनः इति शलादोषणी इत्यत्रापि दोषन्नादेशो भवति इत्युक्तत्वात् ( का. ६. १. ६३ )। मध्ये सु इति शब्दोपजनश्छान्दसः । यद्वा । पादशब्दस्य सप्तमीबहुवचने पदादेशे कृते इतराभ्योऽपि दृश्यन्ते' (पा. सू. ५. ३. १४ ) इति सप्तम्यर्थे तसिल् । लुगभावश्छान्दसः ॥
“The waters, that delight the minds (of men), flow over him, recumbent on this earth, as a river (bursts through) its broken (banks). Ahi has been prostrated beneath the feet of the waters, which Vṛtra, by his might, had obstructed.”
There as he lies like a bank-bursting river, the waters taking courage flow above him.
The Dragon lies beneath the feet of torrents which Vrtra with his greatness had encompassed.
As thus he lay, like broken reed, the waters, Now courage taking, surge across his body. He lies beneath the very feet of rivers Which Vṛtra with his might had close encompassed.
*Delivering themselves to Manu, the waters go over him like a split reed—lying in that way.
Those very ones whom Vr̥tra in his greatness once surrounded—at their feet lay the serpent.
Und über ihn, der dalag wie ein Schlachtvieh, geht lustig steigend nun die Flut der Wasser; Die Vritra kräftig rings umschlossen hatte, zu deren Füssen lag nun da der Drachen.
Über ihn, der wie geschnittenes Rohr nur so dalag, gingen aufsteigend die Gewässer des Manu hinweg. Die ein Vritra in seiner Größe umlagert hatte, zu deren Füßen lag der Drache.
Через (него), безжизненно лежащего, как раскрошенный тростник,
Текут вздымаясь воды Ману.
(Те,) кого Вритра (некогда) с силой сковывал,
У их ног лежал теперь змей.
नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेन्द्रो॑ अस्या॒ अव॒ वध॑र्जभार । उत्त॑रा॒ सूरध॑रः पु॒त्र आ॑सी॒द्दानु॑: शये स॒हव॑त्सा॒ न धे॒नुः ॥
नी॒चाऽव॑याः । अ॒भ॒व॒त् । वृ॒त्रऽपु॑त्रा । इन्द्रः॑ । अ॒स्याः॒ । अव॑ । वधः॑ । ज॒भा॒र॒ । उत्ऽत॑रा । सूः । अध॑रः । पु॒त्रः । आ॒सी॒त् । दानुः॑ । श॒ये॒ । स॒हऽव॑त्सा । न । धे॒नुः ॥
वृत्रपुत्रा वृत्रः पुत्रो यस्या मातुः सेयं माता वृत्रपुत्रा नीचावयाः न्यग्भावं प्राप्ता हता अभवत् पुत्रं प्रहाराद्रक्षितुं पुत्रदेहस्योपरि तिरश्ची पतितवतीत्यर्थः । तदानीम् अयम् इन्द्रः अस्याः मातुः अव अधोभागे वृत्रस्योपरि वधः हननसाधनमायुधं जभार प्रहृतवान् । तदानीं सूः माता उत्तरा उपरिस्थिता आसीत्। पुत्रः तु अधोभागस्थितः आसीत्। सा च दानुः दानवी वृत्रमाता शये मृता शयनं कृतवती। तत्र दृष्टान्तः। धेनुः लोकप्रसिद्धा गौः सहवत्सा न यथा वत्ससहिता शयनं करोति तद्वत्॥ नीचावयाः । वेति खादतीति वयो बाहुः । औणादिकः असिप्रत्ययः । न्यञ्चौ वयसौ यस्याः सा नीचावयाः । न्यच्शब्दादुत्तरस्या विभक्तेः ‘ सुपां सुपो भवन्ति' इति तृतीयैकवचनादेशः । ‘ अचः । इति अकारलोपे ‘चौ ' इति दीर्घत्वम् । ‘ अञ्चेश्छन्दस्यसर्वनामस्थानम् ' ( पा. सू. ६. १. १७०) इति तस्योदात्तत्वम् । समासे लुगभावश्छान्दसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । नीचौ निकृष्टौ वयसौ यस्याः सा । पूर्वपदस्य दीर्घश्छान्दसः । वधः । हन्यतेऽनेनेति वधः । असुनि हन्तेर्वधादेशः । नित्त्वादाद्युदात्तत्वम् । जभार । ‘ हृग्रहोर्भः' इति भत्वम् । सूः । ‘ षूङ् प्राणिगर्भविमोचने '। सूते गर्भं विमुञ्चतीति सूः माता । क्विप् च ' इति क्विप् । दानुः । दो अवखण्डने ' ।' दाभाभ्यां नुः ' ( उ. सू. ३. ३१२)। शये । लटि ‘ लोपस्त आत्मनेपदेषु' (पा. सू. ७. १. ४१) इति तलोपः। ‘ शीङः सार्वधातुके ' इति गुणे अयादेशः ॥
“The mother of Vṛtra was bending over her son, when Indra struck her nether part with his shaft; so the mother was above and the son underneath, and Dānu slept (with her son), like a cow with its calf.”
