कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः । द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥
कत् । ह॒ । नू॒नम् । क॒ध॒ऽप्रि॒यः॒ । पि॒ता । पु॒त्रम् । न । हस्त॑योः । द॒धि॒ध्वे । वृ॒क्त॒ऽब॒र्हि॒षः॒ ॥
हे मरुतः कद्ध कदा खलु नूनम् अवश्यं हस्तयोः दधिध्वे यूयमस्मान् हस्ते धारयथ । तत्र दृष्टान्तः। पिता पुत्रं न हस्तयोः । यथा लोके पिता हस्तयोः स्वकीयं पुत्रं धारयति तद्वत् । कीदृशा मरुतः । कधप्रियः स्तुतिप्रीताः वृक्तबर्हिषः । वृक्तं छिन्नं बर्हिर्दर्भो येषां मरुतां यजमानाय ते मरुतः तथाविधाः ॥ कत् कदा । ‘ द्वौ चापरौ वर्णविकारनाशौ' (का.६.३.१०९) इत्युक्तत्वात् आकारलोपः । कधप्रियः । कथा स्तुतिः । तया प्रीणन्तीति कधप्रियः । ‘ प्रीञ् प्रीतौ ' । क्विप् । पूर्वपदस्य ' ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ' (पा. सू. ६. ३.६३ ) इति ह्रस्वत्वम् । धकारश्छान्दसः। आमन्त्रितनिघातः । दधिध्वे । दधातेः “ छन्दसि लुङ्लङ्लिटः' इति वर्तमाने लिट् । क्रादिनियमातु इट् । प्रत्ययस्वरः वृक्तबर्हिषः । आमन्त्रितनिघातः ॥
“Maruts, who are fond of praise, and for whom the sacred grass is trimmed, when will you take us by both hands as a father does his son?”
WHAT now? When will ye take us by both hands, as a dear sire his son,
Gods, for whom sacred grass is clipped?
What is this now, you fair-weather friends?! What have you taken in your hands,
as a father does his son, o you for whom the ritual grass has been twisted?
Was nahmt ihr nun in euren Arm, gleich wie der Vater seinen Sohn? Was wünscht ihr? Streu ist euch geweiht.
Was habt ihr denn jetzt, ihr Freunde Suchende, in die Hände genommen wie der Vater seinen Sohn, da für euch das Barhis herumgelegt ist
Что же сейчас, о любимые (неизвестно) где,
Вы взяли в руки,
Как отец – сына, о те, для кого разложена жертвенная солома?
क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता॑ दि॒वो न पृ॑थि॒व्याः । क्व॑ वो॒ गावो॒ न र॑ण्यन्ति ॥
क्व॑ । नू॒नम् । कत् । वः॒ । अर्थ॑म् । गन्ता॑ । दि॒वः । न । पृ॒थि॒व्याः । क्व॑ । वः॒ । गावः॑ । न । र॒ण्य॒न्ति॒ ॥
‘ हे मरुतः नूनम् इदानीं क्व यूयं कुत्र स्थिताः । कत् कदा वः युष्माकम् अर्थम् अरणं देवयजनदेशे गमनम्। विलम्बं मा कुरुतेत्यर्थः। दिवः गन्त द्युलोकाद्गच्छत । पृथिव्याः न गन्त भूलोकान्मा गच्छत । वः युष्मान् क्व रण्यन्ति । देवयजनरूपायाः पृथिव्या अन्यत्र कुत्र शब्दयन्ति । यजमानाः स्तुवन्ति । तत्र दृष्टान्तः । गावो न । यथा गावो रणन्ति शब्दयन्ति तद्वत् ॥ क्व । किंशब्दात् सप्तम्यन्तात् ' किमोऽत् ' (पा. सू. ५. ३. १२) इति अत्प्रत्ययः। ‘ क्वाति' (पा. सू. ७. २. १०५) इति किमः क्वादेशः । ‘ तित्स्वरितः' इति स्वरितत्वम् । अर्थम् । ‘ऋ गतौ । ‘ उषिकुषिगार्तिभ्यस्थन् ' ( उ. सू. २. १६१ ) इति भावे थन् । नित्त्वादाद्युदात्तत्वम् । गन्त । गमेर्लोटि बहुलं छन्दसि' इति शपो लुक् । थादेशस्य तस्य ‘ तप्तनप्तनथनाश्च ' इति तबादेशः। अत एव ङित्त्वाभावात् ‘ अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपो न भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ द्व्यचोऽतस्तिङः ' इति संहितायां दीर्घत्वम् । दिवः । ‘ ऊडिदम्० इति विभक्तेरुदात्तत्वम् । पृथिव्याः । उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् । रण्यन्ति । रणतिः शब्दार्थः । व्यत्ययेन श्यन् ॥
“Where indeed are you (at present)? When will your arrival take plural ce? Pass from the heaven, not from the earth. Where do they worship you cry (to you) like cattle?”
