प्र वो॑ य॒ह्वं पु॑रू॒णां वि॒शां दे॑वय॒तीना॑म् । अ॒ग्निं सू॒क्तेभि॒र्वचो॑भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ॥
प्र । वः॒ । य॒ह्वम् । पु॒रू॒णाम् । वि॒शाम् । दे॒व॒ऽय॒तीना॑म् । अ॒ग्निम् । सु॒ऽउ॒क्तेभिः॑ । वचः॑ऽभिः । ई॒म॒हे॒ । यम् । सी॒म् । इत् । अ॒न्ये । ईळ॑ते ॥
हे ऋत्विग्यजमानाः देवयतीनां देवान् कामयमानानां पुरूणां बहूनां विशां प्रजारूपाणां वः युष्माकमनुग्रहाय यह्वं महान्तम् । 'यह्वः ववक्षिथ ' (नि. ३.३.१३) इति महन्नामसु पाठात् । अग्निं सूक्तेभिर्वचोभिः सूक्तरूपैर्वाक्यैः प्र ईमहे प्रकर्षेण याचामहे ।' ईमहे यामि' ( नि. ३.१९.१ ) इति याञ्चाकर्मसु पाठात् । अन्ये इत् अन्येऽपि ऋषयः यम् अग्निं सीं सर्वतः ईळते स्तुवन्ति । तमग्निमिति पूर्वत्रान्वयः ॥ पुरूणाम् । ‘नामन्यतरस्याम्' इति नाम उदात्तत्वम् । विशाम् । ‘ सावेकाचः० ' इति विभक्तेरुदात्तत्वम् । देवयतीनाम् । देवानात्मन इच्छन्त्यो देवयन्त्यः । ‘ सुप आत्मनः क्यच् । न च्छन्दस्यपुत्रस्य ' इति ईत्वस्येव दीर्घस्यापि प्रतिषेधः, ‘ अश्वाघस्यात् ' इति पुनः आत्वविधानात् ज्ञापकात् । क्यजन्तात् लटः शतृ । कर्तरि शप् । शपः पित्त्वादनुदात्तत्वम्। शतुश्च लसार्वधातुकस्वरेण क्यचा सह एकादेशे ‘ एकादेश उदात्तेनोदात्तः' इति शतुरुदात्तत्वम् ।' उगितश्च ' इति ङीप् ।' अनित्यमागमशासनम्' इति वचनात् नुमभावः; एकादेशस्वरस्य पूर्वत्रासिद्धत्वं नेष्यते इति वचनात् (पा. सू. ८. २. ६. १ ) । शतुरुदात्तत्वं सिद्धमेवेति ‘शतुरनुमः' इति नद्या उदात्तत्वम् । सूक्तेभिः । वक्तेः ‘क्तिच्क्तौ च संज्ञायाम् ' इति क्तः । थाथादिना उत्तरपदान्तोदात्तत्वम् ।
ईळते । ‘ईड स्तुतौ' । अदादित्वात् शपो लुक्। अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥
“We implore with sacred hymns the mighty Agni, whom other (ṛṣis) also praise, for the benefit of you who are many people, worshipping the gods of you who are many people, worshipping the gods.”
WITH words sent forth in holy hymns, Agni we supplicate, the Lord
Of many families who duly serve the Gods, yea, him whom others also praise.
We implore 1 with well-spoken words the vigorous 2 Agni who belongs to many people 3, to the clans that worship the gods 4, whom other people (also) magnify.
We appeal for you with well-spoken speeches to the youthfully exuberant (fire) of the many (peoples), of the clans that serve the gods,
to Agni—just the one whom the others (also) reverently invoke.
Wir flehen euren Agni an, mit schöngesprochnen Sprüchen ihn, Der emsig wirkt für viele, für den treuen Stamm, ihn, den ja andre preisen auch.
Wir treten für euch mit wohlgesetzten Reden vor Agni, den Jüngsten unter vielen, den Herrn der gottergebenen Stämme, den auch die anderen anrufen.
К юному среди многих (огней)
К (богу) племен, преданных богам,
К Агни мы обращаемся для вас с прекрасно произнесенными речами.
К тому самому, кого призывают и другие.
जना॑सो अ॒ग्निं द॑धिरे सहो॒वृधं॑ ह॒विष्म॑न्तो विधेम ते । स त्वं नो॑ अ॒द्य सु॒मना॑ इ॒हावि॒ता भवा॒ वाजे॑षु सन्त्य ॥
जना॑सः । अ॒ग्निम् । द॒धि॒रे॒ । स॒हः॒ऽवृध॑म् । ह॒विष्म॑न्तः । वि॒धे॒म॒ । ते॒ । सः । त्वम् । नः॒ । अ॒द्य । सु॒ऽमनाः॑ । इ॒ह । अ॒वि॒ता । भव॑ । वाजे॑षु । स॒न्त्य॒ ॥
जनासः अनुष्ठातारो जनाः सहोवृधं बलस्य वर्धयितारम् अग्निं दधिरे धृतवन्तः । हविमन्तः हविर्युक्ता वयं हे अग्ने ते त्वां विधेम परिचरेम । विधतिः परिचरणकर्मा । विधेम सपर्यति' (नि. ३.५.२) इति परिचरणर्मसु पठितत्वात् । वाजेषु अन्नेषु सन्त्य दानशील हे अग्ने स त्वम् अद्य अस्मिन् दिने इह कर्मणि नः अस्मान् प्रति सुमनाः शोभनमनस्कः अविता रक्षिता भव ॥ सहोवृधम् । वृधु वृद्धौ । अस्मात् अन्तर्भावितण्यर्थात् क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । हविष्मन्तः । ‘ तसौ मत्वर्थे ' इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः । विधेम । ‘ विध विधाने '। तुदादित्वात् शः । सुमनाः। शोभनं मनो यस्यासौ सुमनाः । ‘ सोर्मनसी अलोमोषसी 'इत्युत्तरपदाद्युदात्तत्वम् । भव । पादादित्वात् ' तिङ्ङतिङः' इति निघाताभावः । द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । सन्त्य। ‘षणु दाने'। क्तिचि ‘तितुत्र' इत्यादिना इट्प्रतिषेधः । ‘न क्तिचि दीर्घश्च' (पा. सू. ६. ४. ३९ ) इत्यनुनासिकलोपदीर्घयोर्निषेधः । सन्तिर्दाता । तत्र भवः सन्त्यः । ‘ भवे छन्दसि ' इति यत् ॥
“Men have recourse to Agni, the augmenter of vigour; offering oblations, we worship you; do you liberal giver of food, be well disposed to us here this day, and be our protector.”
Men have won Agni, him who makes their strength abound: we, with oblations, worship thee.
Our gracious-minded Helper in our deeds of might, be thou, O Excellent, this day.
Men have placed Agni (on the altar) as the augmenter of strength. May we worship thee, rich in sacrificial food. Thus be thou here to-day gracious to us, a helper in our striving for gain, O good one!
The peoples have installed Agni, the increaser of might. Bringing oblations, we would do honor to you.
Become today our benevolent helper here when prizes (are at stake), o comrade.
Die Menschen schafften Agni sich zum Kräftiger, wir wollen opfernd dienen dir; So sei du heut ein wohlgesinnter Helfer uns bei diesen Opfern, trefflicher!
Die Menschen haben den Agni zum Mehrer ihrer Stärke gemacht; mit Opferspenden wollen wir dienen. Sei du uns heute hier ein wohlgesinnter Helfer in den Entscheidungskämpfen, du Wahrhaftiger!
Люди установили (Агни) как (жреца,) взращенного силой.
Принося жертвенные возлияния, мы хотим служить тебе.
Ты здесь сегодня помощником, благосклонным к нам,
Будь при (получении) наград в состязаниях, о истинный!
प्र त्वा॑ दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम् । म॒हस्ते॑ स॒तो वि च॑रन्त्य॒र्चयो॑ दि॒वि स्पृ॑शन्ति भा॒नव॑: ॥
प्र । त्वा॒ । दू॒तम् । वृ॒णी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् । म॒हः । ते॒ । स॒तः । वि । च॒र॒न्ति॒ । अ॒र्चयः॑ । दि॒वि । स्पृ॒श॒न्ति॒ । भा॒नवः॑ ॥
हे अग्ने होतारं होमनिष्पादकमाह्वातारं वा विश्ववेदसं सर्वज्ञं दूतं देवानां दूत्ये प्रवृत्तम् । • अग्निर्वै देवानां दूत आसीत्' इति श्रुत्यन्तरात् । तादृशं त्वां प्र वृणीमहे प्रकर्षेण वरणं कुर्मः। महः महतः सतः नित्यं वर्तमानस्य ते तव अर्चयः दीप्तयः वि चरन्ति विविधं प्रचरन्ति । भानवः त्वदीया रश्मयः दिवि द्युलोके स्पृशन्ति तत्रत्यान् प्राणिनः प्रकाशयन्तीत्यर्थः ॥ विश्ववेदसम् । विश्वानि वेत्तीति विश्ववेदाः । असुन् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । यद्वा।' वेदः' इति धननाम (नि. २. १०. ४)। विश्वं वेदो धनं यस्य । ‘बहुव्रीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । महः । ‘ मह पूजायाम्'। ' क्विप् च' इति क्विप् । 'सावेकाचः' इति ङस उदात्तत्वम् । यद्वा । महच्छब्दे अच्छब्दलोपश्छान्दसः । सतः । अस्तेः शतरि ' असोरल्लोपः' इति अकारलोपः । ‘ शतुरनुमः' इति विभक्तेरुदात्तत्वम् । दिवि ।' उडिदम्' इति विभक्तेरुदात्तत्वम् ॥
“We select you, Agni, the messenger and invoker of the gods, who are endowed with all knowledge. The flames of you, who are mighty and eternal, spread around the rays, touch of the heavens.”
