त्रिश्चि॑न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना । यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या॑ भवतं मनी॒षिभि॑: ॥
त्रिः । चि॒त् । नः॒ । अ॒द्य । भ॒व॒त॒म् । नवेदसा । वि॒ऽभुः । वा॒म् । यामः॑ । उ॒त । रा॒तिः । अ॒श्वि॒ना॒ । यु॒वोः । हि । य॒न्त्रम् । हि॒म्याऽइ॑व । वास॑सः । अ॒भि॒ऽआ॒यं॒सेन्या॑ । भ॒व॒त॒म् । म॒नी॒षिऽभिः॑ ॥
हे नवेदसा अश्विना मेधाविनौ अश्विदेवौ । नवेदा इति मेधाविनाम, ‘नवेदाः कविः मनीषी' (नि. ३. १५. ९) इति तन्नामसु पठितत्वात् । तादृशौ युवां त्रिश्चित् त्रिवारमपि अद्य अस्मिन् कर्मणि नः अस्मदर्थं भवतम् आगतौ भवतम् । अत्र त्रिः इति वचनं सवनत्रयापेक्षम् आदरातिशयद्योतनार्थं वा। ' त्रिषत्या हि देवाः' (तै. ब्रा. ३. २. ३. ८) इति श्रुत्यन्तरात् । वां युवयोः यामः गमनसाधनभूतो रथः विभुः व्याप्तः । उत अपि च रातिः दानं विभुरिति शेषः । युवोः युवयोरुभयोः यन्त्रं हि परस्परनियमरूपः संबन्धविशेषोऽस्ति खलु । तत्र दृष्टान्तः । वाससः सूर्यरश्म्याच्छादनयुक्तस्य वासरस्य हिम्येव हिमयुक्तया रात्र्येव । यथा रात्र्या सह दिवसस्य संबन्धः कदाचिदपि नापैति तद्वत् । युवामुभौ मनीषिभिः मेधाविभिर्ऋत्विग्भिः । मनीषीति मेधाविनाम, मनीषी मन्धाता' (नि. ३. १५, ११) इति तन्नामसु पठितत्वात् । अभ्यायंसेन्या अभितो नियन्तव्यौ अनुग्रहवशात् तदधीनौ भवतम् ॥ अद्य । ‘निपातस्य च ' इति संहितायां दीर्घः । नवेदसा। विपरीतं न वित्तः इति नवेदसौ । ‘विद ज्ञाने' इत्यस्मात् औणादिकोऽसुन् । नञ्समासे ‘नभ्राण्नपात्' इत्यादिना नकारस्य प्रकृतिभावः । ‘सुपां सुलुक्' इति आकारः। आमन्त्रितनिघातः । यामः । यायते गम्यतेऽनेनेति यामो रथः । ‘अर्तिस्तुसु ' इत्यादिना मन् । नित्त्वादाद्युदात्तत्वम् । यद्वा । ‘यम उपरमे' इत्यस्मात् कर्मणि घञ्। वृषादिषु पाठादाद्युदात्तत्वम् । रातिः । ‘रा दाने' इत्यस्मात् भावे क्तिन् । ‘मन्त्रे वृष°' इत्यादिना तस्योदात्तत्वम् । युवोः । ‘सुपां सुपो भवन्ति' इति षष्ठीद्विवचनस्य षष्ठीद्विवचनादेशः । अत
आदेशविषयत्वात् ‘योऽचि' (पा. सू. ७. २. ८९ ) इति यत्वं न भवति । ‘शेषे लोपः' इति टिलोपे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । अन्त्यलोपपक्षे तु एकादेशस्वरेण । हिम्या इव । हिमेति रात्रिनाम, ‘ऊधः पयः हिमा' ( नि. १. ७. २२ ) इति तन्नामसु पठितत्वात् । हनेर्हि च' ( उ. सू. १. १४४) इति मक् । हन्ति पद्मानीति हिमम् । अर्शआद्यच् । हिमा रात्रिः । तत उत्तरस्य तृतीयैकवचनस्य ‘सुपां सुलुक् ' इति ङ्यादेशः । ततः टिलोपे उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । वाससः । ‘वस आच्छादने'। वासयति प्रकाशेनाच्छादयति इति अहर्वासः । अभ्यायंसेन्या । अभ्याङ् इत्युपसर्गद्वयोवसृष्टात् ‘यम उपरमे' इत्यस्मात् औणादिकः सेन्यप्रत्ययः । ‘सुपां सुलुक्' इति आकारः॥
“Wise Aśvins, be present with us thrice today; vast is your vehicle, as well as your munificence; your union is like that of the shining (day) and dewy (night); (suffer yourselves) to be detained by the learned (priests).”
Ye who observe this day be with us even thrice: far-stretching is you bounty, Asvins and your course.
To you, as to a cloak in winter, we cleave close: you are to be drawn nigh unto us by the wise.
Three times today take cognizance of us. Extensive is your journey and your giving, o Aśvins.
Because clasping you is like clasping on a garment in winter, become ones who can be clasped by men of inspired thought.
Seid dreimal heute unsre Zeugen; sehr herrlich ist eure Fahrt und eure Gabe, o Açvinen; ihr zieht fest die Zügel an, wie man in der Kälte eine Decke an sich zieht (?); lasst euch durch die weisen Sänger herbeilenken.
Dreimal sei heute unser Eingedenk! Ausgedehnt sei eure Fahrt und Gabe, Ihr Asvin! Denn euch hält man fest wie das Kleid zur Winterszeit. Nach euch sollen die Andächtigen verlangen.
Трижды сегодня вы двое обратите взор на нас!
(Пусть будет) исключительным ваш путь и дар, о Ашвины!
У вас ведь привязь, как у одежды в холод – завязка.
Пусть управляют вами мудрые.