Now whither? To what goal of yours go ye in heaven, and not on earth?
Where do your cows disport themselves?
Where now—what your goal?—have you gone on earth, as if in heaven? Where are they taking pleasure in you, like cows (in a pasture)?
Wo seid ihr? und zu welchem Ziel geht ihr durch Erd' und Himmel hin? Wo laben sie wie Rinder sich?
Wohin jetzt - was ist euer Reiseziel? - geht ihr auf Erden wie im Himmel? Wo erfreut man sich euer wie die Rinder sich auf der Weide erfreuen?
Куда сейчас? Какова ваша цель?
Двигайтесь (путями) земли, как (путями) неба!
Где радуются вам, как коровы (на пастбище)?
क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑त॒: क्व॑ सुवि॒ता । क्वो॒३॒॑ विश्वा॑नि॒ सौभ॑गा ॥
क्व॑ । वः॒ । सु॒म्ना । नव्यां॑सि । मरु॑तः । क्व॑ । सु॒वि॒ता । क्वो॒ इति॑ । विश्वा॑नि । सौभ॑गा ॥
हे मरुतः वः युष्माकं संबन्धीनि नव्यांसि नवतराणि सुम्ना प्रजापशुरूपाणि धनानि ‘प्रजा वै पशवः सुम्नम् ' ( तै. सं. ५. ४. ६. ६ ) इति श्रुत्यन्तरात् । क्व कुत्र वर्तन्ते । तथा सुविता शोभनानि प्राप्याणि मणिमुक्तादीनि भवदीयानि क्व कुत्र वर्तन्ते । विश्वानि सर्वाणि सौभगा सौभाग्यरूपाणि गजाश्वादीनि क्वो कुत्र वा वर्तन्ते । भवदीयैः सुम्नादिभिः सर्वैः सहागन्तव्यमित्यर्थः ॥ सुम्ना । ‘ शेश्छन्दसि बहुलम् ' इति शेर्लोपः । नव्यांसि । नवशब्दात् ईयसुनि ईकारलोपश्छान्दसः । सुविता । सुष्ठु इतानि सुवितानि । ‘ तन्वादीनां छन्दसि बहुलमुपसंख्यानम् ' ( पा. सू. ६. ४. ७७. १ ) इति उवङादेशः । सौभगा। ‘सुभगान्मन्त्रे' (पा. सू. ५. १. १२९ ग.) इति तस्य भावः इत्यर्थे अन् । पूर्ववत् शेर्लोपः ॥
“Where, Maruts, are your new treasures? Where your valuable (riches)? Where all your auspicious (gifts)?”
Where are your newest favours shown? Where, Maruts, your prosperity?
Where all your high felicities?
Where are your newer favors, Maruts, where the easy passages?
Where all the good portions?
Wo zeigt sich eure neuste Huld? o Maruts, wo das Wohlergehn? Und wo das ganze höchste Glück?
Wo sind eure neuesten Gunsterweisungen, ihr Marut, wo die Wohlfahrt und wo alle Glücksgüter?
Где ваши новые проявления милости?
Где счастливые случаи, о Маруты?
Где все удачи?
यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑स॒: स्यात॑न । स्तो॒ता वो॑ अ॒मृत॑: स्यात् ॥
यत् । यू॒यम् । पृ॒श्नि॒ऽमा॒त॒रः॒ । मर्ता॑सः । स्यात॑न । स्तो॒ता । वः॒ । अ॒मृतः॑ । स्यात् ॥
हे पृश्निनामकधेनुपुत्राः मरुतः यूयं यद्यपि मर्तासः मनुष्याः स्यातन भवेत तथापि धवः युष्माकं स्तोता यजमानः अमृतः स्यात् देवो भवेत् ॥ पृश्निमातरः । पृश्निर्माता येषां ते । समासान्तविधेरनित्यत्वात् ‘नद्यृतश्च ' ( पा. सू. ५. ४. १५३ ) इति कबभावः । मर्तासः । ‘ असि हसि ' इत्यादिना म्रियतेः तन्प्रत्ययः । आजसेरसुक्'। स्यातन। अस्तेर्लिङि तस्य ‘तप्तनप्तनथनाश्च इति तनादेशः । यासुट उदात्तत्वम् । अमृतः । ‘ नञो जरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम् ॥
“That you, sons of Pṛśni, may become mortals, and your panegyrist become immortal.”
