प्र यदि॒त्था प॑रा॒वत॑: शो॒चिर्न मान॒मस्य॑थ । कस्य॒ क्रत्वा॑ मरुत॒: कस्य॒ वर्प॑सा॒ कं या॑थ॒ कं ह॑ धूतयः ॥
प्र । यत् । इ॒त्था । प॒रा॒ऽवतः॑ । शो॒चिः । न । मान॑म् । अस्य॑थ । कस्य॑ । क्रत्वा॑ । मरुतः॑ । कस्य॑ । वर्प॑सा । कम् । या॒थ॒ । कम् । ह॒ । धू॒त॒यः॒ ॥
हे धूतयः स्थावरादीनां कम्पनकारिणः मरुतः यत् यदा मानं मननीयं युष्मद्बलं परावतः दूरात् । ‘ आरे परावतः ' ( नि. ३. २६. ५) इति दूरनामसु पाठात् । इत्था अस्मादन्तरिक्षात् प्र अस्यथ भूमौ प्रक्षिपथ। तत्र दृष्टान्तः । शोचिर्न तेज इव । यथा सूर्यस्य तेजोऽन्तरिक्षात् भूमौ प्रक्षिप्यते तद्वत् । तदानीं यूयं कस्य यजमानस्य क्रत्वा क्रतुना संगच्छध्वे इति शेषः। तथा कस्य यजमानस्य वर्पसा स्तोत्रेण संगच्छध्वे । कं यजमानमुद्दिश्य याथ देवयजनदेशे गच्छथ। कं ह कं खलु यजमानमनुगृह्णीथेति शेषः ॥ इत्था । ' था हेतौ च च्छन्दसि' (पा. सू. ५, ३. २६) इति इदंशब्दात् प्रकारवचने थाप्रत्ययः । यदि तत्र इदंशब्दस्य नानुवृत्तिः तर्हि थमुप्रत्ययान्तात् इदंशब्दादुत्तरस्या विभक्तेर्व्यत्ययेन • सुपां सुलुक्' इति डादेशः । प्रथमपक्षे प्रत्ययस्वरः। द्वितीयपक्षे तु उदात्तनिवृत्तिस्वरः । अस्यथ । 'असु क्षेपणे । अदुपदेशात् लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । क्रत्वा । ‘ जसादिषु च्छन्दसि वावचनम् ( पा. सू. ७. ३. १०९. १ ) इति नाभावस्य विकल्पितत्वादभावः । वर्पसा । ‘ वृङ् संभक्तौ । ‘वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुक्च' ( उ. सू. ४. ६४० ) इति असुन्; तत्संनियोगेन पुगागमश्च । नित्त्वादाद्युदात्तत्वम् । अत्र रूपाभिधायिना वर्पस्शब्देन देवतास्वरूपप्रकाशकं स्तोत्रं लक्ष्यते क्रतुना साहचर्यात् ॥
“When Maruts, who make (all things) tremble, you direct your awful (vigour) downwards from afar, as light (descends from heaven), by whose worship by whose praise (are you attracted)? to what (plural ce of sacrifice), to whom, indeed, do you repair?”
WHEN thus, like flame, from far away, Maruts, ye cast your measure forth,
To whom go Ye, to whom, O shakers of the earth, moved by whose wisdom, whose design?
When from the far distance you cast your measure [/your bellowing], like a flame, just so,
by whose will, o Maruts, in whose form, and to whom do you drive? To whom, o you shakers?
Wenn ihr aus weiter Ferne her wie Strahlen eure Messschnur werft, Auf wessen Wunsch, o Maruts, und durch wessen Kunst; zu wem geht ihr, Erschütterer?
Wenn ihr so aus der Ferne eure Tonweise vorauswerfet wie die Flamme ihren Schein, nach wessen Sinn, in wes Gestalt, zu wem fahret ihr Marut, zu wem ihr Schüttler?
Когда вы так издалека
Извергаете, словно пламя, (ваш) мерный грохот,
Чьей силой мысли, о Маруты, в чьем облике,
К кому вы движетесь? К какому же, о сотрясатели?
