क्री॒ळं व॒: शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म् । कण्वा॑ अ॒भि प्र गा॑यत ॥
क्री॒ळम् । वः॒ । शर्धः॑ । मारु॑तम् । अ॒न॒र्वाण॑म् । र॒थे॒ऽशुभ॑म् । कण्वाः॑ । अ॒भि । प्र । गा॒य॒त॒ ॥
हे कण्वाः कण्वगोत्रोत्पन्ना महर्षयः । यद्वा । मेधाविन ऋत्विजः । वः युष्मदर्थं मारुतं मरुत्समूहरूपं शर्धः बलम् अभि प्र गायत अभितः प्रकर्षेण स्तुध्वम् । कीदृशं शर्धः । क्रीळं विहरणशीलम् अनर्वाणं भ्रातृव्यरहितम् । अत एव श्रुत्यन्तरब्राह्मणेन मन्त्रान्तरमेवं व्याख्यातम् - ‘अनर्वा प्रेहीत्याह भ्रातृव्यो वा अर्वा भातृव्यापनुत्त्यै' (तै. सं. ६. ३. ८. ४ ) इति । रथेशुभं स्वकीये रथेऽवस्थाय शोभमानम् ॥ क्रीळम् ।' क्रीडृ विहारे ' । पचाद्यच् । शर्धः । शृधु प्रसहने '। शर्धयत्यनेन शत्रूनिति शर्धो बलम् । असुन् । नित्त्वादाद्युदात्तत्वम् । मारुतं मरुतां संबन्धि । तस्येदम्' इति अण् । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । समूहार्थे ' अनुदात्तादेरञ्' (पा. सू. ४. २. ४४ ) इत्यनुदात्तादिलक्षणः अञ्प्रत्ययः । अनर्वाणम् । व्यत्ययेन पुंलिङ्गता । नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । रथेशुभम् । ‘शुभ दीप्तौ'। रथे शोभते इति रथेशुप् । क्विप् च ' इति क्विप्। तत्पुरुषे कृति बहुलम्' इति अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । गायत । ‘कै गै रै शब्दे'। तिङ्ङतिङः' इति निघातः ॥
“Celebrate, Kaṇvas, the aggregate strength of the Maruts, sportive, with horses, but shining in their car.”
SING forth, O Kanvas, to your band of Maruts unassailable,
Sporting, resplendent on their car
To the playful Marut troop, unassailable beauty on a chariot,
sing forth, o Kaṇvas—
Besinget eure muntre Schar der Maruts, die unnahbar ist, O Kanva's, die im Wagen glänzt.
Auf die tändelnde marutische Heerschar, die Unereichte zu Wagen Prunkende, stimmt euren Gesang an, ihr Kanvas;
К веселой марутовой толпе,
Неприступной, красующейся на колеснице,
Направьте, о Канвы, вашу песнь!
ये पृष॑तीभिॠ॒ष्टिभि॑: सा॒कं वाशी॑भिर॒ञ्जिभि॑: । अजा॑यन्त॒ स्वभा॑नवः ॥
ये । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । सा॒कम् । वाशी॑भिः । अ॒ञ्जिऽभिः॑ । अजा॑यन्त । स्वऽभा॑नवः ॥
ये मरुतः पृषत्यादिभिः साकं स्वभानवः स्वकीयदीप्तियुक्ताः अजायन्त इति संपन्नाः । पृषत्यो बिन्दुयुक्ता मृग्यो मरुद्वाहनभूताः। ‘ पृषत्यो मरुताम्' (नि.१.१५.६) इति निघण्टावुक्तत्वात् । ऋष्टय आयुधानि । वाश्यः शब्दविशेषाः परकीयसेनाभीतिहेतवः। ‘वाशी वाणी' ( नि. १. ११. ११) इति वाङ्नामसु पठितत्वात् । अञ्जयोऽलंकरणानि । तान् स्तुम इति शेषः ॥ अजायन्त । ‘जनी प्रादुर्भावे' । श्यनि ‘ज्ञाजनोर्जा' ( पा. सू. ७. ३. ७९ ) इति जादेशः । अडागम उदात्तः । स्वभानवः । स्वकीया भानवो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
“Who, borne by spotted deer, were born self-radiant, with weapons, war-cries and decorations.”
They who, self-luminous, were born together, with the spotted deer,
Spears, swords, and glittering ornaments.
Who, together with their dappled (mares) and their spears, their axes and unguents,
were born having a radiance of their own.
Die mit Gazellen, Speeren auch mit Aexten und mit Schmuck zugleich In eignem Glanz geboren sind.
Die mit dem Schecken, den Lanzen, mit den Bullen und Zierraten zusammen geboren wurden, von selbst glänzend.