If, O ye Maruts, ye the Sons whom Prsni bore, were mortal, and
Immortal he who sings your praise.
O you whose mother is Pr̥śni, if you were mortals,
your praiser would be immortal.
Wenn ihr nur wäret Sterbliche, o Priçnisöhne und es wär' Eur Sänger ein Unsterblicher, –
Wenn ihr Söhne der Prisni die Sterblichen wäret, so würde euer Sänger unsterblich sein.
Если бы вы, о (те,) чья мать Пришни,
Были бы смертными,
Восхваляющий вас был бы бессмертным.
मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः । प॒था य॒मस्य॑ गा॒दुप॑ ॥
मा । वः॒ । मृ॒गः । न । यव॑से । ज॒रि॒ता । भू॒त् । अजो॑ष्यः । प॒था । य॒मस्य॑ । गा॒त् । उप॑ ॥
हे मरुतः वः युष्माकं जरिता स्तोता अजोष्यः असेव्यः मा भूत् । तत्र दृष्टान्तः । मृगो न यवसे । यथा तृणे भक्षणीये मृगः कदाचिदप्यसेव्यो न भवति किंतु सर्वदा तृणं भक्षयति तद्वत् । किं च स स्तोता यमस्य पथा यमलोकसंबन्धिमार्गेण मा उप गात् मा गच्छतु । तस्य मरणं मा भूदित्यर्थः ॥ जरिता । ‘जॄष् वयोहानौ' । स्तुतिकर्मेति ( निरु. १०.८ ) यास्कः । तृचि इडागमः। चित्त्वादन्तोदात्तत्वम् । भूत् । लुङि ‘ गातिस्था° ' इति सिचो लुक् । ' न माङ्योगे ' इति अडभावः । अजोष्यः। ‘जुषी प्रीतिसेवनयोः । ‘ ऋहलोर्ण्यत्' इति कर्मणि ण्यत्। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । पथा । तृतीयैकवचने ‘ भस्य टेर्लोपः' (पा. सू. ७. १. ८८) इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । गात् । एतेर्लुङि • इणो गा लुङि' (पा. सू. २, ४, ४५ ) इति गादेशः । ‘ गातिस्था° ' इति सिचो लुक् । पूर्ववत् अडभावः ॥ ॥ १५ ॥
“Never may your worshipper be indifferent to you, as a deer (is never indifferent) to pasture, so that he may not tread the path of Yama.”
Then never were your praiser loathed like a wild beast in pasture-land,
Nor should he go on Yama's path.
Let your singer not be displeasing to you, like a wild animal in a pasture, and let him not go along the path of Yama.
Nicht sollte, wie das Wild im Gras, eur Sänger unwillkommen sein, Noch gehen auf des Jama Pfad,
Nicht soll euer Sänger unbefriedigt sein wie ein Wild auf der Weide, noch möchte er auf dem Pfade Yama´s wandeln.
Да не будет певец ваш нежеланным,
Как дикий зверь на пастбище!
Да не отправится он по пути Ямы!
मो षु ण॒: परा॑परा॒ निॠ॑तिर्दु॒र्हणा॑ वधीत् । प॒दी॒ष्ट तृष्ण॑या स॒ह ॥
मो इति॑ । सु । नः॒ । परा॑ऽपरा । निःऽऋ॑तिः । दुः॒ऽहना॑ । व॒धी॒त् । प॒दी॒ष्ट । तृष्ण॑या । स॒ह ॥
हे मरुतः नः अस्मान् निऋतिः रक्षोजातिदेवता मो षु वधीत् सर्वथा वधं मा कार्षीत्। कीदृशी । परापरा उत्कृष्टादप्युत्कृष्टा अतिबलेत्यर्थः । अत एव दुर्हणा केनापि हन्तुं दुःशक्या' । सा निर्ऋतिः तृष्णया सह पदीष्ट पततु । अस्मदीया तृष्णा बाधिका निर्ऋतिश्च विनश्यत्वित्यर्थः ॥ मो षु णः । ‘ सुञः' इति षत्वम् । नश्च धातुस्थोरुषुभ्यः' इति णत्वम् । दुर्हणा । ‘ ईषद्दुःसुषु । इत्यादिना हन्तेः कर्मणि खल्। लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम्। वधीत् । लुङि हन्तेः लुङि च । (पा.सू. ३. ४. ४३) इति वधादेशः । सिचि इडागमः। वधादेशस्य अदन्तत्वात् ' एकाच उपदेशे । इति इट्प्रतिषेधो न भवति । अतो लोपे सति तस्य स्थानिवत्त्वात् ‘अतो हलादेः ' (पा. सू. ७. २. ७) इति वृद्ध्यभावः । ‘इट ईटि' (पा. सू. ८.२.२८) इति सिचो लोपः । पदीष्ट । ‘पद गतौ । आशीर्लिंङि छन्दस्युभयथा ' इति सार्वधातुकत्वात् सलोपः । आर्धधातुकत्वात् सुडागमः । प्रत्ययस्वरः । तृष्णया । ‘ ञितृषा पिपासायाम्'। ‘तृषिशुषिरसिभ्यः किच्च' ( उ. सू. ३. २९२ ) इति नप्रत्ययः। ‘ नित्' इत्यनुवृत्तेराद्युदात्तत्वम् ॥
“Let not the most powerful and indestructible Nirṛti destroy us; let him perish with our (evil) desires.”