स्थि॒रा व॑: स॒न्त्वायु॑धा परा॒णुदे॑ वी॒ळू उ॒त प्र॑ति॒ष्कभे॑ । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी॑यसी॒ मा मर्त्य॑स्य मा॒यिन॑: ॥
स्थि॒रा । वः॒ । स॒न्तु॒ । आयु॑धा । प॒रा॒ऽनुदे॑ । वी॒ळु । उ॒त । प्र॒ति॒ऽस्कभे॑ । यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । पनी॑यसी । मा । मर्त्य॑स्य । मा॒यिनः॑ ॥
हे मरुतः वः आयुधा युष्माकमायुधानि पराणुदे शत्रूणामपनोदनाय स्थिरा सन्तु स्थिराणि भवन्तु । उत अपि च प्रतिष्कभे शत्रूणां प्रतिबन्धाय वीळु सन्तु दृढानि सन्तु । युष्माकं तविषी बलं पनीयसी अतिशयेन स्तोतव्यं भवतु । मायिनः अस्मासु छद्मचारिणः मर्त्यस्य मनुष्यस्य शत्रोः
"मा बलं मा भवतु ॥ स्थिरा आयुधा । उभयत्र ‘शेश्छन्दसि बहुलम्' इति शेर्लोपः । पराणुदे । ‘ णुद प्रेरणे'। संपदादिलक्षणः क्विप् । ' उपसर्गादसमासेऽपि ' ( पा. सू. ८. ४. १४ ) इति णत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । वीळु। ‘सुपां सुलक्०' इति विभक्तेर्लुक् । ईषाअक्षादित्वात्प्रकृतिभावः (पा. सू. ६. १. १२७.२ )। प्रतिष्कभे । स्कम्भुः सौत्रो धातुः। संपदादिलक्षणो भावे क्विप्। ‘ अनिदिताम् ' इति नलोपः । पनीयसी । पनतिः स्तुत्यर्थः । अस्मात् औणादिकः कर्मणि असुन् । तत ईयसुनि ‘टेः' इति टिलोपः । ‘ उगितश्च' इति ङीप् । ईयसुनो नित्त्वादाद्युदात्तत्वम् । मायिनः । मायाशब्दस्य व्रीह्यादिषु पाठात् “ व्रीह्यादिभ्यश्च ' इति मत्वर्थीय इनिः ॥
“Strong be your weapons for driving away (your) foes, firm in resisting them; yours be the strength that merits praise, not (the strength) of a treacherous mortal.”
Strong let your weapons be to drive away your foes, firm for resistance let them be.
Yea, passing glorious must be your warrior might, not as a guileful mortal's strength.
Let your weapons be steadfast for thrusting far away, and let them be staunch for blocking.
Yours be the might more to be admired, not that of the tricky mortal.
Es mögen eure Waffen fest zum Widerstand und haltbar auch zum Angriff sein, Und wunderherrlich möge eure Stärke sein, nicht die des trügerischen Manns.
Wenn ihr so aus der Ferne eure Tonweise vorauswerfet wie die Flamme ihren Schein, nach wessen Sinn, in wes Gestalt, zu wem fahret ihr Marut, zu wem ihr Schüttler?
Да будет твердым ваше оружие, чтоб оттолкнуть,
Крепким, чтоб дать отпор!
Да будет ваша сила удивительнее,
Чем (сила) колдуна-смертного!
परा॑ ह॒ यत्स्थि॒रं ह॒थ नरो॑ व॒र्तय॑था गु॒रु । वि या॑थन व॒निन॑: पृथि॒व्या व्याशा॒: पर्व॑तानाम् ॥
परा॑ । ह॒ । यत् । स्थि॒रम् । ह॒थ । नरः॑ । व॒र्तय॑थ । गु॒रु । वि । या॒थ॒न॒ । व॒निनः॑ । पृ॒थि॒व्याः । वि । आशाः॑ । पर्व॑तानाम् ॥
हे नरः नेतारो मरुतः यत् यदा स्थिरं वस्तु परा हथ वृक्षादिकं पराहतं भग्नं कुरुथ । गुरु पाषाणादिकं गुरुत्वोपेतं वर्तयथ प्रेरयथ। तदानीं पृथिव्याः संबन्धिनः वनिनः वनवतो वृक्षान् वि याथन वियुज्य मध्ये गच्छथ । अरण्यगतानां निबिडानां वृक्षाणां मध्ये यस्य कस्या पि वृक्षस्य भग्नत्वादितरवृक्षाणां परस्परवियोगेन प्रौढो मार्गों भवति। तथा पर्वतानाम् आशाः पर्वतपार्श्वदिशः वि याथन वियुज्य गच्छथ ॥ हथ । ‘हन हिंसागत्योः । अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपः। यद्वृत्तयोगादनिघातः । नरः । पादादित्वात् आमन्त्रितनिघाताभावः । वर्तयथ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे णिचः स्वर एव शिष्यते । यच्छब्दानुषङ्गात् निघाताभावः। याथन ।' तप्तनप्तनथनाश्च' इति थनादेशः ॥
“Directing Maruts, when you demolish what is stable, when you scatter what is ponderous, then you make your way through the forest (trees) of earth and the defiles of the mountains.”