Thee for our messenger we choose, thee, the Omniscient, for our Priest.
The flames of thee the mighty are spread wide around: thy splendour reaches to the sky.
We choose thee, the all-possessor, as our messenger and as our Hotri. The flames of thee, who art great, spread around; thy rays touch the heaven.
We choose you as messenger, as the Hotar who affords all possessions. Since you are great, your flames range widely; your radiant beams
touch heaven.
Dich wählen wir zum Boten uns, zum Priester dich allwissenden; Von dir, dem grossen, steigen rings die Flammen auf, bis an den Himmel reicht dein Glanz.
Dich erwählen wir zum Hotri den Allkundigen. Wenn du groß bist, so breiten sich deine Flammen aus, deine Strahlen reichen zum Himmel.
Мы выбираем тебя вестником,
Жрецом всеведущим.
Когда ты становишься большим, далеко расходятся языки (твоего) пламени,
Лучи касаются неба.
दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा सं दू॒तं प्र॒त्नमि॑न्धते । विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते॑ द॒दाश॒ मर्त्य॑: ॥
दे॒वासः॑ । त्वा॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । सम् । दू॒तम् । प्र॒त्नम् । इ॒न्ध॒ते॒ । विश्व॑म् । सः । अ॒ग्ने॒ । ज॒य॒ति॒ । त्वया॑ । धन॑म् । यः । ते॒ । द॒दाश॑ । मर्त्यः॑ ॥
हे अग्ने वरुणादयस्त्रयः देवासः देवाः प्रत्नं पुरातनं दूतं त्वां सम् इन्धते सम्यक् दीपयन्ति यः मर्त्यः मनुष्यो यजमानः ते तुभ्यं ददाश हविर्दत्तवान् सः यजमानः त्वया सहायभूतेन विश्वं सर्वं धनं जयति ॥ अर्यमा । अर्यान्मिमीते इत्यर्यमा । ‘ श्वनुक्षन्० ) ( उ. सू. १. १५७) इत्यादिना कनिन्प्रत्ययान्तो निपातितः । इन्धते । ‘ ञिइन्धी दीप्तौ ' । अस्मात् लटि झस्य अदादेशे श्नम् । ‘ श्नान्नलोपः ' ( पा. सू. ६. ४. २३ )। श्नसोरल्लोपः' इति अकारलोपः । ददाश । ‘ दाशृ दाने ' । लिटि णलि लित्स्वरेण प्रत्ययात्पूर्वस्य आकारस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥
“The deities Varuṇa, Mitra and Aryaman kindle you, (their) ancient messenger. The man who has offered you (oblations), obtains through you, Agni, universal wealth.”
The Gods enkindle thee their ancient messenger,--Varuna, Mitra, Aryaman.
That mortal man, O Agni, gains through thee all wealth, who hath poured offerings unto thee.
The gods, Varuna, Mitra, Aryaman, kindle thee, the ancient messenger. The mortal, O Agni, who worships thee, gains through thee every prize.
The gods Varuṇa, Mitra, and Aryaman kindle you, their primordial messenger.
With you, o Agni, that one wins every stake—the mortal who ritually serves you.
Als alten Boten zünden dich die Götter an, Varuna, Mitra, Arjaman; Durch dich gewinnet alles Gut der Sterbliche, der dir, o Agni, huldiget.
Die Götter Varuna, Mitra, Aryaman zünden dich, den altgewohnten Boten an. Jeden Siegespreis gewinnt durch dich, Agni, der Sterbliche, der dir gespendet hat.
Боги: Варуна, Митра, Арьяман – тебя,
Древнего вестника, вместе зажигают.
О Агни, благодаря тебе любую добычу завоевывает
(Тот) смертный, кто тебя почитает.
म॒न्द्रो होता॑ गृ॒हप॑ति॒रग्ने॑ दू॒तो वि॒शाम॑सि । त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा अकृ॑ण्वत ॥
म॒न्द्रः । होता॑ । गृ॒हऽप॑तिः । अग्ने॑ । दू॒तः । वि॒शाम् । अ॒सि॒ । त्वे इति॑ । विश्वा॑ । सम्ऽग॑तानि । व्र॒ता । ध्रु॒वा । यानि॑ । दे॒वाः । अकृ॑ण्वत ॥
हे अग्ने त्वं मन्द्रः हर्षहेतुः होता देवानामाह्वाता विशां यजमानरूपाणां प्रजानां गृहपतिः गृहस्य पालकः दूतः देवदूतः असि । त्वे त्वयि विश्वा व्रता सर्वाणि कर्माणि संगतानि । ‘ व्रतं कर्वरम् ' ( नि. २. १. ७) इति कर्मनामसु व्रतशब्दः पठितः । पृथिव्यादयः देवाः ध्रुवा स्थिराणि यानि कर्माणि अकृण्वत कृतवन्तः । पृथिवी धारयति पर्जन्यो वर्षति सूर्यः प्रकाशयति तान्येतानि त्वयि संगतानीति पूर्वत्रान्वयः ॥ गृहपतिः । ‘पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । ‘ सुपां सुलुक् ' इति सप्तम्येकवचनस्य शेआदेशः । त्वमावेकवचने' इति मपर्यन्तस्य त्वादेशः । ‘ शेषे लोपः' इति टिलोपपक्षे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम्; अन्त्यलोपपक्षे तु एकादेशस्वरेण । संगतानि । गमेः कर्मणि निष्ठायाम् ' एकाचः° ' (पा. सू. ७. २. १०) इति इट्प्रतिषेधः । ‘ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः। ‘गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । व्रता ध्रुवा इत्युभयत्र शेर्लोपः । अकृण्वत । ‘ कृवि हिंसाकरणयोश्च । व्यत्ययेनात्मनेपदम् । इदित्त्वात् नुम् । ‘ धिन्विकृण्व्योर च' इति उप्रत्ययः ॥ ॥ ८ ॥
“You, Agni, are the giver of delight, the invoker and messenger of the gods, the domestic guardian of mankind; the good and durable actions which the gods perform are all aggregated in you.”
Thou, Agni, art a cheering Priest, Lord of the House, men's messenger:
All constant high decrees established by the Gods, gathered together, meet in thee.
Thou art the cheerful Hotri and householder, O Agni, the messenger of the clans. In thee all the firm laws are comprised which the gods have made 1.
You are the delighting Hotar, the lord of the household, and the messenger of the clans.
In you are gathered together all the enduring commandments that the gods made.
Der Menschen Bote, Hauses Herr, ein Priester hold bist Agni du; In dir vereinen alle festen Bräuche sich, die von den Göttern eingesetzt.
Der wohlredende Hotri und Hausherr und Bote der Clangenossen bist du Agni. In dir laufen all die feststehenden Satzungen zusammen, die die Götter geschaffen haben.
Ты – радостный хотар, хозяин дома,
О Агни, вестник племен.
В тебе сошлись все верные обеты,
Которые создали боги.
त्वे इद॑ग्ने सु॒भगे॑ यविष्ठ्य॒ विश्व॒मा हू॑यते ह॒विः । स त्वं नो॑ अ॒द्य सु॒मना॑ उ॒ताप॒रं यक्षि॑ दे॒वान्त्सु॒वीर्या॑ ॥
त्वे । इत् । अ॒ग्ने॒ । सु॒भगे॑ । य॒वि॒ष्ठ्य॒ । विश्व॑म् । आ । हू॒य॒ते॒ । ह॒विः । सः । त्वम् । नः॒ । अ॒द्य । सु॒ऽमनाः॑ । उ॒त । अ॒प॒रम् । यक्षि॑ । दे॒वान् । सु॒ऽवीर्या॑ ॥
हे यविष्ठ्य युवतम अग्ने सुभगे सौभाग्ययुक्ते त्वे इत् त्वय्येव विश्वं सर्वं हविः आ हूयते सर्वतः प्रक्षिप्यते । स त्वं नः अस्मान्प्रति सुमनाः शोभनमनस्को भूत्वा अद्य अस्मिन् दिने उत अपि च अपरं श्वः परश्व इत्यादिकमुत्तरं कालं सर्वस्मिन्नपि काले नैरन्तर्येण सुवीर्या शोभनवीर्योपेतान् देवान् यक्षि यज ॥ सुभगे । शोभनो भगो यस्येति बहुव्रीहौ आद्युदात्तत्वम् । ‘ द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । यविष्य्ी । युवशब्दात् इष्ठन् । स्थूलदूर ' इत्यादिना यणादेः परस्य लोपः पूर्वस्य च गुणः । छान्दसो यकारोपजनः । यक्षि। ‘ बहुलं छन्दसि' इति शपो लुक् । सुवीर्या । शोभनं वीर्यं येषाम् । वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । ‘सुपां सुलुक्' इति विभक्तेः आकारः ॥
“Youthful and auspicious Agni, whatever oblation may be presented to you, do you, well disposed towards us; either now or at any other time, convey it to the powerful gods.”
