एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति । अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥
आ । इ॒त॒ । अया॒म । उप॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । अ॒स्माक॑म् । सु । प्रऽम॑तिम् । व॒वृ॒धा॒ति॒ । अ॒ना॒मृ॒णः । कु॒वित् । आत् । अ॒स्य । रा॒यः । गवा॒म् । केत॑म् । पर॑म् । आ॒ऽवर्ज॑ते । नः॒ ॥
देवाः परस्परमेवं कथयन्ति । हे देवाः गव्यन्तः पणिनामकेनासुरेणापहृता अस्मदीया गाः प्राप्तुमिच्छन्तो यूयं एत आगच्छत । युष्माभिः सहिता वयम् इन्द्रं गवानयनक्षमम् उप अयाम प्राप्तवाम । स चेन्द्रः अनामृणः हिंसकरहितः सन् अस्माकं देवानां प्रमतिं गोलाभेन हर्षयित्वा प्रकृष्टां बुद्धिं सु ववृधाति सुष्ठु वर्धयति । आत् अनन्तरं स इन्द्रः अस्य रायः धनस्य गवां गोरूपस्य संबन्धि परं केतं उत्कृष्टं ज्ञानं नः अस्माकं कुवित् आवर्जते अधिक प्रापयति ॥ इत । ‘ इण् गतौ '। अदादित्वात् शपो लुक् । अयाम । एतेर्लोडुत्तमबहुवचने ‘ आडुत्तमस्य पिच्च इति आडागमः । पिद्वद्भावात् सार्वधातुकलक्षणे गुणे अयादेशः । न च “ इणो यण् ' (पा. सू. ६. ४. ८१) इति यणादेशः । ‘ मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते' (परिभा. ६०) इति वचनात् तस्य इयङादेशापवादत्वात् । अतः परत्वात् गुणेन यणादेशो बाध्यते । पिद्वद्भावात् प्रत्ययस्यानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । गव्यन्तः । गा आत्मनः इच्छन्तः । ‘ सुप आत्मनः क्यच् ' इति गोशब्दात् कर्मणः क्यच् । वान्तो यि प्रत्यये ' ( पा. सू. ६. १. ७९ ) इति अवादेशः । प्रत्ययान्तात् धातोर्लटः शतृ । तस्य अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । प्रमतिम् । मन्यतेः क्तिनि ‘अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः । ‘ तादौ च° ' ( पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । ववृधाति । वृधु वृद्धौ'। लेटि आडागमः। ‘ बहुलं छन्दसि ' इति शपः श्लुः । संहितायामभ्यासस्य दीर्घश्छान्दसः । अनामृणः । ‘ मृण हिंसायाम् । मृणन्ति हिंसन्तीति मृणाः । इगुपधलक्षणः कः । न सन्ति अमृणाः अस्य इति बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अस्य रायः । ‘ ऊडिदम्' इत्युभयत्र विभक्तेरुदात्तत्वम् । गवाम् । 'सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तस्य न गोश्वन्साववर्ण ' इति प्रतिषेधः । केतम् । कित ज्ञाने'। घञन्त आद्युदात्तः । आवर्जते । ‘ वृजी वर्जने '। अदादित्वात् शपो लुकि प्राप्ते ' बहुलं छन्दसि ' इति तदभावः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकत्वेन धातुस्वरः । ‘ तिङि चोदात्तवति' (पा. सू. ८. १. ७१ ) इति गतेरनुदात्तत्वम् । कुविद्योगात् ‘निपातैर्यद्यदिहन्त' (पा. सू. ८. १. ३०) इत्यादिना निघातप्रतिषेधः ॥
“Come, let us get to Indra, (to recover our stolen cattle), for he, devoid of malice, exhilarates our minds; thereupon he will bestow upon us perfect knowledge of this wealth, (which consists) of kine.”
Come, fain for booty let us seek to Indra: yet more shall he increase his care that guides us.
Will not the Indestructible endow us with perfect knowledge of this wealth, of cattle?
Come on! Let us go up close to Indra, seeking cattle. Will he increase his solicitude for us?
With no one to hinder him, will he perhaps then turn his distant
intention toward us for this wealth, for cattle?
Auf, lasst uns Indra Heerden heischend angehn, dass er für uns recht seine Sorge steigre; Wird dann der unbesiegte unsrer höchsten Begier nach Schatz und Rindern nicht sich fügen?
Kommt, wir wollen Indra angehen, die wir auf die Kühe aus sind. Er möge fest seine Fürsorge für uns mehren. Vielleicht daß er, der kein Hindernis kennt, dann unserem höchsten Wunsch nach diesem Reichtum, nach Kühen geneigt sein wird.
Придите! Мы пойдем к Индре, желая коров:
Да усилит он как следует заботу о нас!
Он, несокрушимый, уж не пренебрежет ли
Крайним стремлением нашим к этому богатству, к коровам?
उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि । इन्द्रं॑ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ॥
इत् । अ॒हम् । ध॒न॒ऽदाम् । अप्र॑तिऽइतम् । जुष्टा॑म् । न । श्ये॒नः । व॒स॒तिम् । प॒ता॒मि॒ । इन्द्र॑म् । न॒म॒स्यन् । उ॒प॒ऽमेभिः॑ । अ॒र्कैः । यः । स्तो॒तृऽभ्यः॑ । हव्यः॑ । अस्ति॑ । याम॑न् ॥
यः इन्द्रः स्तोतृभ्यः स्तोतॄणामनुष्ठातॄणामनुग्रहार्थं यामन् तदीयशत्रुभिः सह प्रवृत्ते युद्धे हव्यः अस्ति तैराह्वातव्यो भवति तम् इन्द्रम् अहम् अनुष्ठाता उपेत् पतामि उपाप्नोम्येव । किं कुर्वन् । उपमेभिः उपमानस्थानीयैरुत्तमैः अर्कैः स्तोत्रैः सह नमस्यन् पूजयन् । कीदृशमिन्द्रम् । धनदां धनप्रदम् अप्रतीतम् अप्रतिगतं बलिभिरतिरस्कृतमित्यर्थः । इन्द्रप्राप्तौ दृष्टान्तः । जुष्टां पूर्वैः सेवितां वसतिं स्वकीयनीडरूपां निवासभूमिं श्येनः न । यथा श्येननामको वेगवान् पक्षी स्वकीयस्थानं प्रति आदरेण धावति तद्वत् अहम् इन्द्रं त्वरया प्राप्नोमि ॥ धनदाम् । धनं ददातीति धनदाः । ‘ आतो मनिन् 'इस्यादिना विच् । अप्रतीतम् शत्रुभिर्न प्रतिगतम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । जुष्टाम् । जुषी प्रीतिसेवनयोः । श्वीदितो निष्ठायाम् ' ( पा. सू. ७. २. १४) इति इट्प्रतिषेधः । ‘ नित्यं मन्त्रे' (पा. सू. ६. १. २१० ) इत्याद्युदात्तत्वम् । पतामि । लेटि आडागमः । नमस्यन्। नमस्शब्दात् पूजार्थे ' नमोवरिवः' (पा. सू. ३. १. १९) इति क्यच् । प्रत्ययस्वरः । अदुपदेशात् लसार्वधातुकानुदात्तस्य एकादेशस्वरेणोदात्तत्वम् । उपमीयन्ते एभिरित्युपमाः । ‘माङ् माने । ‘ घञर्थे कविधानम्' (पा. सू. ३. ३. ५८. ४ ) इति कः । ‘ बहुलं छन्दसि' इति भिस ऐसादेशाभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । हव्यः । ह्वेञो ‘बहुलं छन्दसि' इति संप्रसारणम् । ‘ अचो यत् ' इति यत् । गुणः ।' धातोस्तन्निमित्तस्यैव ' (पा. सू. १. १. ८०) इति अवादेशः । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । यामन् । ' या प्रापणे ' । मनिनो नित्त्वादाद्युदात्तत्वम् । ‘सुपां सुलुक्' इति सप्तम्या लुक् ॥
“I fly, like a hawk to its cherished nest, to that Indra who is to be invoked by his worshipper in battle, glorifying with excellent hymns, him who is invincible and the giver of wealth.”
I fly to him invisible Wealth-giver as flies the falcon to his cherished eyrie,
With fairest hymns of praise adoring Indra, whom those who laud him must invoke in battle.
I fly close to the unopposable giver of wealth, like a falcon to its delightful dwelling,
doing homage to Indra with my best chants, the one who is to be
invoked by praisers on his journey.