When what is strong ye overthrow, and whirl about each ponderous thing,
Heroes, your course is through the forest trees of earth, and through the fissures of the rocks.
As you smite the steadfast to the far distance and you set the heavy to rolling, o men,
you drive across the forests of the earth and across the regions of the mountains.
Wenn ihr hinweg das Feste schlagt, das Wuchtige im Wirbel dreht, Durchfahrt ihr Männer dann der Erde Waldungen und der Gebirge Gegenden.
Was fest ist, stoßet ihr um; was schwer ist, bringet ihr Männer ins Rollen. Ihr fahret durch die Bäume der Erde, durch die Seiten der Berge.
Что твердо, вы разбиваете вдребезги,
О мужи, тяжелое вы пускаете катиться (под уклон).
Вы едете по деревьям на земле,
Через горные края.
न॒हि व॒: शत्रु॑र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां॑ रिशादसः । यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना॑ यु॒जा रुद्रा॑सो॒ नू चि॑दा॒धृषे॑ ॥
न॒हि । वः॒ । शत्रुः॑ । वि॒वि॒दे । अधि॑ । द्यवि॑ । न । भूम्या॑म् । रि॒शा॒द॒सः॒ । यु॒ष्माक॑म् । अ॒स्तु॒ । तवि॑षी । तना॑ । यु॒जा । रुद्रा॑सः । नु । चि॒त् । आ॒ऽधृषे॑ ॥
हे रिशादसः शत्रुहिंसका मरुतः अधि द्यवि द्युलोकस्योपरि वः युष्माकं शत्रुः नहि विविदे न च बभूव । तथा भूभ्याम् अपि शत्रुः न बभूव । हे रुद्रासः रुद्रपुत्रा मरुतः युष्माकम् एकोनपञ्चाशत्संख्यानां भवतां युजा योगेन परस्परैकमत्येन आधृषे वैरिणां सर्वतो धर्षणाय तविषी बलं नू चित् क्षिप्रमेव तना अस्तु विस्तृता भवतु ॥ विविदे । 'विद सत्तायाम्' । लिटि प्रत्ययस्वरः । द्यवि नहि विविदे भूम्यां च न विविदे इति चशब्दार्थप्रतीतेः ‘चादिलोपे विभाषा ' इति प्रथमायाः तिङ्विभक्तेर्निघातप्रतिषेधः । प्राथग्यं च अनुषक्तक्रियापेक्षया। रिशादसः। ‘रिश हिंसायाम्। रिशन्ति हिंसन्तीति रिशाः । इगुपधलक्षणः कः । तान् अदन्तीति रिशादसः । असुन् । आमन्त्रितनिघातः । युजा । ‘युजिर योगे'। 'ऋत्विक् ' इत्यादिना क्विन् । 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । रुद्रासः । रुद्रशब्देन तसंबन्धिनो मरुतो लक्ष्यन्ते । ‘ आजसेरसुक्'। नू चित् ।' ऋचि तुनुघ' इत्यादिना दीर्घः । आधृषे । 'ञिधृषा प्रागल्भ्ये '। संपदादिलक्षणो भावे क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
“Destroyers of foes, no adversary of yours is known above the heavens, nor (is any) upon earth; may your collective strength be quickly exerted, sons of Rudra, to humble (your enemies).”
Consumers of your foes, no enemy of yours is found in heaven or on the earth:
Ye Rudras, may the strength, held in this bond, be yours, to bid defiance even now.
For a rival to you has not been found in heaven nor on earth, o you who care for the stranger.
Yours be the might, with your full lineage as yokemate; o Rudras, let it never be open to challenge.
Denn in dem Himmel gibt es keinen Feind für euch, Feindtilger, auf der Erde nicht; Euch bleibe stets, o glänzende, die Uebermacht, Der nie zu widerstehen ist.
Denn nicht ward euch ein Meister gefunden im Himmel noch auf Erden, ihr Stolzen. In geschlossener Reihe muss eure Stärke, ihr Rudrasöhne, niemals anzugreifen sein.