Then humbled was the strength of Vrtra's mother: Indra hath cast his deadly bolt against her.
The mother was above, the son was under and like a cow beside her calf lay Danu.
The strength began to fail of Vṛtra's mother, For Indra had cast down his bolt upon her. Above the mother was, the son was under; And like a cow beside her calf lies Dānu.
The strength of Vr̥tra’s mother ebbed; Indra bore his weapon down upon her.
The mother was above; the son below: Dānu lies like a milk-cow with her calf.
Erschöpft an Kraft war da des Vritra Mutter, und Indra schlug hinweg nun ihre Waffe; Der Sohn lag unten, oben drauf die Mutter, die Hexe liegt wie mit dem Kalb die Milchkuh.
Zur Neige ging die Lebenskraft der Mutter des Vritra; Indra hatte die Waffe auf sie geschleudert. Obenauf lag die Erzeugerin, zuunterst der Sohn. Die Danu liegt wie die Kuh bei ihrem Kalbe.
Поникла жизненная сила у той, чей сын – Вритра.
Индра сбросил на нее смертельное оружие.
Сверху – родительница, внизу был сын.
Дану лежит, как корова с теленком.
अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा॑नां॒ मध्ये॒ निहि॑तं॒ शरी॑रम् । वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो॑ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ॥
अति॑ष्ठन्तीनाम् । अ॒नि॒ऽवे॒श॒नाना॑म् । काष्ठा॑नाम् । मध्ये॑ । निऽहि॑तम् । शरी॑रम् । वृ॒त्रस्य॑ । नि॒ण्यम् । वि । च॒र॒न्ति॒ । आपः॑ । दी॒र्घम् । तमः॑ । आ । अ॒श॒य॒त् । इन्द्र॑ऽशत्रुः ॥
वृत्रस्य शरीरम् आपः वि चरन्ति विशेषेण उपरि आक्रम्य प्रवहन्ति । कीदृशं शरीरम् । निण्यं निर्नामधेयम् । अप्सु मग्नत्वेन गूढत्वात् तदीयं नाम न केनापि ज्ञायते । एतदेव स्पष्टीक्रियते । काष्ठानाम् अपां मध्ये निहितं निक्षिप्तम् । कीदृशानां काष्ठानाम् । अतिष्ठन्तीनां स्थितिरहितानां अनिवेशनानाम् उपवेशनरहितानां प्रवहणस्वभावत्वात् एतासां मनुष्यवन्न क्वापि स्थितिः संभवति । इन्द्रशत्रुः वृत्रः जलमध्ये शरीरे प्रक्षिप्ते सति दीर्घं तमः दीर्घं निद्रात्मकं मरणं यथा भवति तथा आशयत् सर्वतः पतितवान् ॥ अतिष्ठन्तीनाम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अनिवेशनानाम् । निविशन्तेऽस्मिन्निति निवेशनं स्थानम् ।' करणाधिकरणयोश्च' इति अधिकरणे ल्युट् । तद्रहितानाम् । बहुव्रीहौ ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । क्रान्त्वा स्थिताः काष्ठाः । पृषोदरादि । निहितम् । गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । अत्र यास्कः- ‘ अतिष्ठन्तीनामनिविशमानानामित्यस्थावराणां काष्ठानां मध्ये निहितं शरीरं मेघः । शरीरं शृणातेः शम्नातेर्वा। वृत्रस्य निण्यं निर्णामं विचरन्ति विजानन्त्याप इति दीर्घं द्राघतेस्तमस्तनोतेराशयदाशेतेरिन्द्रशत्रुरिन्द्रोऽस्य शमयिता वा शातयिता वा तस्मादिन्द्रशत्रुः । तत्को वृत्रो मेघ इति नैरुक्तास्त्वाष्ट्रोऽसुर इत्यैतिहासिकाः ' (निरु. २. १६ ) इति ॥ ॥ ३७ ॥
“The waters carry off the nameless body of Vṛtra, tossed into the midst of the never- stopping, never-resting currents. The foe of Indra has slept a long darkness.”