In thee, the auspicious One, O Agni, youthfullest, each sacred gift is offered up:
This day, and after, gracious, worship thou our Gods, that we may have heroic sons.
In thee, the blessed one, O Agni, youngest god, all sacrificial food is offered. Sacrifice then thou who art gracious to us to-day and afterwards 1 to the gods that we may be rich in valiant men.
Just in you who bring good fortune is every oblation poured, o
youngest Agni.
Benevolent toward us today and in the future, sacrifice to the gods for masses of good heroes.
In dich, o Agni, giesst man jeden Opfertrank, in dich, den reichen, jüngster du! So sei uns heute wohlgesinnt und künftighin; die Götter ehr', die Heldenschar.
Nur in dir, dem Glückbringer, o jüngster Agni, wird jegliche Spende geopfert. Sei du uns heute und künftig wohlgesinnt. Bitte die Götter um Meisterschaft für uns!
Только в тебя, о Агни благодатный, о самый юный,
Изливается любая жертва.
(Будь) ты благосклонен к нам ныне и присно!
Приноси жертвы богам ради обилия героев (у нас)!
तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । होत्रा॑भिर॒ग्निं मनु॑ष॒: समि॑न्धते तिति॒र्वांसो॒ अति॒ स्रिध॑: ॥
तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ । होत्रा॑भिः । अ॒ग्निम् । मनु॑षः । सम् । इ॒न्ध॒ते॒ । ति॒ति॒र्वांसः॑ । अति॑ । स्रिधः॑ ॥
हे अग्ने नमस्विनः अन्नयुक्ता नमस्कारयुक्ता वा । नमः आयुः सूनृता '( नि. २. ७. २२ ) इति अन्ननामसु पाठात् नमःशब्दस्यान्नवाचित्वम् । तादृशा यजमानाः स्वराजं स्वतो दीप्यमानं तं घें तमेव पूर्वोक्तसर्वगुणविशिष्टं त्वाम् इत्था अनेन प्रकारेण हविष्प्रदानादिरूपेण उप आसते । मनुषः मनुष्या यजमानाः होत्राभिः सप्तभिर्वषट्कर्तृभिः । ‘सप्त होत्राः प्राचीर्वषट्कुर्वन्ति' (तै.ब्रा.२.३.६.४) इति श्रुत्यन्तरात् । अग्निं त्वां समिन्धते सम्यग्दीपयन्ति । कीदृशा मनुष्याः । स्रिधः शत्रून् अति तितिर्वांसः अतिशयेन तरन्तः ॥ नमस्विनः । अस्मायामेधा ' इति मत्वर्थीयो विनिः । स्वराजम् । स्वभासा राजते इति स्वराट् ।' सत्सूद्विष° ' इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । आसते । आस
उपवेशने' । अदादित्वात् शपो लुकु । तितिर्वांसः । ‘तॄ प्लवनतरणयोः । । । छन्दसि लिट् ' इति वर्तमाने लिट् । तस्य • क्वसुश्च ' इति क्वसुः । वस्वेकाजाद्धसाम्' इति नियमात् इडभावः । ‘ ऋत इद्धातोः' इति इत्वम् । ‘ ऋच्छत्यॄताम् ' ( पा. सू. ७. ४. ११ ) इति गुणः ' हलि च ' ( पा.. ८. २. ७७ ) इति दीर्घत्वं च न भवति, ' संज्ञापूर्वको विधिरनित्यः' इति तयोरनित्यत्वात् । यद्वा । तिरतिः प्रकृत्यन्तरं द्रष्टव्यम् । स्रिधः । ‘ स्रिधु शोषणे'। ‘क्विप् च ' इति क्विप् ॥
“In this manner the devout adore you, who are such (as described), bright with your own radiance. Men, with (seven) ministrant priests, kindle Agni (with oblations), victorious over their enemies.”
To him in his own splendour bright draw near in worship the devout.
Men kindle Agni with their sacrificial gifts, victorious o'er the enemies.
Him, the king, verily the adorers approach reverentially. With oblations men kindle Agni, having overcome all failures.
Bringing homage, they reverently approach him, their sovereign king, just so.
With their oblations the sons of Manu kindle Agni, after they have
crossed beyond failures.
Den Selbstbeherrscher ehrend sitzt um ihn mit Ernst der Beter Schar; Die Menschen flammen Agni an durch Opferguss, wenn ihre Feinde sie besiegt.
Gar ehrfürchtig warten sie dem Selbstherrscher auf. Mit Opfergaben entflammen die Menschen den Agni, nachdem sie den Fehlschlägen entgangen sind.
Ведь это ему, самодержцу,
Служат истинно поклоняющиеся.
Люди зажигают Агни с помощью возлияний,
Преодолев неудачи.
घ्नन्तो॑ वृ॒त्रम॑तर॒न्रोद॑सी अ॒प उ॒रु क्षया॑य चक्रिरे । भुव॒त्कण्वे॒ वृषा॑ द्यु॒म्न्याहु॑त॒: क्रन्द॒दश्वो॒ गवि॑ष्टिषु ॥
घ्नन्तः॑ । वृ॒त्रम् । अ॒त॒र॒न् । रोद॑सी॒ इति॑ । अ॒पः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । भुव॑त् । कण्वे॑ । वृषा॑ । द्यु॒म्नी । आऽहु॑तः । क्रन्द॑त् । अश्वः॑ । गोऽइ॑ष्टिषु ॥
हे अग्ने घ्न्तः त्वत्सहायेनेतरे देवाः प्रहरन्तः वृत्रम् अतरन् तीर्णवन्तः । तदनन्तरं रोदसी द्यावापृथिव्यौ अपः अन्तरिक्षं च क्षयाय प्राणिनां निवासार्थम् उरु विस्तारो यथा भवति तथा चक्रिरे । अप्शब्दोऽन्तरिक्षवाची । आपः पृथिवी ' ( नि. १. ३.८) इति तन्नामसु पठितत्वात् । भवांस्तु कण्वे कण्वनामके महर्षौ वृषा कामानां वर्षिता द्युम्नी धनवान् आहुतः सर्वतो होमयुक्तश्च भुवत् भवतु । तत्र दृष्टान्तः। गविष्टिषु गोविपयेच्छायुक्तेषु संग्रामेषु अश्वः क्रन्दत् शब्दं कुर्वन् यथाभीष्टप्रापकस्तथेति शेषः ॥ घ्नन्तः । हन्तेः शतरि ‘गमहन° ' इत्यादिना उपधालोपः । ‘ हो हन्तेर्ञ्णिन्नेषु' (पा. सू. ७. ३. ५४ ) इति ' घत्वम् । अपः । ‘ ऊडिदम्' इति शस उदात्तत्वम् । क्षयाय । ‘ क्षि निवासगत्योः '। क्षियन्ति निवसन्त्यस्मिन्निति क्षयो निवासस्थानम् । “ पुंसि संज्ञायां घः प्रायेण ' इति घः । ‘ क्षयो निवासे' ( पा. सू. ६. १. २०१ ) इत्याद्युदात्तत्वम् । भुवत् । भवतेर्लेटि अडागमः । ‘ इतश्च लोप:०' इति इकारलोपः । ‘ बहुलं छन्दसि ' इति शपो लुक् । ‘ भूसुवोस्तिङि' ( पा. सू. ७. ३. ८८ ) इति गुणप्रतिषेधः । अडागमस्य अनुदात्तत्वे धातुस्वरः । आहुतः । आहूयते इति आहुतः । ‘ हु दानादनयोः'। कर्मणि क्तः। ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । क्रन्दत् । ‘ कदि क्रदि क्लदि आह्वाने । शतरि नुमभावश्छान्दसः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । गविष्टिषु । ‘ इषु इच्छायाम् । एषणम् इष्टिः । गवामिष्टिर्येषु संग्रामेषु । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।
“The destroying (deities along with you) have slain Vṛtra; they have made earth and heaven and the firmament the spacious dwelling-plural ce (of living creatures); may Agni, possessed of wealth, when invoked, be a benefactor to Kaṇva, like a horse that neighs in a conflict for cattle.”
