ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से । ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥
ह्वया॑मि । अ॒ग्निम् । प्र॒थ॒मम् । स्व॒स्तये । ह्वया॑मि । मि॒त्रावरु॑णौ । इ॒ह । अव॑से । ह्वया॑मि । रात्री॑म् । जग॑तः । नि॒वेश॑नीम् । ह्वया॑मि । दे॒वम् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥
स्वस्तये अस्माकमविनाशाय । ‘स्वस्तीत्यविनाशनाम' (निरु. ३. २१) इति यास्कः । प्रथमम् आदौ अग्निं ह्वयामि । इह अस्मिन् कर्मणि अवसे अस्मद्रक्षणाय मित्रावरुणौ ह्वयामि । जगतः जङ्गमस्य प्राणिजातस्य निवेशनीम् उपवेशनहेतुभूतां रात्रीं रात्रिदेवतां ह्वयामि। जङ्गमाः सर्वे प्राणिनो दिवसे स्वस्वव्यापारान् कृत्वा स्वस्वगृहे रात्रौ उपविशन्तीति प्रसिद्धम् । ऊतये अस्मद्रक्षणार्थं सवितारं देवं ह्वयामि॥ मित्रावरुणौ। ‘देवताद्वन्द्वे च' इति पूर्वपदस्य आनङादेशः । देवताद्वन्द्वे च' इति उभयपदप्रकृतिस्वरत्वम् । रात्रीम् । ‘रात्रेश्चाजसौ ' (पा. सू. ४. १. ३१ ) इति ङीप् । निवेशनीम् । निविशन्त्यस्यामिति निवेशनी । करणाधिकरणयोश्च ' इति ल्युट् । ‘टिड्ढाणञ्” ' (पा. सू. ४. १. १५) इत्यादिना ङीप् । ऊतये । अवतेः क्तिनि ज्वरत्वर' इत्यादिना वकारस्य उपधायाश्च ऊठ् । 'ऊतियूति ' इत्यादिना क्तिन उदात्तत्वम् ॥
“Invoke Agni first, for protection: I invoke for protection, Mitra and Varuṇa; invoke Night, who brings rest to the world; invoke the divine Savitā for my preservation.”
AGNI I first invoke for our prosperity; I call on Mitra, Varuna, to aid us here.
I call on Night who gives rest to all moving life; I call on Savitar the God to lend us help.
I invoke Agni first, for well-being; I invoke Mitra and Varuṇa here, for help. I invoke Night, who brings to rest the moving; I invoke god Savitar, for aid.
Ich ruf zuerst den Agni an zum Wohlergehn, ich rufe Mitra-Varuna zur Hülfe her; Ich ruf' die Nacht, die, was da lebt, zur Ruhe legt, Ich rufe her zum Beistand Savitar, den Gott.
Ich rufe zuerst den Agni zum Heil, ich rufe Mitra und Varuna hierher zum Beistand. Ich rufe die Nacht, die alles Lebende zur Ruhe bringt, ich rufe den Gott Savitri zur Hilfe.
Я зову первым Агни на благо.
Я зову сюда Митру-Варуну на помощь.
Я зову Ночь – успокоительницу (всего) живого.
Я зову бога Савитара для поддержки.
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
आ । कृ॒ष्णेन॑ । रज॑सा । वर्त॑मानः । नि॒ऽवे॒शय॑न् । अ॒मृत॑म् । मर्त्य॑म् । च॒ । हि॒र॒ण्यये॑न । स॒वि॒ता रथे॒न॑ । आ । दे॒वः । या॒ति॒ । भुव॑नानि । पश्य॑न् ॥
सविता सूर्यः कृष्णेन रजसा कृष्णवर्णेन लोकेन। ‘कृष्णं कृष्यतेर्निकृष्टो वर्णः' (निरु. २.२०) इति यास्कः । ‘लोका रजांस्युच्यन्ते' ( निरु. ४. १९) इति च । अन्तरिक्षलोको हि सूर्यागमनात् पुरा कृष्णवर्णो भवति । तेनान्तरिक्षमार्गेण आ वर्तमानः पुनःपुनरागच्छन् अमृतं देवं मर्त्य मनुष्यं च निवेशयन् स्वस्वस्थानेऽवस्थापयन् । यद्वा । अमृतं मरणरहितं प्राणं मर्त्यं मरणसहितं शरीरं च निवेशयन् । तथा चारण्यकाण्डे 'अमर्त्यो मर्त्येना सयोनिः ' (ऋ.सं.१.१६४.३८) इत्येतस्य मन्त्रभागस्य व्याख्यानरूपे ब्राह्मणे यथोक्तोऽर्थोऽवगम्यते - मर्त्यानि हीमानि शरीराणि अमृतैषा देवता ' (ऐ. आ. २. १. ८) इति । यथोक्तगुणोपेतः सविता देवः भुवनानि सर्वान् लोकान् पश्यन् अवेक्षमाणः प्रकाशयन्नित्यर्थः । हिरण्ययेन सुवर्णनिर्मितेन रथेन आ याति अस्मत्समीपमागच्छति॥ अमृतम् । मृतं मरणं नास्ति अस्येति बहुव्रीहौ ‘नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् । मर्त्यम् । मर्ते भवम् । भवे छन्दसि' इति यत् । ‘ यतोऽनावः' इत्याद्युदात्तत्वम् । हिरण्ययेन । ऋत्व्यवास्त्व्य° । (पा. सू. ६. ४. १७५) इत्यादिना मयटो मकालोपो निपातितः । यस्येति लोपे प्रत्ययस्वरः । भुवनानि । भू सत्तायाम्'। ' भूसुघूभ्रस्जिभ्यश्छन्दसि ' ( उ. सू. २. २३८) इति क्युन्प्रत्ययः । योरनादेशे उवङादेशः । नित्त्वादाद्युदात्तत्वम् ॥
“Revolving through the darkened firmament, arousing mortal and immortal, the divine Savitā travels in his golden chariot, beholding the (several) worlds.”