Rolled in the midst of never-ceasing currents flowing without a rest for ever onward.
The waters bear off Vrtra's nameless body: the foe of Indra sank to during darkness.
The waters deep have hidden Vṛtra's body, Plunged in the midst of never-ceasing torrents That stand not still, but ever hasten onward: Indra's fierce foe sank down to lasting darkness.
In the middle of the turning posts of the never-standing, never-resting (waters), his body sank down.
The waters move widely over the private parts of Vr̥tra. He whose rival was Indra lay there in the long darkness (of death).
Es lag sein Leichnam mitten unter Strömen, die nimmer stillstehn, nimmer Einkehr halten, Entrückt dem Vritra rinnen die Gewässer, der Indrafeind sank hin in langes Dunkel.
Inmitten der nie stillstehenden, nie rastenden Wasserläufe war sein Leib begraben. Die Gewässer fließen über Vritra´s Heimlichkeit hinweg. In langes Dunkel versank der Indrabemeisterte.
Среди неостанавливающихся, неуспокаивающихся
Водяных дорожек скрыто тело.
Воды текут через тайное место Вритры.
В долгий мрак погрузился тот, кому Индра враг.
दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आप॑: प॒णिने॑व॒ गाव॑: । अ॒पां बिल॒मपि॑हितं॒ यदासी॑द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ॥
दा॒सऽप॑त्नीः॒ । अहि॑ऽगोपाः । अ॒ति॒ष्ठ॒न् । निऽरु॑द्धाः । आपः॑ । प॒णिना॑ऽइव । गावः॑ । अ॒पाम् । बिल॑म् । अपि॑ऽहितम् । यत् । आसी॑त् । वृ॒त्रम् । ज॒घ॒न्वान् । अप॑ । तत् । व॒वा॒र॒ ॥
दासपत्नीः दासः विश्वोपक्षपणहेतुः वृत्रः पतिः स्वामी यासाम् अपां ताः दासपत्नीः । अत एव अहिगोपाः । अहिर्वृत्रो गोपा रक्षको यासां ताः । गोपनं नाम स्वच्छन्देन यथा न प्रवहन्ति तथा निरोधनम् । एतदेव स्पष्टीक्रियते । आपः निरुद्धाः अतिष्ठन् इति । तत्र दृष्टान्तः । पणिनेव गावः । पणिनामकोऽसुरो गा अपहृत्य बिले स्थापयित्वा बिलद्वारमाच्छाद्य यथा निरुद्धवांस्तथेत्यर्थः । अपां यत् बिलं प्रवहणद्वारम् अपिहितं वृत्रेण निरुद्धम् आसीत् तत् बिलं प्रवहणद्वारं वृत्रं जघन्वान् हतवान् इन्द्रः अप ववार अपवृतमकरोत् वृत्रकृतमपां निरोधं परिहृतवान् । अत्र यास्कः -- ‘ दासपत्नीर्दासाधिपत्न्यो दासो दस्यतेरुपदासयति कर्माण्यहिगोपा अतिष्ठन्नहिना गुप्ताः । अहिरयनादेत्यन्तरिक्षेऽयमपीतरोऽहिरेतस्मादेव निर्हसितोपसर्ग आहन्तीति । निरूद्धा आपः पणिनेव गावः । पणिर्वणिग्भवति पणिः पणनाद्वणिक् पण्यं नेनेक्ति । अपां बिलमपिहितं यदासीत् । बिलं भरं भवति बिभर्तेर्वृत्रं जघ्निवानपववार तद्वृत्रो वृणोतेर्वा वर्ततेर्वा वर्धतेर्वा । यदवृणोत्तद्वृत्रस्य वृत्रत्वमिति विज्ञायते । यदवर्तत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते । यदवर्धत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते ' (निरु. २. १७ ) इति ॥ दासपत्नीः । ‘ दसु उपक्षये '। दासयतीति दासो वृत्रः । एचाद्यच् । ‘ चितः' इत्यन्तोदात्तत्वम् । दासः पतिर्यासाम् । ‘ विभाषा सपूर्वस्य ' ( पा. सू. ४. १. ३४ ) इति ङीप्; तत्संनियोगेन इकारस्य नकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । दासस्य पालयित्र्यः । पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । अहिगोपाः । गुपू रक्षणे '। गोपायतीति गोपाः । ‘ आयादय आर्धधातुके वा ' (पा. सू. ३. १. ३१) इति आयप्रत्ययः । ततः क्विप् । अतो लोपः'। ‘वेरपृक्तलोपाद्वलि लोपो बलीयान्' इति पूर्वं यकारलोपः (पा.सू. ६. १.६६-६७)। न च ' अचः परस्मिन्' इति अतो लोपस्य स्थानिवत्त्वं न पदान्तद्विर्वचन' ' इति प्रतिषेधात् । अहिर्गोंपा यासाम् । पूर्ववत् स्वरः । निरुद्धाः । ‘ रुधिर् आवरणे । ‘ झषस्तथोर्धोऽधः' (पा. सू. ८. २. ४० ) इति निष्ठातकारस्य धकारः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । जघन्वान् । हन्तेर्लिटः क्वसुः । ‘ अभ्यासाच्च ' ( पा. सू. ७. ३. ५५) इति अभ्यासादुत्तरस्य हकारस्य कुत्वम् । क्रादिनियमप्राप्तस्य इटः ‘विभाषा गमहन ' ( पा. सू. ७. २. ६८ ) इत्यादिना विकल्पविधानाभावः। संहितायां नकारस्य रुत्वानुनासिकावुक्तौ ॥
“The waters, the wives of the destroyer, guarded by Ahi, stood obstructed, like the cows by Paṇis; but by laying Vṛtra, Indra set open the cave that had confined them.”
Guarded by Ahi stood the thralls of Dasas, the waters stayed like kine held by the robber.
But he, when he had smitten Vrtra, opened the cave wherein the floods had been imprisoned.
Enclosed by demons, guarded by a serpent, The waters stood like cows by Paṇi captured. The waters' orifice that was obstructed. When Vṛtra he had smitten, Indra opened.
The waters stood still—their husband was the Dāsa; their herdsman, the serpent—hemmed in like the cows by the Paṇi.
What was the hidden opening for the waters—that Indra uncovered after he smashed Vr̥tra.
Beherrscht vom Feinde und bewacht vom Drachen, wie Küh' umhegt vom Räuber, stand das Wasser, Der Wasser Höhle, die verschlossne, hat er geöffnet, als den Vritra er erschlagen.
Als Frauen des Dasa vom Drachen bewacht, waren die Gewässer eingesperrt wie die Kühe von dem Pani. Den Ausfluß der Gewässer, der verstopft war, hat er nach Erschlagung des Vritra geöffnet.
Жены Дасы, охраняемые змеем, – воды
Стояли скованные, как коровы (, спрятанные) Пани.
Проход для вод, который был заткнут, –
Он открыл ему, убив Вритру.