त्रय॑: प॒वयो॑ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः । त्रय॑: स्क॒म्भास॑: स्कभि॒तास॑ आ॒रभे॒ त्रिर्नक्तं॑ या॒थस्त्रिर्व॑श्विना॒ दिवा॑ ॥
त्रयः॑ । प॒वयः॑ । मधु॒ऽवाहे॑न । रथे॑ । सोम॑स्य । वे॒नाम् । अनु॑ । विश्वे॑ । इत् । वि॒दुः॒ । त्रयः॑ । स्क॒म्भासः॑ । स्क॒मि॒तासः॑ । आ॒ऽरभे॑ । त्रिः । नक्त॑म् । या॒थः । त्रिः । ऊँ॒ इति॑ । अ॒श्वि॒ना॒ । दिवा॑ ॥
मधुवाहने मधुरद्रव्याणां नानाविधखाद्यादीनां वहनेन युक्तेऽश्विनोः संबन्धिनि रथे पवयः वज्रसमाना दृढाश्चक्रविशेषाः त्रयः त्रिसंख्याकाः सन्ति । इत् इत्थं चक्रत्रयसद्भावप्रकारं विश्वे सर्वे देवाः सोमस्य चन्द्रस्य वेनां कमनीयां भार्यामभिलक्ष्य यात्रायां विदुः जानन्ति । यदा सोमस्य वेनया सह विवाहस्तदानीं नानाविधखाद्ययुक्तं चक्रत्रयोपेतं प्रौढं रथमारुह्य अश्विनौ गच्छत इति सर्वे देवा जानन्तीत्यर्थः। तस्य रथस्योपरि स्कम्भासः स्तम्भविशेषाः त्रयः त्रिसंख्याकाः स्कभितासः स्थापिताः। किमर्थम् । आरभे आरब्धुम् अवलम्बितुम् । यदा रथस्त्वरया याति तदानीं पतनभीतिनिवृत्त्यर्थं हस्तालम्बनभूताः स्तम्भा इत्यर्थः । हे अश्विना युवां तादृशेन रथेन नक्तं रात्रौ त्रिः याथः त्रिवारं गच्छथः। तथा दिवा दिवसेऽपि त्रिः याथः । रात्रावहनि च रथमारुह्य पुनःपुनः क्रीडथ इत्यर्थः ॥ मधुवाहने। मधु वाह्यतेऽनेनेति मधुवाहनः। करणे ल्युट्। विदुः । वेत्तेर्लटि ‘विदो लटो वा' इति झेः उसादेशः। स्कम्भासः। ‘ष्टभि स्कभि गतिप्रतिबन्धे'। स्कम्भन्ते प्रतिबद्धा भवन्तीति स्कम्भाः । पचाद्यच् । स्कभितासः। स्कम्भुः सौत्रो धातुः । अस्मात् निष्ठायां यस्य विभाषा' इति इट्प्रतिषेधे प्राप्ते ' ग्रसितस्कभित° ' इत्यादिना इडागमो निपातितः । आरभे । ‘रभ राभस्वे'। अस्मात् आङ्पूर्वात् संपदादिलक्षणो भावे क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“Three are the solid (wheels) of your abundance-bearing chariot, as all (the gods) have known (it to be), when attendant on Vena, the beloved of Soma; three are the columns plural ced (above it) for support, and in it thrice do you journey by night, and thrice by day.”
Three are the fellies in your honey-bearing car, that travels after Soma's loved one, as all know.
Three are the pillars set upon it for support: thrice journey ye by night, O Asvins, thrice by day.
Three wheel-rims are on your honey-bringing chariot; all know the spoor of the soma through and through.
Three props have been propped up to take hold of; three times by night you drive, Aśvins, and three times by day.
Drei Felgen sind an eurem honigfahrenden Wagen; es kennen alle ja des Soma's Lieblichkeit, zum Festhalten sind drei Stützen befestigt; dreimal fahrt ihr, o Açvinen, des Tags, dreimal des Nachts.
Drei Radreifen sind an eurem Süßigkeit führenden Wagen. Alle kennen eure Sehnsucht nach Soma. Drei Stützen sind befestigt um sich daran zu halten. Dreimal des Nachts und dreimal am Tage fahrt ihr Asvin aus.
Три обода у колесницы (вашей), везущей мед.
Все ведь знают о (вашей) страсти к соме,
Три опоры укреплены, чтобы (все) удерживать.
Трижды ночью вы выезжаете, о Ашвины, и трижды днем.
स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् । त्रिर्वाज॑वती॒रिषो॑ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ॥
स॒मा॒ने । अह॑न् । त्रिः । अ॒व॒द्य॒ऽगो॒ह॒ना॒ । त्रिः । अ॒द्य । य॒ज्ञम् । मधु॑ना । मि॒मि॒क्ष॒त॒म् । त्रिः । वाज॑वतीः । इषः॑ । अ॒श्वि॒ना॒ । यु॒वम् । दो॒षा । अ॒स्मभ्य॑म् । उ॒षसः॑ । च॒ । पि॒न्व॒त॒म् ॥
हे अश्विना अश्विनौ देवौ युवं युवामुभौ समाने अहन् एकस्मिन्ननुष्ठानदिने त्रिरवद्यगोहना त्रिवारमनुष्ठानगतानां दोषाणां संवरणकारिणौ भवतम् । अद्य अस्मिन् दिने यज्ञं यज्ञगतं हविः मधुना मधुररसेन त्रिः मिमिक्षतं त्रिवारं सिञ्चतम् । किं च दोषाः उषसश्च रात्रीदिवसांश्च रात्रिषु दिवसेषु च नैरन्तर्येण वाजवतीः बलकारिणीः इषः अन्नानि अस्मभ्यं पिन्वतं सिञ्चतं प्रयच्छतमित्यर्थः॥ अहन् । ‘सुपां सुलुक्' इति सप्तम्या लुक् । अवद्यगोहना । ' गुहू संवरणे'। अवद्यस्य गूहयितारौ । नन्द्यादित्वात् ल्युः । ‘ऊदुपधाया गोहः' (पा. सू. ६. ४. ८९ ) इति प्राप्तस्य ऊत्वस्य अभावश्छान्दसः । मिमिक्षतम् । मिह सेचने ' । सनि ‘एकाच उपदेशेऽनुदात्तात्' इति इट्प्रतिषेधः।
“Thrice in one entire day do you repair the faults (of your worshippers); thrice today sprinkle the oblation with sweetness; and thrice, evening and morning, Aśvins, grant us strength-bestowing food.”
Thrice in the self-same day, ye Gods who banish want, sprinkle ye thrice to-day our sacrifice with meath;
And thrice vouchsafe us store of food with plenteous strength, at evening, O ye Asvins, and at break of day.
Three times on the same day, you concealers of fault, three times today equip the sacrifice with honey.
Three times, Aśvins, make prize-giving refreshments swell for us, through the evenings and the dawns.
An einem Tage dreimal helft dem Mangel ab, besprengt dreimal heute das Opfer mit Süssigkeit, lasst uns dreimal labungsreiche Tränke schwellen im Abenddunkel, o Açvinen, und im Morgenlicht.
Dreimal am gleichen Tag, ihr Fehlerverdeckende, dreimal würzet heute das Opfer mit Süßigkeit! Dreimal, ihr Asvin, schwellet alle Nächte und Morgen für uns die belohnenden Labungen an!
В один и тот же день трижды, о покрывающие (наши) ошибки,
Трижды сегодня жертву медом окропите!