Throughout the dusky firmament advancing, laying to rest the immortal and the mortal,
Borne in his golden chariot he cometh, Savitar, God who looks on every creature.
Turning hither through the black realm, bringing to rest the immortal and the mortal,
with his golden chariot Savitar the god drives here, gazing upon the creatures.
Er, der herbeieilt durch den dunklen Luftraum, zur Ruhe legt, was sterblich, was unsterblich, Gott Savitar auf seinem goldnen Wagen kommt her zu uns, beschauend alle Wesen.
Indem er mit dem schwarzen Dunst sich heranbewegt und Gott und Mensch zur Ruhe bringt, kommt Gott Savitri auf goldenem Wagen, die Wesen beschauend.
Приближаясь сквозь черное пространство,
Успокаивая бессмертного и смертного,
Савитар на золотой колеснице,
Бог едет, взирая на (все) существа.
याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् । आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥
याति॑ । दे॒वः । प्र॒ऽवता॑ । याति॑ । उ॒त्ऽवता॑ । याति॑ । शु॒भ्राभ्या॑म् । य॒ज॒तः । हरि॑ऽभ्याम् । आ । दे॒वः । या॒ति॒ । स॒वि॒ता । प॒रा॒ऽवतः॑ । अप॑ । विश्वा॑ । दुःऽइ॒ता । बाध॑मानः ॥
देवः दीप्यमानः सविता प्रवता प्रवणवता मार्गेण याति गच्छति। तथा उद्वता उत्कृष्टेनोर्ध्वदेशयुक्तेन मार्गेण याति । उदयानन्तरं मध्याह्नमूर्ध्वो मार्गः; तत उपरि आसायं प्रवणो मार्ग इति विवेकः । तथा यजतः यष्टव्यः स देवः शुभ्राभ्यां श्वेताभ्यां हरिभ्याम् अश्वाभ्यां याति देवयजनदेशे गच्छति । सविता देवः विश्वा दुरिता सर्वाणि पापानि अप बाधमानः विनाशयन् परावतः दूरदेशात् । परावतः ' (नि. ३. २६. ५) इति दूरनामसु पठितत्वात् । तादृशात् द्युलोकात् आ याति यागदेशे आगच्छति ॥ प्रवता । • वन षण संभक्तौ । अस्मात् प्रपूर्वात् क्विप् । ‘गमादीनामिति वक्तव्यम्' (पा. सू. ६. ४. ४०. १) इत्यनुनासिकलोपः। ततः तुक् । कृदुत्तरपद प्रकृतिस्वरत्वम् । उद्वता । उत्पूर्वात् वनतेः पूर्ववत्प्रक्रिया । यजतः । भृमृदृशि' (उ. सू. ३. ३९०) इत्यादिना यजतेः कर्मणि अतच्प्रत्ययः । विश्वा दुरिता । उभयत्र ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः ॥
“The divine Savitā travels by an upward and by a downward path; deserving adoration, he journeys with two white horses; he comes hither from a distance, removing all sins.”
The God moves by the upward path, the downward; with two bright Bays, adorable, he journeys.
Savitar comes, the God from the far distance, and chases from us all distress and sorrow.
The god drives on a downward slope; he drives on an upward one; he drives with two resplendent fallow bays, he who is worthy of the
sacrifice.
God Savitar drives hither from afar, thrusting away all obstacles.
Es fährt der Gott die Höhn herab, die Höhn herauf mit hellem, goldnem Rossepaar, der heilige, Aus weiter Ferne kommt Gott Savitar herbei, weit von uns alles Ungemach verjagend.
Der Gott fährt vorwärts, er fährt aufwärts, er fährt mit zwei schmucken Falben, der Anbetungswürdige. Gott Savitri kommt aus der Ferne gefahren, indem er alle Fährlichkeiten beseitigt.
Едет бог вперед, едет вверх,
Едет, достойный жертв, на двух прекрасных буланых конях.
Бог Савитар приезжает издалека,
Прогоняя прочь все опасности.