Не найти (достойного) вас врага ни на небе,
Ни на земле, о вы, заботящиеся о чужом (?),
Да будет ваша сила, благодаря непрерывному союзу (вашему),
О Рудры, никогда (не поддающейся) натиску!
प्र वे॑पयन्ति॒ पर्व॑ता॒न्वि वि॑ञ्चन्ति॒ वन॒स्पती॑न् । प्रो आ॑रत मरुतो दु॒र्मदा॑ इव॒ देवा॑स॒: सर्व॑या वि॒शा ॥
प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् । वि । वि॒ञ्च॒न्ति॒ । वन॒स्पती॑न् । प्रो इति॑ । आ॒र॒त॒ । म॒रु॒तः॒ । दु॒र्मदाः॑ऽइव । देवा॑सः । सर्व॑या । वि॒शा ॥
पर्वतान् मेरुहिमवदादीन् प्र वेपयन्ति मरुतः प्रकर्षेण कम्पयन्ति । वनस्पतीन् वटाश्वत्थादीन् वि विञ्चन्ति परस्परवियुक्तान् कुर्वन्ति । हे मरुतः देवासः देवाः सर्वया विशा प्रजया सहिता यूयं प्रो आरत प्रकर्षेणैव सर्वतो गच्छथ । तत्र दृष्टान्तः । दुर्मदाइव । यथा मदोन्मत्ताः स्वेच्छया सर्वतः क्रीडन्ति तद्वत् ॥ वेपयन्ति । ‘ टुवेपृ कम्पने '। वेपमानान् प्रयुञ्जते । हेतुमण्णिच् । विञ्चन्ति । ‘ विचिर् पृथग्भावे'। रुधादित्वात् श्नम् । असोरल्लोपः' इति अकारलोपः । वनस्पतीन् । वनानां पतयो वनस्पतयः । पारस्करादित्वात् सुट् । वनपतिशब्दावाद्युदात्तौ ।' उभे वनस्पत्यादिषु युगपत् ' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । आरत। ‘ऋ गतौ' । लङि मध्यमबहुवचने ‘बहुलं छन्दसि' इति शपो लुगभावः । यद्वा लुङ् । ' सर्तिशास्त्यर्तिभ्यश्च ' ( पा. सू. ३. १. ५६ ) इति अङ्। ‘ आडजादीनाम् ' इति आडागमः । ‘ आटश्च ' ( पा. सू. ६. १. ९० ) इति वृद्धिः । देवासः । आमन्त्रिताद्युदात्तत्वम् । सर्वया । ‘ सर्वस्य सुपि ' ( पा. सू. ६. १. १९१ ) इत्याद्युदात्तत्वम् । विशा । सावेकाचः' इति विभक्तेरुदात्तत्वम् ॥ ॥ १८ ॥
“They make the mountains tremble, they drive apart the forest-trees. Go, divine Maruts, whither you will, with all your progeny, like those intoxicated.”
They make the mountains rock and reel, they rend the forest-kings apart.
Onward, ye Maruts, drive, like creatures drunk with wine, ye, Gods with all your company.
They make the mountains tremble; they shake the trees asunder. O Maruts, you gods, you have set out, like those badly drunk (on battle frenzy), o gods, with your whole clan.
Sie machen, dass der Berg erbebt, des Waldes Bäume schütteln sie; Ihr Maruts dranget wild hervor, wie Rasende, ihr Götter mit der ganzen Schar.
Sie machen die Berge erzittern, sie durchschütteln die Bäume. Ihr Marut zoget wie Betrunkene los in vollzähligem Clan, Ihr Götter.
Они сотрясают горы.
Они выкорчевывают деревья.
Вы кидаетесь, о Маруты, как в дурном опьянении,
Всем племенем, о боги.
उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः । आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयन्त॒ मानु॑षाः ॥
उपो॒ इति॑ । रथे॑षु । पृष॑तीः । अ॒यु॒ग्ध्व॒म् । प्रष्टिः॑ । व॒ह॒ति॒ । रोहि॑तः । आ । वः॒ । यामा॑य । पृ॒थि॒वी । चि॒त् । अ॒श्रो॒त् । अबी॑भयन्त । मानु॑षाः ॥
हे मरुतः रथेषु भवदीयेषु पृषतीः बिन्दुयुक्ता मृगीः उपो सामीप्येनैव अयुग्ध्वं योजितवन्तः । प्रष्टिः एतत्संज्ञको वाहनत्रयमध्यवर्ती युगविशेषः रोहितः मृगावान्तरजातिर्लोहितवर्णः वहति रथं नयति । वः युष्माकं यामाय गमनाय पृथिवी चित् अन्तरिक्षमपि आ अश्रोत् आभिमुख्येन अशृणोत् अनुजानातीत्यर्थः। पृथिवीत्यन्तरिक्षनाम, ‘पृथिवी भूः स्वयंभु' (नि.१.३.९) इति तन्नामसु पाठात् । मानुषाः भूलोकवर्तिनः पुरुषाः अबीभयन्त स्वयं भीताः सन्तोऽन्येषामपि भीतिमुत्पादितवन्तः। उपो' इति निपातद्वयसमुदायात्मकमन्यन्निपातान्तरम् । ' ओत् ' (पा. सू. १. १. १५) इति प्रगृह्यत्वम् । अयुग्ध्वम् । लुङि ‘झलो झलि' ( पा. सू. ८. २. २६ ) इति सकारस्य लोपः । ‘ चोः कुः' इति कुत्वम् । रोहितः । ‘ रुहे रश्च लो वा ' ( उ. सू. ३. ३७४ ) इति इतन्प्रत्ययान्तः । नित्त्वादाद्युदात्तः । यामाय। यमेर्भावे घञ् । ‘कर्षात्वतः' इत्यन्तोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । अश्रोत् । ‘ श्रु श्रवणे'। ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । अबीभयन्त । ‘ ञिभी भये '। अस्मात् ण्यन्तात् लुङि ‘ भीस्म्योर्हेतुभये ' (पा. सू. १. ३. ६८) इत्यात्मनेपदम् । ‘ बिभेतेर्हेतुभये ' (पा. सू. ६. १. ५६ ) इति आत्वस्य विकल्पितत्वात् पक्षे ' भियो हेतुभये पुक् (पा. सू. ७. ३. ४० ) इति पुक् प्राप्नोति। तन्न क्रियते, आगमानुशासनस्यानित्यत्वात् । णौ चङ्युपधह्रस्वत्वादि (पा. सू. ७. ४. १) ॥
“You have harnessed the spotted deer to your chariot; the red deer yoked between them, (aids to) drag the car; the firmament listens for your coming, and men are alarmed.”
Ye to your chariot have yoked the spotted deer: a red deer, as a leader, draws.
Even the Earth herself listened as ye came near, and men were sorely terrified.
You have harnessed the dappled mares to your chariots; the
chestnut-red pulls as your side horse.
Even the earth has listened for your journey and the sons of Manu have become afraid.
Gazellen habt ihr an die Wagen euch geschirrt, zur Seite fährt ein rothes Ross, Ja, eurem Zuge hat die Erde still gelauscht, und alle Menschen sind voll Furcht.
Ihr habt an die Wagen die Schecken gespannt, der Rotfuchs zieht als Beipferd. Auf euren Anmarsch horchte selbst die Erde; die Menschen wurden erschreckt.
Вы запрягли в колесницы пестрых (антилоп),
Рыжая везет как пристяжная.
Сама земля прислушалась к вашему выезду,
Люди перепутались.
आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे । गन्ता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑ ॥
आ । वः॒ । म॒क्षु । तना॑य । कम् । रुद्राः॑ । अवः॑ । वृ॒णी॒म॒हे॒ । गन्त॑ । नू॒नम् । नः॒ । अव॑स् ॒यथा॑ । पु॒रा । इ॒त्था । कण्वा॑य । बि॒भ्युषे॑ ॥
हे रुद्राः रुद्रपुत्रा मरुतः तनाय कं अस्मदीयपुत्रार्थं मक्षु शीघ्रं वः युष्मदीयम् अवः रक्षणम् आ वृणीमहे सर्वतः प्रार्थयामहे । मक्षु इति क्षिप्रनाम, ‘नु मक्षु' ( नि. २. १५. २) इति तन्नामसु पठितत्वात्। 'पुरा पूर्वस्मिन् काले कर्मान्तरेषु नः अवसा अस्मदीयरक्षणेन निमित्तेन यूयं यथा प्राप्तवन्तः इत्था अनेन प्रकारेण बिभ्युषे भीतियुक्ताय कण्वाय मेधाविने यजमानाय तदनुग्रहार्थं नूनं क्षिप्रं गन्त प्राप्नुत ॥ मक्षु। ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् इति दीर्घः । तनाय । तनोतीति तनः । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । यद्वा । तनयशब्दे अय् इत्यस्य लोपश्छान्दसः । कम् इत्येतत् पादान्ते प्रयुज्यमानं पादपूरणं • शिशिरं जीवनाय कम्' इतिवत् । उक्तं च - अथापि पादपूरणाः कमीमिद्विति ' ( निरु. १. ९ ) इति । रुद्राः । रोदयन्तीति रुद्राः । ‘ रोदेर्णिलुक्च' ( उ. सू. २. १७९) इति रक्प्रत्ययः। आमन्त्रिताद्युदात्तत्वम् । पादादित्वात् निघाताभावः । गन्त । लोटि ‘ बहुलं छन्दसि ' इति शपो लुक् ।' तप्तनप्' इत्यादिना तबादेशः । अतः पित्त्वात् अनुनासिकलोपाभावः । बिभ्युषे । बिभेतेर्लिटः क्वसुः । वस्वेकाजाद्धसाम्' इति नियमात् इडभावः । चतुर्थ्येकवचने ‘ वसोः संप्रसारणम्' इति संप्रसारणम् । परपूर्वत्वम्। 'शासिवसिघसीनां च' इति षत्वम् ॥
“Rudras, we have recourse to your assistance for the sake of our progeny; come quickly to the timid Kaṇva, as you formerly came, for our protection.”