(Те Маруты), что родились вместе
С пестрыми (антилопами), с копьями,
Топорами, украшениями, (они,) имеющие собственный блеск...
इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद्वदा॑न् । नि याम॑ञ्चि॒त्रमृ॑ञ्जते ॥
इ॒हऽइ॑व । शृ॒ण्व॒ । एषा॑म् । कशाः॑ । हस्ते॑षु । यत् । वदा॑न् । नि । याम॑न् । चि॒त्रम् । ऋ॒ञ्ज॒ते॒ ॥
एषां मरुतां हस्तेषु स्थिताः कशाः स्वस्ववाहनताडनहेतवः यद्वदान् यद्वदन्ति यं ध्वनि कुर्वन्ति तं ध्वनिम् इहेव अत्रेव स्थित्वा शृण्वे शृणोमि । स ध्वनिविशेषः यामन् संग्रामे चित्रं विविधं शौर्यं नि ऋञ्जते नितरामलंकरोति । ‘ ऋञ्जतिः प्रसाधनकर्मा ' ( निरु. ६. २१) इति यास्कः ॥ शृण्वे । ‘श्रु श्रवणे'। व्यत्ययेनात्मनेपदम्। ‘ श्रुवः शृ च' इति श्नुः। हुश्नुवोः सार्वधातुके' इति यणादेशः । वदान् ।' वद व्यक्तायां वाचि'। लेटि आडागमः । ‘ इतश्च लोपः' इति इकारलोपे संयोगान्तलोपः । आगमानुदात्तत्वे धातुस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । यामन् ।' सुपां सुलुक्° ' इति सप्तम्या लुक् ।' न ङिसंबुद्ध्योः' (पा. सू. ८. २. ८) इति नलोपप्रतिषेधः। ऋञ्जते । ‘ ऋजि भृजी भर्जने '। अत्र प्रसाधनार्थः ॥
“I hear the craking of the whips in their hands, wonderfully inspiring (courage) in the fight.”
One hears, as though 'twere close at hand, the cracking of the whips they hold
They gather glory on their way.
As if (it were) right here, the whip in their hands is heard, when they wish to speak.
On their journey they direct the glittering (lightning) downward.
Ganz nah hört ihre Peitsche man, wenn sie in ihren Händen knallt, Sie schmücken sich auf ihrer Fahrt.
Als wäre es hier, so hört sich´s an, wenn die Peitschen in ihren Händen knallen. Auf ihrer Fahrt bringen sie das Wunder fertig.
Словно здесь (они) – прислушиваешься к ним,
Когда кнут свистит в (их) руках.
На пути (своем) они приобретают яркий облик.
प्र व॒: शर्धा॑य॒ घृष्व॑ये त्वे॒षद्यु॑म्नाय शु॒ष्मिणे॑ । दे॒वत्तं॒ ब्रह्म॑ गायत ॥
प्र । वः॒ । शर्धा॑य । घृष्व॑ये । त्वे॒षऽद्यु॑म्नाय । शु॒ष्मिणे॑ । दे॒वत्त॑म् । ब्रह्म॑ । गा॒य॒त॒ ॥
हे ऋत्विजः वः युष्माकं संबन्धिने शर्धाय प्रसहनशीलाय घृष्वये शत्रुघर्षणयुक्ताय त्वेषद्युम्नाय दीप्यमानयशसे । ‘द्युम्नं द्योततेर्यशोवान्नं वा ' (निरु. ५. ५) इति यास्कः । शुष्मिणे बलवते । शुष्मं शुष्णम् ' ( नि. २. ९. ११ ) इति बलनामसु पाठात् । एवंभूताय मरुद्गणाय ब्रह्म हविर्लक्षणमन्नमुद्दिश्य प्र गायत स्तुध्वम्। कीदृशं ब्रह्म। देवत्तं देवैर्दत्तं देवतानुग्रहाल्लब्धम् ॥ शर्धाय । ‘ शृधु प्रसहने '। शर्धयत्यभिभवतीति शर्धो बलम् । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । घृष्वये । ‘ घृष संघर्षे '।' कृविघृष्वि ' ( उ. सू. ४. ४९६ ) इत्यादिना क्विन्प्रत्ययान्तो निपातितः । त्वेषद्युम्नाय । त्विष दीप्तौ । पचाद्यच् । त्वेषं दीप्तं द्युम्नं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । देवत्तं देवैर्दत्तम् । छान्दसो वर्णलोपः । उक्तं च - ‘ द्वौ चापरौ वर्णविकारनाशौ ' (का. ६. ३. १०९) इति । ‘ तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् ॥
“Address the god-given prayer to those who are your strength, the destroyers of foes, the powerful, possessed of brilliant reputation.”