Vrtra they smote and slew, and made the earth and heaven and firmament a wide abode.
The glorious Bull, invoked, hath stood at Kanva's side: loud neighed the Steed in frays for kine.
Destroying the foe 1, they (victoriously) got through Heaven and Earth and the waters; they have made wide room for their dwelling. May the manly (Agni) 2, after he has received the oblations, become brilliant at the side of Kanva; may he neigh as a horse in battles.
Smashing their Vr̥tra [/obstacle], they crossed over the two world-halves and the waters and made for themselves a wide place for peaceful dwelling.
The bull [=Agni], brilliant when bepoured, came to be at Kaṇva’s side; the horse [=Agni] whinnied at the cattle-raids.
Sie nahmen, Feinde schlagend, Himmel, Erde, Meer, und schafften Raum sich zum Besitz; Zum Kanva kam der helle, der getränkte Stier, im Kampfe wieherte das Ross.
Sie erschlugen den Feind, den Vritra, und bemeisterten Himmel und Erde und die Gewässer; sie haben sich ein weites Land zum Wohnen bereitet. Bei Kanva ward der Bulle hellglänzend, wenn mit Schmalz begossen. Das Roß wieherte bei den Kriegszügen um Rinder.
Подавляя сопротивление, они пересекли два мира, воды.
Они создали широкое (пространство) для поселения.
Да возникнет у Канвы мужественный сверкающий бог, когда его полили (жертвенным маслом)!
Пусть ржет жеребец в набегах за коровами!
सं सी॑दस्व म॒हाँ अ॑सि॒ शोच॑स्व देव॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥
सम् । सी॒द॒स्व॒ । म॒हान् । अ॒सि॒ । शोच॑स्व । दे॒व॒ऽवीत॑मः । वि । धू॒मम् । अ॒ग्ने॒ । अ॒रु॒षम् । मि॒ये॒ध्य॒ । सृ॒ज । प्र॒ऽश॒स्त॒ । द॒र्स॒तम् ॥
हे अग्ने सं सीदस्व बर्हिष्युपविश । महान् असि गुणाधिको भवसि । देववीतमः अतिशयेन देवान् कामयमानः शोचस्व दीप्यस्व । हे मियेध्य मेधार्ह प्रशस्त उत्कृष्ट अग्ने अरुषं गमनशीलं दर्शतं दर्शनीयं धूमं वि सृज विशेषेण संपादय ॥ सीदस्व । षद्लृ विशरणगत्यवसादनेषु' । व्यत्ययेनात्मनेपदम् । प्रार्थनायां लोटि शपि पाघ्रा ' इत्यादिना सीदादेशः । महान् । संहितायां नकाराकारयोः रुत्वानुनासिकौ उक्तौ । शोचस्व । ‘शुच दीप्तौ' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । तिङः परत्वात् निघाताभावः। देववीतमः । वी गतिप्रजनकान्त्यशनखादनेषु' । देवान् वेति गच्छतीति देववीः । क्विप् च ' इति क्विप् । अतिशयेन देववीर्देववीतमः । तमपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । अरुषम् अरोषणम् । रिष रुष हिंसायाम्'। ‘घञर्थे कविधानम्' इति भावे कप्रत्ययः । नास्ति रुषोऽस्येति बहुव्रीहौ ‘नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । मियेध्य । छन्दसि च' इति अर्हार्थे यप्रत्ययः । मकारात्परः इयागमश्छान्दसः । सृज । ‘ सृज विसर्गे' । तुदादित्वात् शः । विकरणस्वरः । पादादित्वादनिघातः । दर्शतम् । भृमृदृशि° ' इत्यादिना दृशेः कर्मणि अतच्प्रत्ययः ॥
“Take your seat, Agni, on the sacred grass, for you are mighty; shine forth, for you are devoted to the gods; adorable and excellent Agni, emit the moving and graceful smoke.”
Seat thee, for thou art mighty; shine, best entertainer of the Gods.
Worthy of sacred food, praised Agni! loose the smoke, ruddy and beautiful to see.
Take thy seat; thou art great. Shine forth, thou who most excellently repairest to the gods. O Agni, holy god, emit thy red, beautiful smoke, O glorious one!
Sit together (with us): you are great. Blaze as the best at pursuing the gods. Let loose your beautiful red smoke in every direction, o lauded Agni, partaker of the ritual meal—
So setz dich nieder, gross bist du, erstrahle, Götternährendster, Den rothen Rauch, o Opfrer Agni, sende aus, den herrlichen, gepriesener!
Setz dich mit uns nieder; du bist groß, flamme auf, als der beste Götterlader! Entsende, du festlicher, gepriesener Agni, deinen rötlichen Rauch, den gerngesehenen!
Садись с (нами)! Ты велик.
Вспыхни, о лучший приглашатель богов!
О Агни, предназначенный для жертвенной пищи, красноватый дым (свой),
Приятный на вид, отбрось далеко, о прославленный!
यं त्वा॑ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन । यं कण्वो॒ मेध्या॑तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ॥
यम् । त्वा॒ । दे॒वासः॑ । मन॑वे । द॒धुः । इ॒ह । यजि॑ष्ठम् । ह॒व्य॒ऽवा॒ह॒न॒ । यम् । कण्वः॑ । मेध्य॑ऽअतिथिः । ध॒न॒ऽस्पृत॑म् । यम् । वृषा॑ । यम् । उ॒प॒ऽस्तु॒तः ॥
हे हव्यवाहन हविषो वाहकाग्ने मनवे मनोरनुग्रहाय देवासः सर्वे देवाः यजिष्ठम् अतिशयेन पूज्यं यष्टृतमं वा यं त्वाम् इह देवयजनदेशे दधुः धृतवन्तः । मेध्यातिथिः मेधार्हैरतिथिभिर्युक्तः कण्वः एतन्नामको महर्षिः यं त्वां धनस्पृतं धनेन प्रीणयितारं कृत्वा दधे इति शेषः। तथा वृषा इन्द्रः यं त्वां दधे । तथा उपस्तुतः अन्योऽपि स्तोता यजमानो यं त्वां दधे । स त्वं सं सीदस्वेति पूर्वत्रान्वयः ॥ दधुः । लिटि उसि कित्त्वे ' आतो लोप इटि च ' इति आकारलोपः । प्रत्ययस्वरः । यजिष्ठम् । यष्टृशब्दात् ‘तुश्छन्दसि ' ( पा. सू. ५. ३. ५९ ) इति अगुणवचनादपि आतिशायनिक इष्ठन् । तुरिष्ठेमेयःसु ' (पा. सू. ६. ४, १५४ ) इति तृलोपः । नित्त्वादाद्युदात्तत्वम् । हव्यवाहन । हव्यं वहतीति हव्यवाहनः । ‘ हव्येऽनन्तःपादम् ' ( पा. सू. ३. २. ६६ ) इति वहतेर्ञ्युट् । मेध्यातिथिः । मेध्या अतिथयो यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । धनस्पृतम् । धनैरस्मान् स्पृणोति प्रीणयतीति धनस्पृत् ।' स्पृ प्रीतिबलयोः । ‘ क्विप् च ' इति क्विप् । ततः तुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । उपस्तुतः । ‘ क्तिच्क्तौ च संज्ञायाम्' इति कर्तरि क्तः। थाथादिना उत्तरपदान्तोदात्तत्वम् ॥ ॥ ९ ॥
“Bearer of oblations, (you are he) whom the gods detained for the sake of Manu; whom, giver of wealth, Kaṇva, the host of pious guests, has detained; whom Indra detained, and whom (now) some other worshipper has detained.”
Bearer of offerings, whom, best sacrificing Priest, the Gods for Manu's sake ordained;
Whom Kanva, whom Medhyatithi made the source of wealth, and Vrsan and Upastuta.
Thou whom the gods have placed here for Manu as the best performer of the sacrifice, O carrier of oblations, whom Kanva and Medhyatithi, whom Vrishan and Upastuta 1 (have worshipped,) the winner of prizes.
Whom the gods installed here for Manu as the best sacrificer, o conveyor of the oblation,
whom Kaṇva (and?) Medhyātithi (installed) as the winner of stakes, whom Vr̥ṣan [/the bull], whom Upastuta [/the praised] (installed).
O Opferfahrer, den als besten Opfrer dich den Menschen gab die Götterschar, und Kanva und Medhjatithi als Beuteherrn und Vrischan und Upastuta.
Du, den die Götter für Manu hienieden bestellten als Bestopfernden, du Opferführer, den Kanva Medhyatithi, den Vrisan, den Upastuta entzündeten den Schätzegewinner.
Тебя, кого боги поместили сюда для Ману,
Как лучшего жертвователя, о везущий возлияния,
Кого (поместил) Канва Медхьятитхи
Кого – Вришан, как добивающегося добычи, кого – Упастута...