Zum unbezwungnen Reichthumspender flieg' ich, sowie der Adler zum willkommnen Neste, Verehrend Indra mit den höchsten Liedern, der von den Sängern anzuflehn beim Fest ist.
Ich fliege hin zu dem Schatzspender, dem unwiderstehlichen, wie ein Adler zum gewohnten Horst, dem Indra mit höchsten Preisliedern huldigend, der für die Sänger auf seiner Fahrt anzurufen ist.
И вот я к этому дарителю богатств, неотразимому (богу),
Лечу, словно сокол – к излюбленному жилью,
Прославляя Индру самыми высокими песнями,
(Того,) кого должны призывать певцы, когда он в пути.
नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑ । चो॒ष्कू॒यमा॑ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू॑र॒स्मदधि॑ प्रवृद्ध ॥
नि । सर्व॑ऽसेनः । इ॒षु॒ऽधीन् । अ॒स॒क्त॒ । सम् । अ॒र्यः । गाः । अ॒ज॒ति॒ । यस्य॑ । वष्टि॑ । चो॒ष्कू॒यमा॑णः । इ॒न्द्र॒ । भूरि॑ । वा॒मम् । मा । प॒णिः । भूः॒ । अ॒स्मत् । अधि॑ । प्र॒ऽवृ॒द्ध॒ ॥
सर्वसेनः कृत्स्नसेनायुक्तः इषुधीन् बाणानामाधारभूतान् निषङ्गान् नि असक्त नितरां पृष्ठभागे संयोजितवान् । अर्यः स्वामिरूप इन्द्रः यस्य देवस्य वष्टि असुरेणापहृता गाः प्रदातुं कामयते तस्य देवस्य गृहे ताः गाः सम् अजति सम्यक् प्रापयति । हे प्रवृद्ध प्रकृष्टवृद्धियुक्त इन्द्र
“भूरि वामं प्रभूतं गोरूपं धनं चोष्कूयमाणः अस्मभ्यं प्रयच्छन् अस्मदधि अस्मासु पणिः मा भूः व्यवहारी मा भूयाः । गवां मूल्यं मा याचस्वेत्यर्थः ॥ सर्वसेनः । इनेन सह वर्तते इति सेना । ‘वोपसर्जनस्य' (पा. सू. ६. ३. ८२ ) इति संभावः । सर्वा सरणशीला सेना यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।' प्रत्ययलक्षणेनाप्ययं स्वर इष्यते' ( का. ६. १. १९१ ) इति वचनात् प्रत्ययलक्षणेन ‘ सर्वस्य सुपि ' ( पा. सू. ६. १. १९१ ) इति सर्वशब्द आद्युदात्तः । इषुधीन् । इषव एषु धीयन्ते इति इषुधयः । ‘ कर्मण्यधिकरणे च ' (पा. सू. ३. ३. ९३) इति किप्रत्ययः । संहितायां दीर्घादटि' इत्यादिना नकारस्य रुत्वम् । ' अत्रानुनासिकः पूर्वंस्य तु वा ' (पा. सू. ८. ३. २) इति पूर्वस्वरोऽनुनासिकः । असक्त। ‘ षच समवाये । बहुलं छन्दसि ' इति शपो लुक् । अर्यः । ‘ अर्यः स्वामिवैश्ययोः (पा. सू. ३. १. १०३) इति यत्प्रत्ययान्तो निपातितः । ‘ अर्यस्य स्वाम्याख्या चेत् ' (फि. सू. १७) इत्यन्तोदात्तत्वम् । अजति । ‘अज गतिक्षेपणयोः' । वष्टि । ‘वश कान्तौ' । अदादित्वात् शपो लुक् । व्रश्चादिषत्वे ष्टुत्वम् । चोष्कूयमाणः । ‘स्कुञ् आप्रवणे'। धातोरेकाचः' इति यङ् । अकृत्सार्वधातुकयोर्दीर्घः। द्विर्वचने ‘शर्पूर्वाः खयः' (पा. सू. ७. ४. ६१) इति ककारः शिष्यते सकारो लुप्यते । कुहोश्चुः ' (पा. सू. ७. ४. ६२ ) इति चुत्वे ‘गुणो यङ्लुकोः' (पा. सू. ७. ४.८२) इति गुणः । सुषामादित्वात् षत्वम् । यङन्तात् लटः शानच् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । भूः । ‘गातिस्था' इति सिचो लुक् ॥
“The commander fo the whole host has bound his quiver (on his back); the lord drives the cattle (to the dwelling) of whom he plural ases. Mighty Indra, bestowing upon us abundant wealth, take not advantage of us like a dealer.”
Mid all his host, he bindeth on the quiver: he driveth cattle from what foe he pleaseth:
Gathering up great store of riches, Indra. be thou no trafficker with us, most mighty.
Fully armed, he has laden himself down with quivers; he herds together the cows of the stranger, of whomever he wishes to.
Keep poking out valuable things in abundance, Indra—don’t be a
niggard, (at a distance) from us, you strengthened one.
Den Köcher hing sich an der Herr der Scharen, treibt, wie er will, die Rinder fort des Feindes; Der viele Güter du bewahrst, o Indra, sei gegen uns nicht kärglich, o gewalt'ger.
In voller Wehr hat er die Köcher umgehängt. Die Rinder des Protzen treibt er zu, wem er will. Viel Gut aufstöbernd, sei kein Pani gegen uns, du starker Indra!
При полном вооружении, он увешал себя колчанами.
Он угоняет коров чужого – у кого хочет.
Сгребая себе много добра, о Индра,
Не будь скупым к нам, о возросший!
वधी॒र्हि दस्युं॑ ध॒निनं॑ घ॒नेनँ॒ एक॒श्चर॑न्नुपशा॒केभि॑रिन्द्र । धनो॒रधि॑ विषु॒णक्ते व्या॑य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ॥
वधीः॑ । हि । दस्यु॑म् । ध॒निन॑म् । घ॒नेन॑ । एकः॑ । चर॑न् । उ॒प॒ऽशा॒केभिः॑ । इ॒न्द्र॒ । धनोः॑ । अधि॑ । वि॒षु॒णक् । ते॒ । वि । आ॒य॒न् । अय॑ज्वानः । स॒न॒काः । प्रऽइ॑तिम् । ई॒युः॒ ॥
हे इन्द्र धनिनं बहुधनोपेतं दस्युं चोरं वृत्रं घनेन कठिनेन वज्रेण वधीर्हि त्वं हतवान् खलु। धनित्वं वाजसनेयिनोऽपि स्पष्टमामनन्ति- ‘ वृत्रस्यान्तः सर्वे देवाः सर्वाश्च विद्याः सर्वाणि हवींषि चासन् ' इति । उपशाकेभिः समीपवर्तिभिः शक्तियुक्तैर्मरुद्भिः सहितो भूत्वा एकश्चरन् । प्रहर्तुं स्वयमेक एव गच्छन् । यद्यपि मरुतः समीपे वर्तन्ते तथापि ते प्रोत्साहयन्त्येव न तु वृत्रं प्रहरन्ति । प्रहर्ता तु स्वयमेक एव । तथा च ब्राह्मणे समाम्नातं -- मरुतो हैनं नाजहुः प्रहर भगवो वीरयस्वेत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त' (ऐ. ब्रा. ३. २०) इति । धनोरधि इन्द्रसंबन्धिनो धनुष उपरि विषुणक् विविधं नाशमुद्दिश्य यद्वा विष्वक् सर्वतः ते वृत्रानुचराः व्यायन् विविधमागच्छन् । आगत्य च अयज्वानः यज्वविरोधिनः सन्तः सनकाः एतन्नामका वृत्रानुचराः प्रेतिमीयुः मरणं प्राप्ताः॥ वधीः । ‘हन हिंसागत्योः'। ' लुङि च ' ( पा. सू. २. ४. ४३ ) इति वधादेशः । स च अदन्तः । तस्य “ अतो लोपः० ' इति लोपे सति स्थानिवद्भावात् ‘अतो हलादेः (पा. सू. ७. २. ७ ) इति वृद्ध्यभावः । ‘इट ईटि' (पा. सू. ८. २. २८) इति सिचो लोपः । आगमानुदात्तत्वे धात्वकारस्योदात्तत्वम् । घनेनँ एकः । ‘ ईषा अक्षादिषु च्छन्दसि प्रकृतिभावमात्रं वक्तव्यम्' (पा. सू. त्र. १. १२७, २) इति संहितायां प्रकृतिभावः । अनुनासिकश्छान्दसः । उपशाकेभिः। उपशक्तं कुर्वन्तीति उपशाकाः । ‘ शक्लृ शक्तौ' । अस्मात् हेतुमण्ण्यन्तात् पचाद्यच् । थाथादिस्वरेणोत्तरपदान्तोदात्तत्वम् । विषुणक् । विषुपूर्वात् नशेः संपदादिलक्षणः क्विप् । ‘ नशेर्वा' ( पा. सू. ८. २. ६३ ) इति कुत्वम् । यद्वा । विषुपूर्वस्य अञ्चतेर्नुडागमः । सनका इत्यसुराणां नाम । ' षणु दाने' । सन्वन्ति ददतीति सना दातारः । पचाद्यच् । सनान् कायन्ति शब्दयन्तीति सनकाः । ‘अतोऽनुपसर्गे कः '। ‘ आतो लोप इटि च ' इति आकारलोपः । कृदुत्तरपदप्रकृतिस्वरत्वम् । प्रेतिम् । ‘तादौ च निति ' इति गतेः प्रकृतिस्वरत्वम् । ईयुः । एतेः उसिपरत्वात् “ इणो यण् ' इति यणादेशे ‘ द्विर्वचनेऽचि' इति स्थानिवद्भावात् इकारस्य द्विर्वचनम् । ‘ दीर्घ इणः किति (पा. सू. ७. ४. ६९ ) इत्यभ्यासस्य दीर्घत्वम् ॥
“Verily, Indra, you have slain the wealthy barbarian with your bold; your, singly assailing (him), although with auxiliaries (the Maruts) at hand. Perceiving the impending manifold destructiveness of your bow, they, the Sanakas, the neglecters of sacrifice, perished.”