Now sing ye forth the God-given hymn to your exultant Marut host,
The fiercely-vigorous, the strong.
To the spirited tempestuous troop of flaring brilliance
sing your sacred formulation given by the gods.
Auf, singet eurer muntern Schar, der ungestümen, schnaubenden Ein gottbegeistertes Gebet.
Singet euer gotteingegebenes Erbauungswort der ungeduldigen, ungestümen Heerschar von funkelndem Glanze!
Пропойте же вашей неистовой толпе,
Буйной, с мерцающим блеском,
Давшую богами молитву!
प्र शं॑सा॒ गोष्वघ्न्यं॑ क्री॒ळं यच्छर्धो॒ मारु॑तम् । जम्भे॒ रस॑स्य वावृधे ॥
प्र । शं॒स॒ । गोषु॑ । अघ्न्य॑म् । क्री॒ळम् । यत् । शर्धः॑ । मारु॑तम् । जम्भे॑ । रस॑स्य । व॒वृ॒धे॒ ॥
गोषु मरुन्मातृभूतपृश्निप्रभृतिषु धेनुष्ववस्थितम् । ' पृश्नियै वै पयसो मरुतो जाताः' (तै. सं. २. २. ११. ४) इति श्रुत्यन्तरात् । अघ्न्यम् अहन्तव्यं क्रीळं विहारोपेतं मारुतं मल्संबन्धि शर्धः प्रसहनशीलं तेजो यत् अस्ति तत् प्र शंस हे ऋत्विक्समूह स्तुहि । 'रसस्य गोक्षीररूपस्य संबन्धि तत् तेजः जम्भे मुखे उदरे वा ववृधे वृद्धमभूत् ॥ शंस। ‘ शंसु स्तुतौ ।' द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घः । गोषु ।' सावेकाचः' इति प्राप्तस्य विभक्त्युदात्तस्य न गोश्वन्साववर्ण° ' इति प्रतिषेधः । अघ्न्यम् । घ्नो हननम् । ‘ घञर्थे कविधानम् ' (पा. सू. ३. ३. ५८. ४ ) इति कः । गमहन' ' इत्यादिना उपधालोपः। ‘ हो हन्तेः ' ( पा. सू. ७. ३. ५४ ) इति घत्वम् । तदर्हतीति घ्न्यम्। छन्दसि च' इति यः । न घ्न्यम् अघ्न्यम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । क्रीळादयो गताः । जम्भे ।' जभि नाशने'। जम्भ्यते भक्ष्यतेऽनेनेति जम्भमास्यम् । करणे घञ् । ववृधे । 'वृधु वृद्धौ'। लिट् । छान्दसं संहितायामभ्यासदीर्घत्वम् ॥ ॥ १२ ॥
“Praise the sportive and unresisted might of the Maruts, who were born amongst kine, and whose strength has been nourished by (the enjoyment of) the milk.”
Praise ye the Bull among the cows; for 'tis the Maruts' sportive band:
It strengthened as it drank the rain.
Proclaim the prized bull among the cattle—the playful Marut troop. It has grown strong on the juice in the jaw (of the soma press).
Besing die muntre Marutschar, die wie ein Stier bei Kühen springt, Und stark wird bei des Saftes Trunk.
Preise das tändelnde marutische Heer, das unter Kühen der Bulle ist! Ich habe mich an dem Saft zwischen den Zähnen gestärkt.
Я хочу прославлять быка среди коров –
(Эту) веселую марутову толпу.
(Она) усилилась, (вкушая) сок (сомы) на челюсти (давильного камня).
को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः । यत्सी॒मन्तं॒ न धू॑नु॒थ ॥
कः । वः । वर्षि॑ष्ठः । आ । न॒रः॒ । दि॒वः । च॒ । ग्मः । च॒ । धू॒त॒यः॒ । यत् । सी॒म् । अन्त॑म् । न । धू॒नु॒थ ॥
दिवश्च द्युलोकस्यापि ग्मश्च भूलोकस्यापि । ‘गौः ग्मा'(नि. १.१.२) इति भूनामसु पठितत्वात्। धूतयः कम्पनकारिणो हे नरः नेतारो मरुतः वः युष्माकं मध्ये आ समन्तात् वर्षिष्ठः वृद्धतमः कः। यत् यस्मात् कारणात् सीं सर्वतः अन्तं न वृक्षाग्रमिव धूनुथ चालयथ । तस्मात् कारणात् कम्पयितॄणां युष्माकं मध्ये कः प्रबल इति प्रश्नः॥ वर्षिष्ठः। वृद्धशब्दात् इष्ठनि ‘ प्रियस्थिर' (पा. सू. ६.४.१५७) इत्यादिना वर्षादेशः । नित्त्वादाद्युदात्तः । ग्मः । ग्माशब्दात् षष्ठ्येकवचने “ आतो धातोः ' इत्यत्र ‘आत इति योगविभागः कर्तव्यः ' ( का. ६. ४. १४० ) इत्युक्तत्वात् आकारलोपः उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । धूतयः । ‘ धूञ् कम्पने '। ' क्तिच्क्तौ च संज्ञायाम् इति क्तिच् । ‘ तितुत्र° ' इत्यादिना इट्प्रतिषेधः । ‘ आमन्त्रितस्य च' इति सर्वानुदात्तत्वम् । धूनुथ । 'स्वादिभ्यः श्नुः' । 'सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इति वचनात् सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते । अतस्तिङ एव स्वरः । यद्वृत्तयोगादनिघातः ॥
“Which is the chief leader among you, agitators of heaven and earth, who shake all around like the top (of a tree)?”