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् । आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥
अ॒भिऽवृ॑तम् । कृश॑नैः । वि॒श्वऽरू॑प॒म् । हिर॑ण्यऽशम्यम् । य॒ज॒तः । बृ॒हन्त॑म् । आ । अ॒स्था॒त् । रथ॑म् । स॒वि॒ता । चि॒त्रऽभा॑नुः । कृ॒ष्णा । रजां॑सि । तवि॑षीम् । दधा॑नः ॥
सविता रथम् आस्थात् आस्थितवान् आरूढवानित्यर्थः । कीदृशम् । अभीवृतम् अभितो वर्तमानम् । तथा कृशनैर्विश्वरूपं सुवर्णेन नानारूपम् । ‘कृशनं लोहम् ' (नि.१.२.७) इति सुवर्णनामसु पाठात् । क्वचित् सुवर्णनिर्मितगजपङ्क्तिः क्वचिदश्वपङ्क्तिः क्वचिन्मनुष्यपङ्क्तिरित्येवं बहुरूपत्वम् । हिरण्यशम्यम् । अश्वानां स्कन्धेषु रथयोजनवेलायां नियन्तुं प्रक्षेप्यमाणाः शङ्कवः शम्याः । ताः सुवर्णमय्यो रथे वर्तन्ते । बृहतं प्रौढम् । कीदृशः सविता । यजतः यष्टव्यः चित्रभानुः विविधरश्मियुक्तः कृष्णा रजांसि अन्धकारयुक्ततया कृष्णवर्णान् लोकानुद्दिश्य तमोनिवारणार्थं तविषीं बलं स्वकीयं प्रकाशरूपं दधानः ॥ अभीवृतम् । अभितो वर्तते इत्यभीवृत्। ‘ वृतु वर्तने । क्विपि ‘ नहिवृति° । (पा. सू. ६. ३. ११६ ) इत्यादिना पूर्वपदस्य दीर्घत्वम् । विश्वरूपम् । विश्वानि रूपाणि यस्यासौ विश्वरूपः । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति व्यत्ययेन असंज्ञायामपि पूर्वपदान्तोदात्तत्वम् । हिरण्यशम्यम् । हर्य गतिकान्त्योः । ‘ हर्यतेः कन्यन् हिर च ' ( उ. सू. ५. ७२२) इति कन्यन्प्रत्ययो धातोर्हिरादेशश्च । नित्त्वादाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। आस्थात्। तिष्ठतेर्लुङि • गातिस्था° ' इति सिचो लुक् । कृष्णा ।' कृषेर्वर्णे ' ( उ. सू. ३. २८४ ) इति नक्प्रत्ययः ॥ ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । तविषीम् । तवतिः सौत्रो धातुः । ‘ तवतेर्णिद्वा' ( उ. सू. १. ४८ ) इति टिषच् । टित्त्वात् ‘ टिड्ढाणञ्' इत्यादिना ङीप् । व्यत्येन आद्युदात्तत्वं वृषादित्वात् द्रष्टव्यम् । दधानः । शानृचि ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥
“The many-rayed adorable Savitā, having power (to disperse) darkness from the world, has mounted his nigh-standing chariot, decorated with many kinds of golden ornaments, and furnished with golden yokes.”
His chariot decked with pearl, of various colours, lofty, with golden pole, the God hath mounted,
The many-rayed One, Savitar the holy, bound, bearing power and might, for darksome regions.
(It is) covered over with pearls, having every beauty, with golden yoke-pins, lofty—
his chariot has bright-beamed Savitar mounted, (he) worthy of the sacrifice, having assumed his own power throughout the black
realms.
Den perlgeschmückten, allgestalt'gen Wagen, mit goldnem Joch den hohen hat bestiegen In hellem Glanze Savitar, der hehre, im dunklen Luftraum seine Kraft erweisend.
Savitri, der Anbetungswürdige, hat den perlenbedeckten, allfarbigen hohen Wagen mit goldenen Jochpflöcken bestiegen, der Buntstrahlende, den schwarzen Dunst verbreitend, seine Stärke anlegend.
На украшенную жемчугами, многоцветную
Высокую колесницу с золотыми гвоздиками (на ярме)
Взошел (достойный жертв) Савитар с пестрыми лучами
(Устремляясь навстречу) черным пространствам, являя силу.
वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः । शश्व॒द्विश॑: सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥
वि । जना॑न् । श्या॒वाः । शि॒ति॒ऽपादः॑ । अ॒ख्य॒न् । रथ॑म् । हिर॑ण्यऽप्रऽउग॒म् । वह॑न्तः । शश्व॑त् । विशः॑ । स॒वि॒तुः । दैव्य॑स्य । उ॒पऽस्थे॑ । विश्वा॑ । भुव॑नानि । त॒स्थुः॒ ॥
श्यावाः एतन्नामकाः सूर्यस्याश्वाः । श्यावाः सवितुः ' (नि. १. १५. ८) इति निघण्टावुक्तत्वात् । ते च शितिपादः श्वेतैः पादैरुपेताः हिरण्यप्रउगम् । रथस्य मुखम् ईषयोरग्रं युगबन्धनस्थानं प्रउगमित्युच्यते । तच्चात्र सुवर्णमयम् । तद्युक्तं रथं वहन्तः जनान् प्राणिनः वि अख्यन् विशेषेण प्रकाशितवन्त इत्यर्थः । शश्वत् सर्वदा विशः प्रजाः दैव्यस्य इतरदेवसंबन्धिनः सवितुः प्रेरकस्य सूर्यस्य उपस्थे समीपस्थाने तस्थुः स्थितवत्यः । न केवलं प्रजाः किं तर्हि विश्वा भुवनानि सर्वे च लोकाः प्रकाशाय सूर्यसमीपे तस्थुः॥ शितिपादः । शितयः श्वेतवर्णाः पादा येषां ते शितिपादाः । ‘सुपां सुलुक्' इति जसः सुआदेशः । यद्वा । शितिः श्वेतवर्णाः स्फाटिकादिः । स इव पादो येषां ते । ‘पादस्य लोपोऽहस्त्यादिभ्यः' (पा. सू. ५. ४. १३८) इति समासान्तपादशब्दस्यान्त्यलोपः । उपमानात् इति हि तत्रानुवर्तते । पादशब्दस्य वृषादित्वादाद्युदात्तत्वम् । तस्य बहुव्रीहौ समासे • शितेर्नित्याबह्वज्बहुव्रीहावभसत्' (पा. सू. ६, २. १३८ ) इत्युत्तरपदप्रकृतिस्वरत्वम् । अख्यन् । ख्यातेर्लुङि ‘अस्यतिवक्ति ' इत्यादिना च्लेः अङादेशः । हिरण्यप्रउगम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। वहन्तः। शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः । दैव्यस्य । तस्येदमित्यर्थे ' देवाद्यञञौ ' (पा. सू. ४. १.८५.३) इति देवशब्दात् प्राग्दीव्यतीयो यञ् । तद्धितेष्वचामादेः' (पा.सू. ७.२.११७) इति आदिवृद्धिः । ‘ ञ्नित्यादिर्नित्यम् ' इत्याद्युदात्तत्वम् । उपस्थे । ‘ आतश्चोपसर्गे' इति कः । ‘ आतो लोप इटि च' इति आकारलोपः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥
“His white-footed coursers, harnessed to his car with a golden yoke, have manifested light to manking. Men and all the regions are ever in the presence of divine Savitā.”