Thou slewest with thy bolt the wealthy Dasyu, alone, yet going with thy helpers, Indra!
Far from the floor of heaven in all directions, the ancient riteless ones fled to destruction.
For you smashed the wealthy Dasyu with your deadly weapon, going it alone, (though accompanied) by your assistants [=Maruts?], Indra.
From the high plain they went apart in opposite directions; the
non-sacrificing old codgers made their departure.
Du schlugst den reichen Dämon mit der Keule, allein hinwandernd, Indra, mit den Tapfern, Vom Wolkenberg herab zerstoben rings sie, in Eile flohn die alten Opferhasser.
Denn du erschlugst den reichen Dasyu mit dem Schlägel allein ausziehend mit deinen Gehilfen, Indra. Vor ihrem Versteck flohen die nach allen Seiten; die opferlosen Sanaka´s gingen in den Tod.
Ведь ты убил дубиной богатого дасью,
Один, выступая с помощниками, о Индра.
С высокого берега разлетелись они у тебя во все стороны:
Не приносящие жертв санаки отправились в (последний) путь.
परा॑ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भि॒: स्पर्ध॑मानाः । प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर॑व्र॒ताँ अ॑धमो॒ रोद॑स्योः ॥
परा॑ । चि॒त् । शी॒र्षा । व॒वृ॒जुः॒ । ते॒ । इ॒न्द्र॒ । अय॑ज्वानः । यज्व॑ऽभिः । स्पर्ध॑मानाः । प्र । यत् । दि॒वः । ह॒रि॒ऽवः॒ । स्था॒तः॒ । उ॒ग्र॒ । निः । अ॒व्र॒तान् । अ॒ध॒मः॒ । रोद॑स्योः ॥
हे इन्द्र ते वृत्रानुचराः शीर्षा स्वकीयानि शिरांसि परा चित् पराङ्मुखान्येव कृत्वा ववृजुः गतवन्तः । कीदृशास्ते । अयज्वानः स्वयं यागरहिताः प्रत्युत यज्वभिः यागानुष्ठातृभिः सह स्पर्धमानाः । हे हरिवः हरिनामकाश्वयुक्त स्थातः स्थितियुक्त युद्धे पलायनरहित उग्र शौर्ययुक्तेन्द्र यत् यदा दिवः अन्तरिक्षात् रोदस्योः द्यावापृथिव्योः सकाशाच्च अव्रतान् व्रतरहितान् वृत्रानुचरान् निः प्र अधमः निःशेषेण धमनं कृतवानसि तदानीं त्वदीयमुखवायुना नुन्नाः सन्तो ववृजुरिति पूर्वत्रान्वयः ॥ शीर्षा ।' शेश्छन्दसि बहुलम् ' ( पा. सू. ६. १. ७० ) इति शेर्लोपः । ववृजुः । ‘ वृजी वर्जने'। ' असंयोगाल्लिट् कित्' (पा. सू. १. २. ५) इति कित्त्वाद्गुणाभावः । अयज्वानः । यजतेः ‘सुयजोर्ङ्वनिप्' (पा. सू. ३. २. १०३ ) इति भूते ङ्वनिष्प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । दिवः । ऊडिदम्' इति विभक्तेरुदात्तत्वम् । हरिवः । हरी अस्य स्त इति हरिवान्। 'छन्दसीरः' इति मतुपो वत्वम् । संबुद्धौ ‘ मतुवसोः' इति रुत्वम् । अव्रतान्। बहुव्रीहौ ' नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ‘ दीर्घादटि• ' इति संहितायां नकारस्य रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः । अधमः । ‘ ध्मा शब्दाग्निसंयोगयोः '। लङि सिपि शपि ‘ पाघ्रा ' इत्यादिना धमादेशः ॥ ॥१॥
“The neglecters of sacrifice, contending with the sacrificers, Indra, fled with averted faces. Indra, fierce, unyielding, lord of steeds, (they appeared) when you did blow the disregarders of religion from off the heaven, and earth and sky.”
Fighting with pious worshippers, the riteless turned and fled, Indra! with averted faces.
When thou, fierce Lord of the Bay Steeds, the Stayer, blewest from earth and heaven and sky the godless.
They just twisted their heads off, Indra—the non-sacrificers contending with the sacrificers.
O strong horse-possessing (chariot-)mounter, when (you came) forth from heaven, you blasted those who follow no commandment in the two world-halves.
Die Opferhasser mit den Frommen kämpfend, entflohn vor dir kopfüber alle, Indra, Als du gewalt'ger Lenker, Herr der Füchse, die Bösen weg von Erd' und Himmel bliesest.
Sie verspielten ihre Köpfe, o Indra, die Opferlosen, die mit den Opfernden sich in Wettstreit einließen. Als du, gewaltiger Falbenherr und Rosselenker vom Himmel bliesest, da bliesest du die Unfrommen in beiden Welten fort.
Ведь они у тебя обратились в бегство, о Индра,
Не приносящие жертв, соревнуясь с приносящими жертвы.
Когда ты (кинулся) с неба, о повелитель буланых коней, о возница, о грозный,
Ты из двух миров сдул (врагов,) лишенных обета.
अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया॑तयन्त क्षि॒तयो॒ नव॑ग्वाः । वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा॑च्चि॒तय॑न्त आयन् ॥
अयु॑युत्सन् । अ॒न॒व॒द्यस्य॑ । सेना॑म् । अया॑तयन्त । क्षि॒तयः॑ । नव॑ऽग्वाः । वृ॒ष॒ऽयुधः॑ । न । वध्र॑यः । निःऽअ॑ष्टाः । प्र॒ऽवत्ऽभिः॑ । इन्द्रा॑त् । चि॒तय॑न्तः । आ॒य॒न् ॥
अनवद्यस्य गर्हणीयदोषरहितस्येन्द्रस्य सेनां प्रति अयुयुत्सन् वृत्रस्यानुचरा योद्धुमैच्छन्। तदानीं नवग्वाः नवनीयगतयः स्तोतव्यचरित्राः । यद्वा । अङ्गिरसां सत्रमासीनानां मध्ये ये नवभिर्मासैरवाप्तफला उत्थितास्तेषां नवग्वा इति संज्ञा। ‘नवग्वासः सुतसोमास इन्द्रम् ' (ऋ.सं. ५. २९. १२) इत्यादिषु तथाभिहितत्वात् । क्षितयः मनुष्या अङ्गिरःप्रभृतयः । ‘क्षितयः कृष्टयः' (नि. २. ३. ६) इति तन्नामसु पाठात् । अयातयन्त । युद्धार्थमिन्द्रं नानाविधैर्मन्त्रैः प्रोत्साहितवन्तः । इन्द्रे योद्धुं गते सति निरष्टाः तेनेन्द्रेण निराकृता वृत्रानुचराः चितयन्तः स्वकीयामशक्तिं ज्ञापयन्तः इन्द्वात् इन्द्रस्य सकाशात् प्रवद्भिः प्रवणैः पलायितुं सुशकैर्मार्गैः आयन् दूरे गतवन्तः । तत्र दृष्टान्तः। वृषायुधः वृषेण सेचनसमर्थेन पुंस्त्वयुक्तेन शूरेण सह युद्धं कुर्वन्तः वध्रयः न नपुंसका इव । ‘ निसर्गपण्डो वध्रिश्च' इत्यादिस्मृतिषु प्रयोगात् । ते यथा प्रबलेन दूरे निराकृता भवन्ति तद्वत् ॥ अयुयुत्सन् ।' युध संप्रहारे ' । सनि ‘ हलन्ताच्च' ( पा. सू. १. २. १० ) इति सनः कित्त्वाद्गुणाभावः । ‘ एकाच उपदेशेऽनुदात्तात् ' (पा. सू. ७. २. १०) इति इट्प्रतिषेधः । व्यत्ययेन परस्मैपदम् । सेनाम् । इनेन सह वर्तते इति सेना । ' वोपसर्जनस्य ' इति सहशब्दस्य सभावः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अयातयन्त । ‘यती प्रयत्ने' । “ हेतुमति च' इति णिच् । क्षितयः । ‘ क्षि निवासगत्योः' । क्षियन्ति गच्छन्तीति क्षितयो मनुष्याः । ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तिच् । नवग्वाः । नवभिर्मासैर्गच्छन्तीति नवग्वाः । गमेः औणादिको ड्वप्रत्ययः । यद्वा । क्विपि ' गमः क्वौ ' (पा. सू. ६. ४. ४०) इत्यनुनासिकलोपे ' ऊ च गमादीनामिति वक्तव्यम्' (पा. सू. ६. ४. ४०.२) इति अकारस्य ऊकारः । जसि “ ओः सुपि' (पा. सू. ६. ४.८३) इति यणादेशः । दीर्घश्छान्दसः । वृषायुधः। क्विप् च' इति क्विप् । क्विप् च' इत्यत्र ‘सोपपदेभ्यो निरुपपदेभ्यः' (का. ३. २.७६ ) इत्युक्तत्वादत्र सोपपदेभ्यः क्विप् । अन्येषामपि दृश्यते' इति पूर्वपदस्य संहितायां दीर्घः । निरष्टाः। ‘ अशू व्याप्तौ'। भावे निष्ठा ।' यस्य विभाषा ' (पा. सू. ७. २. १५) इति इट्प्रतिषेधः । व्रश्चादिना षत्वे ष्टुत्वम् । निसा च बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । निरस्ता इत्यत्र सकारस्य षत्वं छान्दसम् । तदानीम् अस्ता इत्येतत् कर्मणि निष्ठेति • गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । प्रवद्भिः । ‘वन षण संभक्तौ । अस्मात् प्रपूर्वात् क्विप् । ‘ गमादीनामिति वक्तव्यम् । (पा. सू. ६. ४.४०. १) इत्यनुनासिकलोपः । ततः तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । चितयन्तः । ‘ चिती संज्ञाने' । अस्मात् ण्यन्तात् लटः शतृ । शप् । ‘ अनित्यमागमशासनम्' इति वचनात् । लघूपधगुणाभावः ॥
“(The adherants of Vṛtra) encountered the army of the irreproachable (Indra); men of holy lives encouraged him. Scattered before him, conscious (of their inferiority), like the emasculated contending with men, they fled by precipitous paths.”
They met in fight the army of the blameless: then the Navagvas put forth all their power.
They, like emasculates with men contending, fled, conscious, by steep paths from Indra, scattered.
They wished to battle the army of the faultless one; the Navagva peoples marshaled themselves.
Like castrated bullocks battling with a bull, they seemed to go away from Indra along slippery slopes.
Sie griffen an des Tadellosen Heerschar, es einten sich die neun verbundnen Stämme; Gleichwie entmannte Schwächlinge vor Männern, flohn jählings sie vor Indra, ihn gewahrend.
Sie wollen die Wehr des Untadeligen bekämpfen; die Navagvastämme übten Vergeltung. Wie verschnittene Stiere, die mit einem Bullen kämpfen, flohen sie gezeichnet in eiligem Laufe vor Indra, zur Einsicht kommend.
Они хотели сражаться с войском безупречного.
Выстроились племена навагва.
Словно сражающиеся с быком волы, холощеные,
Бежали от Индры низинами, сознавая (свое поражение).
त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो॑धयो॒ रज॑स इन्द्र पा॒रे । अवा॑दहो दि॒व आ दस्यु॑मु॒च्चा प्र सु॑न्व॒तः स्तु॑व॒तः शंस॑मावः ॥
त्वम् । ए॒तान् । रु॒द॒तः । जक्ष॑तः । च॒ । अयो॑धयः । रज॑सः । इ॒न्द्र॒ । पा॒रे । अव॑ । अ॒द॒हः॒ । दि॒वः । आ । दस्यु॑म् । उ॒च्चा । प्र । सु॒न्व॒तः । स्तु॒व॒तः । शंस॑म् । आ॒वः॒ ॥
हे इन्द्र त्वं रुदतः रोदनं कुर्वतः जक्षतः भक्षणं हसनं वा कुर्वतः च एतान् द्विविधानपि वृत्रानुचरान् रजसः पारे अन्तरिक्षस्य परभागे। रजःशब्दोऽन्तरिक्षवाची, लोका रजांस्युच्यन्ते (निरु. ४. १९) इत्युक्तत्वात् । अयोधयः युद्धमकरोः युद्धेन मारितवानित्यर्थः। दस्युम् उपक्षयितारं वृत्रं दिवः आ द्युलोकादानीय उच्चा उत्कर्षेण अवादहः दग्धवानसि । वृत्रं सपरिवारं विनाश्य तत ऊर्ध्वं सुन्वतः सोमाभिषवं कुर्वतः स्तुवतः स्तोत्रं कुर्वतो यजमानस्य शंसं स्तुतिं प्र आवः प्रकर्षेण रक्षितवानसि ॥ रुदतः । ‘रुदिर् अश्रुविमोचने'। लटः शतृ । अदादित्वात् शपो लुक् । प्रत्ययस्वरेणान्तोदात्तत्वम् । ‘शतुरनुमः' इति शस उदात्तत्वम् । जक्षतः । ‘ जक्ष भक्षहसनयोः । पूर्ववत् शपो लुक् ।' जक्षित्यादयः षट् ' (पा. सू. ६. १. ६) इति अभ्यस्तसंज्ञा । अतः ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सुन्वतः । सुनोतेः शतरि ‘स्वादिभ्यः श्नुः । हुश्नुवोः ' इत्यादिना यणादेशः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । स्तुवतः । ‘ ष्टुञ् स्तुतौ । अदादित्वात् शपो लुक् । उवङादेशः । पूर्ववत्स्वरः ॥
“You have destroyed them, Indra, whether weeping or laughing, on the farthest verge of the sky; you have consumed the robber, (having dragged him) from heaven, and have received the praises of the worshipper, praising you and offering libations.”
Whether they weep or laugh, thou hast o'erthrown them, O Indra, on the sky's extremest limit.
The Dasyu thou hast burned from heaven, and welcomed the prayer of him who pours the juice and lauds thee.
You set them to fighting, those wailing and those laughing, on the far edge of the dusky realm, Indra.
From heaven on high you sent fire burning down on the Dasyu; you favored the recitation of the presser and the praiser.
Sie mochten weinen, mochten lachen, Indra, du hast bekämpft sie an des Luftraums Ende; Vom Himmel hast du weggebrannt den Dämon und hast erfüllt den Wunsch des frommen Sängers.
Du Indra stelltest jene Weinenden und Lachenden zum Kampfe am anderen Ende der Welt. Oben vom Himmel warfst du Feuer auf den Dasyu. Das Wort des Somapressenden und Preisenden hast du begünstigt.
Ты этих рыдающих и хохочущих (врагов)
Поборол, о Индра, гоня их до края пространства.
Ты низверг огонь с неба на дасью – сверху.
Хвалу выжимающего сому, прославляющего ты принял милостиво.