Who is your mightiest, Heroes, when, O shakers of the earth and heaven,
Ye shake them like a garment's hem?
Which of you is the highest, o superior men—you shakers of heaven and earth,
since you shake them like the end (of a garment)?
Wer ist von euch der herrlichste, die Erd' und Himmel ihr bewegt, Sie schüttelnd wie des Kleides Saum?
Wer ist von euch der Größte, ihr Männer, ihr Schüttler des Himmels und der Erde, wenn ihr sie wie den Saum des Kleids schüttelt?
Кто же из вас самый высокий, о мужи,
Сотрясатели неба и земли,
Когда вы (их) сотрясаете, как (встряхивают) край одежды.
नि वो॒ यामा॑य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे॑ । जिही॑त॒ पर्व॑तो गि॒रिः ॥
नि । वः॒ । यामा॑य । मानु॑षः । द॒ध्रे । उ॒ग्राय॑ । म॒न्यवे॑ । जिही॑त । पर्व॑तः । गि॒रिः ॥
हे मरुतः वः युष्माकं यामाय गमनार्थं मानुषः गृहस्वामी कश्चिन्मनुजः नि दध्रे गृहदार्ढ्यार्थं दृढं स्तम्भं निक्षिप्तवान् । भवदीयगमनेन चालितं गृहं पतिष्यतीति भीत्या तन्निवारणाय दृढस्तम्भप्रक्षेपः । कीदृशाय यामाय । उग्राय तीव्राय मन्यवे चालनार्थमभिमन्यमानाय । युज्यते हि भवद्गमनाद्भीतिः। यतो भवद्गत्या चालितः पर्वतः बहुविधपर्वयुक्तः गिरिः शिखरी जिहीत गच्छेत् ॥ मानुषः ।' मनोर्जातावञ्यतौ षुक् च ' ( पा. सू. ४. १. १६१ ) इति मनुशब्दात् अपत्यार्थे अञ् षुगागमश्च । ञ्नित्यादिर्नित्यम्' इत्याद्युदात्तत्वम् । दध्रे । ‘ धृञ् अवस्थाने ' इत्यस्य लिटि कित्त्वाद्गुणाभावे सति यणादेशः । प्रत्ययस्वरः । पादादित्वात् न निघातः । जिहीत । ‘ ओहाङ् गतौ । लिङि जुहोत्यादित्वात् शपः श्लुः । ‘ भृञामित्' ( पा. सू. ७. ४. ७६ ) इति अभ्यासस्य इत्वम् । श्नाभ्यस्तयोरातः' इति आकारलोपः । पर्ववान् पर्वतः । मत्वर्थीयः तप्रत्ययः ॥
“The house-holder, in dread of your fierce and violent approach, has plural nted a firm (buttress); for the many-ridged mountain is shattered (before you).”
At your approach man holds him down before the fury of your wrath:
The rugged-jointed mountain yields.
The tribe of Manu crouches down before your journey, your formidable battle fury;
the mountain, the peak bends down—
Kein Mensch hält eurem Anlauf Stand, und eurem ungestümen Zorn Gibt nach auch der gewalt'ge Berg,
Vor eurer Auffahrt weicht der Menschensohn, vor eurem gewaltigen Grimme; es duckt sich der Fels, der Berg.
Перед вашим выездом падает ниц
Человек, перед (вашим) грозным гневом,
Оседает скала (и) гора.