Drawing the gold-yoked car his Bays, white-footed, have manifested light to all the peoples.
Held in the lap of Savitar, divine One, all men, all beings have their place for ever.
The dusky (horses) with white feet have looked out across the peoples, while drawing his chariot with its golden forepole.
The clans, all the creatures ever abide in the lap of divine Savitar.
Weissfüss'ge Braune, die den Wagen ziehen, dess Deichsel golden, bringen Licht den Leuten, In Savitar's, des Gottes, Schoosse stehen die Menschen immer und die Wesen alle.
Die weißfüßigen Rappen haben alle Menschen beschaut, während sie seinen Wagen mit der goldenen Deichsel ziehen. Allezeit ruhen die Menschenstämme, alle Welten im Schoß des göttlichen Savitri.
Большие темные кони взирали на людей,
Везя колесницу с золотым дышлом.
Постоянно пребывают племена (людские)
В божественном лоне Савитара (и) все миры.
ति॒स्रो द्याव॑: सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् । आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥
ति॒स्रः । द्यावः॑ । स॒वि॒तुः । द्वौ । उ॒पऽस्था॑ । एका॑ । य॒मस्य॑ । भुव॑ने । वि॒रा॒षाट् । आ॒णिम् । न । रथ्य॑म् । अ॒मृता॑ । अधि॑ । त॒स्थुः॒ । इ॒ह । ब्र॒वी॒तु॒ । यः । ऊँ॒ इति॑ । तत् । चिके॑तत् ॥
द्यावः स्वर्गोपलक्षिताः प्रकाशमाना लोकाः तिस्रः त्रिसंख्याकाः सन्ति । तत्र द्वौ लोकौ सवितुः सूर्यस्य उपस्था समीपस्थाने वर्तेते; द्युलोकभूलोकयोः सूर्येण प्रकाशितत्वात् । एका मध्यमा भूमिरन्तरिक्षलोकः यमस्य भुवने पितृपतेर्गृहे विराषाट् विरान् गन्तॄन् सहते । प्रेताः पुरुषा अन्तरिक्षमार्गेण यमलोके गच्छन्तीत्यर्थः । अमृता अमृतानि चन्द्रनक्षत्रादीनि ज्योतींषि जलानि वा अधि तस्थुः सवितारमधिगम्य स्थितानि । तत्र दृष्टान्तः। रथ्यम् आणिं न। रथाद्बहिः अक्षच्छिद्रे प्रक्षिप्तः कीलविशेषः आणिरित्युच्यते । रथसंबन्धिनम् अणिम् अधिगम्य यथा रथस्तिष्ठति तद्वत् यः तु मानवः तत् सवितृरूपं चिकेतत् जानाति स मानवः इह अस्मिन् विषये ब्रवीतु कथयतु । केनापि वक्तुमशक्यः सवितुर्महिमेत्यर्थः ॥ तिस्रः । ‘ तिसृभ्यो जसः ' (पा. सू. ६. १. १६६ ) इति विभक्तेरुदात्तत्वम् । द्वौ । संहितायामावादेशे ‘लोपः शाकल्यस्य ' इति वकारलोपः । उपस्था । आङयाजयारां चोपसंख्यानम् ' (पा. म. ७. १.३९. १) इति सप्तम्या आङादेशः। आङोऽनुनासिकश्छन्दसि' (पा. सू. ६. १. १२६ ) इति प्रकृतिभावः । विराषाट् । ‘वृञ् वरणे'।' घञर्थे कविधानम् । (पा. सू. ३. ३. ५८. ४ ) इति कर्मणि कः । ‘ बहुलं छन्दसि ( पा. सू. ७. १. १०३ ) इति इत्वम् । तथा सति वूर्यन्ते इति विरा इत्युक्तं भवति । तान् सहते इति विराषाट् । 'छन्दसि सहः ' (पा. सू. ३. २. ६३ ) इति सहेर्ण्विः । ‘ सहेः साडः ' ( पा. सू. ८. ३. ५६ ) इति षत्वम् । ‘ अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घः । रथ्यम् । रथस्येदं रथ्यम् । रथाद्यत् ( पा. सू. ४.३. १२१ ) इति यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । अमृता । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । चिकेतत् । कित ज्ञाने'। लेटि अडागमः । ‘ इतश्च लोपः' इति इकारलोपः । जुहोत्यादित्वात् श्लुः । लघूपधगुणः । ‘ अनुदात्ते च ' ( पा. सू. ६. १. १९०) इति अभ्यस्तस्याद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ ॥ ६ ॥
“Three are the spheres; two are in the proximity of Savitā, one leads men to the dwelling of Yama. The immortal (luminaries) depend upon Savitā as a car upon the pin of the axle; let him who knows (the greatness of Savitā) declare it.”