Let not destructive plague on plague hard to be conquered, strike its down:
Let each, with drought, depart from us.
And let not dissolution, evil rage—(going) ever further away—smite us. It should collapse, along with thirst.
Nicht sollte treffen fort und fort Verderben uns und Ungemach, Verschwinden sollt' es sammt dem Durst.
Nicht soll uns fein früher oder später die unbarmherzige Niriti töten. Zusammen mit dem Durst soll sie vergehen.
(Таща) нас все дальше и дальше,
Да не убьет (нас) пагубная Гибель!
Да падет она вместе с Жаждой!
स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः । मिहं॑ कृण्वन्त्यवा॒ताम् ॥
स॒त्यम् । त्वे॒षाः । अम॑ऽवन्तः । धन्व॑म् । चि॒त् । आ । रु॒द्रिया॑सः । मिह॑म् । कृ॒ण्व॒न्ति॒ । अ॒वा॒ताम् ॥
धन्वञ्चित् मरुदेशेऽपि रुद्रियासः रुद्रेण पालितत्वात् तदीया मरुतः आ सर्वतः अवातां वायुरहितां मिहं वृष्टिं कृण्वन्ति कुर्वन्ति तदेतत् सत्यम् । कीदृशा रुद्रियासः। त्वेषाः दीप्ताः अमवन्तः बलवन्तः । मरुतां रुद्रपालनमाख्यानेषु प्रसिद्धम् ॥ धन्वन् । ‘ रिवि रवि धवि गत्यर्थाः । इदित्त्वात् नुम् । ‘कनिन्युवृषितक्षि° ' इत्यादिना कनिन् । नित्त्वादाद्युदात्तत्वम् । सुपां सुलुक्° ' इति सप्तम्या लुक् । रुद्रियासः। रुद्रस्येमे रुद्रियाः। तस्येदम्' इत्यर्थे घः। आजसेरसुक्' । मिहम् । मिह सेचने'। ‘ क्विप् च ' इति क्विप् । कृण्वन्ति । कृवि हिंसाकरणयोश्च । ‘ धिन्विकृण्व्योर च' इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारादेशः । अतो लोपेन लुप्तस्य स्थानिवद्भावात् लघूपधगुणाभावः ॥
“In truth the brilliant and vigorous Maruts, cherishes by Rudra, send down rain without wind upon the desert.”
Truly, they the fierce and mighty Sons of Rudra send their windless
Rain e'en on the desert places.
This is real: the dazzling, hard-charging sons of Rudra even in the desert create unquenchable mist.
Traun, die wilden, ungestümen Rudrasöhne schaffen Regen Unversiegten selbst in Wüsten.
Die wahrhaft zornfunkelnden, überwältigenden Rudrasöhne machen selbst in der Wiege Regenwetter ohne Wind.
(Это) правда: буйные, неистовые
Сыновья Рудры даже в пустыне
Создают дождь при отсутствии ветра.