Трижды, о Ашвины, сделайте вы набухшими для нас
Подкрепления, несущие награду, вечером и на заре!
त्रिर्व॒र्तिर्या॑तं॒ त्रिरनु॑व्रते ज॒ने त्रिः सु॑प्रा॒व्ये॑ त्रे॒धेव॑ शिक्षतम् । त्रिर्ना॒न्द्यं॑ वहतमश्विना यु॒वं त्रिः पृक्षो॑ अ॒स्मे अ॒क्षरे॑व पिन्वतम् ॥
त्रिः । व॒र्तिः । या॒त॒म् । त्रिः । अनु॑ऽव्रते । जने॑ । त्रिः । सु॒प्र॒ऽअ॒व्ये॑ । त्रे॒धाऽइ॑व । शि॒क्ष॒त॒म् । त्रिः । ना॒न्द्य॑म् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । पृक्षः॑ । अ॒स्मे इति॑ । अ॒क्षरा॑ऽइव । पि॒न्व॒त॒म् ॥
हे अश्विना युवं त्रिर्वर्तिर्यातम् अस्मदीयवर्तनसाधनं गृहं त्रिर्यातं त्रिवारं प्राप्नुतम् । तथा अनुव्रते अस्मद्नुकूलव्यापारयुक्ते जने त्रिः यातं त्रिवारं तदनुग्रहाय गच्छतम् । त्रिः सुप्राव्ये त्रिवारं सुष्ठु प्रकर्षेण भवद्भ्यां रक्षणीये प्रवर्तमानानस्मान् त्रेधेव त्रिभिरेव प्रकारैः शिक्षतम् । पुनःपुनरनुष्ठानमुपदेष्टव्यमित्यर्थः । तथा नान्द्यं नन्दनीयं संतोषकरं फलं त्रिः वहतं प्रापयतम् । अस्मे अस्मासु पृक्षः अन्नं त्रिः पिन्वतं त्रिवारं प्रयच्छतम् । तत्र दृष्टान्तः । अक्षरेव । अक्षराण्युदकानि । ‘अक्षरा स्रोतः तृप्तिः ' (नि. १.२.३२) इति तन्नामसु पाठात् । तानि पर्जन्यः यथा प्रयच्छति तद्वत् ॥ वर्तिः । वर्ततेऽत्रेति वर्तिर्गृहम् । ‘हृपिषिरुहिवृति०' ( उ. सू. ४. ५५८ ) इत्यादिना इप्रत्ययः । ‘सुपां सुलुक्' ' इति द्वितीयैकवचनस्य सुआदेशः । सुप्राव्ये । उपसर्गद्वयोपसृष्टात् अवतेः कर्मणि ण्यत् । ‘संज्ञापूर्वको विधिरनित्यः' इति वृद्ध्यभावः। ‘तित्स्वरितम्' इति स्वरितत्वम् । शिक्षतम् ।' शिक्ष विद्योपादाने'। नान्द्यम्। ण्यदन्तः । पृक्षः। ‘पृची संपर्के'। असुनि सुडागमः। अस्मे । ‘सुपां सुलुक्' इति शेआदेशः । अक्षरा इव। अश्नुवते व्याप्नुवन्तीति अक्षराण्युदकानि । औणादिकः क्सरप्रत्ययः । शेर्लोपः ॥
“Thrice, Aśvins, visit our dwelling, and the man who is well-disposed towards us; thrice repair to him who deserves your protection, and instrumental uct us in three-fold knowledge; thrice grant us gratifying (rewards); thrice shower upon us food, as (Indra pours down) rain.”
Thrice come ye to our home, thrice to the righteous folk, thrice triply aid the man who well deserves your help.
Thrice, O ye Asvins, bring us what shall make us glad; thrice send us store of food as nevermore to fail.
Three times drive your circuit, three times to the folk who follow your commandment; three times do your best as if threefold for the one
who pursues (his ritual duties) well.
Three times bring delight, Aśvins; three times make nourishment swell for us, like (a cow) that never runs dry.
Kommt dreimal ins Haus, dreimal zu dem ergebenen Manne, dreimal beschenkt dreifach den eifrigen, dreimal fahrt uns, o Açvinen, Freude her; lasst dreimal Nahrung uns schwellen wie nie versiegende Quellen.
Dreimal macht eure Umfahrt, dreimal zu dem gehorsamen Manne, dreimal bemüht euch gleichsam dreifach für den, der gut zuredet! Dreimal bringet, ihr Asvin, Freude mit, dreimal schwellet unsere Lebenskräfte an wie die unversiegliche Kuh!
Трижды совершайте объезд, трижды – к человеку, верному обету,
Трижды, а также трояко будьте милостивы к усердному (в жертвоприношении),
Трижды, о Ашвины, привезите вы радость!
Трижды сделайте кушанья набухшими для нас, как неисчерпаемая (дойная корова)!
त्रिर्नो॑ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता॑ता॒ त्रिरु॒ताव॑तं॒ धिय॑: । त्रिः सौ॑भग॒त्वं त्रिरु॒त श्रवां॑सि नस्त्रि॒ष्ठं वां॒ सूरे॑ दुहि॒ता रु॑ह॒द्रथ॑म् ॥
त्रिः । नः॑ । र॒यिम् । व॒ह॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । त्रिः । दे॒वता॑ता । त्रिः । उ॒त । अ॒व॒त॒म् । धियः॑ । त्रिः । सौ॒भ॒ग॒ऽत्वम् । त्रिः । उ॒त । श्रवां॑सि । नः॒ । त्रिः॒ऽस्थम् । वा॒म् । सूरे॑ । दु॒हि॒ता । रु॒ह॒त् । रथ॑म् ॥
हे अश्विना युवं नः अस्मान् रयिं धनं त्रिः वहतं त्रिवारं प्रापयतम् । देवताता देवतातौ देवैर्युक्ते कर्मणि त्रिः त्रिवारमागच्छतमिति शेषः । उत अपि च धियः अस्मद्बुद्धीः त्रिः त्रिवारं रक्षतम्। सौभगत्वं सौभाग्यं त्रिः वहतमिति शेषः। उत अपि च श्रवांसि अन्नानि नः अस्मभ्यं त्रिः वहतम् । वां युवयोः संबन्धिनं त्रिष्ठं चक्रत्रयेऽवस्थितं रथं सूरे सूर्यस्य दुहिता पुत्री । ‘दुहिता दुर्हिता दूरे हिता' ( निरु. ३. ४ ) इति यास्कः । सा आरूढवती ॥ देवताता । ‘सर्वदेवात्तातिल् ' (पा. सू. ४. ४. १४२) इति स्वार्थिकः तातिल्प्रत्ययः । तेन देवतातिशब्देन देवसंबद्धो यज्ञो लक्ष्यते । ‘देवताता मखः ' (नि.३. १७. १० ) इति तन्नामसु पठितत्वात् । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । सुपां सुलुक्' इति सप्तम्या डादेशः। त्रिष्ठम् । त्रिषु चक्रेषु तिष्ठतीति त्रिष्ठः । ‘सुपि स्थः ' ( पा. सू. ३. २. ४ ) इति कः । ‘अम्बाम्ब° '(पा. सू. ८. ३. ९७ ) इत्यादिना सकारस्य षत्वम् । सूरे । ‘षू प्रेरणे'। “ सुसूधागृधिभ्यः क्रन्' ( उ. सू. २. १८२ ) इति क्रन् । नित्त्वादाद्युदात्तः । विभक्तिव्यत्ययः । आ रुहत् ।' कृमृदृरुहिभ्यश्छन्दसि' (पा. सू. ३. १. ५९ ) इति च्लेः अङादेशः ॥
“Aśvins, thrice bestow upon us riches; thrice approach the divine rite; thrice preserve our intellects; thrice grant us prosperity, thrice food. The daughter of the sun has ascended your three-wheeled car.”