Three heavens there are; two Savitar's, adjacent: in Yama's world is one, the home of heroes,
As on a linch-pin, firm, rest things immortal: he who hath known it let him here declare it.
There are three heavens: two are the laps of Savitar, one is the
hero-vanquishing one in the world of Yama.
Like a chariot (wheel) on the axle-pin, the (creatures) have taken their place on his immortal (foundations?).—Whoever will perceive this, let him declare it here.
Drei Himmel sind's: des Savitar zwei Sitze, in Jama's Reich der dritte, Männer hegend; Die Götter ruhn wie auf der Wagenachse; wer das erkannt hat, mög' es hier verkünden.
Drei Himmel gibt es, zwei sind der Schoß des Savitri, der eine ist in der Welt des Yama, der männerbezwingende. Alles Unsterbliche ruht auf ihm wie das Wagengestell auf den Achsbolzen. Wer das begriffen hat, soll es hier sagen.
(Есть) три неба. Два (из них) – лоно Савитара.
Одно, с мужами-победителями, – в мире Ямы.
Все бессмертное покоится на нем, как колесо – на чеке.
Кто это постиг, пусть здесь провозгласит!
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः । क्वे॒३॒॑दानीं॒ सूर्य॒: कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥
वि । सु॒ऽप॒र्णः । अ॒न्तरि॑क्षाणि । अ॒ख्य॒त् । ग॒भी॒रऽवे॑पाः । असु॒रः । सु॒ऽनी॒थः । क्व॑ । इ॒दानी॒म् । सूर्यः॑ । कः । चि॒के॒त॒ । क॒त॒माम् । द्याम् । र॒श्मिः । अ॒स्य॒ । आ । त॒ता॒न॒ ॥
सुपर्णः शोभनपतनः सूर्यस्य रश्मिः । ‘सुपर्णा' इति पञ्चदश रश्मिनामानि' (नि. १. ५. १५) इति तन्नामसु पठितत्वात् । अन्तरिक्षाणि अन्तरिक्षोपलक्षितानि लोकत्रयस्थानानि वि अख्यत् विशेषेण ख्यापितवान् प्रकाशितवान् । कीदृशो रश्मिः । गभीरवेपाः गम्भीरकम्पनः । रश्मेः प्रकम्पनं चलने केनापि द्रष्टुमशक्यमित्यर्थः । असुरः सर्वेषां प्राणदः । तथा चान्यत्र आम्नायते -- सर्वेषां भूतानां प्राणानादायोदेति' (तै. आ. १.१४.१ ) इति । सुनीथः सुनयनः शोभनप्रापणः। मार्गप्रकाशनेन अभीष्टदेशं प्रापयतीत्यर्थः । तादृशरश्मियुक्तः सूर्यः इदानीं रात्रौ क्व कुत्र वर्तते । तदेतद्रहस्यं कश्चिकेत को जानाति । न कोऽपीत्यर्थः । अस्य सूर्यस्य रश्मिः कतमां द्याम् आ ततान कं द्युलोकं रात्रौ व्याप्तवान् । एतदपि को जानाति ॥ सुपर्णः । ‘ नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । गभीरवेपाः ॥ ‘टुवेपृ कम्पने' । असुन् । गभीरं वेपो यस्य। पूर्वपदप्रकृतिस्वरत्वम् । असुरः । असु क्षेपणे ' । अस्यति शत्रून् इत्यसुरः । ‘ असेरुरन् ' ( उ. सू. १. ४२ )। नित्त्वादाद्युदात्तत्वम् । यद्वा । असून् प्राणान् राति ददातीत्यसुरः । ‘ आतोऽनुपसर्गे कः' इति कप्रत्ययः । सुनीथः । ‘णीञ् प्रापणे '। हनिकुषिनीरमिकाशिभ्यः क्थन् ' ( उ. सू. २. १५९ ) इति क्थन् । प्रादिसमासे थाथादिना उत्तरपदान्तोदात्तत्वम् । इदानीम् । इदंशब्दात् सप्तम्यर्थे ‘दानीं च' (पा. सू. ५. ३. १८) इति दानींप्रत्ययः । ‘ इदम इश्' इति इदंशब्दस्य इशादेशः । प्रत्ययाद्युदात्तत्वम् । सूर्यः । ‘ षू प्रेरणे ' । सुवतीति सूर्यः । ‘ राजसूयसूर्य ' इत्यादिना रुडागमसहितः क्यप्प्रत्ययो निपातितः । प्रत्ययस्यानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । चिकेत । कित ज्ञाने'। लिट्। कतमां किंजातीयाम् । ‘वा बहूनां जातिपरिप्रश्ने डतमच्' (पा. सू. ५. ३. ९३ ) इति किंशब्दात् डतमच् । डित्त्वात् टिलोपः । ‘ चितः' इत्यन्तोदात्तत्वम् ॥
“Suparṇa, (the solar ray), deep-quivering, life-bestowing, well-directed, has illuminated the three regions. Where now is Sūrya Who knows to what sphere his rays have extended?”
He, strong of wing, hath lightened up the regions, deep-quivering Asura, the gentle Leader.
Where now is Surya, where is one to tell us to what celestial sphere his ray hath wandered?
The eagle has surveyed the midspaces—the lord possessing profound inspiration, who gives good guidance.