येषा॒मज्मे॑षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पति॑: । भि॒या यामे॑षु॒ रेज॑ते ॥
येषा॑म् । अज्मे॑षु । पृ॒थि॒वी । जु॒जु॒र्वान्ऽइ॑व । वि॒श्पतिः॑ । भि॒या । यामे॑षु । रेज॑ते ॥
हे मरुतः येषां युष्माकं यामेषु गमनेषु अज्मेषु क्षेपकेषु सत्सु पृथिवी भूमिः रेजते कम्पते । तत्र दृष्टान्तः । जुजुर्वांइव विश्पतिः । यथा वयोहानिरोगादिना जीर्णः प्रजापालको राजा वैरिभयात् कम्पते तद्वत् ॥ अज्मेषु ।' अज गतिक्षेपणयोः '। बहुलग्रहणात् औणादिको मन् । ‘ अजेर्व्यघञपोः ' (पा. सू. २. ४. ५६ ) इति वीभावो न भवति, ‘वलादावार्धधातुके विकल्प इष्यते' (का. २. ४. ५६. २) इति वचनात् । नित्त्वादाद्युदात्तत्वम् । जुजुर्वान् । ‘जुष् वयोहानौ'। लिटः क्वसुः । ‘बहुलं छन्दसि' ( पा. सू. ७. १. १०३ ) इति उत्वम् । अभ्यासहलादिशेषौ । वस्वेकाजाद्धसाम्' इति नियमात इडागमाभावः । ‘ ऋच्छत्यॄताम् ' ( पा. सू. ७, ४, ११ ) इति गुणः, “ हलि च ' इति दीर्घत्वं च ' संज्ञापूर्वको विधिरनित्यः' इति वचनात् न भवति । विशां पतिर्विश्पतिः । पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरे प्राप्ते ' परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । भिया । सावेकाचः० ' इति विभक्तेरुदात्तत्वम् । यामेषु ।' यम उपरमे '। भावे घञ् । ‘ कर्षात्वतो घञ:०' इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । रेजते । ‘रेजृ कम्पने ' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥
“At whose impetuous approach, earth trembles like an enfeebled monarch through dread (of his enemies).”
They at whose racings forth the earth, like an age-weakened lord of men,
Trembles in terror on their ways.
At whose drives, at whose journeys the earth, like a clanlord
grown old,
trembles in fear.
Bei deren Zügen, deren Fahrt die Erde zittert voller Furcht Gleich wie ein greiser Stammesherr.
Bei deren Anläufen und Fahrten die Erde zittert wie ein alter Stammesfürst.
От чьих путей (и) выездов
Дрожит от страха земля,
Как старый вождь племени...
स्थि॒रं हि जान॑मेषां॒ वयो॑ मा॒तुर्निरे॑तवे । यत्सी॒मनु॑ द्वि॒ता शव॑: ॥
स्थि॒रम् । हि । जान॑म् । ए॒षा॒म् । वयः॑ । मा॒तुः । निःऽए॑तवे । यत् । सी॒म् । अनु॑ । द्वि॒ता । शवः॑ ॥
एषां मरुतां जानं जन्मस्थानमाकाशं स्थिरं हि चलनरहितं खलु । मातुः मरुतां जननीस्थानीयादाकाशात् वयः पक्षिणः निरेतवे निर्गन्तुं समर्था भवन्तीति शेषः । तादृशादाकाशाद्भवज्जन्मेति मरुतां स्तुतिः। यत् यस्मात् कारणात् शवः भवदीयं बलम् अनुक्रमेण सीं सर्वतः द्विता द्वित्वेन द्यावापृथिव्योर्विभज्य वर्तते । अतो भवदीयं जानं स्थिरं हि इति पूर्वत्रान्वयः ॥ जानम् । जन्यतेऽस्मिन्निति जानमन्तरिक्षम् । अधिकरणे घञ् । एषाम् । इदमोऽन्वादेशे इति अशादेशोऽनुदात्तः । विभक्तिश्च सुप्त्वादनुदात्ता । न च ‘ ऊडिदम्' इत्यादिना विभक्त्युदात्तत्वम् , अन्तोदात्तात् इदंशब्दात् तस्य विधानात् । निरेतवे। ‘ इण् गतौ । तुमर्थे सेसेन्' इति तवेन्प्रत्ययः । तादौ च । इति गतेः प्रकृतिस्वरत्वम् ॥
“Stable is their birth plural ce, (the sky), yet the birds (are able) to issue from (the sphere of) their parent; for your strength is everywhere (divided between two--regions, or heaven and earth.”
Strong is their birth: vigour have they to issue from their Mother; strength,
Yea, even twice enough, is theirs.
Because their birth was secure, (they had) the energy to come out from their mother,
the power that now as before follows them.
Stark war ihr Ursprung, ihre Kraft, zu dringen aus der Mutter Schooss, Und dann ward zwiefach ihre Kraft.
Denn unnachgiebig ist ihre Geburt, ihre Kraft aus der Mutter herauszukommen, wonach ihre Macht doppelt so groß wird.