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति । यदे॑षां वृ॒ष्टिरस॑र्जि ॥
वा॒श्राऽइ॑व । वि॒ऽद्युत् । मि॒मा॒ति॒ । व॒त्सम् । न । मा॒ता । सि॒ष॒क्ति॒ । य॒त् । ए॒षा॒म् । वृ॒ष्टिः । अस॑र्जि ॥
वाश्रेव शब्दयुक्ता प्रस्नुतस्तनवती धेनुरिव विद्युत् मेघस्था दृश्यमाना सती मिमाति शब्दं करोति । विद्युद्वेलायां हि मेघगर्जनं प्रसिद्धम् । माता धेनुः वत्सं न वत्समिव सिषक्ति इयं विद्युत् मरुतः सेवते । सिषक्तिः सेवनार्थः। ‘ सिषक्तु सचत इति सेवमानस्य' ( निरु. ३. २१ ) इति यास्केनोक्तत्वात् । यत् यस्मात् कारणात् एषां मरुतां संबन्धिनी वृष्टिरसर्जि गर्जनसहिते विद्युत्काले वृष्टा भवति, तस्मात् विद्युतो मरुत्सेवनमुपपन्नम् ॥ वाश्रेव । ‘वाशृ शब्दे'। 'स्फायितञ्चि° ' इत्यादिना रक् । मिमाति । ' माङ् मानै शब्दे च ' । व्यत्ययेन परस्मैपदम् । जुहोत्यादित्वात् श्लुः । ‘ भृञामित् ' ( पा. सू. ७. ४. ७६ ) इति अभ्यासस्य इत्वम् । सिषक्ति। ‘ षच समवाये'। लटि बहुलं छन्दसि ' इति शपः लुः । ‘ बहुलं छन्दसि ' इति अभ्यासस्य इत्वम् । असर्जि । ‘ सृज विसर्गे ' । कर्मणि लुङ् ।' चिण् भावकर्मणोः ' (पा. सू. ३. १. ६६) इति चिण् ।' चिणो लुक्' (पा. सू. ६. ४. १०४ ) इति तशब्दस्य लुक् । गुणः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः ॥
“The lightning roars like a parent cow that bellows for its calf, and hence the rain is set free by the Maruts.”
Like a cow the lightning lows and follows, motherlike, her youngling,
When their rain-flood hath been loosened.
Like a bawling (cow) the lightning bellows. Like a mother her calf, it accompanies (the rain),
when their rain has been sent gushing.
Wie die Kuh so brüllt ihr Blitzstrahl, wie dem Kalb die Mutter nachgeht, Wenn ihr Regen sich ergossen.
Wie eine blökende Kuh brüllt der Blitz, wie die Mutter das Kalb begleitet er ihn, wenn ihr Regen sich ergossen hat.
Словно мычащая корова, ревет молния,
Как за теленком-мать, следует она (за ним),
Когда пролился их дождь.
दिवा॑ चि॒त्तम॑: कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ । यत्पृ॑थि॒वीं व्यु॒न्दन्ति॑ ॥
दिवा॑ । चि॒त् । तमः॑ । कृ॒ण्व॒न्ति॒ । प॒र्जन्ये॑न । उ॒द॒ऽवा॒हेन॑ । यत् । पृ॒थि॒वीम् । वि॒ऽउ॒न्दन्ति॑ ॥
ते मरुतः उदवाहेन उदकधारिणा पर्जन्येन मेघेन सूर्यमाच्छाद्य दिवा चित् अहन्यपि तमः कृण्वन्ति अन्धकारं कुर्वन्ति । यत् यदा पृथिवीं भूमिं व्युन्दन्ति विशेषेण क्लेदयन्ति तदानीमतिवृष्टिकाले तमः कुर्वन्तीति पूर्वत्रान्वयः ॥ उदवाहेन । उदकानि वहतीति उदवाहः । कर्मण्यण्' । मेघविशेषस्येयं संज्ञा ।' उदकस्योदः संज्ञायाम् ' ( पा. सू. ६. ३. ५७ ) इति उदकशब्दस्य उदभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । व्युन्दन्ति ।' उन्दी क्लेदने' । रुधादित्वात् श्नम् । ‘ श्नान्नलोपः ' (पा. सू. ६. ४. २३) इति नलोपः । यद्वृत्तयोगादनिघातः ॥
“They spread darkness over the day by a water-bearing cloud, and thence inundate the earth.”
When they inundate the earth they spread forth darkness e'en in day time,
With the water-laden rain-cloud.
Even by day they create darkness, together with Parjanya the
water-carrier,
when they inundate the earth.
Selbst am Tage machen Nacht sie durch die wasserschwangre Wolke, Wenn die Erde sie benetzen.
Selbst am Tag machen sie Dunkel, wenn sie mit Parjanya, dem Wasserfahrer. Die Erde überschwemmen.
Даже днем они создают мрак,
Когда вместе с Парджаньей-водовозом
Они заливают землю.
अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् । अरे॑जन्त॒ प्र मानु॑षाः ॥
अध॑ । स्व॒नात् । म॒रुताम् । विश्व॑म् । आ । सद्म॑ । पार्थि॑वम् । अरे॑जन्त । प्र । मानु॑षाः ॥
मरुतां संबन्धिनः स्वनात् अध ध्वनेर्गजनरूपादनन्तरं पार्थिवं पृथिवीसंबन्धि विश्वं सद्म सर्वं गृहम् आ समन्तात् अरेजत इति शेषः । तथा मानुषाः गृहवर्तिनो मनुष्या अपि प्र अरेजन्त प्रकर्षेण कम्पितवन्तः ॥ अध । छान्दसं धत्वम् । सद्म । ‘ षद्लृ विशरणगत्यवसादनेषु ' । अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । पार्थिवम् । पृथिव्याः संबन्धि। ‘पृथिव्या ञाञौ' (पा. सू. ४. १. ८५. २) इति प्राग्दीव्यतीयः अञ्प्रत्ययः । ञित्वादाद्युदात्तत्वम् । अरेजन्त । ‘रेजृ कम्पने '॥ ॥१६॥
“At the roaring of the Maruts, every dwelling of earth (shakes), and men also tremble.”
O Maruts, at your voice's sound this earthly habitation shakes,
And each man reels who dwells therein.
Then because of the roar of the Maruts throughout the whole earthly seat the sons of Manu trembled.
Vor dem Getön der Maruts bebt der ganze weite Erdensitz, Vor ihm erbebt der Menschen Schar.
Dann erbebte der ganze irdische Sitz, erbebten die Menschen vor dem Getöse der Marut.
Тут от звона Марутов
По всему земному седалищу
Затряслись люди.
मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ । या॒तेमखि॑द्रयामभिः ॥
मरु॑तः । वी॒ळु॒पा॒णिऽभिः॑ । चि॒त्राः । रोध॑स्वतीः । अनु॑ । या॒त । ई॒म् । अखि॑द्रयामऽभिः ॥
हे मरुतः यूयं वीळुपाणिभिः दृढहस्तैः सहिताः सन्तः रोधस्वतीरनु कूलयुक्ता नदीरनुलक्ष्य अखिद्रयामभिः अच्छिन्नगमनैः याते गच्छतैव ॥ मरुतः । आमन्त्रिताद्युदात्तत्वम् । वीळुपाणिभिः । वीडु इति बलनाम, ‘वीळु च्यौत्नम्' (नि. २.९. १४) इति तन्नामसु पाठात् । तेन च तद्वान् लक्ष्यते । वीळवश्च ते पाणयश्च । समासस्य' इत्यन्तोदात्तत्वम् । रोधस्वतीः । ‘रुधिर् आवरणे'। रुणद्धि स्रोतः इति रोधः कूलम् । ‘रोधः कूलं निरुणद्धि स्रोतः' (निरु. ६. १ ) इत्युक्तत्वात् । असुनो नित्त्वादाद्युदात्तत्वम् । तद्युक्ता रोधस्वत्यः । मादुपधायाः' इति मतुपो वत्वम् । 'उगितश्च' इति ङीप् । मतुब्ङीपोः पित्त्वादनुदात्तत्वे असुनः स्वर एव शिष्यते । यात । ' या प्रापणे '। अदादित्वात् शपो लुक् । ईम् । ‘ चादयोऽनुदात्ताः' इत्यनुदात्तत्वम् । गुणे ‘ एकादेश उदात्तेनोदात्तः' इत्युदात्तत्वम् । अखिद्रयामभिः । ‘ खिद दैन्ये' । 'स्फायितञ्चि°' इत्यादिना रक् । खिद्रं यान्तीति खिद्रयामानः । न खिद्रयामानः अखिद्रयामानः । तैः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
“Maruts, with strong hands, come along the beautifully-embanked rivers, with obstructed progress.”
O Maruts, with your strong-hoofed steeds, unhindered in their courses, haste
Along the bright embanked streams.
O Maruts, along the shimmering (waters) with their riverbanks, drive with your hard-hooved (horses)
whose journey is never broken.
O Maruts mit nicht rastenden, starkhuf'gen Rossen eilet nach Der hellen eingesperrten Flut.
Ihr Marut, mit euren starkhufigen Rossen, die im Laufen unermüdlich sind, folget dem Lauf der buntschimmernden Flüsse.
О Маруты, на (конях) с крепкими копытами,
Не устающими в пути, мчитесь вслед за
Яркопереливающимися (реками) с крутыми берегами!