Thrice, O ye Asvins, bring to us abundant wealth: thrice in the Gods' assembly, thrice assist our thoughts.
Thrice, grant ye us prosperity, thrice grant us fame; for the Sun's daughter hath mounted your three-wheeled car.
Three times bring wealth to us, Aśvins, three times to the divine conclave; and three times aid our insights.
Three times (bring) good fortune and three times acclamations for
us. The daughter of the Sun mounted your chariot with its three
standing places.
Dreimal, o Açvinen, fahrt uns Reichthum her, dreimal beim Gottesdienste, und dreimal seid den Gebeten hold; dreimal bringt uns Glück und rühmenswerthe Güter; euren dreisitzigen Wagen hat des Himmels Tochter bestiegen.
Dreimal führet uns, ihr Asvin, Reichtum zu, dreimal bei versammelter Götterschar und dreimal begünstigt die Gebete! Dreimal bringet uns Glück und dreimal uns Ruhm! Euren dreiständigen Wagen besteigt die Tochter des Surya.
Трижды привезите вы нам богатство, о Ашвины,
Трижды (приезжайте) на службу богам и трижды поддержите, молитвы!
Трижды счастье и трижды славу нам (принесите)!
На трехместную вашу колесницу поднимается дочь Солнца.
त्रिर्नो॑ अश्विना दि॒व्यानि॑ भेष॒जा त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः । ओ॒मानं॑ शं॒योर्मम॑काय सू॒नव॑ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ॥
त्रिः । नः॒ । अ॒श्वि॒ना॒ । दि॒व्यानि॑ । भे॒ष॒जा । त्रिः । पार्थि॑वान् । त्रिः । ऊँ॒ इति॑ । द॒त्त॒म् । अ॒त्ऽभ्यः । ओ॒मान॑म् । श॒म्ऽयोः । मम॑काय । सू॒नवे॑ । त्रि॒ऽधातु॑ । शर्म॑ । व॒ह॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥
हे अश्विना नः अस्मभ्यं दिव्यानि द्युलोकवर्तीनि भेषजा औषधानि त्रिः दत्तम् । तथा पार्थिवानि पृथिव्यामुत्पन्नान्यौषधानि त्रिः दत्तम् । अद्भ्यः उ अन्तरिक्षसकाशादप्यौषधानि त्रिः दत्तम् । आपः इत्यन्तरिक्षनाम, ‘आपः पृथिवी भूः ' ( नि. १. ३. ८) इति तन्नामसु पाठात् । शंयोः एतन्नामकस्य बृहस्पतिपुत्रस्य । “ ते शंयुं बार्हस्पत्यमब्रुवन् ' ( तै. सं. २. ६. १०. १) इति ब्राह्मणान्तरात् । तस्य संबन्धिनम् ओमानं सुखविशेषं ममकाय सूनवे मदीयाय पुत्राय दत्तम् । हे शुभस्पती शोभनस्यौषधजातस्य पालकौ युवां त्रिधातु वातपित्तश्लेष्मधातुत्रयशमनविषयं सुखं वहतं प्रापयतम् ॥ दिव्यानि । दण्डादित्वात् (पा. सू. ५. १. ६६ ) यप्रत्ययः । भेषजा । ‘भिषज् चिकित्सायाम् । पुंसि संज्ञायाम्' इति घः । शंयोः । ‘शमु उपशमे ' । क्विप् । शम् । ' यु अमिश्रणे'। अस्मात् विच् । कृदुत्तरपदप्रकृतिस्वरः । त्रिधातु। ‘सितनिगमिमसिसच्यविधाञ्रु कशिभ्यस्तुन् ' ( उ. सू. १. ६९)। अद्भ्यः। ‘ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम् । ओमानम् । अवतेः ‘अन्येभ्योऽपि दृश्यन्ते ' इति मनिन् ।' ज्वरत्वर ' इत्यादिना अकारवकारयोः ऊठ् । सार्वधातुकार्धधातुकलक्षणो गुणः । यदि ' ज्वरत्वर' ' इत्यत्र ‘अनुनासिके च ' ( पा. सू. ६. ४. १९ ) इति नानुवर्तते तर्हि पूर्वेणैव सूत्रेण वकारस्य ऊडादेशो भविष्यति । शुभस्पती। ‘शुभ दीप्तौ ' । संपदादिलक्षणः क्विप् । षष्ठ्याः पतिपुत्र' इति संहितायां विसर्जनीयस्य सत्वम् ।' सुबामन्त्रिते. ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् ॥ ॥ ४ ॥
“Thrice grant us, Aśvins, the medicaments of heaven, and those of earth, and those of the firmament; give to my son the prosperity of Śamyu; cherishers of wholesome (herbs), preserve the well-being of the three humours (of the body).”
Thrice, Asvins, grant to us the heavenly medicines, thrice those of earth and thrice those that the waters hold,
Favour and health and strength bestow upon my son; triple protection, Lords of Splendour, grant to him.
Three times, Aśvins, give us heavenly remedies, three times earthly ones, and three times those from the waters.
Succor and luck and lifetime bring to my little son, and threefold
shelter, you lords of beauty.
Gebt dreimal uns, o Açvinen, die Arzeneien des Himmels, dreimal die der Erde, und dreimal die aus den Wassern entsprungenen, Huld, Heil, Glück und dreifachen Schutz fahrt meinem Sohne zu, o Glanzes Herrn.