O Rudras, quickly we desire your succour for this work of ours.
Come to us with your aid as in the days of old, so now for frightened Kanva's sake.
We wish (to bring) your help quickly here for our lineage, o Rudras. Come now to us with help in just the same way as (you went) before to fearful Kaṇva.
Für unsre Kinder flehn wir bald, o glänzende, um Hülfe euch; Kommt rasch mit eurem Beistand her, wie früher einst zu Kanva, als in Furcht er war.
Eurem Beistand, ihr Rudrasöhne, erbitten wir recht bald für Nachkommenschaft. Kommet jetzt zu uns mit Beistand so wie ehedem zu dem sich fürchtenden Kanva!
Мы хотим скорее вашей помощи,
О Рудры, чтобы (было) потомство!
Выезжайте сейчас к нам на помощь, как некогда
К перепуганному Канве!
यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते । वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभि॑: ॥
यु॒ष्माऽइ॑षि॑तः । म॒रु॒तः॒ । मर्त्य॑ऽइषितः । आ । यः । नः॒ । अभ्वः॑ । ईष॑ते । वि । तम् । यु॒यो॒त॒ । शव॑सा । वि । ओज॑सा । वि । यु॒ष्माका॑भिः । ऊ॒तिऽभिः॑ ॥
हे मरुतः यः यः कश्चित् अभ्वः शत्रुः युष्मेषितः युष्माभिः प्रेषितः मर्त्येषितः मारकैरन्यैर्वा प्रेषितः सन् नः अस्मान् प्रति आ ईषते आभिमुख्येन प्राप्नोति, तं शत्रुं शवसा अन्नेन वि युयोत विभक्तं कुरुत । तथा ओजसा बलेन वि युयोत। युष्माकाभिरूतिभिः युष्मत्संबन्धिभिः रक्षणैश्च वि युयोत ॥ युष्मेषितः । युष्माभिरिषितः । सुब्लुकि प्रत्ययलक्षणेन ‘युष्मदस्मदोरनादेशे' इति आत्वम् । न च न लुमताङ्गस्य' इति प्रतिषेधः, ‘इकोऽचि विभक्तौ' (पा. सू. ७. १. ७३) इत्यत्र अज्ग्रहणेन तस्य पाक्षिकत्वोक्तेः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । मर्त्येषितः । पूर्ववत् । अभ्वः । आभवतीत्यभ्वः शत्रुः । पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । ईषते । ‘ ईष गतिहिंसादर्शनेषु' । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । युयोत । ‘यु मिश्रणामिश्रणयोः । लोण्मध्यमबहुवचने ‘बहुलं छन्दसि ' इति शपः श्लुः । ‘तप्तनप्तनथनाश्च ' इति तबादेशः। पित्वाद्गुणः । युष्माकाभिः युष्मत्संबन्धिनीभिः । तस्मिन्नणि च युष्माकास्माकौ' (पा. सू. ४. ३. २ ) इति युष्मच्छब्दस्य युष्माकादेशः । ङीब्वृद्धी छान्दसत्वान्न क्रियेते । ऊतिभिः । अवतेः क्तिनि ‘ ज्वरत्वर ' इत्यादिना ऊठ् ।' ऊतियूति' इत्यादिना क्तिन उदात्तत्वम् ॥
“Should any adversary, instrumental gated by you, or by man, assail us, withhold from him food and strength and your assistance.”