Ведь мощно их рождение,
Жизненная сила, (заставляющая их) выйти из матери, -
Потому что (их) могущество (следует) сразу же за (их рождением).
उदु॒ त्ये सू॒नवो॒ गिर॒: काष्ठा॒ अज्मे॑ष्वत्नत । वा॒श्रा अ॑भि॒ज्ञु यात॑वे ॥
उत् । ऊँ॒ इति॑ । त्ये । सू॒नवः॑ । गिरः॑ । काष्ठाः॑ । अज्मे॑षु । अ॒त्न॒त॒ । वा॒श्राः । अ॒भि॒ऽज्ञु । यात॑वे ॥
त्ये पूर्वप्रकृताः गिरः सूनवः वाच उत्पादका मरुतः । वायवो हि ताल्वौष्ठादिषु संचरन्तो वाचमुत्पादयन्ति । अज्मेषु स्वकीयेषु गमनेषु सत्सु काष्ठाः अपः । ‘ आपोऽपि काष्ठा उच्यन्ते क्रान्त्वा स्थिता भवन्ति' ( निरु. २. १५) इति यास्कः। उदु उत्कर्षेणैव अत्नत अतनिषत विस्तारितवन्तः । उदकं विस्तार्य तत्पानार्थं वाश्राः हम्भारोपेता गाः अभिज्ञु जान्वाभिमुख्यं यथा भवति तथा यातवे गन्तुं प्रेरितवन्त इति शेषः ॥ सूनवः । ‘ षू प्रेरणे' । ‘सुवः कित्' ( उ. सू. ३. ३१५) इति नुप्रत्ययः । कित्त्वाद्गुणाभावः । अत्नत । तनु विस्तारे '। लङि झस्य अदादेशे ‘बहुलं छन्दसि ' इति विकरणस्य लुक् । ‘ तनिपत्योश्छन्दसि ' ( पा. सू. ६. ४. ९९ ) इति उपधालोपः । अडागमः । अभिज्ञु । अभिगते जानुनी यस्य तदभिज्ञु ।' प्रसंभ्यां जानुनोर्ज्ञुः ' ( पा. सू.५. ४. १२९ ) इति व्यत्ययेनाभिपूर्वस्यापि जानुशब्दस्य ज्ञुशब्दादेशः समासान्तः। यातवे । ' तुमर्थे सेसेन्°' इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥ ॥ १३ ॥
“They are the genitive rations of speech; they spread out the waters in their courses; they urge the lowing (cattle) to enter (the water) up to their knees (to drink).”
And these, the Sons, the Singers, in their racings have enlarged the bounds,
So that the kine must walk knee-deep.
And these sons (of Rudra) have erected their songs (like) race-course posts on their drives,
bellowing and bending their knees for their journey.
Ausdehnte weithin ihre Bahn der hochberühmten Söhne Schar, Knietief zu wandeln durch die Flut.
Diese Söhne des Rudra stimmen ihre Loblieder an. Sie haben bei ihren Anläufen die Ziele weit gesteckt, um brüllend, in die Knie sich legend zu laufen.
Эти самые сыны (Рудры) за(певают) песни.
На своих путях они (еще дальше) отодвинули границы,
Чтобы, ревя, мчаться, выбрасывая вперед колени.
त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा॑त॒ममृ॑ध्रम् । प्र च्या॑वयन्ति॒ याम॑भिः ॥
त्यम् । चि॒त् । घ॒ । दी॒र्घम् । पृ॒थुम् । मि॒हः । नपा॑तम् । अमृ॑ध्रम् । प्र । च्य॒व॒य॒न्ति॒ । याम॑ऽभिः ॥
त्यं चिद्ध प्रसिद्धो यो मेघस्तमपि मेघं यामभिः स्वकीयगमनैः प्र च्यावयन्ति मरुतः प्रकर्षेण गमयन्ति । कीदृशम् । दीर्घम् आयामोपेतं पृथुं तिर्यग्विस्तृतं मिहो नपातं सेचनीयस्य जलस्य न पातयितारं वृष्टिमकुर्वन्तमित्यर्थः। अमृध्रं केनाप्यहिंस्यम् ॥ घ। ऋचि तुनुघ' इत्यादिना दीर्घः । मिहः । ‘ मिह सेचने '। मेहति सिञ्चतीति मिट् वृष्टिः । ‘ क्विप् च ' इति क्विप् । ‘ सावेकाचः° ' इति विभक्तेरुदात्तत्वम् । नपातम् । न पातयतीति नपात् । । नभ्राण्नपात्” । इत्यादिना नञः प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अमृध्रम् । श्रुधु मृधु उन्दने ' । मर्धति उदकेन उनत्तीति मृध्रः । बहुलवचनात् औणादिको रक्प्रत्ययः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । यद्वा । संग्रामवाचिना मृधशब्देन हिंसा लक्ष्यते । मत्वर्थीयो रः । पूर्ववत् स्वरसमासौ । च्यावयन्ति ॥ ‘ च्युङ् गतौ ' । णिचि वृद्ध्यावादेशौ । पदकाले ह्रस्वश्छान्दसः ॥
“They drive before them in their course, the long, vast, uninjurable, rain-retaining cloud.”