Dreimal gebt uns, ihr Asvin, himmlische Arzeneien, dreimal irdische und dreimal aus den Gewässern! Das Schutzmittel des Heilsamen bringet meiner Wenigkeit aus eurem Sohne mit, dreifachen Schirm, ihr Meister der Schönheit!
Трижды нам, Ашвины, небесные лекарства,
Трижды земные и трижды давайте из вод!
Благословение, счастье и благо моему сыну,
Тройную защиту привезите, о повелители красоты!
त्रिर्नो॑ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् । ति॒स्रो ना॑सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वात॒: स्वस॑राणि गच्छतम् ॥
त्रिः । नः॒ । अ॒स्वि॒ना॒ । य॒ज॒ता । दि॒वेऽदि॑वे । परि॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वीम् । अ॒शा॒य॒त॒म् । ति॒स्रः । ना॒स॒त्या॒ । र॒थ्या॒ । प॒रा॒ऽवतः॑ । आ॒त्माऽइ॑व । वातः॒ । स्वस॑राणि । ग॒च्छ॒त॒म् ॥
हे अश्विना दिवेदिवे प्रतिदिनम् । ‘दिवेदिवे द्यविद्यवि ' (नि. १. ९. ११ ) इति अहर्नामसु पठितत्वात् । यजता यष्टव्यौ युवां नः अस्मदीयां पृथिवीं वेदिरूपां भूमिं परि सर्वतः प्राप्य त्रिधातु कक्ष्यात्रययुक्ते अस्तीर्णे बर्हिषि त्रिः त्रिवारम् अशायतं शयनं कुरुतम् । हे रथ्या रथ्यौ रथस्वामिनौ तिस्रः त्रिसंख्याकाः ऐष्टिकपाशुकसौमिकरूपा वेदीः गच्छतम् । तत्र दृष्टान्तः । स्वसराणि शरीराणि आत्मेव वातः। यथा प्राणिनामात्मभूतः प्राणवायुस्तदीयानि शरीराणि गच्छति तद्वत् ॥ यजता । यजतेः ‘ भृमृदृशि° ' ( उ. सू. ३. ३९० ) इत्यादिना अतच् । चितः' इत्यन्तोदात्तत्वम् । त्रिधातु । त्रेधा धीयते निधीयते इति त्रिधातु। ‘सितनिगमि' (उ. सू. १. ६९ ) इत्यादिना धाञः तुन् । नित्त्वादाद्युदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । ‘सुपां सुलुक्° ' इति सप्तम्या लुक् । अशायतम् । अदादित्वात् शपो लुक् । अशयातामित्यस्य ह्रस्वदीर्घयोर्व्यत्यासः । नासत्या । सत्सु साधू सत्यौ । न सत्यौ असत्यौ । न असत्यौ नासत्यौ ।' सत्यावेव नासत्यावित्यौर्णवाभः ' ( निरु. ६. १३ ) इति यास्कः। ‘नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । रथ्या । रथार्हौ स्वामिनावित्यर्थः । ‘छन्दसि च' ( पा. सू. ५. १. ६७ ) इति यप्रत्ययः । स्वसराणि । सरन्ति गच्छन्तीति सरा इन्द्रियाणि । स्वकीयाः सरा येषां शरीराणाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“Aśvins, who are to be thrice worshipped, day by day, repose on the triple (couch of) sacred grass upon the earth, (that form the altar); car-borne Nāsatyas, repair from afar to the threefold (plural ce of sacrifice), as the vital air to (living) bodies.”
Thrice are ye to be worshipped day by day by us: thrice, O ye Asvins, ye travel around the earth.
Car-borne from far away, O ye Nasatyas, come, like vital air to bodies, come ye to the three.
Three times, day after day, Aśvins, deserving the sacrifice, reach around the earth in its three parts.
You Nāsatyas as charioteers travel over the three distant realms, like breath blowing over the pastures.
Dreimal, o Açvinen, seid ihr uns zu verehren an jedem Tag, dreifach umlagert ihr schützend die Erde; o wahrhafte, o Wagenlenker, durch drei Fernen fahret ihr hindurch wie Hauch und Wind zu den Stätten des Somatrankes.
Dreimal Tag für Tag kommet ihr Asvin herum in der Dreiwelt, auf der Erde, für uns anbetungswürdig. Drei Entfernungen kommt ihr Wagenlenker Nasatya´s her zur Frühmesse wie der Windhauch zur Frühweide.
Трижды, о Ашвины, достойные жертвы, день за днем
Добирайтесь до нас, (объезжая) вокруг трехчленного мира, (вокруг) земли.
По трем далям, о Насатьи-колесничие,
Приезжайте, как дыхание-ветер – на пастбища!
त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा॑तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् । ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं॑ रक्षेथे॒ द्युभि॑र॒क्तुभि॑र्हि॒तम् ॥
त्रिः । आ॒श्वि॒ना॒ । सिन्धु॑ऽभिः । स॒प्तमा॑तृऽभिः । त्रयः॑ । आ॒ऽहा॒वाः । त्रे॒धा । ह॒विः । कृ॒तम् । ति॒स्रः । पृ॒थि॒वीः । उ॒परि॑ । प्र॒वा । दि॒वः । नाक॑म् । र॒क्षे॒थे॒ इति॑ । द्युऽभिः॑ । अ॒क्तुऽभिः॑ । हि॒तम् ॥
हे अश्विना सप्तमातृभिः । ‘इमं मे गङ्गे' (ऋ. सं. १०. ७५, ५) इत्यादिमन्त्रोक्ताः सप्तसंख्याका गङ्गाद्या नद्यो मातर उत्पादिका येषां जलविशेषाणां ते सप्तमातरः । तैः सिन्धुभिः स्यन्दनस्वभावैर्जलैर्वसतीवरीनामभिः त्रिः सोमाभिषवः कृत इति शेषः । तथा चान्यत्र ब्राह्मणे समाम्नातम्-' अष्टौ कृत्वोऽभिषुणोति एकादश कृत्वो द्वितीयं द्वादश कृत्वस्तृतीयम्' (तै. सं. ६. ४. ५. १-२ ) इति । आहा वाः यथोक्तजलयुक्तस्य सोमस्याधारभूताः कूपसदृशाः त्रयः त्रिसंख्याका द्रोणकलशाधवनीयपूतभृदाख्या निष्पन्ना इति शेषः । तेषु त्रिषु पात्रविशेषेषु त्रेधा त्रिभिः प्रकारैः सवनत्रयगतैः हविष्कृतं सोमाख्यं हविः संपादितं द्रव्यं वर्तते इति शेषः। तिस्रः पृथिवीरुपरि त्रिभ्यः पृथिव्यादिलोकेभ्य ऊर्ध्वं प्रवा प्रवन्तौ गच्छन्तौ युवां दिवो नाकं द्युलोकसंबन्धिनमादित्यं रक्षेथे । कीदृशं नाकम् । द्युभिः अहोभिः अक्तुभिः रात्रिभिश्च हितं स्थापितम् । अहनि सूर्य उदेति रात्रावस्तं गच्छतीत्येवमहोरात्राभ्यां सूर्यो व्यवस्थाप्यते इत्यर्थः ॥ सप्तमातृभिः। बहुव्रीहिस्वरः । आहावाः । निपानमाहावः' (पा. सू. ३. ३. ७४ ) इति आङ्पूर्वात् ह्वयतेः अप्प्रत्ययः संप्रसारणं वृद्धिश्च निपातनात् । थाथादिना उत्तरपदान्तोदात्तत्वम् । प्रवा । ' च्युङ् प्रुङ् गतौ '। प्रवेते गच्छतः इति प्रवौ । पचाद्यच् । ‘सुपां सुलुक्' इति आकारः । नाकम् । न अस्मिन् अकम् अस्तीति नाकः । ‘नभ्राण्नपात्' इत्यादिना नञः प्रकृतिभावः । द्युभिः । ऊडिदम्' इत्यादिना प्राप्तस्य विभक्त्युदात्तस्य ' दिवो झल् ' ( पा. सू. ६. १. १८३ ) इति प्रतिषेधः ॥
“Come, Aśvins, thrice with the seven mother-sttreams; the three rivers are ready; the triple oblation is prepared; rising above the three worlds, you defend the sun in the sky, who is established for both night and day.”