यम॒ग्निं मेध्या॑तिथि॒: कण्व॑ ई॒ध ऋ॒तादधि॑ । तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ॥
यम् । अ॒ग्निम् । मेध्य॑ऽअतिथिः । कण्वः॑ । ई॒घे । ऋ॒तात् । अधि॑ । तस्य॑ । प्र । इषः॑ । दी॒दि॒युः॒ । तम् । इ॒माः । ऋचः॑ । तम् । अ॒ग्निम् । व॒र्ध॒या॒म॒सि॒ ॥
मेध्यातिथिः' यागयोग्या अतिथय ऋत्विग्रूपा यस्य तादृशः कण्वः ऋषिः ऋतादधि आदित्यादध्याहृत्य यम् अग्निम् ईधे दीप्तवान् तस्य अग्नेः इषः गमनस्वभावा रश्मयः प्र दीदियुः प्रकर्षेण दीप्यन्ते । तथा तम् अग्निम् इमाः अस्माभिः प्रयुज्यमानाः ऋचः वर्धयन्तीति शेषः । वयमपि तमग्निं वर्धयामसि स्तोत्रैर्वर्धयामः ॥ ईधे । ञिइन्धी दीप्तौ । ‘ इन्धिभवतिभ्यां च ' ( पा. सू. १. २. ६ ) इति लिटः कित्त्वात् “ अनिदिताम्' इति नकारलोपः। द्विर्भावहलादिशेषयोः कृतयोः सवर्णदीर्घः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । इषः । इष गतौ ' । इष्यन्ति गच्छन्तीति इषो रश्मयः । दीदियुः । दीदेतिछान्दसो धातुर्दीप्तिकर्मा । लिटि उसि इयङादेशः । ‘ एरनेकाचः' इति यणादेशाभावश्छान्दसः । वर्धयामसि । ‘ इदन्तो मसि' इति मस इकारागमः ॥ ।
“The rays of that Agni, whom Kaṇva made more brilliant than the sun, pre-eminently shine; him do these our hymns, him do we, extol.”
Him, Agni, whom Medhyatithi, whom Kanva kindled for his rite,
Him these our songs of praise, him, Agni, we extol: his powers shine out preeminent.
That Agni's nourishment has shone brightly whom Medhyatithi and Kanva have kindled on behalf of Rita 1. Him do these hymns, him do we extol.
Agni whom Medhyātithi (and?) Kaṇva kindled from truth,
his are the refreshments that shine forth; him do these verses (make strong) and him, Agni, do we make strong.
Ihn Agni, den Medhjatithi, den Kanva nach dem Brauch entflammt, Ihn stärken diese Lieder, Agni stärken wir, und seine Tränke leuchten hell.
Agni, den Medhyatithi Kanva angezündet hat nach rechtem Brauche, von ihm sind Labsale ausgestrahlt, ihn stärken diese Lieder, diesen Agni stärken wir.
Агни, кого Медхьятитхи
Канва зажег по закону, –
(Исходящие) от него услады ярко сияют – его (усиливают) эти гимны,
Этого Агни усиливаем мы.
रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्य॑म् । त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि ॥
रा॒यः । पू॒र्धि॒ । स्वध॒ा॒ऽवः॒ । अ॒स्ति॒ । हि । ते॒ । अ॒ग्ने॒ । दे॒वेषु॑ । आप्य॑म् । त्वम् । वाज॑स्य । श्रुत्य॑स्य । रा॒ज॒सि॒ । सः । नः॑ । मृ॒ळ्ह॒ । म॒हान् । अ॒सि॒ ॥
हे स्वधावः अन्नवन् अग्ने। ‘स्वधा अर्कः' (नि. २. ७. १७) इति तन्नामसु पाठात् । अस्माकं रायः धनानि पूर्धि पूरय देहि वा । ‘ पूर्धि पूरय देहीति वा ' ( निरु. ४, ३) इति यास्कः । हे अग्ने ते तव देवेष्वाप्यं प्रापणीयं सख्यम् अस्ति हि विद्यते खलु। त्वं श्रुत्यस्य श्रवणीयस्य वाजस्य अन्नस्य राजसि ईश्वरो भवसि । सः त्वं नः अस्मान् मृळ सुखय । महान् गुणैरधिक असि ॥ रायः । ‘ ऊडिदम्' इति विभक्तेरुदात्तत्वम् । पूर्धि । पॄ पालनपूरणयोः । ‘ श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । ‘ बहुलं छन्दसि ' इति शपो लुक् । हेरपित्त्वेन ङित्त्वाद्गुणाभावे ‘ उदोष्ठ्यपूर्वस्य' (पा. सू.७. १. १०२) इति उत्वम् । हलि च ' इति दीर्घः । स्वधावः । संबुद्धौ मतुवसोः° ' इति रुत्वम् । आप्यम् । अदुपधत्वाभावेऽपि व्यत्ययेन ‘ पोरदुपधात् ' ( पा. सू. ३. १. ९८ ) इति कर्मणि यत् । यतोऽनावः' इत्याद्युदात्तत्वम् । यद्वा । ण्यति छान्दसमाद्युदात्तत्वम् । श्रुत्यस्य । श्रु श्रवणे' । औणादिकः क्यप् । तुगागमः । यद्वा । श्रुतिशब्दात् ' भवे छन्दसि ' इति यत् । मृळ ।' मृड सुखने ' । शस्य ङित्त्वात् लघूपधगुणाभावः ॥
“Agni, giver of food, complete our treasures, for the friendship of the gods is obtainable through you. You are lord over famous viands; make us hapy, for you are great.”
Make our wealth perfect thou, O Agni, Lord divine: for thou hast kinship with the Gods.
Thou rulest as a King o'er widely-famous strength: be good to us, for thou art great.
Fill (us with) wealth, thou self-dependent one, for thou, O Agni, hast companionship with the gods. Thou art lord over glorious booty. Have mercy upon us; thou art great.
Give fullness of wealth, o autonomous one, for you have friendship among the gods, o Agni.
You rule over a prize worthy of fame. Have mercy on us: you are great.144 I.37
Selbstherrscher, füll uns Reichthum zu, denn Agni du bist mit den Göttern nah verwandt, Und du verfügest über weitberühmtes Gut; so sei uns hold, der gross du bist.
Häufe die Schätze an, du Eigenartiger, denn du besitzest Freundschaft unter den Göttern, Agni. Du gebeust über namhafte Siegerbeute. Sei uns gnädig; du bist groß.
Наполни (нас) богатствами, о самовластный, – ведь у тебя есть,
Агни, дружба с богами.
Ты властвуешь над прославленной наградой.
Смилуйся над нами: ты велик!
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥
ऊ॒र्ध्वः । ऊँ॒ इति॑ । सु । नः॒ । ऊ॒तये॑ । तिष्ठ॑ । दे॒वः । न । स॒वि॒ता । ऊ॒र्ध्वः । वाज॑स्य । सनि॑ता । यत् । अ॒ञ्जिऽभिः॑ । वा॒घत्ऽभिः॑ । वि॒ऽह्वया॑महे ॥
हे यूप यद्वा यूपात्मकदारुनिष्ठाग्ने नः अस्माकम् ऊतये रक्षणाय ऊर्ध्वः उन्नतः तिष्ठ । तत्र दृष्टान्तः । सविता देवो न । यथा सूर्यो देव उन्नतस्तिष्ठति तद्वत् । ऊर्ध्वः उन्नतः सन् वाजस्य अन्नस्य सनिता दाता भविष्यसि । यत् यस्मात् कारणात् अञ्जिभिः आज्येन यूपम् अञ्जद्भिः वाघद्भिः यज्ञं वहद्भिर्ऋत्विग्भिः सह विह्वयामहे अन्नदानाय त्वां विशेषेणाह्वयामः । तस्मादन्नस्य दाता भवेति पूर्वत्रान्वयः ॥ ऊ षु णः । ‘ इकः सुञि' (पा. सू. ६. ३. १३४) इति संहितायां दीर्घः । ‘ सुञः ' ( पा. सू. ८. ३. १०७ ) इति षत्वम् । ‘ नश्च धातुस्थोरुषुभ्यः' ( पा. सू. ८.४, २७ ) इति णत्वम् । ऊतये । अवतेः क्तिनि “ ज्वरत्वर' इत्यादिना ऊठ्। ‘ ऊतियूति' इत्यादिना क्तिन् उदात्तत्वम् । तिष्ठ । शपि ‘पाघ्रा ' इत्यादिना तिष्ठादेशः । द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः। वाजस्य । ‘ क्रियाग्रहणं कर्तव्यम्' (पा. म. १. ४. ३२ ) इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । सनिता । ' षणु दाने ' । लुटि तासिः । वलादिलक्षण इट् ( पा. सू. ७. २. ३५ )। तिपो डादेशः ( पा. सू. २. ४. ८५ )। टिलोपः । उदात्तनिवृत्तिस्वरेण तिबादेशस्य उदात्तत्वे प्राप्ते ' तास्य नुदात्तेत्” ' इति तस्यानुदात्तत्वम् । धातुस्वरः । ‘न लुट्' (पा. सू. ८. १. २९ ) इति निघातप्रतिषेधः । अञ्जिभिः। अञ्जू व्यक्तिम्रक्षणगतिषु'। ‘खनिकष्यञ्जि°' (उ. सू. ४. ५७९) इत्यादिना इप्रत्ययः । विह्वयामहे । 'निसमुपविभ्यो ह्वः' (पा. सू. १. ३. ३०) इति अकर्त्रभिप्रायेऽप्यात्मनेपदम् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति' इति गतेरनुदात्तत्वम् यद्वृत्तयोगादनिघातः ॥
“Stand up erect for our protection, like the divine Savitā; erect, you are the giver of food, for which we invoke you with unguents, and priests (offering oblations).”