Should any monstrous foe, O Maruts, sent by you or sent by mortals threaten us,
Tear ye him from us with your power and with your might, and with the succours that are yours.
Whether sent by you, Maruts, or sent by a mortal, the formless being that sets upon us—
keep him away by your strength, by your power, away by the help that stems from you.
Welch böses Grauen, o ihr Maruts, an uns dringt, von Menschen oder euch erregt, Das jagt hinweg durch eure Kraft und eure Macht, durch eure Hülfen scheucht es fort.
Wenn ein von euch losgelassenes, oder von einem Sterblichen losgelassenes Drohnis auf uns losgeht, ihr Marut, so wehret es mit Macht, mit Kraft, mit euren Hilfen ab!
(Если) насланное вами, о Маруты, (или) насланное смертным
Чудовище к нам метнется,
Отвратите его мощью, силой (своей),
От(вратите) вашими поддержками!
असा॑मि॒ हि प्र॑यज्यव॒: कण्वं॑ द॒द प्र॑चेतसः । असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता॑ वृ॒ष्टिं न वि॒द्युत॑: ॥
असा॑मि । हि । प्र॒ऽय॒ज्य॒वः॒ । कण्व॑म् । द॒द । प्र॒ऽचे॒त॒सः॒ । असा॑मिऽभिः । म॒रु॒तः॒ । आ । नः॒ । ऊ॒तिऽभिः॑ । गन्त॑ । वृ॒ष्टिम् । न । वि॒ऽद्युतः॑ ॥
असामि हि संपूर्णमेव यथा भवति तथा प्रयज्यवः प्रकर्षेण यष्टव्याः प्रचेतसः प्रकृष्टज्ञानयुक्ता हे मरुतः कण्वं मेधाविनं यजमानमेतन्नामकमृषिं वा दद धारयत । हि यस्मात् यूयं कण्वनामकमृषिं धारितवन्तस्तस्मात् कारणात् असामिभिः ऊतिभिः संपूर्णै रक्षणैः नः अस्मान् प्रति
“आ गन्त आगच्छत । तत्र दृष्टान्तः । वृष्टिं न विद्युतः । यथा विद्युतो वृष्टिं गच्छन्ति तद्वत् ॥ असामि । सामि अर्धं न सामि असामि । अव्ययपूर्वपदप्रकृतिस्वरत्वम्। प्रयज्यवः । प्रकर्षेण यष्टव्याः । ‘यजिमनिशुन्धिदसिजनिभ्यो युः' ( उ. सू. ३. ३०० ) इति कर्मणि युप्रत्ययः । आमन्त्रितनिघातः । दद । “ डुदाञ् दाने'। लोण्मध्यमबहुवचनस्य ‘ तिङां तिङो भवन्ति' (पा. म. ७. १. ३९ ) इति लङात्मनेपदप्रथमपुरुषबहुवचनादेशः । श्लौ द्विर्भावे सति ‘श्नाभ्यस्तयोरातः' इति आकारलोपः। ‘ लोपस्त आत्मनेपदेषु' (पा. सू. ७. १.४१ ) इति तलोपः। ‘ अतो गुणे ' इति परपूर्वत्वम् । 'छन्दस्युभयथा' इति आर्धधातुकत्वात् “ अभ्यस्तानामादिः' इत्याद्युदात्तत्वं न भवति, किंतु प्रत्ययस्वर एव ।' हि च' इति निघातप्रतिषेधः । प्रचेतसः । प्रकृष्टं चेतो येषाम् । आमन्त्रितनिघातः । गन्त । गमेर्लोण्मध्यमबहुवचनस्य तस्य तबादेशः । ‘बहुलं छन्दसि' इति शपो लुक् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । पादादित्वात् निघाताभावः। ' द्व्यचोऽतस्तिङः' इति संहितायां दीर्घत्वम् । विद्युतः । विद्योतते इति विद्युत् । ‘भ्राजभास' (पा. सू. ३. २. १७७ ) इत्यादिना क्विप् ॥
“Pracetasas, who are to be unreservedly worshipped, uphold (the sacrificer) Kaṇva; come to us, Maruts, with undivided protective assistance, as the lightning (bring) the rain.”
For ye, the worshipful and wise, have guarded Kanva perfectly.
O Maruts, come to us with full protecting help, as lightning flashes seek the rain.