च॒क्रा॒णास॑: परी॒णहं॑ पृथि॒व्या हिर॑ण्येन म॒णिना॒ शुम्भ॑मानाः । न हि॑न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो॑ अदधा॒त्सूर्ये॑ण ॥
च॒का॒णासः॑ । प॒रि॒ऽनह॑म् । पृ॒थि॒व्याः । हिर॑ण्येन । म॒णिना॑ । शुम्भ॑मानाः । न । हि॒न्वा॒नासः॑ । ति॒ति॒रुः॒ । ते । इन्द्र॑म् । परि॑ । स्पशः॑ । अ॒द॒धा॒त् । सूर्ये॑ण ॥
ये वृत्रानुचराः पृथिव्याः भूमेः परीणहम् आच्छादनं सर्वतो व्याप्तिं चक्राणासः कुर्वाणाः हिरण्येन हिरण्ययुक्तेन मणिना कण्ठबाह्वादिगतेन मण्याद्याभरणेन शुम्भमानाः शोभमानाः हिन्वानासः वर्धमानाः सन्तो वर्तन्ते ते तथाविधा वृत्रानुचराः इन्द्रं युद्धायोद्यन्तं न तितिरुः जेतुं न समर्था आसन्। तदानीं स इन्द्रः स्पशः बाधकान् वृत्रानुचरान् सूर्येण आदित्येन परि अदधात् परिहितान् व्यवहितानकरोत् । तथा च ब्राह्मणम् -' आदित्यो ह्येवोद्यन् पुरस्ताद्रक्षांस्यपहन्ति' (तै. सं. २. ६. ६. ३) इति ॥ चक्राणासः । करोतेः ‘ छन्दसि लिट्' इति वर्तमाने लिटः कानच् । ततोऽसुक् । ‘ चितः' इत्यन्तोदात्तत्वम् । परीणहम् । परिणहनं परीणत् । परिपूर्वात् नह्यतेर्भावे क्विपि ' नहिवृति' (पा. सू. ६. ३. ११६ ) इत्यादिना पूर्वपदस्य दीर्घः । पृथिव्याः । ‘ उदात्तयणः०' इति विभक्तेरुदात्तत्वम् । हिन्वानासः । ‘ हि गतौ वृद्धौ च ' । ताच्छीलिकः चानश् । तितिरुः । तिरतिर्गत्यर्थः ॥
“Decorated with gold and jewels, they were spreading over the circuit of the earth; but mighty as they were, they triumphed not over Indra; he dispersed them with the (rising) sun.”
Adorned with their array of gold and jewels, they o'er the earth a covering veil extended.
Although they hastened, they o'ercame not Indra: their spies he compassed with the Sun of morning.
Having made for themselves a girdle from the earth, adorning themselves with a golden amulet,
(though) urging themselves on, they did not overtake Indra. He clothed his spies with the sun.
Ringsum die Erde eine Schutzwehr machend, mit Gold sich schmückend und mit Edelsteinen, Entflohn sie nicht, ob eilend auch, dem Indra; denn um die Sonne standen seine Späher.
Sie hatten die Einhüllung der Erde bewirkt, sich mit goldenem Zaubergehenk schmückend. Obwohl sie sich sputeten, entgingen sie nicht dem Indra. Er umkleidete seine Späher mit Sonnenlicht.
Сделав чехол для земли,
Украшаясь золотой драгоценностью,
Они, спешащие, (все же) не миновали Индры.
Своих соглядатаев он поместил вокруг солнца.
परि॒ यदि॑न्द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वत॑: सीम् । अम॑न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र ॥
परि॑ । यत् । इ॒न्द्र॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अबु॑भोजीः । म॒हि॒ना । वि॒श्वतः॑ । सी॒म् । अम॑न्यमानान् । अ॒भि । मन्य॑मानैः । निः । ब्र॒ह्मऽभिः॑ । अ॒ध॒मः॒ । दस्यु॑म् । इ॒न्द्र॒ ॥
हे इन्द्र यत् यदा 'रोदसी उभे द्युलोकभूलोकावुभौ महिना त्वदीयेन महिम्ना विश्वतः सीं सर्वतः परिगृह्य परि अबुभोजीः परितो भुक्तवानसि तदानीं त्वम् अमन्यमानान् मन्त्रार्थमनुध्यातुमशक्तानपि केवलपाठकान् यजमानान् अभि मन्यमानैः अस्मदीया एते यजमाना रक्षणीया इत्यभिमानं कुर्वद्भिः ब्रह्मभिः मन्त्रैः दस्युं चोरं वृत्रादिरूपमसुरं निः अधमः निःसारितवानसि। ‘ धमतिर्गतिकर्मा' ( निरु. ६. २ ) इति यास्कः । अबुभोजीः । भुज पालनाभ्यवहारयोः'। लङि सिपि ‘ बहुलं छन्दसि ' ( पा. सू. २. ४. ७६ ) इति विकरणस्य श्लुः । ‘ बहुलं छन्दसि ' ( पा. सू. ७. ३. ९७ ) इति ईडागमः । अनुदात्तः । यद्वृत्तयोगादनिघातः । महिना महिम्ना । महच्छब्दात् पृथ्वादिलक्षणो भावे इमनिच् । ‘टेः' इति टिलोपः । तृतीयैकवचने अल्लोपे सति उदात्तनिवृत्तिस्वरेणोदात्तत्वम् । मलोपश्छान्दसः । अमन्यमानान् । मन्यन्ते जानन्तीति मन्यमानाः । ‘मन ज्ञाने । ‘ दिवादिभ्यः श्यन्' । श्यनो नित्त्वादाद्युदात्तत्वम् । समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । संहितायां रुत्वानुनासिकावुक्तौ ॥
“Indra, as you enjoy both heaven and earth, investing the universe with your magnitude, you have blown away the robber with the prayers which are repeated on behalf of those who do not comprehend them.”
As thou enjoyest heaven and earth, O Indra, on every side surrounded with thy greatness,
So thou with priests bast blown away the Dasyu, and those who worship not with those who worship.
When, Indra, you coiled around both worlds on all sides with your greatness,
(you blasted) at the heedless ones with (the aid of) those who pay heed; you blasted forth the Dasyu with (the aid of) those who create sacred formulations, o Indra—
Als, Indra, du den Himmel und die Erde mit deiner Grösse allerseits umspanntest, Da bliesest du Nichtbeter weg durch Beter, den Dämon, Indra, durch die Andachtreichen.
Als du, Indra, beide Welten von allen Seiten mit deiner ganzen Größe umschlossen hattest, da bliesest du die Ahnungslosen durch die Ahnenden, den Dasyu mit den Segensprechern fort, o Indra.
Когда ты, о Индра, оба мира
Охватил своим величием со всех сторон,
Ты о(держал верх) над неразумными с помощью разумных:
Заклинаниями ты сдул дасью, о Индра.
न ये दि॒वः पृ॑थि॒व्या अन्त॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू॑वन् । युजं॒ वज्रं॑ वृष॒भश्च॑क्र॒ इन्द्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा अ॑दुक्षत् ॥
न । ये । दि॒वः । पृ॒थि॒व्याः । अन्त॑म् । आ॒पुः । न । मा॒याभिः॑ । ध॒न॒ऽदाम् । प॒रि॒ऽअभू॑वन् । युज॑म् । वज्र॑म् । वृ॒ष॒भः । च॒क्रे॒ । इन्द्रः॑ । निः । ज्योति॑षा । तम॑सः । गाः । अ॒धु॒क्ष॒त् ॥
ये जलविशेषाः दिवः द्युलोकात् पृथिव्याः अन्तं भूमेः स्थानं न आपुः न प्राप्ताः। मेघरूपमापन्नेन वृत्रेण निरुद्धत्वात् । अत एव भूमिप्राप्त्यभावात् धनदां धनप्रदां भूमिं मायाभिः सस्योपकारादिभिः कर्मभिः न पर्यभूवन् परितो न ब्याप्ताः । जलपानसस्याभिवृद्ध्याद्युपकारं न चक्रुरित्यर्थः । तदानीमयम् इन्द्रः मेघभेदनाय वज्रं युजं स्वहस्तयुक्तं चक्रे । ततः ज्योतिषा द्योतमानेन वज्रेण तमसः अन्धकाररूपान्मेघात् गाः गमनशीलान्युदकानि निः अधुक्षत् निःशेषेण दुग्धवान् । मेघं भित्त्वा जलं वृष्टवानित्यर्थः ॥ दिवः । ‘ ऊडिदम् ' इति षष्ठ्या उदात्तत्वम् । आपुः। ‘ आप्लृ व्याप्तौ '। लिटि उसि रूपम् । यद्वृत्तयोगादनिघातः । पर्यभूवन् । अत्रापि यच्छब्दस्यानुषङ्गात् निघाताभावः । युजम् । ‘युजिर् योगे'।' ऋत्विक् ' इत्यादिना क्विन् ।‘अनित्यमागमशासनम् ' इति वचनात् नुमभावः । अधुक्षत् ।' दुह प्रपूरणे'। लुङि ‘शल इगुपधादनिटः क्सः ' ( पा. सू. ३. १. ४५ ) इति च्लेः क्सादेशः । ‘दादेर्धातोर्घः' ( पा. सू. ८. २. ३२) इति घत्वम्। ' एकाचो बशः० ' ( पा. सू. ८. २. ३७) इत्यादिना भष्भावः । संहितायां भष्भावाभावश्छान्दसः ॥ ॥ २ ॥
“When the waters descended not upon the ends of the earth, and overspread not that giver of affluence with its productions, then Indra, the showerer, grasped his bolt, and with its brightness milked out the waters from the darkness.”