Stand up erect to lend us aid, stand up like Savitar the God:
Erect as strength-bestower we call aloud, with unguents and with priests, on thee.
Stand up straight for blessing us, like the god Savitri, straight a winner of booty, when we with our worshippers and with ointments 1 call thee 2 in emulation (with other people).
Stand upright to help us, like god Savitar,
upright as the winner of the prize when we vie with (other) cantors with their ornaments in invoking (you).
Steh aufrecht nun zu unserm Schutz, erhaben wie Gott Savitar, Erhaben als der Beute Spender, wenn wir dich mit Opfer rufen und Gebet.
Aufrecht steh fein wie Gott Savitri uns zum Beistand, aufrecht als Gewinner des Siegerpreises, wenn wir mit anderen salbungsvollen Priestern uns darum streiten.
Стой же прямо, как бог Савитар,
Чтобы помочь нам,
Прямо, как захватчик добычи, когда мы призываем, (соревнуясь)
С (другими) жрецами-украшателями (гимнов)!
ऊ॒र्ध्वो न॑: पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं॑ दह । कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुव॑: ॥
ऊ॒र्ध्वः । नः॒ । पा॒हि॒ । अंह॑सः । नि । के॒तुना॑ । विश्व॑म् । सम् । इ॒त्रिण॑म् । द॒ह॒ । कृ॒धि । नः॒ । ऊ॒र्ध्वान् । च॒रथा॑य । जी॒वसे॑ । वि॒दाः । दे॒वेषु॑ । नः॒ । दुवः॑ ॥
हे यूप यद्वा तन्निष्ठाग्ने ऊर्ध्वः उन्नतः सन् नः अस्मान् केतुना ज्ञानेन अंहसः पापात् नि पाहि नितरां पालय । विश्वम् अत्रिणम् सर्वमत्तारं भक्षकं राक्षसं सं दह सम्यग्भस्मीकुरु । नः अस्मान् ऊर्ध्वान् उन्नतान् कृधि कुरु । किमर्थम् । चरथाय लोके चरणाय जीवसे जीवनाय च नः अस्माकं दुवः धनं हविःस्वरूपं देवेषु विदाः लम्भय ॥ अत्रिणम् । अद भक्षणे '। अदेस्त्रिनि च' (उ. सू. ४. ५०८ ) इति औणादिकः त्रिनिप्रत्ययः । यद्वा । अदतस्त्रायन्ते इति अत्राः । ‘ आतोऽनुपसर्गे कः' इति कः । अतो मत्वर्थीय इनिः । कृधि। ‘श्रुशृणुपॄकृवृभ्यश्छन्दसि' इति हेर्धिरादेशः । ‘बहुलं छन्दसि' इति विकरणस्य लुक् । ‘अन्येषामपि दृश्यते' इति संहितायां दीर्घः । ऊर्ध्वान्। 'उभयथर्क्षु' (पा. सू.८.३.८) इति विकल्पविधानात् ‘नश्छव्यप्रशान्' (पा. सू. ८. ३. ७) इति नकारस्य रुत्वाभावः । चरथाय । चरेः औणादिको भावे अथप्रत्ययः । जीवसे । ‘जीव प्राणधारणे'। तुमर्थे सेसेन्' इति असेप्रत्ययः । विदाः । ‘विद्लृ लाभे'। अस्मादन्तर्भावितण्यर्थात् लेटि सिपि ‘लेटोऽडाटौ ' इति आडागमः । तुदादित्वात् शः। ‘शे मुचादीनाम्' इति नुम् न भवति, अनित्यमागमशासनम्' इति वचनेन तस्यानित्यत्वात् । ‘इतश्च लोपः' इति इकारलोपः आगमानुदात्तत्वे विकरणस्वरः ॥
“Erect, preserve us by knowledge from sin; consume every malignant spirit; raise us aloft, that we may pass (through the world); and that we may live, convey our sealth (of oblations) to the gods.”
Erect, preserve us from sore trouble; with thy flame burn thou each ravening demon dead.
Raise thou us up that we may walk and live: so thou shalt find our worship mid the Gods.
Standing straight, protect us by thy splendour from evil; burn down every ghoul 1. Let us stand straight that we may walk and live. Find out our worship 2 among the gods.
Upright, protect us from narrow straits with your beacon. Burn up every devourer.
Make us upright to move and to live. Find favor for us among the gods.
Und aufrecht schütz uns vor Gefahr durch dein Panier, verbrenne jeden bösen Feind; Lass aufrecht uns zum Wandern und zum Leben stehn, den Göttern spende, was wir weih'n.
Aufrecht schütze uns vor Not mit deinem Banner, verbrenne jeden Atrin. Richte uns auf zum Wandel, zum Leben! Finde Vorliebe für uns unter den Göttern!
(Стоя) прямо, защити нас от узости (своим) знаменем
Спали всех атринов!
Поставь же нас прямо – для странствий (и) для жизни!
Найди нам милость среди богов!
पा॒हि नो॑ अग्ने र॒क्षस॑: पा॒हि धू॒र्तेररा॑व्णः । पा॒हि रीष॑त उ॒त वा॒ जिघां॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ॥
पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः॑ । पा॒हि । धू॒र्तेः । अरा॑व्णः । पा॒हि । रिष॑तः । उ॒त । वा॒ । जिघां॑सतः । बृह॑द्भानो॒ इति॑ बृह॑त्ऽभानो । यवि॑ष्ठ्य ॥
हे अग्ने हे बृहद्भानो बृहन्तो भानवो यस्य तादृश हे यविष्ठ्य युवतम हे अग्ने नः अस्मान् रक्षसः बाधकाद्राक्षसादेः पाहि पालय। तथा अराव्णः धनादीनामदातृरूपात् धूर्तेः हिंसकात् पाहि। तथा रिषतः हिंसकाद्व्याघ्रादेः सकाशात् पाहि। उत वा अथवा जिघांसतः हन्तुमिच्छतः शत्रोः सकाशात् पाहि ॥ धूर्तेः । धुर्वी हिंसार्थः । ‘ क्तिच्क्तौ च संज्ञायाम्' इति कर्तरि क्तिच् । ‘ तितुत्र° ' इत्यादिना इट्प्रतिषेधः । ‘ राल्लोपः' (पा. सू. ६. ४. २१ ) इति वकारलोपः । हलि च ' इति दीर्घत्वम् । अराव्णः। ‘रा दाने'। आतो मनिन् ' इत्यादिना वनिप् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । पञ्चम्येकवचने “ अल्लोपोऽनः ' इति अनः अकारस्य लोपः। रिषतः । ‘रिष हिंसायाम् ' । लटः शतृ । ‘ बहुलं छन्दसि' इति शपो लुक् । प्रत्ययस्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । जिघांसतः। हन्तेरिच्छार्थे सनि ‘अज्झनगमां सनि' ( पा. सू. ६. ४. १६ ) इति उपधादीर्घत्वम् । ‘अभ्यासाच्च' (पा. सू. ७. ३. ५५) इति अभ्यासादुत्तरस्य हकारस्य घत्वम् ।' सन्यतः' इति इत्वम् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे सनो नित्त्वात् नित्स्वरेण पदस्याद्युदात्तत्वम् । बृहद्भानो । आमन्त्रितस्य च ' इति षाष्ठिकमाद्युदात्तत्वम् । पादादित्वात् आष्टमिकनिघाताभावः। यविष्ठ्य। स्थूलदूर ' इत्यादिना यणादिपरस्य लोपः, पूर्वस्य च गुणः । यकारोपजनश्छान्दसः ॥ ॥ १० ॥
“Youthful and most resplendent Agni, protect us against evil spirits, and from the malevolent (man), who gives no gifts; protect us from noxious (animals), and from those who seek to kill us.”
Preserve us, Agni, from the fiend, preserve us from malicious wrong.
Save us from him who fain would injure us or slay, Most Youthful, thou with lofty light.
Save us, O Agni, from the sorcerer, save us from mischief, from the niggard. Save us from him who does us harm or tries to kill us, O youngest god with bright splendour!
Protect us from the demon, o Agni. Protect us from the malice of the enemy.