Before them, on the ways they go, they drop this offspring of the cloud,
Long, broad, and inexhaustible.
Also this child of mist [=cloud]—long, wide, not negligible (in size)— do they stir forth with their journeys.
Auf ihren Fahrten schütteln sie den langen, breiten Wolkensohn, Den unerschöpflichen hervor.
Selbst jenes lange breite Kind des Regengewölks, das nicht zurückstehen will, setzen sie durch ihre Fahrten in Bewegung.
И даже этого длинного, широкого,
Неиссякающего сына грозовой тучи
Они колеблют при своих выездах.
मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ॑ अचुच्यवीतन । गि॒रीँर॑चुच्यवीतन ॥
मरु॑तः । यत् । ह॒ । वः॒ । बल॑म् । जना॑न् । अ॒चु॒च्य॒वी॒त॒न॒ । गि॒रीन् । अ॒चु॒च्य॒वी॒त॒न॒ ॥
हे मरुतः यद्ध यस्मादेव कारणात् वः युष्माकं बलम् अस्ति अस्मादेव कारणात् जनान् प्राणिनः अचुच्यवीतन स्वस्वव्यापारेषु प्रेरयत । तथा गिरीन् मेघान् अचुच्यवीतन प्रेरयत ॥ मरुतः । आमन्त्रिताद्युदात्तत्वम् । अचुच्यवीतन । च्यवतेर्लङि व्यत्ययेन परस्मैपदम् । ‘तप्तनप्तनथनाश्च इति तस्य तनबादेशः। ‘ बहुलं छन्दसि ' इति शपः श्लुः। ‘बहुलं छन्दसि' (पा. सू. ७. ३.९७) इति ईडागमः । गुणावादेशौ । तिङ्ङतिङः' इति निघातः । गिरीन् । दीर्घादटि समानपादे' इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः' इति ईकारस्यानुनासिकः ॥
“Maruts, as you have vigour, invogorate mankind; give animation to the clouds.”
O Maruts, as your strength is great, so have ye cast men down on earth,
So have ye made the mountains fall.
O Maruts, since you have the strength, you have stirred up the peoples and stirred up the mountain-peaks.
Nach eurer Kraft, o Maruts, habt der Menschen Volk ihr aufgeregt, Habt ihr die Berge aufgeregt.
Ihr Marut, mit eurer Kraft habt ihr die Menschen erschüttet, habt ihr die Berge erschüttert.
О Маруты, (та) сила, что у вас, –
(Ею) вы поколебали людей,
(Ею) вы поколебали горы.
यद्ध॒ यान्ति॑ म॒रुत॒: सं ह॑ ब्रुव॒तेऽध्व॒न्ना । शृ॒णोति॒ कश्चि॑देषाम् ॥
यत् । ह॒ । यान्ति॑ । म॒रुतः॑ । सम् । ह॒ । ब्रु॒व॒ते॒ । अध्व॑न् । आ । शृ॒णोति॑ । कः । चि॒त् । ए॒षा॒म् ॥
यद्ध यदा खलु मरुतः यान्ति गच्छन्ति तदानीम् अध्वन्ना मार्गे सर्वतः सं ब्रुवते ह संभूय ध्वनिमवश्यं कुर्वन्ति । एषां मरुतां संबन्धिनं शब्दं कश्चित् यः कोऽपि शृणोति ॥ यान्ति । ‘ या प्रापणे '। अदादित्वात् शपो लुक् । ‘ झोऽन्तः' इति अन्तादेशस्य उपदेशिवद्भावात् अन्तीत्येतदाद्युदात्तम् । धातुना सहैकादेश एकादेशस्वरः । यद्वृत्तयोगादनिघातः । ब्रुवते । ब्रूञ् व्यक्तायां वाचि'। झस्य अदादेशे कृते परत्वात् प्राप्तस्य गुणस्य ङित्त्वेन बाधितत्वात् उवङादेशः । अध्वन् । ‘ सुपां सुलुक् ' इति सप्तम्या लुक् । शृणोति । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः ॥
“Wherever the Maruts pass, they fill the way with clamour; every one hears their (noise).”