अश्व्यो॒ वारो॑ अभव॒स्तदि॑न्द्र सृ॒के यत्त्वा॑ प्र॒त्यह॑न्दे॒व एक॑: । अज॑यो॒ गा अज॑यः शूर॒ सोम॒मवा॑सृज॒: सर्त॑वे स॒प्त सिन्धू॑न् ॥
अश्व्यः॑ । वारः॑ । अ॒भ॒वः॒ । तत् । इ॒न्द्र॒ । सृ॒के । यत् । त्वा॒ । प्र॒ति॒ऽअह॑न् । दे॒वः । एकः॑ । अज॑यः । गाः । अज॑यः । शू॒र॒ । सोम॑म् । अव॑ । अ॒सृ॒जः॒ । सर्त॑वे । स॒प्त । सिन्धू॑न् ॥
सृके वज्रे । सृकः वृकः ' (नि. २. २०. ६ ) इति वज्रनामसु पठितत्वात् । देवः दीप्यमानः सर्वायुधकुशलः एकः अद्वितीयः वृत्रः यत् यदा त्वा त्वां प्रत्यहन् प्रतिकूलत्वेन प्रहृतवान् तत् तदानीं त्वम् अश्व्यो वारः अश्वसंबन्धी वालः अभवः। यथाश्वस्य वालोऽनायासेन मक्षिकादीन्निवारयति तद्वत् वृत्रमगणयित्वा निराकृतवानित्यर्थः । किं च गाः पणिनापहृताः त्वम् अजयः जितवान् । हे शूर शौर्ययुक्त इन्द्र सोमम् अजयः जितवान्। तथा च तैत्तिरीयाः - ‘त्वष्टा हतपुत्रः इत्यस्मिन्नुपाख्याने समामनन्ति- स यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्' (तै. सं. २. ४. १२. १) इति । सप्त सिन्धून् ‘इमं मे गङ्गे' ( ऋ. सं. १०. ७५.५) इत्यस्यामृच्याम्नाता गङ्गाद्याः सप्तसंख्याका नदीः सर्तवे सर्तुं प्रवाहरूपेण गन्तुम् अवासृजः त्यक्तवान्। वृत्रकृतं प्रवाहनिरोधं निराकृतवानित्यर्थः ॥ अश्व्यः । अश्वे भवः। ‘ भवे छन्दसि' इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । वारयति दंशमशकानिति वारः । पचाद्यच् । कपिलकादित्वात् लत्वविकल्पः (पा. म. ८. २. १८)। वृषादित्वादाद्युदात्तत्वम् । प्रत्यहन् । यद्वृत्तान्नित्यम्' इति निघातप्रतिषेधः । तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् । अजयः। गाः इत्यस्य वाक्यान्तरगतत्वात् तदपेक्षयास्य ‘ तिङ्ङतिङः इति निघातो न भवति, समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः ' (पा. सू. ८. १. १८. ५) इति वचनात् । सर्तवे । ‘ तुमर्थे सेसेन्° ' इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
“When the single resplendent Vṛtra returned the blow (which had been inflicted), Indra, by your thunderbolt, you became (furious), like a horse's tail. You have rescued the kine; you have won, Hero, the Soma juice; you have let loose the seven rivers to flow.”
A horse's tail wast thou when he, O Indra, smote on thy bolt; thou, God without a second,
Thou hast won back the kine, hast won the Soma; thou hast let loose to flow the Seven Rivers.
A horse's tail thou didst become, O Indra, When, on his spear impaled, as god unaided, The cows, O hero, thou didst win and Soma, And free the seven streams to flow in torrents.
You, Indra, then became the tail of a horse when he struck his fangs at you—you, the god alone.
You conquered the cows, and, o champion, you conquered the soma. You set loose the seven rivers to flow.
Du warst ein Rossschweif, Indra, als er damals im Schuss dich traf; du, der allein du Gott bist, Gewannst die Kühe, Held, gewannst den Soma, und rinnen liessest du die sieben Ströme.
In ein Roßhaar verwandeltest du dich da, Indra, als er dich gegen die Zacke schlug. Der einzige Gott erobertest du die Kühe, du erobertest, o Held, den Soma; du ließest die sieben Ströme frei, daß sie laufen.
В конский волос превратился ты, о Индра, в тот миг,
Когда он дал тебе по клыку. Единый бог,
Ты завоевал коров, ты завоевал сому, о герой!
Ты выпустил для бега семь потоков.
नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च । इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥
न । अ॒स्मै॒ । वि॒द्युत् । न । त॒न्य॒तुः । सि॒से॒ध॒ । न । याम् । मिह॑म् । अकि॑रत् । ह्रा॒दुनि॑म् । च॒ । इन्द्रः॑ । च॒ । यत् । यु॒यु॒धाते॒ इति॑ । अहिः॑ । च॒ । उ॒त । अ॒प॒रीभ्यः॑ । म॒घऽवा॑ । वि । जि॒ग्ये॒ ॥
इन्द्रं निषेद्धुं वृत्रो यान् विद्युदादीन् मायया निर्मितवान् ते सर्वेऽप्येनं निषेद्धुमशक्ताः । सोऽयमथोंऽनेन मन्त्रेणोच्यते । अस्मै इन्द्रार्थं निर्मिता विद्युत् न सिषेध इन्द्रं न प्राप्नोत् । तथा तन्यतुः गर्जनं यां मिहं सेचनं यां वृष्टिम् अकिरत् वृत्रो विक्षिप्तवान् सापि वृष्टिः न सिषेध । ह्रादुनिं च अशनिमपि यां वृत्रः प्रयुक्तवान् सापि न सिषेध । इन्द्रश्च अहिश्च इन्द्रवृत्रावुभावपि यत् यदा युयुधाते युद्धं कृतवन्तौ । तदानीं विद्युदादयो न प्राप्ता इति पूर्वत्रान्वयः । उत अपि च मघवा धनवानिन्द्रः अपरीभ्यः अपराभ्यः अन्यासामपि वृत्रनिर्मितानां मायानां सकाशात् वि जिग्ये विशेषेण जितवान् ॥ सिषेध। ' षिधु गत्याम् । मिहम् । मिह सेचने ' । मेहति सिञ्चतीति मिट् वृष्टिः । क्विप् च ' इति क्विप् । अकिरत् । ‘ कॄ विक्षेपे । तुदादिभ्यः शः '। 'ऋत इद्धातोः ' इति इत्वम् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । युयुधाते । ‘युध संप्रहारे'। लिटि प्रत्ययस्वरः । जिग्ये । ‘सन्लिटोर्जेः' (पा. सू. ७. ३. ५७ ) इति अभ्यासादुत्तरस्य जकारस्य कुत्वम् ॥
“Neither the lightning nor the thunder (discharged by Vṛtra), nor the rain which he showered, nor the thunderbolt, harmed Indra, when he and Ahi contended and Maghvat triumphed also over other (attacks).”
Nothing availed him lightning, nothing thunder, hailstorm or mist which had spread around him:
When Indra and the Dragon strove in battle, Maghavan gained the victory for ever.
Him lightning then availèd not nor thunder, Nor mist, nor hailstorm which around he scattered: When Indra and the serpent fought in battle, The bounteous god gained victory for ever.
Neither the lightning nor the thunder, neither the mist nor the hail that he scattered repelled (Indra) for him.
When Indra and the serpent fought each other, the generous one
achieved victory also for (all) later times.
Nichts half ihm da der Blitz und nichts der Donner, nicht Nebel, den er ausgoss, noch der Hagel, Als Indra und der Drache sich bekämpften, gewann den Sieg für alle Zeit der mächt'ge.
Nicht fruchtete ihm Blitz und Donner, nicht Nebel und Hagel, den er ausstreute. Als Indra und der Drache kämpften, da blieb der Gabenreiche auch für alle Zukunft Sieger.