Protect from the man who does harm or who seeks to smash us, o
youngest one with lofty beams.
Schütz, Agni, uns vor dem Gespenst; und vor des Feindes arger List, Vor dem Verfolger, der uns nach dem Leben steht, o jüngster, herrlich glänzender!
Schütze uns, Agni, vor dem Unhold, schütz uns vor der Falschheit des Geizigen! Schütz uns vor dem Schädiger oder vor dem Mordgierigen, du Hellglänzender, Jüngster!
Защити нас, о Агни, от ракшаса!
Защити от обмана безбожника!
Защити от вредящего или от желающего убить,
О ты с высоким лучом, о самый юный!
घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जम्भ॒ यो अ॑स्म॒ध्रुक् । यो मर्त्य॒: शिशी॑ते॒ अत्य॒क्तुभि॒र्मा न॒: स रि॒पुरी॑शत ॥
घ॒नाऽइ॑व । विष्व॑क् । वि । ज॒हि॒ । अरा॑व्णः । तपुः॑ऽजम्भ । यः । अ॒स्म॒ऽध्रुक् । यः । मर्त्यः॑ । शिशी॑ते । अति॑ । अ॒क्तुऽभिः॑ । मा । नः॒ । सः । रि॒पुः । ई॒श॒त॒ ॥
हे तपुर्जम्भ तप्यमानरश्मियुक्ताग्ने अराव्णः अस्मभ्यं देयस्य धनस्य अदातॄन् वैरिणः विष्वक् सर्वतः वि जहि विशेषेण मारयः । तत्र दृष्टान्तः । घनेव । यथा कठिनेन दण्डपाषाणादिना भाण्डादिभङ्गं करोति तद्वत् । यः अन्योऽपि रिपुः अस्मध्रुक् अस्मद्विषयद्रोहकारी भर्त्सनादिना बाधते। यः च अन्यः मर्त्यः मनुष्यः शत्रुः अक्तुभिः आयुधैः अति शिशीते तनूकरोति अस्मान् प्रहरतीत्यर्थः। स रिपुः भर्त्सनप्रहारकारी द्विविधोऽपि शत्रुः नः अस्मान् प्रति मा ईशत ईश्वरः शक्तो मा भूत् ॥ घनाइव । ‘सुपां सुलुक् ' इति तृतीयाया डादेशः । जहि । हन्तेर्लोटि हौ ‘हन्तेर्जः ' ( पा. सू. ६. ४. ३६ ) इति जादेशः । तस्य असिद्धत्वात् हेर्लुगभावः । तपुर्जम्भ ।' तप संतापे ' । औणादिकः करणे उसिन्प्रत्ययान्तः तपुस्शब्दो नित्त्वादाद्युदात्तः । ‘ जभि नाशने '। जभ्यन्ते शत्रव एभिरिति जम्भान्यायुधानि । करणे घञ्। तपूंष्येव जम्भानि यस्यासौ तपुर्जम्भः । आमन्त्रिताद्युदात्तत्वम् । अस्मध्रुक् ।' दुह जिघांसायाम् । ‘सत्सूद्विष' इत्यादिना क्विप् । ' वा द्रुहमुहष्णुहष्णिहाम्' (पा.सू . ८. २. ३३ ) इति हकारस्य घत्वम् । भष्भावः । शिशीते ।' शो तनूकरणे' । व्यत्ययेनात्मनेपदम् । ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः ।' आदेचः' इति आत्वम् । ततो द्विर्वचने ' बहुलं छन्दसि ' ( पा. सु. ७. ४. ७८ ) इति अभ्यासस्य इत्वम् । ‘ई हल्यघोः ' इति ईत्वम् । व्यत्ययेनाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । ईशत । लङि ‘ बहुलं छन्दसि ' इति शपो लुगभावः । ‘न माङ्योगे ' इति अडागमाभावः ॥
“Agni, with the burning rays, destroy entirely our foes, who make no gifts, as (potter's ware) with a club; let not one who is inimical to us, nor the man who attacks us with sharp weapons, prevail against us.”
Smite down as with a club, thou who hast fire for teeth, smite thou the wicked, right and left.
Let not the man who plots against us in the night, nor any foe prevail o'er us.
As with a club 1 smite the niggards in all directions, and him who deceives us, O god with fiery jaws. The mortal who makes (his weapons) very sharp by night, may that impostor not rule over us.
As if with a deadly weapon, smash asunder our enemies and whoever deceives us, o you of scorching fangs.
The mortal who sharpens himself throughout the nights, let that cheat not be master of us.
Glutzahniger, zerschlage mit der Keule rings die Schlechten, jeden der uns hasst, Der böse Mensch, der wüthend auf uns stürzt bei Nacht mög' nimmer uns bewältigen.
Wie mit dem Schlägel schlag die Geizigen auseinander, du Glutzahn, jeden der falsch gegen uns ist! Der Sterbliche, der sich bei Nacht allzu scharf macht, der Schelm soll keine Macht über uns haben.
Словно дубиной, бей безбожников со всех сторон,
(Каждого,) кто подстерегает нас, (ты,) пламенный клык!
(Тот) смертный, что слишком прыток по ночам, –
Да не овладеет нами этот враг!
अ॒ग्निर्व॑व्ने सु॒वीर्य॑म॒ग्निः कण्वा॑य॒ सौभ॑गम् । अ॒ग्निः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तम् ॥
अ॒ग्निः । व॒व्ने॒ । सु॒ऽवीर्य॑म् । अ॒ग्निः । कण्वा॑य । सौभ॑गम् । अ॒ग्निः । प्र । आ॒व॒त् । मि॒त्रा । उ॒त । मेध्य॑ऽअतिथिम् । अ॒ग्निः । सा॒तौ । उ॒प॒ऽस्तु॒तम् ॥
अग्निः देवः सुवीर्यं शोभनवीर्योपेतं धनमुद्दिश्य वव्ने याचितः । सः अग्निः कण्वाय महर्षये सौभगं शोभनधनादिरूपं भाग्यं प्रायच्छदिति शेषः । तथा अग्निः मित्रा अस्मन्मित्राणि प्रावत् प्रकर्षेण रक्षितवान् । उत अपि च मेध्यातिथिं मेधयोग्यैरतिथिभिरुपेतमृर्षि प्रावत् । तथा उपस्तुतम् अन्यमपि स्तोतारं यजमानं सातौ धनादिदाननिमित्तं प्रावदिति शेषः ॥ वव्ने । वनु याचने' । कर्मणि लिट् । न शसददवादिगुणानाम् ' (पा. सू. ६.४.१२६) इति एत्वाभ्यासलोपयोः प्रतिषेधः । उपधालोपश्छन्दसः । सौभगम् । ‘ सुभगान्मन्त्रे ' इति उद्गात्रादिषु पाठात् तस्य भावः इत्येतस्मिन्नर्थे अञ् ( पा. सू. ५. १. १३९ ) । ञित्त्वादाद्युदात्तत्वम् । मित्रा । ‘ शेश्छन्दसि बहुलम्' इति शेर्लोपः । उपस्तुतम् ।' क्तिच्क्तौ च संज्ञायाम् ' इति स्तौतेः कर्तरि कः। थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
“Agni is solicited for power-conferring (affluence); he has granted prosperity to Kaṇva, he has protected our friends, as well as the (sage who was) the host of the holy and (every other) worshipper (who has had recourse to him) for riches.”
Agni hath given heroic might to Kanva, and felicity:
Agni hath helped our friends, hath helped Medhyatithi, hath helped Upastuta to win.
Agni has won abundance in heroes, Agni prosperity (for Kanva). Agni and the two Mitras (i.e. Mitra and Vanma) have blessed Medhyatithi, Agni (has blessed) Upastuta in the acquirement (of wealth) 1.
Agni gained good heroes en masse, and Agni good fortune for Kaṇva. Agni helped Medhyātithi—as did Mitra (and Varuṇa) [/the two allies]— and Agni (helped) Upastuta in winning.
Agni gewährte Heldenkraft, dem Kanva Agni hohes Glück, Agni und Mitra halfen dem Medhjatithi, beim Spenden dem Upastuta.
Agni gewann die Meisterschaft, Agni dem Kanva Glück. Agni stand den beiden Verbündeten und dem Medhyatithi, Agni dem Upastuta im Gewinnen bei.
Агни добыл обилие героев,
Агни для Канвы (добыл) удачу,
Агни, а также Митра и (Варуна) помогли Медхьятитхи,
Агни (помог) Упастуте в победе.
अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे । अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सह॑: ॥
अ॒ग्निना॑ । तु॒र्वश॑म् । यदु॑म् । प॒रा॒ऽवतः॑ । उ॒ग्रऽदे॑वम् । ह॒वा॒म॒हे॒ । अ॒ग्निः । न॒य॒त् । नव॑ऽवास्त्वम् । बृ॒हत्ऽर॑थम् । तु॒र्वीति॑म् । दस्य॑वे । सहः॑ ॥
अग्निना सहावस्थितान् तुर्वशनामकं यदुनामकम् उग्रदेवनामकं च राजर्षीन् परावतः दूरदेशात् हवामहे आह्वयामः । स च अग्निः नववास्तुनामकं बृहद्रथनामकं तुर्वीतिनामकं च राजर्षीन् नयत् इहानयतु । कीदृशोऽग्निः । दस्यवे सहः अस्मदुपद्रवहेतोश्चोरस्याभिभविता ॥ नयत् । ‘णीञ् प्रापणे'। लेटि अडागमः । इतश्च लोपः' इति इकारलोपः । नववास्त्वम् । नवं वास्तु यस्यासौ नववास्तुः । ‘ वा छन्दसि' इत्यनुवृत्तेः अमि पूर्वत्वाभावे यणादेशः । बृहद्रथम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“We invoke from afar, along with Agni, Turvaśa, Yadu and Ugradeva; let Agni, the arrester of the robber, bring hither Navavāstu, Bṛhadratha and Turvīti.”
We call on Ugradeva, Yadu, Turvasa, by means of Agni, from afar;
Agni, bring Navavastva and Brhadratha, Turviti, to subdue the foe.
Through Agni we call hither from afar Turvasa, Yadu, and Ugradeva. May Agni, our strength against the Dasyu, conduct Navavâstva, Brihadratha, and Turvîti 1.
With Agni we call Turvaśa and Yadu from afar, also Ugrādeva.
Agni, our force against the Dasyu, led Navavāstva of the lofty chariots and Turvīti.
Wir riefen Ugradeva, Turvaça, Jadu durch Agni aus der Ferne her; Auf hohem Wagen komme Navavāstva und Turvīti her zur Feindesschlacht.
Durch Agni rufen wir aus der Ferne den Turvasa und Yadu, den Ugradeva. Agni geleitet den Navavasta, den Brihadratha, den Turviti, den Dasyave Sahas.
Вместе с Агни мы зовем издалека
Турвашу, Яду, Уградеву.
Пусть Агни приведет Нававаству, Брихадратху,
Турвити – силу против врага!
नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते । दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टय॑: ॥
नि । त्वाम् । अ॒ग्ने॒ । मनुः॑ । द॒धे॒ । ज्योतिः॑ । जना॑य । शश्व॑ते । दी॒देथ॑ । कण्वे॑ । ऋ॒तऽजा॑तः । उ॒क्षि॒तः । यम् । न॒म॒स्यन्ति॑ । कृ॒ष्टयः॑ ॥
हे अग्ने ज्योतिः प्रकाशरूपं त्वां शश्वते बहुविधाय जनाय मनुः प्रजापतिः नि दधे देवयजनदेशे स्थापितवान् । हे अग्ने त्वम् ऋतजातः ऋतेन यज्ञेन निमित्तभूतेनोत्पन्नः उक्षितः हविर्भिस्तर्पितः सन् कण्वे एतन्नामके महर्षौ दीदेथ दीप्तवानसि। यम् अग्निं कृष्टयः मनुष्याः। ‘कृष्टयः चर्षणयः ' ( नि. २. ३.७ ) इति मनुष्यनामसु पठितत्वात् । नमस्यन्ति नमस्कुर्वन्ति । स त्वमिति पूर्वत्रान्वयः ॥ दीदेथ । दीदेतिश्छान्दसो दीप्तिकर्मा । थलि ‘ द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् । (का. ६. १.८.१ ) इति द्विर्वचनाभावः । ‘अनित्यमागमशासनम्' इति वचनात् इडभावः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । ऋतजातः । ऋते जन्यते इति ऋतजातः । ‘ श्वीदितो निष्ठायाम् ' इति इट्प्रतिषेधः । ‘जनसन' इत्यादिना आत्वम् । तृतीयापूर्वपदप्रकृतिस्वरत्वम् । नमस्यन्ति। 'नमोवरिवः । ( पा. सू. ३. १. १९) इति पूजार्थे क्यच् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे क्यजन्तधातुस्वरः । कृष्टयः । 'कृष विलेखने '। ‘क्तिच्क्तौ च संज्ञायाम्' इति क्तिच् ॥
“Manu detained you, Agni, (to give) light to the various races of mankind. Born for the sake of sacrifice, and satiated with oblations, you, whom men reverence, have blazed for Kaṇva.”
Manu hath stablished thee a light, Agni, for all the race of men:
Sprung from the Law, oil-fed, for Kanva hast thou blazed, thou whom the people reverence.
Manu has established thee, O Agni, as a light for all people. Thou hast shone forth with Kanva, born from Rita, grown strong, thou whom the human races worship.
Manu installed you, Agni, to be a light for the people, each and every one.
Born of truth, you shine when grown strong [/sprinkled] in the company of Kaṇva—(you) to whom the communities bring reverence.
Dich, Agni, setzte Manus ein, als Licht dem ganzen Menschenstamm, Durch Recht erzeugt erstrahlest hoch bei Kanva du, du den die Völkerschar verehrt.
Dich Agni, hat Manu eingesetzt als Licht für alles Volk. Du hast bei Kanva geleuchtet, zur rechten Zeit geboren, großgeworden du, vor dem sich die Lande beugen.
Тебя, о Агни, установил Ману
Как свет для нескончаемого рода (человеческого).
Ты сверкал у Канвы, рожденный законом, окропленный (маслом),
(Тот), кому поклоняются народы.
त्वे॒षासो॑ अ॒ग्नेरम॑वन्तो अ॒र्चयो॑ भी॒मासो॒ न प्रती॑तये । र॒क्ष॒स्विन॒: सद॒मिद्या॑तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं॑ दह ॥
त्वे॒षासः॑ । अ॒ग्नेः । अम॑ऽवन्तः । अ॒र्चयः॑ । भी॒मासः॑ । न । प्रति॑ऽइतये । र॒क्ष॒स्विनः॑ । सद॑म् । इत् । या॒तु॒ऽमाव॑तः । विश्व॑म् । सम् । अ॒त्रिण॑म् । द॒ह॒ ॥
अग्नेः अर्चयः ज्वालाः त्वेषासः दीप्ताः अमवन्तः बलवन्तः भीमासः भयंकराः । अतः प्रतीतये अस्माभिः प्रत्येतुं न शक्या इति शेषः । हे अग्ने रक्षस्विनः बलवतः यातुमावतः यातुधानानसुरान् सदमित् सर्वदैव सं दह सम्यग्भस्मीकुरु । तथा विश्वं सर्वं अत्रिणं भक्षकं अस्मद्बाधकं शत्रुं सं दह ॥ त्वेषासः । ‘ त्विष दीप्तौ । पचाद्यच् । चितः । इत्यन्तोदात्तत्वम् । अमवन्तः । ‘ अम रोगे' । अमति शत्रून् रुजतीति अमो बलम् । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । तदेषामस्तीत्यमवन्तः । प्रतीतये । ‘ तादौ च निति° ' इति गतेः प्रकृतिस्वरत्वम् । रक्षस्विनः । रक्षन्त्यनेनेति रक्षो बलम् । करणेऽसुन् । ‘ अस्मायामेधा ' इति मत्वर्थीयो विनिः । यातुमावतः । यातवो यातनाः । तान् मिमते निर्मिमते इति राक्षसव्यापारा यातुमाः । आतोऽनुपसर्गे कः' इति कः । तदेषामस्तीति मतुप् । 'मतौ बह्वचोऽनजिरादीनाम् ' (पा. सु. ६. ३. ११९ ) इति दीर्घत्वम् ।' संज्ञायाम् ' ( पा. सू. ८. २. ११) इति वत्वम् । मतुपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । अत्रिणम् । अदेस्त्रिनि च ' इति कर्तरि त्रिनिप्रत्ययः ॥ ॥ ११ ॥
“The flames of Agni are luminous, powerful, fearful, and not to be trusted. Ever assuredly and entirely consume the mighty spirits of evil and all our other adversarieṣ ”
The flames of Agni full of splendour and of might are fearful, not to be approached.
Consume for ever all demons and sorcerers, consume thou each devouring fiend.
Agni's flames are impetuous and violent; they are terrible and not to be withstood. Always burn down the sorcerers, and the allies of the Yatus, every ghoul 1.
The dazzling, hard-charging flames of Agni, terrifying like (wild beasts), are not to be confronted.
(Burn) the demonic forces, the sorcerers forever—burn up every
devourer.
Des Agni lichte ungestüme Flammenschar, ist furchtbar und unnahbar stets, Die bösen Geister und die Zaubrer allesammt, verbrenn' und jeden Dämon du.
Zornfunkelnd, überwältigend sind die Flammen des Agni, furchtbar; nicht ist dagegen anzukommen. Verbrenn jederzeit die Unholde, die zauberischen, jeden Atrin!
Искрометные, яростные языки пламени Агни,
Страшные – не подступиться!
Сжигай всегда ракшасоподобных,
Колдовских, любого атрина!