The while the Maruts pass along, they talk together on the way:
Doth any hear them as they speak?
When the Maruts go driving, they keep talking with each other on the road:
anyone can hear them.
Wenn auf der Fahrt die Maruts sind, so plaudern auf dem Wege sie, und mancher mag sie hören dann.
Wenn die Marut ausfahren, so reden sie unterwegs zusammen; manch einer hört sie.
А когда выезжают Маруты,
(Все) вместе они беседуют в пути.
Кое-кто их слышит.
प्र या॑त॒ शीभ॑मा॒शुभि॒: सन्ति॒ कण्वे॑षु वो॒ दुव॑: । तत्रो॒ षु मा॑दयाध्वै ॥
प्र । या॒त॒ । शीभ॑म् । आ॒शुभिः॑ । स॒न्ति॒ । कण्वे॑षु । वः॒ । दुवः॑ । तत्रो॒ इति॑ । सु । मा॒द॒या॒ध्वै॒ ॥
हे मरुतः आशुभिः वेगवद्भिः स्वकीयैर्वाहनैः शीभं शीघ्रम् । ' शीभं तृषु तूयम्' (नि. २. १५. ९ ) इति क्षिप्रनामसु पाठात् । प्र यात प्रकर्षेण कर्मभूमिं गच्छत । कण्वेषु मेधाविष्वनुष्ठातृषु वः युष्माकं दुवः दुवांसि परिचरणानि सन्ति । तत्रो षु तेष्वेव परिचारकेषु कण्वेषु मादयाध्वै तृप्ता भवत ॥ आशुभिः । ‘ अशू व्याप्तौ । ‘ कृवापाजि° ' इत्यादिना उण् । प्रत्ययस्वरः । सन्ति । ‘ श्नसोरल्लोपः' इति अकारलोपः । मादयाध्वै । ‘ मद तृप्तियोगे'। चुरादिः । आकुस्मीय आत्मनेपदी । लेटि आडागमः । टेः एत्वम् ।' वैतोऽन्यत्र ' ( पा. सू. ३. ४. ९६ ) इति एकारस्य ऐकारादेशः ॥
“Come quickly, with your swift (vehicles); the offerings of the kaṇvas are prepared; be plural ased with them.”
Come quick with swift steeds, for ye have worshippers among Kanva's sons
May you rejoice among them well.
Drive forth quickly with your swift ones: there are friendships for you among the Kaṇvas.
There you will bring yourselves to exhilaration.
Auf schnellen Rossen eilet rasch, die Kanva's bieten Gaben euch; Bei ihnen nun berauscht euch schön.
Fahrt rasch los mit den Rennern! Für die Kanvas habt ihr eine Vorliebe; dort sollt ihr fein schwelgen;
Быстрее продвигайтесь вперед на (ваших) стремительных (конях)!
Есть у Канвов подарки для вас:
Опьяняйтесь же тут вволю (сомой)!
अस्ति॒ हि ष्मा॒ मदा॑य व॒: स्मसि॑ ष्मा व॒यमे॑षाम् । विश्वं॑ चि॒दायु॑र्जी॒वसे॑ ॥
अस्ति॑ । हि । स्म॒ । मदा॑य । वः॒ । स्मसि॑ । स्म॒ । व॒यम् । ए॒षा॒म् । विश्व॑म् । चि॒त् । आयुः॑ । जी॒वसे॑ ॥
‘ हे मरुतः वः युष्माकं मदाय तृप्तये अस्ति हि ष्म अस्माभिः प्रयुज्यमानं हविर्वो विद्यते खलु । एषां युष्माकं भृत्यभूताः वयं स्मसि ष्म विद्यामहे खलु । जीवसे जीवितुं विश्वं चिदायुः सर्वमप्यायुः प्रयच्छतेति शेषः । स्म ' निपातस्य च ' इति संहितायां दीर्घः । स्मसि । इदन्तो मसिः । जीवसे । ‘ तुमर्थे सेसेन्° ' इति असेप्रत्ययः ॥ ॥ १४ ॥
“The offering is prepared for your gratification; we are your (worshipper), that we may live all our life.”
All is prepared for your delight. We are their servants evermore,
To live as long as life may last.
For (our friendship) is always there for your exhilaration; we are always there for them [=Maruts],
in order (for us) to live a full lifetime.
Für euren Rausch ist hier gesorgt, und wir gehören auch zu euch, Zu leben bis ans Lebensziel.
Denn es gibt etwas für euch zum Schwelgen. Wir gehören ihnen. Schenket uns die volle Dauer zum Leben.
Есть ведь тут (кое-что) вам для опьянения.
И мы тоже им принадлежим.
(Дайте же нам) самый полный срок для жизни!