Thrice, O ye Asvins, with the Seven Mother Streams; three are the jars, the triple offering is prepared.
Three are the worlds, and moving on above the sky ye guard the firm-set vault of heaven through days and nights.
Three times, Aśvins, along with the rivers with their seven mothers the three (soma) troughs are prepared and the oblation is made
threefold.
Floating above the three earths, you guard the fixed vault of heaven, through the days, through the nights.
Dreimal sind, o Açvinen, durch die Somaströme, welche sieben Mütter haben [aus sieben = vielen, Bestandtheilen gemischt sind], drei Eimer gefüllt, dreifach ist der Opfertrank bereitet; über drei Erden schwebt ihr hinweg, beschützt des Himmels Gipfel, der die Tage und Nächte hindurch aufgerichtet steht.
Dreimal, ihr Asvin, mit den Strömen, den Siebenmüttern kommet; drei Tröge voll Soma, dreifach ist die Opfergabe bereitet. Über den drei Erden schwebend bewachet ihr Tag und Nacht das errichtete Firmament des Himmels.
Трижды, о Ашвины, с реками – семью матерями (приезжайте)!
Три чана (с сомой). Трояко готовится жертвенное возлияние.
Над тремя землями паря,
Дни и ночи охраняете вы установленный свод неба.
क्व१॒॑ त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॒॑ त्रयो॑ व॒न्धुरो॒ ये सनी॑ळाः । क॒दा योगो॑ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपया॒थः ॥
क्व॑ । त्री । च॒क्रा । त्रि॒ऽवृतः॑ । रथ॑स्य । क्व॑ । त्रयः॑ । व॒न्धुरः॑ । ये । सऽनी॑ळाः । क॒दा । योगः॑ । वा॒जिनः॒ । रास॑भस्य । येन॑ । य॒ज्ञम् । ना॒स॒त्या॒ । उ॒प॒ऽया॒थः ॥
हे नासत्यौ अश्विनौ त्रिवृत्रः त्रिसंख्याकैरश्रिभिरुपेतस्य भवदीयस्य रथस्य ईषाद्वयं पूर्वभागे संयुज्यते । सेयम् एका अश्रिः । पृष्ठभागे वियुज्यते। तत्र कोणद्वयं संपद्यते । ईदृशस्य रथस्य संबन्धीनि त्री चक्रा त्रीणि चक्राणि क्व । कुत्र स्थितानीत्यस्माभिर्न दृश्यते । ये काष्ठविशेषाः सनीळाः । नीळं गृहसदृशं रथस्योपरि उपवेशस्थानम् । तेन सह वर्तन्ते इति सनीळाः । ते काष्ठविशेषाः वन्धुरः नीडबन्धनाधारभूताः त्रयः अक्षेण सहिते द्वे ईषे इत्येवं त्रिसंख्याकाः क्व । कुत्र स्थिता इत्यस्माभिर्न ज्ञायते । वाजिनः बलवतः रासभस्य भवदीयाश्वस्थानीयस्य गर्दभस्य योगः रथे योजनं कदा । कस्मिन् काले निष्पन्नम् इत्यस्माभिर्न दृश्यते । येन चक्रत्रयनीडकाष्ठत्रयसभयोजनसहितेन रथेन यज्ञम् अस्मदीयं यागस्थानम् उपयाथः युवां प्राप्नुथः । तादृशस्य रथस्येति पूर्वत्रान्वयः ॥ त्री चक्रा । उभयत्रापि ‘शेश्छन्दसि बहुलम् ' इति शेर्लोपः । वन्धुरः । बन्धेः औणादिकः उरप्रत्ययः । वत्वं छान्दसम् । सनीळाः। 'वोपसर्जनस्य' इति सभावः ॥
“Where, Nāsatyas, ae the three wheels of your triangular car? where the three fastenings and props (of the awning?) When will be the harnessing of the powerful ass, that you may come to the sacrifice?”
Where are the three wheels of your triple chariot, where are the three seats thereto firmly fastened?
When will ye yoke the mighty ass that draws it, to bring you to our sacrifice. Nasatyas?
Where are the three wheels of your triply turning chariot, where the three seats which are in the same nest [=chariot box]?
When is the yoking of the prizewinning donkey, with which, Nāsatyas, you drive up to the sacrifice.
Wo sind die drei Räder des dreifach rollenden Wagens? wo die drei Wagensitze, die gleiche Stätte haben? Wann geschieht die Anschirrung des starken Eselhengstes, mit dem ihr, o Açvinen, zum Opfer fahrt?
Wo sind die drei Räder eures dreiteiligen Wagens, wo die drei brüderlichen Sitze? Wann geschieht die Schirrung des siegreichen Esels, mit dem ihr Nasatyas zum Opfer fahret?
Где три колеса трехчастной колесницы?
Где три сиденья, что сопряжены?