Where now is the sun? Who perceives it? To which one of the heavens does his rein extend?
Der schön beschwingte hat erhellt die Lüfte, der tieferregte Gott, der herrlich leitet, Wo weilet jetzt der Sonnengott? wer weiss es? und welchen Himmel hat sein Strahl durchdrungen?
Der Adler hat die Lüfte überschaut, der geheimnisvoll redende Asura, der gute Weiser. Wo ist jetzt die Sonne? Wer weiß es? Welchen Himmel hat ihr Strahl durchdrungen?
Орел озирал воздушные пространства,
Глубоко вдохновенный Асура, добрый вождь.
Где теперь солнце? Кто (это) постиг?
К какому небу протянулся его луч?
अ॒ष्टौ व्य॑ख्यत्क॒कुभ॑: पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् । हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥
अ॒ष्टौ । वि । अ॒ख्य॒त् । क॒कुभः॑ । पृ॒थि॒व्याः । त्री । धन्व॑ । योज॑ना । स॒प्त । सिन्धू॑न् । हि॒र॒ण्य॒ऽअ॒क्षः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् । दध॑त् । रत्ना॑ । दा॒शुषे॑ । वार्या॑णि ॥
पृथिव्याः संबन्धिनीः अष्टौ ककुभः प्राच्याद्याश्चतस्रो दिश आग्नेय्याद्याश्चतस्रो विदिश इत्येवमष्टौ दिशः व्यख्यत् सविता प्रकाशितवान् । तथा योजना प्राणिनः स्वस्वभोगेन' योजयितॄन् धन्व अन्तरिक्षोपलक्षितान् त्री त्रिसंख्याकान् पृथिव्यादिलोकान् सप्त सिन्धून् गङ्गादिनदीः समुद्रान्वा सविता व्यख्यत् । हिरण्याक्षः । हितरमणीयचक्षुर्युक्तो हिरण्यमयाक्षो वा सविता देवः आगात् इहागच्छतु । किं कुर्वन् । दाशुषे हविर्दत्तवते यजमानाय वार्याणि वरणीयानि रत्नानि दधत् प्रयच्छन् । अख्यत् । ख्यातेर्लुङि ‘अस्यतिवक्ति' इत्यादिना च्लेः अङादेशः। त्री। ‘शेश्छन्दसि बहुलम् इति शेर्लोपः । धन्व।' रिवि रवि धवि गत्यर्थाः । इदितो नुम् धातोः' इति नुम् । अस्मात् ‘ कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः' इति कनिन् । 'सुपां सुलुक्' इति विभक्तेर्लुक् । नलोपः । प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । योजना। योजयन्ति प्राणिन उपभोगेनेति योजनानि । नन्द्यादिलक्षणो ल्युः । ' णेरनिटि ' इति णिलोपः । पूर्ववत् शेर्लोपः । हिरण्याक्षः । हिरण्यमयान्यक्षीणि यस्यासौ हिरण्याक्षः । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः०' ( पा. सू. ५. ४. ११३ ) इति समासान्तः षच्प्रत्ययः । अगात् । एतेर्लुङि ‘इणो गा लुङि' (पा. सू. २. ४. ४५) इति गादेशः । ‘ गातिस्था' इति सिचो लुक् । दधत् । शतरि ‘नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः । ‘ आभ्यस्तयोरातः' इति आकारलोपः। ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । दाशुषे । ‘ दाश्वान्साह्वान् ' इत्यादिना क्वसुप्रत्ययान्तो निपातितः । चतुर्थ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । परपूर्वत्वम् । शासिवसिघसीनां च ' इति षत्वम् । वार्याणि ।' वृङ् संभक्तौ ' । ऋहलोर्ण्यत् । ईडवन्द° । इत्यादिनाद्युदात्तत्वम् ॥
“He has lighted up the eight points of the horizon, the three regions of living beings, the seven rivers; may the golden-eyes Savitā come hither, bestowing upon the offerer of the oblation desirable riches.”
The earth's eight points his brightness hath illumined, three desert regions and the Seven Rivers.
God Savitar the gold-eyed hath come hither, giving choice treasures unto him who worships.
The eight humps of the earth he has surveyed, the three wastelands three wagon-treks (wide), the seven rivers.
Golden-eyed god Savitar has come hither, establishing desirable treasures for the pious man.
Er hat bestrahlt der Erde acht Gebirge, drei Strecken Landes und die sieben Ströme, Gott Savitar mit goldnen Augen nahte, dem frommen Diener schöne Schätze spendend.
Er überschaut die acht Spitzen der Erde, die drei Ebenen meilenweit, die sieben Ströme. Der goldaugige Gott Savitri ist gekommen, der dem Opferspender die begehrenswerten Kleinode bringt.
Он озирал восемь вершин земли,
Равнину (длиной) в три перегона, семь рек.
Прошел златоокий бог Савитар,
Дающий желанные сокровища почитающему (его).