They who pervaded earth's extremest limit subdued not with their charms the Wealth-bestower:
Indra, the Bull, made his ally the thunder, and with its light milked cows from out the darkness.
(The Dasyu) who did not reach the end of heaven, of earth, who did not hem in the wealth-giving (Indra) with their magical wiles.
The bull Indra made his mace his yokemate. He milked the cows out of the darkness with light.
Unnahbar blieb für sie der Welten Ende und unerreicht des Reichthumgebers Listen; Der starke Indra nahm den Blitz zum Helfer, und zog durch Licht die Kühe aus dem Dunkel.
Die das Ende von Himmel und Erde nicht erreichten, noch mit ihren Listen den Schatzgeber umgarnten - Indra, der Bulle, hatte die Keule zu seinem Verbündeten gemacht; durch Licht hat er die Kühe aus dem Dunkel gezogen.
Кто не достиг края неба (и) земли,
Не смог окружить колдовскими чарами дарителя богатства, (те погибли).
Бык Индра сделал дубину грома союзником.
С помощью света он извлек коров из мрака.
अनु॑ स्व॒धाम॑क्षर॒न्नापो॑ अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या॑नाम् । स॒ध्री॒चीने॑न॒ मन॑सा॒ तमिन्द्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ॥
अनु॑ । स्व॒धाम् । अ॒क्ष॒र॒न् । आपः॑ । अ॒स्य॒ । अव॑र्धत । मध्ये॑ । आ । ना॒व्या॑नाम् । स॒ध्री॒चीने॑न । मन॑सा । तम् । इन्द्रः॑ । ओजि॑ष्ठेन । हन्म॑ना । अ॒ह॒न् । अ॒भि । द्यून् ॥
आपः जलानि अस्य इन्द्रस्य स्वधाम् अन्नं व्रीह्यादिरूपमनुलक्ष्य अक्षरन् मेघाद्वृष्टा अभवन् । तदानीमयं वृत्रः नाव्यानां नावा तरणयोग्यानां बह्वीनामपां मध्ये आ समन्तात् अवर्धत वृद्धिं प्राप्तः । प्रभूतजले वर्तमानोऽपि न ममार किंतु अभिवृद्ध एव । तदानीम् इन्द्रः सध्रीचीनेन सहगच्छता मनसा युक्तं तं वृत्रम् ओजिष्ठेन अतिबलयुक्तेन हन्मना हननसाधनेन वज्रेण अभि द्यून् कतिचिद्दिवसानभिलक्ष्य अहन् तेषु दिवसेषु हतवान् । जलमध्ये पतितस्यापि वृत्रस्य मनो यत्रेन्द्रस्तिष्ठति तत्रैव सह गच्छति तादृशमभिज्ञाय स हतवानित्यर्थः ॥ अक्षरन् । 'क्षर संचलने'। नाव्यानाम् नावा तार्याणाम् । नौवयोधर्म' (पा. सू. ४.४.९१) इत्यादिना यत्। वान्तो यि प्रत्यये' (पा. सू. ६. १. ७९) इति आवादेशः । ‘ अनावः' (पा. सू. ६. १. २१३) इति पर्युदासात् “ तित्स्वरितम् इति प्रत्ययस्वरितत्वम् । सध्रीचीनेन । सहञ्चतीति सध्र्यङ् ।' सहस्य सध्रिः' (पा. सू. ६. ३. ९५) इति सध्र्यादेशः । ‘ विभाषाञ्चेरदिक्स्त्रियाम् ' (पा. सू. ५. ४. ८) इति स्वार्थे खप्रत्ययः। तस्य ‘ आयन्' इत्यादिना ईनादेशः । ‘ अचः' इति अकारलोपे ' चौ ' इति दीर्घत्वम् । खादेशस्य उपदेशिवद्वचनात् ईकार उदात्तः । ओजिष्ठेन । ओजोऽस्यास्तीति ओजस्वी । अस्मायामेधा! (पा. सू. ५. २. १२१ ) इति विनिः । तत आतिशायनिकः इष्ठन् । विन्मतोर्लुक्' ( पा, सू. ५, ३. ६५ ) इति विनो लुक् । टेः' इति टिलोपः। नित्त्वादाद्युदात्तत्वम् । हन्मना । हन्यतेऽनेनेति हन्म । अन्येभ्योऽपि दृश्यन्ते' इति दृशिग्रहणात् करणेऽपि मनिन्। नित्त्वादाद्युदात्तत्वम् । तृतीयैकवचने अलोपे प्राप्ते न संयोगाद्वमन्तात् ' (पा. सू. ६. ४. १३७) इति प्रतिषेधः ॥
“The waters flowed to provide the food of Indra, but (Vṛtra) increased in the midst of the navigable (rivers); then Indra, with his fatal and powerful shaft, slew Vṛtra, whose thought were ever turned towards him.”
The waters flowed according to their nature; he raid the navigable streams waxed mighty.
Then Indra, with his spirit concentrated, smote him for ever with his strongest weapon.
In accord with his autonomous power the waters flowed; he grew strong in the middle of the navigable ones.
With a single-minded thought, with a most powerful blow Indra smashed him [=Vr̥tra?] to high heavens.
Nach eigner Lust entströmten seine Fluten, doch jener wuchs inmitten seiner Ströme; Da schlugst du, Indra, mit gespanntem Geiste mit stärkstem Hiebe ihn für alle Zeiten.
Nach seinem Belieben strömten die Gewässer, er stärkte sich inmitten der schiffbaren Ströme. Indra erschlug diesen angespannten Sinnes mit stärkstem Schlage für die Himmelsgötter.
По его воле потекли воды.
Он возрос посреди судоходных (рек).
Сосредоточенный духом Индра
Убил его сильнейшим ударом – на веки веков.