a-b nasmai vidyun na tanuatuh sisedha / na yam miham rv01.032.13
अहे॑र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् । नव॑ च॒ यन्न॑व॒तिं च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥
अहेः॑ । या॒तार॑म् । कम् । अ॒प॒श्यः॒ । इ॒न्द्र॒ । हृ॒दि । यत् । ते॒ । ज॒घ्नुषः॑ । भीः । अग॑च्छत् । नव॑ । च॒ । यम् । न॒व॒तिम् । च॒ । स्रव॑न्तीः । श्ये॒नः । न । भी॒तः । अत॑रः । रजां॑सि ॥
हे इन्द्र जघ्नुषः वृत्रं हतवतः तव हृदि चित्ते यत् यदि भीरगच्छत् न हतवानस्मीति बुद्ध्या भयं प्राप्नुयात् तर्हि अहेः वृत्रस्य यातारं हन्तारं कमपश्यः त्वत्तोऽन्यं कं पुरुषं दृष्टवानसि । तादृशस्य पुरुषान्तरस्याभावात् मा भूत् तव भयमित्यर्थः । यत् यस्मात् कारणात् त्वं नव च नवतिं च स्रवन्तीः एकोनशतसंख्याकाः प्रवहन्तीर्नदीः प्राप्य रजांसि तत्रत्यान्युदकानि अतरः तीर्णवानसि । तत्र दृष्टान्तः । श्येनो न । श्येननामको बलवान् पक्षीव दूरगमनात्तव भयमासीदिति गम्यते । तद्भयं मा भूदित्यभिप्रायः । तच्च दूरगमनं ब्राह्मणे समाम्नातम् - ‘इन्द्रो वै वृत्रं हत्वा नास्तृषीति मन्यमानः पराः परावतोऽगच्छत् ' ( ऐ. ब्रा. ३. १५) इति । तैत्तिरीयाश्चामनन्ति- इन्द्रो वृत्रं हत्वा परां परावतमगच्छदपाराधमिति मन्यमानः ' (तै. सं. २. ५. ३. ६) इति ॥ हृदि । ‘पद्दन्' इत्यादिना हृदयशब्दस्य हृदादेशः । ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । जघ्नुषः । हन्तेर्लिटः क्वसुः । षष्ठ्येकवचने ' वसोः संप्रसारणम्' इति संप्रसारणपरपूर्वत्वे। ‘ शासिवसिघसीनां च ' इति पत्वम् । न च ‘षत्वतुकोरसिद्धः ' ( पा. सू. ६. १. ८६ ) इत्येकादेशस्यासिद्धत्वात् षत्वं न प्राप्नुयादिति वाच्यं, ‘ संप्रसारणडीट्सु प्रतिषेधो वक्तव्यः' (का. ६. १, ८६. १ ) इति असिद्धवद्भावस्य प्रतिषिद्धत्वात् । ‘ गमहन इत्यादिना उपधालोपः । न च “ असिद्धवदत्रा भात्' इति संप्रसारणस्यासिद्धवद्भावः, भिन्नाश्रयत्वात् । संप्रसारणं हि षष्ठ्येकवचने उपधालोपस्तु वसाविति भिन्नाश्रयत्वम् । स्रवन्तीः । ‘स्रु गतौ '। शप्श्यनोर्नित्यम् ' ( पा. सू. ७. १. ८१ ) इति नुमागमः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेणाद्युदात्तत्वम् । अतरः । यद्वृत्तयोगादनिघातः ॥
“When fear entered, Indra, into your heart when about to slay Ahi, what other destroyer of him did you look for, that, alarmed, you did traverse ninety and nine streams like a (swift) hawk?”
Whom sawest thou to avenge the Dragon, Indra, that fear possessed thy heart when thou hadst slain him;
That, like a hawk affrighted through the regions, thou crossedst nine-and-ninety flowing rivers?
Whom saw'st thou as avenger of the serpent, As terror seized thy heart when thou hadst slain him, And thou didst cross the nine and ninety rivers And air's broad spaces, like a hawk affrighted?
Whom did you see, Indra, as the avenger of the serpent when fear came into your heart after you smashed him,
and when you crossed over the ninety-nine flowing rivers, like a
frightened falcon through the airy realms?
Wen sahst du, Indra, als des Drachens Rächer, als dir dem Sieger damals Furcht ins Herz schlich, Als du die Flut der neunundneunzig Ströme, die Luft durchflogst wie ein erschreckter Falke?
Wen sahst du, Indra, als Rächer des Drachen, daß Furcht dein, des Töters, Herz befiel, als du über die neunundneunzig Ströme, wie der Adler erschreckt die Räume durcheiltest?
Какого мстителя за змея увидел ты, о Индра,
Что в сердце к тебе, убийце, проник страх,
Когда девяносто и девять потоков
Ты пересекал, как испуганный орел – пространства?