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते । अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥
हिर॑ण्यऽपाणिः । स॒वि॒ता । विऽच॑र्षणिः । उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तः । ई॒य॒ते॒ । अप॑ । अमी॑वाम् । बाध॑ते । वेति॑ । सूर्य॑म् । अ॒भि । कृ॒ष्णेन॑ । रज॑सा । द्याम् । ऋ॒णो॒ति॒ ॥
हिरण्यपाणिः सुवर्णमयहस्तयुक्तः । यद्वा । यजमानेभ्यो दातुं हिरण्यं हस्ते धृतवान् । विचर्षणिः विविधदर्शनयुक्तः । विचर्षणिः पश्यत्यर्थः। विचर्षणिः विश्वचर्षणिः' (नि. ३. ११. ६) इति तन्नामसु पाठात् । सविता देवः उभे द्यावापृथिवी अन्तः उभयोर्लोकयोर्मध्ये ईयते गच्छति । अमीषां रोगादिबाधाम् अप बाधते सम्यक् निराकरोति । तथा सूर्यं वेति गच्छति । यद्यपि सवितृसूर्ययोरेकदेवतात्वं तथापि मूर्तिभेदेन गन्तृगन्तव्यभावः । कृष्णेन तमसः कर्षकेण निवर्तकेन रजसा तेजसा द्याम् आकाशम् 'अभि ऋणोति सर्वतो व्याप्नोति ॥ द्यावापृथिवी । ‘ दिवसश्च पृथिव्याम् ' ( पा. सू. ६. ३. ३०) इति चशब्दात् दिव्शब्दस्य द्यावादेशः । ‘ देवताद्वन्द्वे च' इत्युभयपदप्रकृतिस्वरत्वम्। ‘ नोत्तरपदेऽनुदात्तादौ ' (पा. सू. ६. २. १४२ ) इति न निषेधः, ‘ °अपृथिवीरुद्रपूषमन्थिषु' इति पर्युदस्तत्वात् । ईयते । ‘ ईङ् गतौ । तिङ्ङतिङः' इति निघातः । बाधते । बाधते च वेति चेति समुच्चयार्थप्रतीतेः चशब्दस्याप्रयोगात् ‘चादिलोपे विभाषा ' इति निघातप्रतिषेधः । वेति।' वी गतिप्रजनकान्त्यशनखादनेषु । अदादित्वात् शपो लुक् । तिपः पित्त्वानुदात्तत्वे धातुस्वरः । यद्यप्येषा द्वितीया तथापि तिङः परत्वात् निघाताभावः । ऋणोति । ‘ऋणु गतौ ' । तनादित्वात् उः । तनादिषु करोतेरेव गुणो नान्येषामिति आपिशलिमतेन गुणाभावः ॥ .
“The gold-handed, all-beholding, Savitā travels between the two regions of heaven and earth, dispels diseases, approaches the sun, and overspreads the sky with gloom, alternating radiance.”
The golden-handed Savitar, far-seeing, goes on his way between the earth and heaven,
Drives away sickness, bids the Sun approach us, and spreads the bright sky through the darksome region.
Golden-palmed Savitar, whose boundaries are distant, shuttles between both, both heaven and earth.
He thrusts away affliction; he pursues the sun; he reaches to heaven
through the black realm.
Gott Savitar mit seinen goldnen Händen geht geschäftig wirkend zwischen Erd' und Himmel hin, Vertreibt Bedrängniss, führt herauf den Sonnengott, durch dunkeln Luftraum eilet er zum Himmel hin.
Savitri mit der goldenen Hand, der Ausgezeichnete, fährt zwischen beiden, zwischen Himmel und Erde. Er vertreibt die Krankheit, treibt die Sonne an; er reicht mit dem schwarzen Dunst bis an den Himmel.
Златорукий Савитар, повелитель людского рода,
Странствует между обоими: между небом и землей.
Он гонит прочь болезнь, приводит в движение солнце.
Он спешит на небо через черное пространство.
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् । अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥
हिर॑ण्यऽहस्तः । असु॑रः । सु॒ऽनी॒थः । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् । अ॒प॒ऽसेध॑न् । र॒क्षसः॑ । या॒तु॒ऽधाना॑न् । अस्था॑त् । दे॒वः । प्र॑तिऽदो॒षम् । गृ॒णा॒नः ॥
हिरण्यहस्तः असुरः प्राणदाता सुनीथः सुष्ठु नेता प्रशस्य इत्यर्थः । ‘सुनीथः पाकः' ( नि. ३. ८.७) इति प्रशस्यनामसु पाठात् । सुमृळीकः सुष्ठु सुखयिता स्ववान् धनवान् अर्वाङ् अभिमुख: कर्मदेशे गच्छतु । किंचायं देवः प्रतिदोषं प्रतिरात्रि गृणानः स्तूयमानः अस्थात् स्थितवान् । किं कुर्वन् । रक्षसः बाधकत्वेन रक्षणनिमित्तभूतान् ‘ रक्षो रक्षितव्यमस्मात् ' ( निरु. ४. १८) इति यास्कः। यातुधानान् असुरान् अपसेधन् निराकुर्वन् । हिरण्यहस्तादयो गताः । सुमृळीकः। सुष्ठु मृळीकं सुखं यस्यासौ तथोक्तः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । स्ववान्। स्वम् अस्यास्तीति स्ववान् । ‘ मादुपधायाः०' इति वत्वम् । संहितायां नकारस्य दीर्घादटि समानपादे' इति रुत्वम् । आतोऽटि नित्यम्' इति सानुनासिक आकारः । रोर्यत्वम्। यलोपश्च। अपसेधन् । षिधु गत्याम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण कृदुत्तरपदप्रकृतिस्वरत्वम् । रक्षसः । ‘ रक्ष पालने ' इत्यस्मात् अपादाने औणादिकः असिप्रत्ययः । यद्वा । रक्षन्त्यनेनेति रक्षो बलम् । करणेऽसुन् । तदेषामस्तीति रक्षस्विनः । मत्वर्थप्रत्ययलोपश्छान्दसः । प्रत्ययस्वरः । यातुधानान् । ‘ यत निकारोपसंस्कारयोः । तस्मात् ण्यन्तात् औणादिको भावे उप्रत्ययः। यातवो यातना एषु धीयन्ते इति यातुधानाः । अधिकरणे ल्युट् । ‘लिति' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । अस्थात् । गातिस्था' इति सिचो लुक् । प्रतिदोषम् । दोषांदोषाम् । प्रति वीप्सालक्षणे यथार्थे । अव्ययीभावः । गृणानः । गॄ शब्दे । कर्मणि लटः शानच् । व्यत्ययेन श्ना। ‘ प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । ‘ चितः' इत्यन्तोदात्तत्वम् ॥
ये ते॒ पन्था॑ः सवितः पू॒र्व्यासो॑ऽरे॒णव॒ः सुकृ॑ता अ॒न्तरि॑क्षे ।
“May the golden-handed, life-bestowing, well-guiding, exhilarating, and affluent Savitā, be present (at the sacrifice); for the deity, if worshipped in the evening, it at hand, driving away rākṣas and yātudhānas.”