न्या॑विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्र॑: । याव॒त्तरो॑ मघव॒न्याव॒दोजो॒ वज्रे॑ण॒ शत्रु॑मवधीः पृत॒न्युम् ॥
नि । अ॒वि॒ध्य॒त् । इ॒ली॒बिश॑स्य । दृ॒ळ्हा । वि । शृ॒ङ्गिण॑म् । अ॒भि॒न॒त् । शुष्ण॑म् । इन्द्रः॑ । याव॑त् । तरः॑ । म॒घ॒ऽव॒न् । याव॑त् । ओजः॑ । वज्रे॑ण । शत्रु॑म् । अ॒व॒धीः॒ । पृ॒त॒न्युम् ॥
इलीबिशस्य इलाया भूमेर्बिले शयानस्य वृत्रस्य संबन्धीनि । ‘इलाबिलशयस्य' (निरु. ६.१९) इति यास्कः । दृळ्हा दृंहितानि असुरेण निरुद्धानि प्रभूतान्युदकानि इन्द्रः न्यविध्यत् नितरां विद्धवान् । यद्वा । दृळ्हानि प्रबलानि सैन्यानि नितरां विद्धवान् । तत ऊर्ध्वं शृङ्गिणं गोमहिषादिशृङ्गसमानैरायुधैरुपेतं शुष्णं जगतः शोषकं वृत्रं वि अभिनत् विविधं ताडितवान् । हे मघवन् धनयुक्तेन्द्र तव यावत्तरः यावान् वेगोऽस्ति यावदोजः यावद्बलमस्ति तेन सर्वेण युक्तस्त्वं पृतन्युं पृतनां युद्धमिच्छन्तं शत्रुं वृत्रं वज्रेण अवधीः हतवानसि ॥ अविध्यत् । व्यध ताडने '। श्यनि ‘ ग्रहिज्या ' इत्यादिना संप्रसारणम् । तिङ्ङतिङः' इति निघाते ‘उदात्तस्वरितयोर्यणः' इति संहितायाम् अड़ागमस्य स्वरितत्वम् । इलीबिशस्थ। पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः । दृळ्हा । दृंहेर्निष्ठायां • दृढः स्थूलबलयोः' ( पा. सू. ७.२. २०) इति निपात्यते । ‘ शेश्छन्दसि बहुलम् इति शेर्लोपः । अभिनत् । भिदिर् विदारणे'। लङि ‘रुधादिभ्यः श्नम् ' । 'इतश्च' (पा. सू. ३. ४. १००) इति इकारलोपे ' हल्ङ्याब्भ्यः ' इति तिलोपः । शुष्णम् । शुष शोषणे'। शोषयतीति शुष्णः । तृषिशुषिरसिभ्यः किच्च' ( उ. सू. ३. ३९२ ) इति नप्रत्ययः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम् । अवधीः। ‘लुङि च' (पा. सू. २. ४. ४३) इति हन्तेर्वधादेशः । पृतन्युम् । पृतनाशब्दात् क्यचि ‘कव्यध्वरपृतनस्य° ' इति अन्त्यलोपः।' क्याच्छन्दसि' इति उप्रत्ययः ॥
“Indra set free (the waters) obstructed by (Vṛtra), when sleeping in the caves of the earth, and slew the horned dryer up (of the world). You, Maghavan, with equal swiftness and strength, did kill with your thunderbolt the enemy defying you to battle.”
Indra broke through Ilibisa's strong castles, and Susna with his horn he cut to pieces:
Thou, Maghavan, for all his might and swiftness, slewest thy fighting foeman with thy thunder
He pierced down through the fastnesses of Ilībiśa; he split apart horned Śuṣṇa—Indra.
As much endurance, as much strength (as remained to you), bounteous one, (using that,) with your mace you smashed the rival who sought battle.
Die Burgen des Ilibiça zerstiess er, und schlug in Stücke den gehörnten Çuschna, Nach deiner Kraft und Schnelle, mächt'ger Indra, erschlugst den Feind, den Kämpfer, mit dem Blitz du.
Indra warf die Festen des Ilibisa nieder; er zerhieb den gehörnten Susna. Mit ganzer Wucht, mit ganzer Kraft hast du Gabenreicher mit der Keule den kampflustigen Feind erschlagen.
Индра разгромил твердыни Илибиши,
Индра рассек рогатого Шушну.
Сколько натиска, сколько силы –
Дубиной грома ты убил врага, рвущегося сражаться!
अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत् । सं वज्रे॑णासृजद्वृ॒त्रमिन्द्र॒: प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ॥
अ॒भि । सि॒ध्मः । अ॒जि॒गा॒त् । अ॒स्य॒ । शत्रू॑न् । वि । ति॒ग्मेन॑ । वृ॒ष॒भेण॑ । पुरः॑ । अ॒भे॒त् । सम् । वज्रे॑ण । अ॒सृ॒ज॒त् । वृ॒त्रम् । इन्द्रः॑ । प्र । स्वाम् । म॒तिम् । अ॒ति॒र॒त् । शाश॑दानः ॥
अस्य इन्द्रस्य सिध्मः साधको वज्रः शत्रून् अभि इन्द्रवैरिणोऽभिलक्ष्य अजिगात् गतवान् । जिगातिर्गतिकर्मा । गाति जिगाति' (नि. २. १४. ११३) इति गतिकर्मसु पाठात्। स च इन्द्रः तिग्मेन तीक्ष्णेन वृषभेण श्रेष्ठेनायुधेन तेन वज्रेण पुरः वृत्रस्य पुराणि वि अभेत् विविधं भिन्नवान् । ततः सः इन्द्रः वज्रेण स्वकीयेन वृत्रं सम् असृजत् संयोजितवान् । संयोज्य च शाशदानः वृत्रं हिंसन् स्वां मतिं स्वकीयां हर्षोपेतां बुद्धि प्र अतिरत् प्रकर्षेण वर्धितवान् ॥ सिध्मः । ‘षिधु संराद्धौ । अस्मात् औणादिको मक् । कित्त्वादगुणः । प्रत्ययस्वरः। अजिगात् । ‘गा स्तुतौ' । अत्र तु गत्यर्थः । जुहोत्यादित्वात् श्लुः । द्विर्भावे ‘ बहुलं छन्दसि' इत्यभ्यासस्य इत्वम् । तिग्मेन ।' युजिरुचितिजा कुश्च' (उ. सू. १. १४३) इति मक् । कुत्वम् । वृषभेण। ऋषिवृषिभ्यां कित्' (उ. सू. ३. ४०३) इत्यनेन अभच् । अभेत् । भिदिर् विदारणे'। श्नमि प्राप्ते व्यत्ययेन शप्। तस्य ‘बहुलं छन्दसि' इति लुक् । लघूपधगुणे • हल्ङ्याब्भ्यः ' इति लोपः। यद्वा । लुङि च्लेलुक् । अतिरत् । प्रपूर्वस्तिरतिर्वर्धनार्थः । यद्वा । सरतेर्व्यत्ययेन शः । ‘ऋत इद्धातोः' इति इत्वम् । शाशदानः । शद्लृ शातने'। अस्मात् यङन्तात् शानच् । तस्य ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् अतोलोपयलोपौ । सार्वधातुकत्वात् ‘अभ्यस्तानामादिः' (पा. सू. ६. १. १८९) इत्याद्युदात्तत्वम् ॥
“The weapon of Indra fell upon his adversaries; with his sharp and excellent (shaft) he destroyed their cities; he then reached Vṛtra with his thunderbolt, and (by) slaying him, exhilarated his mind.”
Fierce on his enemies fell Indra's weapon: with. his sharp bull he rent their forts in pieces.
He with his thunderbolt dealt blows on Vrtra; and conquered, executing all his purpose.
Goal-directed, he set out against his rivals; with the sharp bull he split apart the strongholds.
He made Vr̥tra collide with his mace—Indra. He advanced his own thinking, exulting all the while.
Auf seine Feinde ging er graden Laufes, zerschmetterte mit scharfem Blitz die Burgen, Den Vritra traf er mit dem Donnerkeile; siegreich vollführte seinen Willen Indra.
Erfolgreich ging er auf seine Feinde los, mit dem spitzhörnigen Bullen zerbrach er die Burgen. Indra ließ den Vritra seine Keule fühlen. In seinem Selbstvertrauen steigerte er die hohe Meinung von sich.
Успешно нападал он на врагов.
Острым быком рассекал он крепости.
Индра дал отведать Вритре дубины грома,
Он исполнил свой замысел, торжествуя.