इन्द्रो॑ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा॑ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव ॥
इन्द्रः॑ । या॒तः । अव॑ऽसितस्य । राजा॑ । शम॑स्य । च॒ । शृ॒ङ्गिणः॑ । वज्र॑ऽबाहुः । सः । इत् । ऊँ॒ इति॑ । राजा॑ । क्ष॒य॒ति॒ । च॒र्ष॒णी॒नाम् । अ॒रान् । न । ने॒मिः । परि॑ । ता । ब॒भू॒व॒ ॥
वज्रबाहुः इन्द्रः शत्रौ हते सति निःसपत्नो भूत्वा यातः गच्छतो जङ्गमस्य अवसितस्य एकत्रैव स्थितस्य स्थावरस्य शमस्य शान्तस्य शृङ्गराहित्येन प्रहरणादावप्रवृत्तस्याश्वगर्दभादेः शृङ्गिणः शृङ्गोपेतस्योग्रस्य महिषबलीवर्दादेश्च राजा अभूत् । सेदु स एवेन्द्रः चर्षणीनां मनुष्याणां राजा भूत्वा क्षयति निवसति। ता तानि पूर्वोक्तानि जङ्गमादीनि सर्वाणि परि बभूव व्याप्तवान् । तत्र दृष्टान्तः। अरान् न नेमिः । यथा रथचक्रस्य परितो वर्तमान नेमिः अरान् नाभौ कीलितान् काष्ठविशेषान् व्याप्नोति तद्वत् ॥ यातः । ‘ या प्रापणे '। याति गच्छतीति यात् । लटः शतृ । ‘ सावेकाचः' इति विभक्तेरुदात्तत्वम् । सः । सोऽचि लोपे चेत् । इति संहितायां सोर्लोपः । ता । । शेश्छन्दसि बहुलम्' इति शेर्लोपः । बभूव । भवतेर्लिटो णलि ‘ भवतेरः ' (पा. सू. ७. ४. ७३ ) इति अभ्यासस्य अत्वम् । कृताकृतप्रसङ्गितया वुगागमस्य नित्यत्वात् वृद्धेः पूर्वं वुगागमः । यद्वा । ‘ इन्धिभवतिभ्यां च ' (पा. सू. १. २. ६) इति लिटः कित्त्वात् वृद्ध्यभावः । न च ' असिद्धवदत्रा भात् इति तस्यासिद्धत्वात् उवङादेशः शङ्कनीयः ‘वुन्युटावुवङयणोः सिद्धौ भवतः' (पा. सू. ६. ४. २२. १४ ) इति तस्य सिद्धत्वात्। ' तिङ्ङतिङः' इति निघातः ॥ ॥ ३८ ॥
“Then Indra, the wilder of the thunderbolt, became the sovereign of all that is moveable or immoveable, of hornless and horned cattle; and as he abides the monarch of men, he comprehended all things (within him), as the circumference comprehends the spokes of a wheel.”
Indra is King of all that moves and moves not, of creatures tame and horned, the Thunder-wielder.
Over all living men he rules as Sovran, containing all as spokes within the felly.
Indra is king of all that's fixed and moving, Of tame and horned beasts, the thunder-wielder. He truly rules, as king of busy mortals; Them he encompasses as spokes the felly.
Bearing the mace in his arms, Indra is the king of him who travels and of him who is settled, of the horned and the hornless.
And just he alone as king rules over the different peoples: like a rim the spokes of a wheel, he encompasses those.
Was geht und steht, beherrscht als König Indra, das arbeitsame Vieh und das gehörnte, Den Blitz im Arm beherrscht er alle Menschen, umfasst sie wie des Rades Kranz die Speichen.
Indra ist König über den Fahrenden, den Rastenden, über Zahmes und Gehörntes, der die Keule im Arm trägt. Er gebietet als König über die Völker; wie der Radkranz die Speichen umfaßt er das alles.
Индра – царь движущегося (и) отдыхающего,
Безрогого и рогатого, громовержец.
Это он как царь правит народами.
Как обод – спицы (колеса), он охватил их (всех).