May he, gold-handed Asura, kind Leader, come hither to us with his help and favour.
Driving off Raksasas and Yatudhanas, the God is present, praised in hymns at evening.
The golden-handed lord of good guidance, of good grace, of good help—let him drive in our direction.
Repelling demons and sorcerers, the god has taken his place facing
evening, while being hymned.
Der Gott mit goldnen Händen, sicher leitend, er komme her mit schöner Huld und Hülfe; Gespenster und die Zauberer vertilgend erhob der Gott sich, abendlich gepriesen.
Der Asura mit der goldenen Hand, der gute Weiser, der Barmherzige, Hilfreiche soll herwärts kommen. Die Unholde und Zauberer abwehrend steht der Gott allabendlich da, der Gepriesene.
Златорукий Асура, добрый вождь,
Милосердный, прекрасно помогающий, пусть придет сюда!
Прогоняя прочь ракшасов (и) колдунов,
Каждый вечер стоит бог, воспеваемый.
ये ते॒ पन्था॑: सवितः पू॒र्व्यासो॑ऽरे॒णव॒: सुकृ॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभि॑: सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥
ये । ते॑ । पन्थाः॑ । स॒वि॒त॒रिति॑ । पू॒र्व्यासः॑ । अ॒रे॒णवः॑ । सुऽकृ॑ताः । अ॒न्तरि॑क्षे । तेभिः॑ । नः॒ । अ॒द्य । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । रक्ष॑ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ ॥
हे सवितः ते तव पन्थाः मार्गाः पूर्व्यासः पूर्वसिद्धाः अरेणवः धूलिरहिताः अन्तरिक्षे सुकृताः सुष्ठु संपादिताः । सुगेभिः सुष्ठु गन्तुं शक्यैः तेभिः पथिभिः तैर्मार्गैरागत्य अद्य अस्मिन् दिने नः अस्मान् रक्ष च पालनमपि कुरु। तथा हे देव नः अस्मान् अनुष्ठातॄन् अधि ब्रूहि च देवानामग्रेऽधिकत्वेन कथय च ॥ पन्थाः । ‘ सुपां सुलुक्° ' इति जसः सुः । पथिमथोः सर्वनामस्थाने ' इत्याद्युदात्तत्वम् । पूर्व्यासः । पूर्वैः कृताः पूर्व्यः । पूर्वैः कृतमिनियौ च' (पा. सू. ४. ४. १३३ ) इति यः । प्रत्ययस्वरः । असुगागमः । अरेणवः । ‘ नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सुकृताः । कर्मणि क्तः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सुगेभिः । सुष्ठु गच्छन्त्येष्विति सुगाः । ‘ सुदुरोरधिकरणे' (पा. सू. ३. २. ४८.३) इति गमेर्डप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रक्ष ।' द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः ॥ ॥ ७ ॥
“Your paths, Savitā, are prepared of old, and free from dust, and well plural ced in the firmament; (coming) by those paths easy to be traversed, preserve us today. Deity, speak to us.”
O Savitar, thine ancient dustless pathways are well established in the air's mid-region:
O God, come by those paths so fair to travel, preserve thou us from harm this day, and bless us.
Your age-old paths, Savitar, dustless, well-made in the midspace, along these easily passable paths (come) to us today. Both guard us and speak on our behalf, o god.
The next eight hymns (I.36–43) are attributed to Kaṇva Ghaura, and the Kaṇva family is named a number of times in this sequence. It is noteworthy that this collec tion does not contain a hymn to Indra. However, there are three hymns (I.37–39) to the Maruts, Indra’s regular companions, and the following hymn, I.40, is dedicated to Brahmaṇaspati. Indra figures prominently in that hymn and is in fact identified with Brahmaṇaspati in it.
For the most part the style of these hymns is uncomplex but nicely balanced.
Auf deinen Pfaden, Savitar, den alten, die staublos sind und schöngebahnt im Luftraum, Die schön zu gehn sind, komm auf denen heute, und schütze uns, o Gott, und sprich uns Muth ein.
Deine früheren Pfade, die staublosen, wohlbereiteten in der Luft, o Savitri, auf diesen wegsamen Pfaden komm auch heute zu uns; schütze uns und segne uns, o Gott!
(Те,) что прежние пути твои, Савитар,
Непыльные: хорошо проложенные в воздушном пространстве,
(Приди) по этим легкопроходимым путям к нам сегодня
И защити нас и утешь, о бог!