स्थि॒रा व॑: सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् । सुसं॑स्कृता अ॒भीश॑वः ॥
स्थि॒राः । वः॒ । स॒न्तु॒ । ने॒मयः॑ । रथाः॑ । अश्वा॑सः । ए॒षा॒म् । सुऽसं॑स्कृताः । अ॒भीश॑वः ॥
हे मरुतः एषां वः युष्माकं नेमयः रथचक्रवलयाः स्थिराः सन्तु । तथा रथा अश्वासः अश्वाश्च स्थिराः सन्तु । अभीशवः अङ्गुलयः, ‘ अभीशवः दीधितयः' ( नि. २. ५. २०) इति तन्नामसु पाठात् । सुसंस्कृताः अश्वबन्धनरज्जुपरिग्रहणे स्वलंकृताः सावधानाः सन्तु ॥ सुसंस्कृताः । संपूर्वात् करोतेः कर्मणि क्तः । ‘ संपर्युपेभ्यः° ' ( पा. सू. ६. १. १३७ ) इति सुट्। पुनः सुशब्देन प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अभीशवः । अभिपूर्वात् अश्नोतेः ‘ कृवापाजि° । इत्यादिना उण् । वर्णव्यत्ययेन आकारस्य इकारः । उक्तं च - ‘ वर्णागमो वर्णविपर्ययश्च ' ( का. ६.३. १०९ ) इति । ‘ अभीशवोऽभ्यश्नुवते कर्माणि ' ( निरु. ३. ९ ) इति निरुक्तम् ॥
“May the felloes of your wheels be firm; may your cars and their steeds be steady, and your fingers well-skilled (to hold the reins).”
Firm be the fellies of your wheels, steady your horses and your cars,
And may your reins be fashioned well.
Let your wheel-rims be steady, and your chariots and horses,
and your reins be well fashioned.
Fest mögen eure Räder sein, die Ross und Wagen, die ihr habt, Und eure Zügel schön geschmückt.
Fest müssen eure Radkränze sein, ihre Wagen und Rosse, gediegen die Zügel.
Да будут твердыми ваши ободья,
Колесницы (и) их кони,
Прочными поводья!
अच्छा॑ वदा॒ तना॑ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति॑म् । अ॒ग्निं मि॒त्रं न द॑र्श॒तम् ॥
अच्छ॑ । व॒द॒ । तना॑ । गि॒रा । ज॒रायै॑ । ब्रह्म॑णः । पति॑म् । अ॒ग्निम् । मि॒त्रम् । न । द॒र्श॒तम् ॥
हे ऋत्विक्समूह तना तनया देवतास्वरूपं प्रकाशयन्त्या गिरा वाचा ब्रह्मणस्पतिं मन्त्रस्य हविर्लक्षणस्यान्नस्य वा पालकं मरुद्गणम् अग्निं दर्शतं दर्शनीयं मित्रं न मित्रमपि जरायै स्तोतुम् अच्छ आभिमुख्येन वद ब्रूहि ॥ अच्छ।' निपातस्य च ' इति संहितायां दीर्घत्वम्। वद । ‘द्व्यचोऽतस्तिङः' इति संहितायां दीर्घः । तना। तनु विस्तारे'। तनोति देवतामाहात्म्यं विस्तारयतीति तना । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । तृतीयाया डादेशः। गिरा। ‘सावेकाचः' इति विभक्तेरुदात्तत्वम् । ब्रह्मणः । षष्ठ्याः पतिपुत्र' इति सहितायां सत्वम् ॥
“Declare in our presence, (priests), with voice attuned to praise Brahmaṇaspati (lord of the sacriricial food), Agni and the beautiful Mitra.”
Invite thou hither with this song, for praise, Agni the Lord of Prayer,
Him who is fair as Mitra is.
Speak here with a song at length to the Lord of the Sacred
Formulation, to awaken him,
and to Agni, lovely to see like an ally.
Mit stetem Lied begrüsse ihn, besinge den Gebetesherrn, Den Agni, der wie Mitra schön.
Rufe mit anhaltender Lobrede den Brahmanaspati an, daß er das Greisenalter uns schenke, den Agni, den gern gesehen ist wie ein Freund!
Обратись с долгой хвалебной песнью
К Брахманаспати для (достижения) старости,
К Агни, приятному на вид, словно к другу!
मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः । गाय॑ गाय॒त्रमु॒क्थ्य॑म् ॥
मि॒मी॒हि । श्लोक॑म् । आ॒स्ये॑ । प॒र्जन्यः॑ऽइव । त॒त॒नः॒ । गाय॑ । गा॒य॒त्रम् । उ॒क्थ्य॑म् ॥
हे ऋत्विक्समूह आस्ये स्वकीयमुखे श्लोकं स्तोत्रं मिमीहि निर्मितं कुरु । तं च श्लोकं ततनः विस्तारय । तत्र दृष्टान्तः। पर्जन्यइव । यथा मेघो वृष्टिं विस्तारयति तद्वत् । उक्थ्यं शस्त्रयोग्यं गायत्रं गायत्रीच्छन्दस्कं सूक्तं गाय पठ॥ मिमीहि । 'माङ् माने। जौहोत्यादिकः । व्यत्ययेन परस्मैपदम् । ‘भृञामित्' इति अभ्यासस्य इत्वम् । आस्ये । असु क्षेपणे ' । अस्यते क्षिप्यतेऽस्मिन्निति आस्यम् । ‘ कृत्यल्युटो बहुलम् ' ( पा. सू. ३. ३. ११३ ) इत्यधिकरणे ण्यत् । ‘ तित्स्वरितम् । इति स्वरितत्वम् । ततनः । ‘ तनु विस्तारे'। लेटि सिपि • बहुलं छन्दसि' इति विकरणस्य श्लुः । ‘लेटोऽडाटौ' इति अडागमः । इतश्च लोपः' इति इकारलोपः । गायत्रम् । गायत्र्याः संबन्धि । ‘ तस्येदम् ' इति अण् । यद्वा । गायतस्त्रायते इति गायत्रम् । आतोऽनुपसर्गे कः ॥
“Utter the verse that is in your mouths, spread it out like a cloud spreading rain; chant the measured hymn.”
Form in thy mouth the hymn of praise expand thee like, a rainy cloud
Sing forth the measured eulogy.
Bellow [/measure] the call that is in your mouth. Like Parjanya, you will thunder [/stretch it out].
Sing the song-verse belonging to the hymn.
Ein Preislied nimm in deinen Mund, ertöne wie das Blitzgewölk, Und sing ein sprüchereiches Lied.
Miß den Ton in deinem Munde richtig ab, wie Parjanyas halte ihn an! Sing das Loblied, das das Lobgedicht enthält!
Устами меряй лад,
Тяни (тон), как Парджанья (дождь)!
Пой напев, согласный с гимном!
वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म् । अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥
वन्द॑स्व । मारु॑तम् । ग॒णम् । त्वे॒षम् । प॒न॒स्युम् । अ॒र्किण॑म् । अ॒स्मे इति॑ । वृ॒द्धाः । अ॒स॒न् । इ॒ह ॥
हे ऋत्विक्संघ मारुतं मरुत्संबन्धिनं गणं समूहं वन्दस्व नमस्कुरु स्तुहि वा । कीदृशं गणम् । त्वेषं दीप्तं पनस्युं स्तुतियोग्यम् अर्किणम् अर्चनोपेतम्। अस्मे अस्माकम् इह अस्मिन् कर्मणि वृद्धा असन् मरुतः प्रवृद्धा भवन्तु ॥ वन्दस्व । वदि अभिवादनस्तुत्योः' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । पनस्युम् । ‘पन च ' इति स्तुत्यर्थो धातुः । असुन्। पनः स्तोत्रमात्मन इच्छतीति पनस्युः । सुप आत्मनः क्यच् ।“क्याच्छन्दसि' इति उप्रत्ययः। अर्किणम् । ऋच स्तुतौ । ‘ पुंसि संज्ञायाम्' इति घः। अर्कोऽस्यास्तीति अर्की। ‘अत इनिठनौ'। असन् । ‘बहुलं छन्दसि इति शपो लुगभावः । ‘ इतश्च लोपः' इति इकारलोपः। तिङ्ङतिङः' इति निघातः ॥ ॥१७॥
“Glorify the host of Maruts, brilliant, deserving of praise, entitled to adoration; may they be exalted by this our worship.”
Sing glory to the Marut host, praiseworthy, tuneful, vigorous:
Here let the Strong Ones dwell with us.
Extol the Marut throng—glittering, inviting admiration, receiving the chant—
(so that) they will be grown fully strong here with us.
Besing die wilde Marutschar, die strahlende, die Preis verdient, Die grossen seien hier bei uns.
Lobe die Marutschar, die funkelnde, beifalliebende, singende! Hier bei uns soll sie erbaut werden.
Славь марутову толпу,
Буйную, великолепную, поющую!
Да подкрепятся они здесь у нас!