Когда (происходит) запрягание приносящего награды осла,
На котором вы, Насатьи, приезжаете на жертвоприношение?
आ ना॑सत्या॒ गच्छ॑तं हू॒यते॑ ह॒विर्मध्व॑: पिबतं मधु॒पेभि॑रा॒सभि॑: । यु॒वोर्हि पूर्वं॑ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव॑न्त॒मिष्य॑ति ॥
आ । ना॒स॒त्या॒ । गच्छ॑तम् । हू॒यते॑ । ह॒विः । मध्वः॑ । पि॒ब॒त॒म् । म॒धु॒ऽपेभिः॑ । आ॒सऽभिः॑ । यु॒वोः । हि । पूर्व॑म् । स॒वि॒ता । उ॒षसः॑ । रथ॑म् । ऋ॒ताय॑ । चि॒त्रम् । घृ॒तऽव॑न्तम् । इष्य॑ति ॥
हे नासत्यौ अश्विनौ इह कर्मणि आ गच्छतम् । अत्रास्माभिः हविः हूयते । युवां च मधुपेभिः मधुरद्रव्यपानयुक्तैः आसभिः भवदीयैरास्यैः मध्वः मधुरद्रव्याणि हवींषि पिबतम् । सविता सूर्यः उषसः पूर्वम् उषःकालात्पुरा युवयोरश्विनोः संबन्धिनं रथम् ऋताय अस्मद्यज्ञार्थम् इष्यति हि प्रेरयति खलु । कीदृशम् । चित्रं पूर्वोक्तैश्चक्रत्रयादिभिः विचित्रं घृतवन्तम् अक्षाञ्जनसाधनेन घृतेनोपेतम् ॥ गच्छतम् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम् । धातुस्वरः । अत्र गच्छतं पिबतं चेति चार्थप्रतीतेः ‘चादिलीपे विभाषा' इति प्रथमायाः तिङविभक्तेः निघातप्रतिषेधः । हूयते । लसार्वधातुकानुदात्तत्वे यकः स्वरः । मध्वः । लिङ्गव्यत्ययः शसि यणादेशश्छान्दसः । मधुपेभिः । मधु पिबन्तीति मधुपानि। आतोऽनुपसर्गे कः' इति कप्रत्ययः । आसभिः । ‘पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः । युवोः । युवोर्हि यन्त्रम्' इत्यत्रोक्तम् । इष्यति । ‘इष गतौ ' । श्यनो नित्त्वादाद्युदात्तत्वम् । ' हि च ' इति निघातप्रतिषेधः ॥
“Come, Nāsatyas, to the sacrifice; the oblation is offered; drink the juice with mouths that relish the sweet savour. Before dawn, even, Savitā send (to bring you) to the rite, your wonderful car shining with clarified butter.”
Nasatyas, come: the sacred gift is offered up; drink the sweet juice with lips that know the sweetness well.
Savitar sends, before the dawn of day, your car, fraught with oil, various-coloured, to our sacrifice.
Come here, Nāsatyas: the oblation is being poured. Drink of the honey with your honey-drinking mouths.
For Savitar impels your chariot, earlier than dawn, glittering, full of ghee, for truth.
Kommt her, o wahrhafte, der Trank wird euch ergossen, trinkt von dem Honigtranke mit honigschlürfenden Lippen; denn euren hellen, butterbeladenen Wagen sendet Savitar vor des Morgens Anbruch zum Opferwerk.
Kommt her, Nasatyas, die Spende wird geopfert. Trinkt von dem Süßtrank mit dem süßtrinkenden Munde! Denn noch vor der Morgenröte sendet Savitri euren Wagen zu regelmäßiger Fahrt aus, den wunderbaren, schmalzreichen.
Приезжайте, о Насатьи: возливается возлияние!
Пейте мед устами, пьющими мед!
Ведь еще до зари посылает Савитар на регулярное жертвоприношение
Вашу колесницу, яркую полную жира.
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना । प्रायु॒स्तारि॑ष्टं॒ नी रपां॑सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा॑ ॥
आ । ना॒स॒त्या॒ । त्रि॒भिः । ए॒का॒द॒शैः । इ॒ह । दे॒वेभिः॑ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒ना॒ । प्र । आयुः॑ । तारि॑ष्टम् । निः । रपां॑सि । मृ॒क्ष॒त॒म् । सेध॑तम् । द्वेषः॑ । भव॑तम् । स॒चा॒ऽभुवा॑ ॥
हे नासत्या असत्येनानृतेन रहितौ अश्विना अश्विदेवौ युवां त्रिभिरेकादशैः ‘ ये देवासो दिव्येकादश स्थ' (ऋ. सं. १. १३९. ११ ) इत्यादिमन्त्रप्रतिपादितैस्त्रिसंख्याकैः एकादशात्मकवर्गत्रयगतैर्देवैः सह मधुपेयं सोमात्मकं मधुरद्रव्यपानम् अभिलक्ष्य इह अस्मिन् देवयजनदेशे आ यातम् आगच्छतम्। आयुः अस्मदीयमायुष्यं प्र तारिष्टं प्रवर्धयतम्। रपांसि अस्मदीयानि पापानि निः मृक्षतं निःशेषेण शोधयतम् । द्वेषः द्वेषकर्तॄन् सेधतं प्रतिषेधतम् । सचाभुवा अस्माभिः सहावस्थितौ भवतम् ॥ त्रिभिः । षट्त्रिचतुर्भ्यः' इति विभक्तेरुदात्तत्वम् । एकादशैः । एकादशानां पूरणैः । ‘तस्य पूरणे°' (पा. सू. ५. २. ४८) इति डट् । मधुपेयम् । पा पाने '।' अचो यत्' इति कर्मणि यत् ।' ईद्यति' (पा. सू. ६. ४. ६५) इति आकारस्य ईकारादेशः । यतोऽनावः' इत्याद्युदात्तत्वम् । मधु च तत्पेयमिति समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । तारिष्टम् । ‘तॄ प्लवनतरणयोः । छान्दसे प्रार्थनायां लुङि च्लेः सिच् । इडागमः । ‘वॄतो वा ' ( पा. सू. ७. २. ३८ ) इति प्राप्तस्य इटो दीर्घस्य ‘सिचि च परस्मैपदेषु' ( पा. सू. ७. २. ४० ) इति प्रतिषेधः । ‘बहुलं छन्दस्यमाङ्योगेऽपि ' इति अडभावः । अत्र तारिष्टं मृक्षतं चेति चशब्दार्थप्रतीतेस्तस्य च अप्रयोगात् ‘चादिलोपे विभाषा ' इति निघातप्रतिषेधः। ‘आदिः सिचोऽन्यतरस्याम् ' (पा. सू. ६. १. १८७ ) इत्याद्युदात्तत्वम् । मृक्षतम् । मृश आमर्शने '। 'छन्दसि लुङ्लङलिटः' इति लोडर्थे लुङ्। 'शल इगुपधादनिटः क्सः ' ( पा. सू. ३. १. ४५) इति क्सादेशः ।' एकाच उपदेशेऽनुदात्तात् ' इति इट्प्रतिषेधः । षत्वकुत्वे। पूर्ववत् अडभावः । सेधतम् ।‘षिधु गत्याम् । अत्र केवलोऽपि षिधिः प्रतिपूर्वस्यार्थे वर्तते । प्रार्थनायां लोट् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । पादादित्वात् तिङः परत्वात् वा निघाताभावः । द्वेषः । अन्येभ्योऽपि दृश्यन्ते' इति कर्तरि विच् । भवतम् । द्वेष इत्यस्य वाक्यान्तरगतत्वात् तदपेक्षयास्य निघातो न भवति, समानवाक्ये च निघातयुष्मदस्मदादेशा वक्तव्याः ' (पा. सू. ८. १. १८. ५) इति वचनात् । सचाभुवा । सचा इत्ययं निपातः सहशब्दसमानार्थः । तथा च यास्कः - ’सचा सहेत्यर्थः' (निरु. ५. ५) इति । सचा भवतः इति सचाभुवौ । क्विप् ।' ओः सुपि ' (पा. सू. ६. ४. ८३ ) इति यणादेशस्य न भूसुधियोः । (पा. सू. ६. ४. ८५) इति प्रतिषेधः । ‘सुपां सुलुक्' इति विभक्तेः आकारः ॥
“Come, Nāsatyas, with the thrice eleven divinities; come, Aśvins, to drink the oblation prolong our lives, efface our faults, restrain our enemies, and be ever with us.”