O you who receive the first of the sacrifice, you discerning ones, because you gave (to us?) Kaṇva—not a half gift!—
with unhalved help come to us, like lightning bolts to the rain, o
Maruts.
Denn ganz habt ihr, o stürmende, geschützt den Kanva, weise ihr; Mit ganzen Hülfen kommt, o Maruts, zu uns her, wie auf den Regen folgt der Blitz.
Denn etwas Vollkommenes habt ihr Opfersame geschenkt: den Kanva, ihr Einsichtsvollen. Mit den vollkommenen Hilfen kommet zu uns, ihr Marut, wie die Blitze zum Regen!
О достойные жертв прежде всех, ведь не половинный
(Дар) вы дали Канве, о прозорливцы.
О Маруты, с неполовинными поддержками к нам
Выезжайте, как молнии – к дождю!
असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतय॒: शव॑: । ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष॑म् ॥
असा॒मि । ओजः॑ । बि॒भृ॒थ॒ । सु॒ऽदा॒न॒वः॒ । असा॑मि । धू॒त॒यः॒ । शवः॑ । ऋ॒षि॒ऽद्विषे॑ । म॒रु॒तः॒ । प॒रि॒ऽम॒न्यवे॑ । इषु॑म् । न । सृ॒ज॒त॒ । द्विष॑म् ॥
हे सुदानवः शोभनदानोपेताः मरुतः असामि संपूर्णम् ओजः बलं बिभृथ धारयथ । हे धूतयः कम्पनकारिणो मरुतः असामि संपूर्ण शवः बलं परिमन्यवे कोपपरिवृताय ऋषिद्विषे ऋषीणां द्वेषं कुर्वते शत्रवे तद्विनाशार्थं द्विषं द्वेषकारिणं हन्तारं सृजत । तत्र दृष्टान्तः । इषुं न । यथा शत्रोरुपरि बाणं मुञ्चन्ति तद्वत् । अत्र निरुक्तम् -' असामि सामि प्रतिषिद्धं सामि स्यतेः । असाम्योजो बिभृथा सुदानवः । असुसमाप्तं बलं बिभृथ कल्याणदानाः' (निरु. ६. २३) इति ॥ बिभृथ। ‘ डुभृञ् धारणपोषणयोः'। जुहोत्यादित्वात् श्लुः । भृञामित्' इति अभ्यासस्य इत्वम् । ऋषिद्विषे । ऋषीन् द्वेष्टीति ऋषिद्विट् । ‘ सत्सूद्विष° ' इत्यादिना क्विप् । परिसन्यवे। मन्युना परिवृतः परिमन्युः । प्रादिसमासे परेरभितोभावि मण्डलम् ' ( पा. सू. ६. २. १८२ ) इत्युत्तरपदान्तोदात्तत्वम् । इषुम् । ‘ इषु गतौ'। इष्यति गच्छतीति इषुः । ‘ इषेः किच्च' (उ. सू. १. १३) इति उप्रत्ययः । ‘ धान्ये नित्' इत्यनुवृत्तेः नित्त्वादाद्युदात्तत्वम् । सृजत। ‘ सृज विसर्गे ' । विकरणस्य ङित्त्वात् गुणाभावः। द्विषम् । क्विप् च ' इति क्विप् ॥ ॥ १९ ॥
“Bounteous givers, you enjoy unimpaired vigour; shakers (of the earth), you possess undiminished strength; Maruts, let loose your anger, like an arrow, upon the wrathful enemy of the ṛṣis.”
Whole strength have ye, O Bounteous Ones; perfect, earth-shakers, is your might.
Maruts, against the poet's wrathful enemy send ye an enemy like a dart.
You bring unhalved power, unhalved strength, you of good gifts, you shakers.
O Maruts, launch your enmity like an arrow at him who is inimical to seers, who is enveloped in fury.
Denn ganz, o Spender, ist die Kraft, die ihr besitzt, und ganz die Macht, o stürmende, O Maruts, auf des Sängers wuthentbrannten Feind werft euern Hass wie einen Pfeil.
Vollkommene Stärke traget ihr Gabenschönen an euch, vollkommene Macht, ihr Gabenschönen an euch, vollkommene Macht, ihr Schüttler. Auf den hoffärtigen Rishifeind werfet eure Feindschaft wie einen Pfeil, ihr Marut!
Вы несете (в себе) неполовинную силу, о щедродающие,
Неполовинную мощь, о сотрясатели.
В злобного ненавистника риши, о Маруты,
Метните ненависть, как стрелу!