आव॒: कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्प्रावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् । श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै॑त्रे॒यो नृ॒षाह्या॑य तस्थौ ॥
आवः॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । प्र । आ॒वः॒ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् । श॒फऽच्यु॑तः । रे॒णुः । न॒क्ष॒त॒ । द्याम् । उत् । श्वै॒त्रे॒यः । नृ॒ऽसह्या॑य । त॒स्थौ॒ ॥
हे इन्द्र कुत्सम् एतन्नामकं गोत्रप्रवर्तकमृषिम् आवः रक्षितवानसि । यस्मिन् कुत्से चाकन् स्तुतिं कामयमानो वर्तसे । तं कुत्समिति पूर्वत्रान्वयः। तथा दशद्युम् एतन्नामकं दशसु दिक्षु दीप्यमानमृषिं प्रावः प्रकर्षेण रक्षितवानसि । कीदृशम् । युध्यन्तं स्वकीयैः शत्रुभिः सह युद्धं कुर्वन्तं वृषभं गुणैः श्रेष्ठम् । शफच्युतः त्वदीयाश्वस्य शफात् पतितः रेणुः धूलिः द्यां द्युलोकं नक्षत प्राप्नोति । श्वैत्रेयः श्वित्राख्याया योषितः पुत्रः पुरा शत्रुभयाज्जले मग्नः सन् त्वदनुग्रहात् नृसह्याय नृभिः पुरुषैः सोढव्याय उत् तस्थौ जलादुत्थितवान् ॥ चाकन् । 'चक तृप्तौ'। अस्मात् ण्यन्तात् शतृ । ‘ छन्दस्युभयथा ' इति आर्धधातुकत्वात् णिलोपः शबभावश्च । प्रत्ययस्वरेणान्तोदात्तत्वम् । यद्वा । ‘कमु कान्तौ ' इत्यस्मात् यङ्लुगन्तात् लङि सिपि अभ्यासस्य नुगभावश्छान्दसः। ‘ दीर्घोऽकितः ' इति दीर्घत्वम् । सिलोपे ‘मो नो धातोः' ( पा. सू. ८. २. ६४ ) इति मकारस्य नकारः । धातुस्वरः। यद्वत्तयोगादनिघातः। युध्यन्तम् । व्यत्ययेन परस्मैपदम् । दशद्युम् । दीव्यतेः प्रकाशार्थात् संपदादिलक्षणः क्विप् ।' च्छ्वोः शूठ् (पा. सू. ६. ४. १९) इति ऊठ्। दशसु दिक्षु द्यूः यस्यासौ दशद्युः। छान्दसं ह्रस्वस्वम् । यद्वा । द्युशब्दः अहर्नामसु पठितः (नि. १. ९. २)। तेन प्रवृत्तिनिमित्तभूतः प्रकाशो लक्ष्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शफच्युतः । शफेन च्युतः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । नक्षत। ‘ नक्ष गतौ । व्यत्ययेनात्मनेपदम् । श्वैत्रेयः । श्वित्राया अपत्यम् । स्त्रीभ्यो ढक् ' (पा. सू. ४. १. १२० )। नृसह्याय। ‘ शकिसहोश्च' (पा. सू. ३. १. ९९ ) इति कर्मणि यत् यतोऽनावः' इत्याद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । पूर्वपदात्' (पा. . ८. ३. १०६ ) इति षत्वम् । संहितायां दीर्घश्छान्दसः ॥
“You, Indra, have protected Kutsa, grateful for his praises; you have defended the excellent Daśadyu engaged in battle; the dust of your courser's hoofs ascended to heaven; the son of Śvita, (through your favour), rose up, to be again unborn by men.”
Indra, thou helpest Kutsa whom thou lovedst, and guardedst brave Dagadyu when he battled,
The dust of trampling horses rose to heaven, and Svitra's son stood up again for conquest.
You aided Kutsa, Indra, in whom you took pleasure; you furthered the bull Daśadyu as he did battle.
Stirred up by hooves, the dust reached heaven. Śvaitreya stood up to conquer the superior men.
Du, Indra, halfst dem Kutsa, den du liebtest, und halfst im Kampf dem kräftigen Daçadju; Zum Himmel drang der Staub, erregt vom Hufschlag; der Çvitra Sohn stand auf zur Feindbezwingung.
Du Indra nahmst für Kutsa, an dem du Wohlgefallen fandest, Partei; du halfst dem zahmen Stier Dasadyu. Von seinen Hufen aufgeworfen drang der Staub zum Himmel. Der Svaitreya erhob sich zur Männerbezwingung.
Ты помог Кутсе, о Индра, к которому благоволил.
Ты помог сражающемуся быку Дашадью.
Пыль, поднятая (его) копытами, достигла неба.
Поднялся Швайтрея, чтобы осилить мужей.
आव॒: शमं॑ वृष॒भं तुग्र्या॑सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम् । ज्योक्चि॒दत्र॑ तस्थि॒वांसो॑ अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः ॥
आवः॑ । शम॑म् । वृ॒ष॒भम् । तुग्र्या॑सु । क्षे॒त्र॒ऽजे॒षे । म॒घ॒ऽव॒न् । श्वित्र्य॑म् । गाम् । ज्योक् । चि॒त् । अत्र॑ । त॒स्थि॒ऽवांसः॑ । अ॒क्र॒न् । श॒त्रु॒ऽय॒ताम् । अध॑रा । वेद॑ना । अ॒क॒रित्य॑कः ॥
हे मघवन् धनवन्निन्द्र श्वित्र्यं श्वित्रायाः पुत्रं पूर्वोक्तं पुरुषम् आवः रक्षितवानसि। किमर्थम् । क्षेत्रजेषे शत्रुभिः सह युद्धवेलायां क्षेत्रप्राप्त्यर्थम् । कीदृशम् । शमं त्वदीयपरिपालनेन चित्तव्याकुलतां परित्यज्य शान्तं वृषभं गुणैः श्रेष्ठं तुग्र्यासु गां जलेषु गतं मग्नमित्यर्थः। तुग्र्या बुर्बुरम्। (नि. १. १२.२१) इति उदकनामसु पठितत्वात् । अत्र अस्माभिः सह युद्धे ज्योक् चित् चिरकालमपि तस्थिवांसः अवस्थिताः सन्तः अक्रन् ये वैरिणः शत्रुत्वमकुर्वन् । शत्रूयतां शत्रूनात्मन इच्छतां तेषाम् अधरा वेदना निकृष्टानि दुःखानि त्वम् अकः कुरु ॥ तुग्रशब्दोऽन्तरिक्षवचनः । तत्र भवास्तुग्रियाः । ‘ तुग्राद्धन्' ( पा. सू. ४. ४. ११५) इति घन् । तस्य इयादेशः । इकारलोपश्छान्दसः । नित्त्वादाद्युदात्तत्वम् । क्षेत्रजेषे । ‘ जेषृ णेषृ एषृ प्रेषृ गतौ । अस्मात् संपदादिलक्षणः क्विप् । क्षेत्रस्य जेट् क्षेत्रजेट् । समासान्तोदात्तत्वम् । अन्तोदात्तादुत्तरपदात् ' ( पा. सू. ६. १. १६९ ) इत्यादिना विभक्तेरुदात्तत्वम् । श्वित्र्यम् । श्वित्रायां भवः । ‘ भवे छन्दसि ' इति यत् । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । तस्थिवांसः । तिष्ठतेः क्वसुः । ‘ वस्वेकाजाद्धसाम्' इति इडागमः । अक्रन् । करोतेर्लुङि ‘मन्त्रे घस' इत्यादिना च्लेर्लुक् । शत्रूयताम् । शत्रूनात्मन इच्छन्तीति शत्रूयन्तः । ‘सुप आत्मनः क्यच्' इति क्यच् । तदन्तात् शतृ । तस्य लसार्वधातुकानुदात्तत्वे एकादेशस्वरेणोदात्तत्वम्। तस्य च पूर्वत्रासिद्धत्वं नेष्यते (पा. सू. ८. २. ६. १ ) इत्युक्तत्वात् शत्रन्तमन्तोदात्तत्वमिति ‘शतुरनुमो नद्यजादी' इति विभक्तेरुदात्तत्वम् । अधरा वेदना इत्युभयत्र ' शेश्छन्दसि बहुलम् । इति शेर्लोपः । अकः । करोतेर्लुङि मन्त्रे घस' इत्यादिना च्लेर्लुक् । गुणः ॥ ॥ ३ ॥
“You have protected, Maghavan, the excellent son of Śvitā, when combating for his lands, and encouraged (by you) when immersed in water; do you inflict sharp pains on those of hostile minds, who have long stood (in enmity) against us.”
Svitra's mild steer, O Maghavan thou helpest in combat for the land, mid Tugra's houses.
Long stood they there before the task was ended: thou wast the master of the foemen's treasure.
You aided the hornless bull in the Tugriyan (battles), the Śvitriyan cow at the conquering of dwelling places, bounteous one.
They have made a long delay, just staying here. You have laid low the possessions of those who behave as rivals.
Du halfst dem starken Stier bei Tugra's Mannen, beim Kampf um Land dem Çvitraspross, o mächt'ger; Sie hielten lange Stand dort in dem Streite, da gabst du ihnen hin der Feinde Schätze.
Du halfst dem zahmen Stier in den tugrischen Kämpfen, bei der Landeroberung dem Svitrya-Rind, du Gabenreicher. Schon lange hatten sie hier verweilend gesäumt. Du hast die Besitztümer der Feindseligen dir untertan gemacht.
Ты помог безрогому быку в тугрийских (битвах),
В завоевании страны, о щедрый, – быку Швитрье.
Долго уж они медлили, находясь там.
Владения враждовавших ты подчинил себе.