Come, O Nasatyas, with the thrice-eleven Gods; come, O ye Asvins, to the drinking of the meath.
Make long our days of life, and wipe out all our sins: ward off our enemies; be with us evermore.
Drive hither, Nāsatyas, with the three times eleven gods, here to honey drinking, Aśvins.
Extend our lifetime; sweep away our maladies; repel hatred; come into partnership (with us).
Kommt hierher, o wahrhafte, mit den dreimal elf Göttern, zum Honigtranke, o Açvinen; verlängert unser Leben, wischt alle Flecken ab, wehrt Feinde ab, seid uns hülfreich.
Kommt, Nasatyas, hierher mit den dreimal elf Göttern zum Süßtrank, o Asvin! Verlängert das Leben, streifet Schäden ab, wehret die Feindschaft ab, seid uns Beisteher!
Сюда, о Насатьи, с трижды одиннадцатью
Богами приезжайте на питье меда, о Ашвины!
Продлите срок жизни! Сотрите (телесные) повреждения!
Отвратите ненависть! Будьте спутниками!
आ नो॑ अश्विना त्रि॒वृता॒ रथे॑ना॒र्वाञ्चं॑ र॒यिं व॑हतं सु॒वीर॑म् । शृ॒ण्वन्ता॑ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
आ । नः॒ । अ॒श्वि॒ना॒ । त्रि॒ऽवृता॑ । रथे॑न । अ॒र्वाञ्च॑म् । र॒यिम् । व॒ह॒त॒म् । सु॒ऽवीर॑म् । शृ॒ण्वन्ता॑ । वा॒म् । अव॑से । जो॒ह॒वी॒मि॒ । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥
हे अश्विना त्रिवृता रथेन अप्रतिहतगतित्वात् त्रिषु लोकेषु वर्तमानेन रथेन सह नः अस्माकम् अर्वाञ्चम् अभिमुखं सुवीरं शोभनैर्वीरैः पुत्रभृत्यादिभिरुपेतं रयिं धनम् आ वहतम् आनीय प्रापयतम् । शृण्वन्ता अस्मदीयस्तुतिं शृण्वन्तौ वां युवाम् अवसे अस्मद्रक्षणार्थं जोहवीमि आह्वयामि। नः अस्माकं वाजसातौ संग्रामे। ‘वाजसातौ महाधने' (नि. २. १७. ३६) इति संग्रामनामसु पाठात् । वृधे वर्धनाय च भवतम् ॥ सुवीरम्। शोभना वीरा यस्येति बहुव्रीहौ 'वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् । शृण्वन्ता । ‘श्रु श्रवणे'। शतरि • श्रुवः च' (पा. सू. ३.१.७४) इति श्नुः शृभावश्च । हुश्नुवोः सार्वधातुके ' इति यणादेशः । ‘सुपां सुलुक् ० ' इति आकारः । जोहवीमि । ‘ह्वेञ् स्पर्धायां शब्दे च ' । यङ्लुकि “ अभ्यस्तस्य च ' (पा. सू. ६. १. ३३ ) इति कृतसंप्रसारणादस्मात् लडुत्तमैकवचने ‘यङो वा ' ( पा. सू. ७. ३.९४ ) इति ईडागमः । वृधे । “ वृधु वृद्धौ ' इत्यस्मात् संपदादिलक्षणो भावे क्विप् । वाजसातौ । ‘षणु दाने '। क्तिनि “ तितुत्र ' इत्यादिना इट्प्रतिषेधः । ‘जनसन' इत्यादिना आत्वम् । वाजानां सातिर्यस्मिन्निति पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ५ ॥
“Borne in your car that traverses the three worlds, bring to us Aśvins, present affluence, attended by (male) progeny; I call upon you both, listening to me, for protection; be to us for vigour in battle.”
Borne in your triple car, O Asvins, bring us present prosperity with noble offspring.
I cry to you who hear me for protection be ye our helpers where men win the booty.
Aśvins, with your triply turning chariot, bring wealth in good heroes our way.
You two who listen I keep calling to for help. Be there to strengthen us at the winning of prizes.
Fahrt uns, o Açvinen, auf eurem dreirädrigen Wagen heldenreiches Gut nahe herbei; euch, die ihr hört, rufe ich zu Hülfe; seid uns zum Heile bei der Erlangung der Güter.
Bringt uns, Asvin, auf dem dreiteiligen Wagen einen Schatz von tüchtigen Mannen heran! Euch Erhörende rufe ich zum Beistand, und seid uns bei dem Lohngewinne zur Förderung!
На повернутой к нам трехчастной колеснице
Привезите богатство – здоровых героев!
Вас двоих, внемлющих, я зову на помощь,
И усильте нас при добывании наград!